मोक्षोपाय · अध्याय 3.51
हतो राजा हतो राजा प्रतिराजेन संयुगे ।
इति शब्दे समुद्भूते राष्ट्रम् आसीद् भयाकुलम् ॥
भाण्डोपस्करभाराढ्यविद्रवत्सकलप्रजम् ।
साक्रन्दार्तकलत्राढ्यद्रवन्नागरं दुर्गमम् ॥
पलायमानसाक्रन्दमार्गाहृतवधूगणम् ।
अन्योऽन्यलुण्ठनव्यग्रलोकलग्नमहाहवम् ॥
परराष्ट्रजनानीकताण्डवोल्लासनारवम् ।
निरधिष्ठितमातङ्गहयचारपतज्जनम् ॥
कवाटपाटनोड्डीनकोशोत्थारवघर्घरम् ।
लुण्ठितासङ्ख्यकौशेयप्रावृतारिभटोद्भटम् ॥
क्षुरिकोत्पाटितार्द्रान्त्रमृतराजगृहाङ्गनम् ।
राजान्तःपुरविश्रान्तचण्डालश्वपचोत्करम् ॥
गृहापहृतभोज्यान्नभोजनोन्मुखपामरम् ।
सहेमभारचौरौघपादाहतरुदच्छिशु ॥
अपूर्वतरुणाक्रान्तकेशान्तःपुरिकाङ्गनम् ।
चौरहस्तच्युतानर्घरत्नदन्तुरमार्गदिक् ॥
हयेभरथसङ्घट्टव्यग्रसामन्तमण्डलम् ।
अभिषेकोद्यमादेशपरमन्त्रिपुरस्सरम् ॥
राजधानीविनिर्माणसानुस्थस्थपतीश्वरम् ।
कूपवातायनश्वभ्रनिपतद्राजवल्लभम् ॥
जयशब्दशतोद्घोषसिन्धुराजन्यनिर्भरम् ।
असङ्ख्यनिजराजौघवृतसिन्धुकृतस्थितिम् ॥
ग्रामान्तरसमाक्रान्तविद्रवद्राजवल्लभम् ।
मण्डलान्तरसञ्जातनगरग्रामलुण्ठनम् ॥
अनन्तचौर्यमौखर्यरुद्धमार्गगमागमम् ।
महानुभाववैधुर्यसनीहारदिनातपम् ॥
मृतबन्धुजनाक्रन्दैर् श्रुततूर्यरवैर् अपि ।
हयेभरथशब्दैश् च पिण्डग्राह्यघनध्वनि ॥
सिन्धुदेवो जयत्य् एकच्छत्त्रभूमण्डलाधिपः ।
इत्य् अनन्तरम् आरेमुर् भेर्यः प्रतिपुरं तदा ॥
राजधानीं विवेशाथ सिन्धुर् उद्धतकन्धरः ।
प्रजास् स्रष्टुं युगस्यान्ते मनुर् जगद् इवापरः ॥
प्रवृत्ता दशदिग्भ्यो ऽथ प्रवेष्टुं सैन्धवं पुरम् ।
नराः करिहयागारै रत्नपूरा इवाम्भुधिम् ॥
निबन्धनानि चिह्नानि शासनानि दिशां प्रति ।
क्षणं निवेशयाम् आसुर् मण्डलं प्रति मन्त्रिणः ॥
उदभूद् अचिरेणैव देशे देशे पुरे पुरे ।
जीविते मरणे माने नियमो यमतो यथा ॥
अथ शेमुर् निमेषेण देशोपप्लवविभ्रमाः ।
प्रशान्तोत्पातपवनाः पदार्थावृत्तयो यथा ॥
सौम्यताम् आजगामाशु देशो दशदिगन्वितः ।
क्षीरोदः क्षुभितावर्तो द्राग् इवोद्वृत्तमन्दरः ॥
ववुर् अलकचयान् विलोलयन्तो मुखकमलालिमुखानि सैन्धवीनाम् ।
जललववलनाकुलास् समीरा अशिवगुणा इव सर्वतः क्षणेन ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0