मोक्षोपाय · अध्याय 3.46
एवं सङ्कथयन्तीषु तासु तस्मिन् गृहोदरे ।
विदूरथः किम् अकरोन् निर्गत्य कुपितो गृहात् ॥
विदूरथस् स्वसदनान् निर्गत्य परिवारितः ।
परिवारेण महता ऋक्षौघेनैव चन्द्रमाः ॥
सन्नद्धसर्वावयवो लग्नहारविभूषणः ।
महाजयजयारावैस् सुरेन्द्र इव निर्गतः ॥
समादिशन् योधगणं शृण्वन् मण्डलसंस्थितिम् ।
आलोकयन् वीररणान् आरुरोह नृपो रथम् ॥
भूतागारसमाकारं मुक्तामाणिक्यमण्डितम् ।
पताकापुञ्जकव्याप्तं द्युविमानम् इवागतम् ॥
चन्द्रभित्तिपरिस्रोतःप्रपतत्काञ्चनाङ्कुरम् ।
मुक्ताझणझणत्कारचारुविद्रुमकूवरम् ॥
सुग्रीवैर् लक्षणोपेतैः प्रशस्तैर् धवलैः कृशैः ।
जवोन्नयनवेगेन प्रस्रवद्भिः खुरान् इव ॥
वायून् अपीव सहजान् असहद्भिर् गतिक्रमैः ।
प्रोज्झद्भिर् इव पश्चार्धम् आपिबद्भिर् इवाम्बरम् ॥
योजितैर् इव संपूर्णैश् चन्द्रैश् चामरदीप्तिभिः ।
अश्वैर् अष्टभिर् आबद्धम् आशापूरकहेषितैः ॥
अथोदभूत् तदोद्दामनागाभ्ररवनिर्भरः ।
शैलभित्तिप्रतिध्वानदारुणो दुन्दुभिध्वनिः ॥
मत्तसैनिकनिर्मुक्तैर् व्याप्तैः कलकलारवैः ।
किङ्किणीजालनिध्वानैर् हेतिसङ्घट्टटाङ्कृतैः ॥
धनुश्चटचटाशब्दैश् शरशीत्कारगायनैः ।
परस्परांसनिष्पिष्टकवचौघझणज्झणैः ॥
ज्वलदग्निटणत्कारैर् आर्तिमत्क्रन्दनारवैः ।
परस्परं भटाह्वानैर् बन्दीविक्षुब्धरोदनैः ॥
शिलाघनीकृताशेषब्रह्माण्डकुहरो ध्वनिः ।
हस्तग्राह्यो भवद्भीमो दशाशाकुञ्जपूरकः ॥
अथोदपतद् आदित्यपथपीवररोधकम् ।
रजोनिभेन भूपीठम् अम्बरोड्डयनोन्मुखम् ॥
गर्भवासम् इवापन्नं तेनासीत् तन्महापुरम् ।
मूर्खत्वं यौवनेनेव घनताम् आययौ तमः ॥
प्रययुः क्वापि दीपौघा दिवसेनेव तारकाः ।
आययुर् बलम् आलोला नैशभूतपरम्पराः ॥
ददृशुस् तन्महायुद्धं द्वे लीले सा कुमारिका ।
प्रस्फुरद्धृदयेनैता देवीदत्तमहादृशा ॥
प्रशेमुर् अथ गेहेषु प्रोद्यत्कटकटारवाः ।
एकार्णवपयःपूरैर् वाडवा इव वह्नयः ॥
शरैस् सेनां समाकर्षन् राजा परबलान्तरम् ।
विवेश पक्षप्रोड्डीनो मेरुर् एकम् इवार्णवम् ॥
अथोदभूद् गुणध्वानश् चटच्चटद् इति स्फुटम् ।
रचितात्ममयाम्भोदास् तेरुश् शरपरम्पराः ॥
ययुर् अम्बरम् आश्रित्य नानाहेतिविहङ्गमाः ।
प्रसस्रुर् अलम् आशासु मिहिकाश् शस्त्रदीप्तयः ॥
बभ्रमुश् शस्त्रसङ्घट्टज्वलना उल्मुकाग्निवत् ।
जगर्जुश् शरधारौघान् वर्षन्तो वीरवारिदाः ॥
विलेगुः कङ्कवत्क्रूरा वीराङ्गेषु च हेतयः ।
पेतुः पटपटारावं हेतिनिष्पिष्टयो ऽम्बरे ॥
जग्मुश् शमं तमांस्य् आशु शस्त्रज्वलनदीपकैः ।
बभूवुर् अखिलास् सेना नवनाराचरोमशाः ॥
उत्तस्थुर् नृत्तयात्रायां कबन्धनटपङ्क्तयः ।
जगुर् उच्चै रणद्रोहं पिशाच्यो रणदारिकाः ॥
उदगुर् मत्तसङ्घट्टत्क्रेङ्कारा दन्तिनां बले ।
ऊहुः क्षेपणपाषाणमत्तनद्यो नभस्तले ॥
पेतुश् च रथसङ्घातास् संशुष्कवनपर्णवत् ।
निर्ययुर् लोहिता नद्यो रणाद्रेर् मृतिवर्षिणः ॥
प्रशेमुः पांसवो रक्तैस् तमांस्य् आयुधवह्निभिः ।
युद्धैकध्यानतश् शब्दा भयानि मृतिनिश्चयैः ॥
अभवत् केवलं युद्धं सशब्दम् असमं भ्रमम् ।
अनाकुलाम्बुवाहाभखड्गवीचिसझाङ्कृतम् ॥
षवषवरवसंवहच्छरौघं कटकटरवसंपतद्भुसुण्डि ।
झणझणरवसंमिलन्महास्त्रं निशि नवरणम् आस सुप्तवत् तत् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0