भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.47

3.47.1

एतस्मिन् वर्तमाने तु घोरे समरसम्भ्रमे ।
लीलाद्वयम् उवाचेदं ज्ञप्तिं भगवतीं पुरः ॥

3.47.2

देवि कस्माद् अकस्मान् नो भर्ता जयति नो रणे ।
वद त्वय्य् अपि तुष्टायाम् अस्मिन् विद्रुतवारणे ॥

3.47.3

चिरम् आराधितानेन विदूरथनृपारिणा ।
अहं प्रतिजयार्थेन न विदूरथभूभुजा ॥

3.47.4

तेनासाव् एव जयति जीयते न विदूरथः ।
ज्ञप्तिर् अन्तर्गता संविद् एषासौ यद् यथा यदा ॥

3.47.5

चोदयत्य् आशु तत् तस्य तदा सम्पादयाम्य् अहम् ।
यो यथा चोदयति मां तस्य तिष्ठामि तत्फला ॥

3.47.6

न स्वभावोद्यतं धत्ते वह्नेर् औष्ण्यम् इवैष मे ।
जयस् स्यान् मम संग्राम इत्य् अनेनास्मि पूजिता ॥

3.47.7

प्रतिमारूपिणी तेन फलम् आप्नोत्य् असौ तथा ।
विदूरथेनैतम् अर्थं असञ्चिन्त्यास्मि बोधिता ॥

3.47.8

अनेन चैव मुक्तस् स्याम् अहम् इत्य् अस्मि भाविता ।
तस्माद् विदूरथो देहं तं प्राप्य सह भार्यया ॥

3.47.9

त्वयानया च कालेन बाले मुक्तो भविष्यति ।
एतदीयस् त्व् अयं शत्रुस् सिन्धुनाम महीपतिः ।
हत्वैनं वसुधापीठे जयी राज्यं करिष्यति ॥

3.47.11

एवं देव्यां वदन्त्यां तु बलयोर् युध्यमानयोः ।
रविर् द्रष्टुम् इवाश्चर्यम् आजगामोदयाचलम् ॥

3.47.12

चेलुस् तिमिरसंघाता बलानीवालिरूपिणः ।
असृजीव शवान्य् आसन् सन्ध्यायां तारका दिवि ॥

3.47.13

शनैर् विकटतां जग्मू रणाकाशाद्रिभूमयः ।
भुवनं कज्जलाम्भोधेर् इवोत्क्षिप्तम् अराजत ॥

3.47.14

पेतुः कनकनिष्ष्यन्दसुन्दरा रविरश्मयः ।
शैलेषु वरवीरेषु रणरक्तच्छटा इव ॥

3.47.15

अदृश्यत ततो व्योम तथा रणमहीतलम् ।
बाहुभिर् भ्रान्तभुजगं प्रभाभिः कीर्णकाञ्चनम् ॥

3.47.16

कुण्डलैः कीर्णरत्नौघं शिरोभिर् वृद्धपङ्कजम् ।
आयुधैः खगनीरन्ध्रं शरैश् शरभनिर्भरम् ॥

3.47.17

रक्ताभास्थिरसन्ध्याढ्यं ससिद्धपुरुषं शवैः ।
हारैस् ससर्पनिर्मोकं पटैर् एवांशुसङ्कुलम् ॥

3.47.18

लसल्लतापताकाभिर् ऊरुभिः कृततोरणम् ।
हस्तपादैः पल्लवितं शरैश् शरवनोपमम् ॥

3.47.19

शस्त्रांशुशाद्वलश्यामं शस्त्रतार्णैस् ससैकतम् ।
कीर्णम् आयुधमालाभिर् उन्मत्तम् इव भैरवम् ॥

3.47.20

फुल्लाशोकवनाकारं शस्त्रसंघट्टवह्निभिः ।
उद्घुङ्घुमं महाशब्दैर् विद्रवत्सिद्धनायकम् ॥

3.47.21

सौवर्णरचिताकारं बालार्ककचितायुधैः ।
प्रासासिचक्रशक्त्यृष्टिमुद्गरारणितान्तरम् ॥

3.47.22

एतस्मिन्न् अन्तरे सेनास् सर्वास् सङ्क्षयम् आययुः ।
आसीद् रणाङ्गनं शून्यम् इवाल्पोभयसैनिकम् ॥

3.47.23

छिन्नभिन्नमृतध्वस्तयातविद्रुतमानवम् ।
पतच्छवमहाराशिपङ्कस्रवदसृक्सरित् ॥

3.47.24

वहद्रक्तनदीरंहःप्रोह्यमानशवोत्करम् ।
भुसुण्डीशक्तिकुन्तासिस्थूलपाषाणसङ्कुलम् ॥

3.47.25

शूरशस्त्राहतिच्छिन्नकबन्धपतनान्वितम् ।
तालताण्डविवेतालकुलारब्धकलारवम् ॥

3.47.26

शून्ये रणाङ्गने दीप्तौ पद्मसिन्धुरथौ चलौ ।
अदृश्येतां नभश्चिह्नौ चन्द्रसूर्यौ दिवीव तौ ॥

3.47.27

चक्रशूलभुसुण्डर्ष्टिप्रासायुधसमाकुलौ ।
सहस्रेण सहस्रेण वीराणां परिवारितौ ॥

3.47.28

विचरन्तौ यथाकामं मण्डले विततावनौ ।
सचीत्कारमहाचक्रपिष्टानेकमृतामृतौ ॥

3.47.29

तरन्तौ रक्तसरितो मत्तवारणलीलया ।
केशशेवलसञ्छन्नचक्ररक्तजलार्द्रकौ ॥

3.47.30

वहच्चक्राहतिक्षोभपातिताकुलवारणौ ।
मणिमुक्ताझणत्काररणत्कूवरकोटरौ ॥

3.47.31

वाताहतपताकाग्रपटत्पटपटारवौ ।
अनुयातौ महावीरैर् भूरिभिर् भीतसैनिकैः ॥

3.47.32

भारान् दधद्भिः कुन्तानां शराणां धनुषाम् अपि ।
शक्तीनां प्रासशङ्कूनां चक्राणां कचतां रुचा ॥

3.47.33

तत्र तौ क्षणम् आवृत्य मण्डलैर् भूरिमण्डलैः ।
उभौ व्यतिबभूवाते संमुखाव् आयुधाम्बुदौ ॥

3.47.34

नाराचधारानिकरविक्षेपकरकाघनौ ।
अन्योऽन्यम् अभिगर्जन्तौ मत्ताब्धिजलदाव् इव ॥

3.47.35

तयोः प्रहरतोर् बाणान् वसुधा नरसिंहयोः ।
पाषाणमुसुलाकारा व्योमविस्तारिणो ऽभवन् ॥

3.47.36

करवालफलाः केचिन् मुद्गराननकाः परे ।
शितचक्रमुखाः केचित् केचित् परशुवक्त्रकाः ॥

3.47.37

केचिच् छक्तिमुखा बाणाः केचित् क्षुरमुखा अपि ।
केचित् कुन्तोग्रफलका अर्धचन्द्रमुखास् तथा ॥

3.47.38

सिंहोपलमुखाः केचित् केचिच् छूलशिखामुखाः ।
त्रिशूलवदनाः केचित् स्थूला इव महाशिलाः ॥

3.47.39

प्रलयपवनपातिताः शिलौघा इव विचरन्ति शिलीमुखास् तदा स्म ।
प्रमिलितम् अभवत् तयोस् तदानीं प्रलयविजृम्भितसिन्धुसंभ्रमेण ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc