भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.48

3.48.1

प्राप्य राजा पुरः प्राप्तं सिन्धुम् उद्धुरकन्धरम् ।
मध्याह्नतपनाभेन कोपेन विततो ऽभवत् ॥

3.48.2

धनुर् आस्फालयाम् आस परिरावितदिङ्मुखम् ।
कल्पान्तपवनास्फोट इवामरगिरेस् तटम् ॥

3.48.3

विससर्जोर्जितो राजा प्रातर् अर्कः करान् इव ।
तूणीररजनीबद्धाश् शिलीमुखपरम्पराः ॥

3.48.4

एक एव विनिर्याति गुणात् तस्य शरो महान् ।
सहस्रं पतति व्योम्नि गच्छन् पतति लक्षशः ॥

3.48.5

सिन्धोर् अपि तथैवासीच् छक्तिर् लाघवम् एव च ।
रवेर् आननसाम्यं वै विष्णोर् धानुष्कता तयोः ॥

3.48.6

मुसुला नाम ते बाणा मुसुलाकृतयो ऽम्बरम् ।
छादयाम् आसुर् उन्नादाः कल्पान्तगिरयो यथा ॥

3.48.7

रेजुः कनकनाराचराजयो व्योम्नि तस्य ताः ।
शरव्याः कल्पवातार्ताः पतन्त्य इव तारकाः ॥

3.48.8

विदूरथाच् छरासारा अजस्रम् अभिनिर्ययुः ।
अब्धेर् इव पयःपूरास् सूर्याद् इव मरीचयः ॥

3.48.9

प्रचण्डपवनोद्धूतपुष्पाणीव महातरोः ।
अयःपिण्डाद् इवोत्तप्तताडिताः कणपङ्क्तयः ॥

3.48.10

धाराः पयोमुच इव शीकरा इव निर्झरात् ।
तत्पुराग्निमहादाहात् स्फुलिङ्गा इव भास्वराः ॥

3.48.11

तयोश् चटचटास्फोटं शृण्वन् कोदण्डयोर् द्वयोः ।
बलद्वयम् अभूत् प्रेक्षामूकं शान्त इवाम्बुधिः ॥

3.48.12

वहन्ति स्म शरापूरा गङ्गापूर इवाम्बरे ।
सिन्धोर् अभिमुखं यक्षघर्घरारवरंहसः ॥

3.48.13

कचत्कनकनाराचशरवर्षाण्य् अनारतम् ।
वहच्छवशवाशब्दं निर्ययुर् धनुर् अम्बुदात् ॥

3.48.14

बाणमन्दाकिनीपूरं व्रजन्तं सिन्धुपूरणे ।
वातायनात् तम् आलोक्य लीला तत्पुरवासिनी ॥

3.48.15

तेन बाणसमूहेन जयम् आशङ्क्य भर्तरि ।
उवाच वाक्यम् आनन्दविकसन्मुखपङ्कजा ॥

3.48.16

जय देवि जयत्य् एष नाथो ऽस्माकं विलोकय ।
किलानेन शरौघेन मेरुर् अप्य् एति चूर्णताम् ॥

3.48.17

तस्याम् एवं वदन्त्यां तु घनस्नेहरवाकुलम् ।
प्रेक्षणव्यग्रयोर् देव्योर् हसन्त्योर् मानुषं हृदा ॥

3.48.18

तच् छरार्णवम् आमत्तम् अपिबत् सिन्धुवाडवः ।
शरोष्मणाप्य् अगम्येन जह्नुर् मन्दाकिनीम् इव ॥

3.48.19

बाणवर्षेण सकलं सायकौघं घनं घनम् ।
भित्त्वा ततो ऽप्य् अधःकृत्वा चिक्षेप गगनार्णवे ॥

3.48.20

यथा दीपस्य शान्तस्य न परिज्ञायते गतिः ।
तस्य सायकसङ्घस्य न विज्ञाता तथा गतिः ॥

3.48.21

तं छित्त्वा सायकासारं स्वशराम्बुधरं घनम् ।
व्योम्नि प्रसारयाम् आस सरच्छवशवान्वितम् ॥

