मोक्षोपाय · अध्याय 3.45
विदूरथस् ते भर्तैष तनुं त्यक्त्वा रणाङ्गने ।
तद् एवान्तःपुरं प्राप्य तादृगात्मा भविष्यति ॥
इत्य् आकर्ण्य वचो देव्या लीला सा तत्पुरास्पदा ।
पुनः प्रह्वा स्थितोवाच वचनं विहिताञ्जलिः ॥
देवी भगवती ज्ञप्तिर् नित्यम् एव मयार्चिता ।
स्वप्नेषु दर्शनं देवि सा ददाति निशासु मे ॥
सा यादृग् एव देवेशि तादृग् एव त्वम् अम्बिके ।
त्वं मे कृपणकारुण्याद् वरं देहि वरानने ॥
इत्य् उक्ता सा तदा ज्ञप्तिस् स्मृत्वा तद् भक्तिभावनाम् ।
इदं प्रसन्ना प्रोवाच तां लीलां तत्पुरास्पदाम् ॥
अनन्यया भावनया यावज्जीवम् अजीर्णया ।
परितुष्टास्मि ते वत्से गृहाणाभीप्सितं वरम् ॥
रणे देहं परित्यज्य यत्र तिष्ठति मे पतिः ।
अनेनैव शरीरेण तत्र स्याम् एतदङ्गना ॥
एवम् अस्तु त्वयाविघ्नं पूजितास्मि सुते चिरम् ।
अनन्यभावया देवि पुष्पधूपसपर्यया ॥
अथ तद्देशलीलायां फुल्लायां तद्वरोदयात् ।
पूर्वलीलाब्रवीद् देवीं सन्देहलुलिताशया ॥
ये सत्यकामास् सत्यैकसङ्कल्पा ब्रह्मरूपिणः ।
त्वादृशास् सर्वम् एवाशु तेषां सिद्ध्यत्य् अभीप्सितम् ॥
तत् तेनैव शरीरेण किम् अर्थं नाहम् ईश्वरि ।
लोकान्तरम् इमं नीता तं गिरिग्रामकं च वा ॥
न किञ्चित् कस्यचिद् अहं करोमि वरवर्णिनि ।
सर्वं सम्पादयत्य् आशु स्वयं जीवस् समीहितम् ॥
अहं हि सरले ज्ञप्तिस् संविन्मात्राधिदेवता ।
प्रत्येकम् अस्मि चिच्छक्तिर् जीवशक्तिस्वरूपिणी ॥
जीवस्योदेत्य् अहंशक्तिर् यस्य यस्य यथा यथा ।
भाति तत्फलदा नित्यं तस्य तस्य तथा तथा ॥
मां समाराधयन्त्य् आशु जीवशक्तिस् तथोदिता ।
यथा भवत्य् अदेहास्यां मुक्तास्मीति चिरं तदा ॥
तेन तेन प्रकारेण त्वं मया सम्प्रबोधिता ।
तया युक्त्यामलं भावं नीतासि वरवर्णिनि ॥
अनयैवं भावनया बोधितास्मि चिरं यदा ।
तम् एवार्थं प्राप्नुवती तदा स्वचितिशक्तितः ॥
यस्य यस्य यथोदेति स्वचित्प्रयतनं चिरम् ।
फलं ददाति कालेन तस्य तस्य तथा तथा ॥
तपो वा देवता वापि भूत्वा सैव चिद् अव्यया ।
फलं ददात्य् अथ स्वैरं नभःफलनिपातवत् ॥
स्वसंविद्द्योतनाद् अन्यन् न किञ्चन कदाचन ।
फलं भवति तेनाशु यथेच्छसि तथा कुरु ॥
चिद्भाव एव ननु सर्वगतो ऽन्तरात्मा यश् चेतति प्रयतते च तद् एति तच्छ्रीः ।
रम्यं न रम्यम् अथवेति विचार्य तस्माद् यत् पावनं तद् अवबुध्य तद् अन्तर् आस्स्व ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0