मोक्षोपाय · अध्याय 3.49
ववुर् वलितनीहारा विकीर्णघनपल्लवाः ।
वायवो धूतवृक्षौघाः पतनोत्पाटनोद्भटाः ॥
विकुट्टिताटवीषण्डाश् श्वभ्रभित्तिविभेदिनः ।
तेनातिभीमवातेन विदूरथरथो ऽप्य् अथ ॥
उह्यमानो ऽभवन् नद्या यथा जर्जरपल्लवः ।
विदूरथो ऽथ तत्याज पर्वतास्त्रं महास्त्रवित् ॥
व्योमापि घनतां येन समाधातुम् इवोद्यतम् ।
तेन शैलास्त्रघातेन विरराम समीरणः ॥
शमं च तेन शान्तेन प्रययौ वायुना यतः ।
अन्तरिक्षगता वृक्षपङ्क्तयः पतिता भुवि ॥
नानाजनाशनव्यूहे काकानाम् इव कोटयः ।
शेमुश् शीत्कारडक्कारभाक्कारोक्कारका दिशाम् ॥
प्रलापा इव विध्वस्तप्रथाः पवनवीरुधाम् ।
गिरीन् अपश्यन् नभसः पततः पर्णपत्त्रवत् ॥
सिन्धुस् सिन्धुर् इवोत्पन्नान् मैनाकादीन् इतस् ततः ।
वज्रास्त्रम् असृजद् दीप्तं तेरुर् वज्रघनास् ततः ॥
पिबन्तो ऽद्रीन् प्रतिगिरं वह्निदाहाद् इवाग्नयः ।
ते गिरीणां पुरीणां च कोटितुण्डावखण्डनैः ॥
शिरांसि शातयाम् आसुः फलानीवोल्बनानिलाः ।
विदूरथो ऽथ वज्रास्त्रशान्त्यै ब्रह्मास्त्रम् अभ्यदात् ॥
ततो ब्रह्मास्त्रवज्रास्त्रे समं प्रशमम् आगते ।
श्यामाश्यामं पिशाचास्त्रम् अथ सिन्धुर् अचोदयत् ॥
तेनोदगुः पिशाचानां पङ्क्तयो ऽनन्तभीतिदाः ।
सन्ध्यायाम् इव भीत्येव दिवसश् श्यामतां ययौ ॥
पिशाचा भुवनं जह्रुर् अन्धकारभरा इव ।
भास्मनस्तम्भसदृशास् तालोत्तालविलासिनः ॥
दृश्यमानमहाकारा मुष्टिग्राह्या नकिञ्चन ।
ऊर्ध्वकेशाः कृशाङ्गाश् च केचिच् च श्मश्रुला अपि ॥
कृशाङ्गा मलिनाङ्गाश् च ग्राम्या इव नभश्चराः ।
सभायां मूढदृष्टाश् च यत्किञ्चनकराः खलाः ॥
दीना बह्वाशिनः क्रूरा दीना ग्राम्यजना इव ।
तरुकर्दमरथ्यान्तश्शून्यगेहगृहाश् चलाः ॥
लेलिहानाः प्रेतरूपाः कृष्णाङ्गाश् श्वपचा इव ।
जगृहुस् ते तदा मत्ता हतशिष्टम् अरेर् बलम् ॥
आसन्नसैनिकास् तत्र वित्रस्तक्षुब्धचेतनाः ।
त्यक्तायुधतनुत्राणास् त्रस्तप्राणास् स्खलद्गमाः ॥
नेत्रैर् अङ्गैर् मुखैः पादैर् विकारभयकारिणः ।
त्यक्तकौपीनवसना निर्नग्ना हसनोत्तराः ॥
विष्ठां मूत्रं च कुर्वन्तस् स्थिरम् आरब्धनर्तनाः ।
पिशाचराजो राजानम् अथ यावद्विदूरथम् ॥
समाक्रामति तावत् स मायां तां बुबुधे बुधः ।
पिशाचसङ्ग्रामकरीं मायां वेत्ति स भूमिपः ॥
तया पिशाचसैन्यं तत् परसैन्ये न्ययोजयत् ।