3.48.22

विदूरथस् तम् अप्य् आशु व्यधमत् सायकोत्तमैः ।
सामान्यजलदं मत्तकल्पान्तपवनो यथा ॥

3.48.23

कृतप्रतिकृतैर् एवं बाणवर्षैर् महीपती ।
व्यर्थीकृतैर् अनयतां प्रहारम् अविरामिणौ ॥

3.48.24

अथाददे मोहनास्त्रं सिन्धुर् गन्धर्वसौहृदात् ।
प्राप्तं तेन ययुर् लोका विना मोहं विदूरथम् ॥

3.48.25

न्यस्तशस्त्राम्बरा मूका विषण्णवदनेक्षणाः ।
मृता इवाभवन् योधाश् चित्रन्यस्ता इवाथवा ॥

3.48.26

यावद् विदूरथरथो मोहेनायाति मन्दताम् ।
तावद् विदूरथो राजा प्रबोधास्त्रम् उपादधे ॥

3.48.27

ततः प्रबोधम् आपन्ना प्रजा प्रातर् इवाब्जिनी ।
विदूरथे ऽभवत् सिन्धुः क्रुद्धोत्क इव राक्षसे ॥

3.48.28

नागास्त्रम् आदधे भीमं पाशबन्धनखेददम् ।
तेनाभवन् नभो व्याप्तं भोगिभिः पर्वतोपमैः ॥

3.48.29

सर्पैर् विवलिता भूमिर् मृणालैस् सरसी यथा ।
सम्पन्ना गिरयस् सर्वे कृष्णपन्नगकम्बलाः ॥

3.48.30

पदार्थास् सर्व एवेमे पिहिता अहिविग्रहैः ।
सपर्वतवनाभोगा ययौ विवशतां मही ॥

3.48.31

धूताङ्गारकणाकीर्णा विषवेगस्य शंसिनी ।
ववुर् उष्णोष्णनीहारा वातज्वलनरेणवः ॥

3.48.32

विदूरथो ऽथ सौपर्णम् आदधे ऽस्त्रं महास्त्रवित् ।
उदगुर् गरुडास् तेन सौवर्णा इव पर्वताः ॥

3.48.33

काञ्चनीकृतसर्वाशास् सर्वाशपरिपूरकाः ।
पक्षपर्वतसंरम्भजनितप्रलयानिलाः ॥

3.48.34

घोणाविवलनाकृष्टश्वसद्भुजगमण्डलाः ।
महाघरघरारावपूरिताम्भोदषण्डकाः ॥

3.48.35

भूपूरकं तु सर्पौघं स सुपर्णघनो ऽपिबत् ।
कृष्टं शलशलायन्तम् अगस्त्य इव वारिधिम् ॥

3.48.36

सर्पकम्बलनिर्मुक्तं भूमण्डलम् अराजत ।
विशालम् इव नीरन्ध्रम् इव निर्वारि राशि वा ॥

3.48.37

ततस् तद्गरुडानीकं क्वाप्य् अगच्छद् अदृश्यताम् ।
दीपौघ इव वातेन शरदीवाभ्रमण्डलम् ॥

3.48.38

वज्रभीत्येव पक्षाढ्यं पर्वतप्रकरं पुनः ।
स्वप्नदृष्टं जगद् इव सङ्कल्पपुरपूरवत् ॥

3.48.39

ततस् तमोऽस्त्रम् असृजत् सिन्धुर् अन्धान्धकारदम् ।
तेनान्धकारो ववृधे कृष्णाभ्रजठरोपमः ॥

3.48.40

रोदोरन्ध्रे प्रविसृत एकार्णव इवाभवत् ।
मत्स्या इवाभवञ् शैलास् ताराश् च मणयो ऽभवन् ॥

3.48.41

अन्धकारः प्रववृधे मषीपङ्कार्णवोपमः ।
कज्जलाचलसम्भारो धुतः कल्पान्तरैर् अपि ॥

3.48.42

अन्धकूपे निपतिता इवासन् सकलाः प्रजाः ।
कल्पान्त इव संशेमुर् व्यवहारा दिशां प्रति ॥

3.48.43

विदूरथो ऽथ मार्ताण्डम् अस्त्रं ब्रह्माण्डमण्डपे ।
ददाव् अस्त्रविदां श्रेष्ठः पुष्टमन्त्रविचेष्टितः ॥

3.48.44

अथोदितस् तमोऽम्भोधिम् अर्कागस्त्यो गभस्तिभिः ।
अपिबत् कृष्णम् अम्भोदं शरत्काल इवामलः ॥

3.48.45

अन्धकाराम्बरोन्मुक्ता विरेजुर् अमला दिशः ।
भूपतेः पुरतः कान्ता इव रम्यपयोधराः ॥

3.48.46

ययुः प्रकटताम् अन्तर् अखिला वनराजयः ।
लोभकज्जलजालेन मुक्ता इव सतां धियः ॥

3.48.47

अथ कोपाकुलस् सिन्धू राक्षसास्त्रं महाभयम् ।
क्षणाद् उदीरयाम् आस मन्त्रोदितशरात्मकम् ॥

3.48.48

उदगुर् भीषणा दिग्भ्यस् सरुषो वनराक्षसाः ।
पातालगजहूङ्कारक्षुब्धा इव महार्णवाः ॥

3.48.49

कपिलोर्ध्वजटाधूम्रास् स्फुटच्चटचटारवाः ।
अग्नयो लेलिहानोग्रजिह्वा अर्द्रेन्धना इव ॥

3.48.50

सावर्तवृत्तयो व्योम्नि भीमडक्कारटाङ्कृताः ।
अग्निदाहमहाधूमविपुला इव सोल्मुकाः ॥

3.48.51

दंष्ट्राबिसाङ्कुराक्रान्तमुखपङ्कजदेहकाः ।
उत्थिता लोमनिर्यातदुष्प्रज्वालजटा इव ॥

3.48.52

निगिरन्तः प्रधावन्तो गर्जन्तस् तर्जिताशयाः ।
जटोज्ज्वालितडित्पुञ्जजलदास् सजला इव ॥

3.48.53

एतस्मिन्न् अन्तरे तस्मिंल् लीलानाथो विदूरथः ।
नारायणास्त्रं प्रददौ दुष्टभूतनिवारणम् ॥

3.48.54

उदीर्यमाण एवास्मिन्न् अस्त्रराजे तु राजयः ।
राक्षसानां प्रशेमुस् ता अन्धकारा इवोदये ॥

3.48.55

प्रमृष्टराक्षसानीकम् अभवद् भुवनत्रयम् ।
शरदीव गताम्भोदं व्योम निर्मलम् आबभौ ॥

3.48.56

अथ सिन्धुर् मुमोचास्त्रम् आग्नेयं ज्वलिताम्बरम् ।
जज्वलुः ककुभस् तेन कल्पाग्निवलिता इव ॥

3.48.57

धूमाम्बुदभरच्छन्ना बभूवुस् सकला दिशः ।
गगनप्रोत्थपातालतिमिराकुलिता इव ॥

3.48.58

बभुः प्रज्वालिताकारा गिरयः काञ्चना इव ।
प्रफुल्लनवनीरन्ध्रचण्पकौघवना इव ॥

3.48.59

ययुर् व्योमाद्रिदिक्कुञ्जा ज्वालाजालजटालताम् ।
कुङ्कुमेनोत्सवे मृत्योस् समालब्धा इवासृजा ॥

3.48.60

ज्वलिता जनतान्तैकशङ्किनासन्नभस्स्पृशा ।
सहस्राकृतिनोर् वेणवलिता इव सागराः ॥

3.48.61

जित्वा रिपुं पुनर् असौ यथा प्रहरते तथा ।
वारुणं विससर्जास्त्रं पूजयित्वा विदूरथः ॥

3.48.62

आययुस् सलिलापूरास् तमःपूरा इवाभितः ।
अधस्ताद् ऊर्ध्वतो दिग्भ्यो द्रवरूपा इवाद्रयः ॥

3.48.63

भागा इव शरद्व्योम्नो द्रुतपाता इवाम्बुदाः ।
महार्णवा इवोर्ध्वस्थाः कुलशैलशिला इव ॥

3.48.64

तमालौघा इवोड्डीनास् सञ्चिता इव रात्रयः ।
कज्जलौघा इवोद्धूता लोकालोक इवोत्तटः ॥

3.48.65

रसातलगुहाभोगा इव व्योमदिदृक्षवः ।
महाघुरघुरारावरंहोबृंहितमूर्तयः ॥

3.48.66

तापाग्निसन्ततिलतां सा चचामाम्बुसंहतिः ।
भुवनव्यापिनी सन्ध्याम् आशु कृष्णेव यामिनी ॥