ततस् स्वसैनिकास् स्वस्थाः परयोधाः पिशाचिनः ॥
तस्याथ रूपिकास्त्रं तद् ददौ चान्यद् असौ रुषा ।
उदगुर् भूतलाद् व्योम्नो रूपिकास् स्तब्धमूर्धजाः ॥
निर्नग्ना विकरालाक्ष्यो लम्बश्रोणिपयोधराः ।
उद्भिन्नयौवना वृद्धाः पीवराङ्ग्यो ऽथ जर्जराः ॥
स्वरूपारूपजघना दुर्नाट्यविकसद्भगाः ।
नरपद्मशिरोहस्ता रुधिरारुणगात्रकाः ॥
अर्धचर्वितमांसासृक्स्रवत्सृक्वाक्तलालनाः ।
नानानानाङ्गवलनाननोन्नमनसन्नमाः ॥
सिरालभुजवक्त्रोरुकुचपार्श्वकराङ्गिकाः ।
ताडीकृतार्भकशवाद् अनुकृष्टान्त्ररज्जवः ॥
श्वकाकोलूकवदना निम्नवक्त्रहनूदराः ।
जगृहुस् ताः पिशाचांस् तान् दुर्बलान् दुश्शिशून् इव ॥
पिशाचरूपिकासैन्यं तदासीद् एकतां गतम् ।
निर्नग्नं नर्तनोत्तानवदनाङ्गविलोचनम् ॥
परस्पराक्रान्तिकरं भीषयंश् च परस्परम् ।
निष्कासितमहाजिह्वं नानामुखविकारदम् ॥
शवभाराढ्यम् अन्योऽन्यं ह्रियमाणशवाङ्गकम् ।
रुधिराम्भसि मज्जत् तदुन्मज्जच् च लसत्तनु ॥
लम्बोदरं लम्बभुजं लम्बकर्णोष्ठनासिकम् ।
रक्तमांसवसापङ्केष्व् अन्योऽन्यं वेल्लनात्म तत् ॥
मन्दरोद्धूतदुग्धाब्धिलसत्कलकलाकुलम् ।
यथैव मायासञ्चारस् तेन तस्य कृतः पुनः ॥
तेनापि तस्याशु तथा कृतो बुद्ध्वाशु लाघवम् ।
वेतालास्त्रं ततो दत्तं तेनोत्तस्थुश् शवव्रजाः ॥
अमूर्धानस् समूर्धानो वेतालावेशवल्गिताः ।
ततः पिशाचवेतालरूपिकौघकबन्धवत् ॥
उद्बभूव बलं भीमम् ऊर्वीनिगरणक्षमम् ।
अथेतरो ऽपि भूपालो मायां सञ्चार्य चापराम् ॥
राक्षसास्त्रं ससर्जाशु त्रैलोक्याक्रमणोन्मुखम् ।
उदगुः पर्वताकारास् सर्वतस् स्थूलराक्षसाः ॥
देहम् आश्रित्य निष्क्रान्ताः पातालान् नरका इव ।
अथाभूत् तद् बलं भीमं ससुरासुरभीतिदम् ॥
गर्जद्रक्षोमहाम्भोदवाद्यनृत्यत्कबन्धकम् ।
रूपिकादारिकारूपं पिशाचस्थानसुस्थिति ॥
आत्तक्वणितवंशाढ्यं शिरः पद्मोत्कराकुलम् ।
लोलान्त्रमालावलितं रुधिराम्बुसमुक्षितम् ॥
वेतालतालसोल्लासं लसद्धाम पिशाचकम् ।
मेदोमांसवसाद्याढ्यं रुधिरासवसुन्दरम् ।
क्षीबवेतालकुम्भाण्डयक्षताण्डवसङ्कटम् ॥
कुम्भाण्डकोत्ताण्डवदण्डपादक्षुब्धासृगुत्क्षिप्ततरङ्गसिक्तैः ।
सन्ध्याभ्रधारोत्करकोटिकान्तैर् भूतैर् असृक्स्रोतसि दत्तसेतु ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0