3.48.67

ताम् अग्निसन्ततिं पीत्वा पूरयाम् आस भूतलम् ।
जलश्रीस् सन्ततं देहं निर्द्रवव्यक्तिम् ईयुषी ॥

3.48.68

एवंविधान् अस्त्रमोहान् विरुद्धान् एव नेतरे ।
मिथो मायामयान् अग्रे पश्यन्त्य् अनुभवन्ति च ॥

3.48.69

हेतिभारवहास् सिन्धोश् चक्ररक्षास् ततो ऽम्भसा ।
तृणानीव गताः प्रोह्य रथश् चास्याभवत् प्लुतः ॥

3.48.70

एतस्मिन्न् अन्तरे सिन्धुर् अस्त्रं सस्मार शोषणम् ।
आपत्त्राणकरं देवं ददौ च शररूपिणम् ॥

3.48.71

शशामाम्बुमयी माया तेन यामेव भास्वता ।
ये मृतास् ते मृता एव बभूवुश् शोषिता भुवः ॥

3.48.72

अथ मूर्खरुषा तुल्यतापस् सन्तापयन् प्रजाः ।
जजृम्भे जर्जराजीर्णवनविस्तारकर्कशः ॥

3.48.73

कचत्कनकनिष्ष्यन्दसुन्दराङ्गच्छविर् दिशाम् ।
आसीद् राजवरस्त्रीणाम् इवाङ्गोपाङ्गसङ्गिनी ॥

3.48.74

तेन घर्ममयीं मूर्छाम् आजग्मुस् तद्विरोधिनः ।
ग्रीष्मदावानलोत्तप्ता मृदवः पल्लवा इव ॥

3.48.75

विदूरथो रणद्दीर्घतारक्रेङ्कारमानसम् ।
कोदण्डं कुण्डलीकृत्य पर्जन्यास्त्रम् अथादधे ॥

3.48.76

उदगुः पङ्क्तयो ऽब्दानां यामिन्य इव सञ्चिताः ।
तमालविपिनोड्डीनसंरम्भारम्भमन्थराः ॥

3.48.77

वासनावारिपूरेण गर्जनोद्दामसञ्चराः ।
मिहिकामन्थराशेषककुब्मण्डलकुण्डलाः ॥

3.48.78

ववुर् आवलितासारा मेघाडम्बरभेदिनः ।
कीर्णशीकरनीहारहारोदारास् समीरणाः ॥

3.48.79

प्रस्फुरुस् त्रस्तसौवर्णसर्पापसरणोपमाः ।
विद्युतो दिवि दैत्यस्त्रीकटाक्षवलना इव ॥

3.48.80

जुघूर्णुर् गर्जनोच्छूनप्रतिश्रुद्घनकन्दराः ।
दिशश् चलितमातङ्गसिंहर्क्षवनघर्घराः ॥

3.48.81

महामुसुलधाराभिः पेतुर् आसारवृष्टयः ।
कष्टटाङ्कारकठिनाः कृतान्तस्येव दृष्टयः ॥

3.48.82

उदभूत् प्रथमं बाष्प उष्णोष्णो ऽद्रिनिभो भुवः ।
पातालाद् अभ्रवृन्दानां युद्धायेवाभ्रविभ्रमाः ॥

3.48.83

ततो निमेषमात्रेण प्रशेमुर् मृगतृष्णिकाः ।
परबोधरसापूरैर् यथा संसारवासनाः ॥

3.48.84

आसीत् पङ्काङ्कम् अखिलं भूमण्डलम् असञ्चरम् ।
पूरितः पूर्णधाराभिस् सिन्धुस् सिन्धुम् इवाम्बुना ॥

3.48.85

वायव्यम् अस्त्रम् असृजद् घूर्णिताकाशकोटरम् ।
कल्पान्तनृत्तसंपन्नरणद्भैरवभीषणम् ॥

3.48.86

ववुर् अशनिनिपातपिण्डिताङ्गा दलितशिलाशकलाः ककुम्मुखेषु ।
प्रलयसमयसूचका भटानां कृतकटुटाङ्कृतटङ्किनस् समीराः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc