मोक्षोपाय · अध्याय 3.44
एतस्मिन्न् अन्तरे राजमहिषी मत्तयौवना ।
तद् विवेश गृहं लक्ष्मीर् इव पङ्कजकोटरम् ॥
आलोलमाल्यवसना च्छिन्नहारलताकुला ।
अनुयाता वयस्याभिर् दासीभिर् भयविह्वला ॥
चन्द्राननावदाताङ्गी श्वासोत्कम्पिपयोधरा ।
तारकाकारदशना स्थिता द्यौर् इव रूपिणी ॥
अथ तस्या वयस्यैका राजानं तं व्यजिज्ञपत् ।
वृत्रसङ्ग्रामसंरभ्दम् अमरेन्द्रम् इवाप्सराः ॥
देव देवी सहास्माभिः पलाय्यान्तःपुरान्तरात् ।
शरणं देवम् आयाता वातार्तेव लता द्रुमम् ॥
राजदारा हृतास् स्तेनैर् बलवद्भिर् उदायुधैः ।
ऊर्मिजालैर् महाब्धीनां तीरे द्रुमलता इव ॥
अन्तःपुराधिपास् सर्वे पिष्टाश् शत्रुभिर् उद्धतैः ।
अशङ्किताभिपतितैर् वातैर् इव वनद्रुमाः ॥
पूरेणाशङ्कम् आयातैः परैर् नः पुरम् आहृतम् ।
रात्रौ वर्षास्व् इवोद्गारैर् उदकप्लववारिभिः ॥
धूम्रवर्मभिर् उन्नादैर् लेलिहानाग्रहेतिभिः ।
वह्निभिर् नः पुरं व्याप्तं परयोधैश् च भूरिभिः ॥
परिवारविलासिन्यो देव्य आहृत्य मूर्धजैः ।
आक्रन्दन्त्यो बलान् नीताः कुरर्य इव धीवरैः ॥
इति नो येयम् आयाता शाखा प्रसरशालिनी ।
आपत् ताम् अलम् उद्धर्तुं देवस्यैवास्ति शक्तिता ॥
इत्य् आकर्ण्यावलोक्यासौ देव्यौ युद्धाय याम्य् अहम् ।
क्षम्यतां मम भार्येयं युष्मत्पादाब्जषट्पदी ॥
इत्य् उक्त्वा निर्ययौ राजा कोपाकुलितचेतनः ।
मत्तेभनिर्भिन्नवनः कन्दराद् इव केशरी ॥
लीला लीलां ददर्शाथ स्वाकारसदृशाकृतिम् ।
प्रतिबिम्बम् इवायाताम् आदर्शे चारुदर्शनाम् ॥
किम् इदं देवि मे ब्रूहि कस्माद् इयम् अहं स्थिता ।
या साभवम् अहं पूर्वं कथं सेयम् इह स्थिता ॥
मन्त्रिप्रभृतयः पौरा योधास् सबलवाहनाः ।
सर्व एव त एवेमे स्थितास् तत्र तथैव ये ॥
तत्रापीदम् अयं देवि सर्वे कथम् इह स्थिताः ।
बहिर् अन्तश् च मकुर इवैते किं प्रचेतनाः ॥
यथा ज्ञप्तिर् उदेत्य् अन्तस् तथानुभवति क्षणात् ।
चितिश् चेत्यार्थताम् एति चित्तं चित्तार्थताम् इव ॥
यादृग्भावन एवान्तश्चेतनस् तनुते स्मृतिम् ।
तादृगर्थजगद्रूपस् तत्रैवोदेति तत्क्षणात् ॥
न देशकालदीर्घत्वं न वैचित्र्यं पदार्थजम् ।
बाह्यम् अस्त्य् अन्तरं भाति स्वप्नार्थो ऽत्र निदर्शनम् ॥
यद् अन्तस् स्वप्नसङ्कल्पपुरवत् कचनं चितेः ।
तद् एतद् बाह्यनाम्नैव स्वाभ्यासात् सुस्फुटं स्थितम् ॥
यादृग्भावो मृतो भर्ता तव तस्मिंस् तदा पुरे ।
तादृग्भावस् तम् एवार्थं तत्रैव समुपागतः ॥
अन्य एव ह्य् अमी भृत्यास् तेभ्यस् तत्सदृशा अपि ।
सद्रूपा एव चैतस्य स्वप्नसङ्कल्पसैन्यवत् ॥
अविसंवादि सर्वार्थरूपं यद् अनुभूयते ।
तस्य तावद् वद कथं कीदृशी वाप्य् असत्यता ॥
अथवोत्तरकाले तु भङ्गुरत्वान् न वस्तुसत् ।
तद् ईदृक् सर्वम् एवेदं तत्र का नास्तिकाधिका ॥
स्वप्नो जाग्रत्य् असद्रूपस् स्वप्ने जाग्रद् असद्वपुः ।
मृतिर् जन्मन्य् असद्रूपा मृतौ जन्माप्य् असन्मयम् ॥
विचारविशरारुत्वाद् अनुभूतेश् च सुन्दरि ।
एवं न सन् नासद् इदं भ्रान्तिमात्रं विभासते ॥
महाकल्पान्तसम्पत्ताव् अप्य् अद्यान्ययुगे ऽथवा ।
न कदाचन यन् नाशि तद् ब्रह्मैवास्ति तज् जगत् ॥
तस्मिन् मध्ये कचन्तीमा भ्रान्तयस् सृष्टिनामिकाः ।
व्योम्नि केशोण्डुकानीव न कचन्ति तु वस्तुतः ॥
यथा तरङ्गा जलधौ तथेमास् सृष्टयः परे ।
उत्पत्योत्पत्य लीयन्ते रजांसीव महानिले ॥
तस्माद् भ्रान्तिमयाभासे मिथ्यात्वम् अहमात्मके ।
मृगतृष्णाजलरये केवास्था सर्गभस्मनि ॥
भ्रान्तयश् च न तत्रान्यास् तास् ता एव परं पदम् ।
घने तमसि यक्षाभा तम एव न यक्षकाः ॥
तस्माज् जन्म मृतिर् मोहो व्योमाहं त्वम् इदं ततम् ।
सर्वं तच् च महाकल्पशान्तौ यद् अवशिष्यते ॥
नातस् सत्यम् इदं दृष्टं न चासत्यं कदाचन ।
द्वयम् एवैतद् अथ वा ब्रह्म तत्रैव सम्भवत् ॥
आकाशपरमाण्वन्तर् द्रव्यादेर् अणुके ऽपि वा ।
जीवाणुर् यत्र तत्रेदं जगद् वेत्ति निजं वपुः ॥
अग्निर् औष्ण्यं यथा वेत्ति निजभावक्रमोदितम् ।
पश्यतीदं तथैवात्मा स्वात्मभूतं विशुद्धचित् ॥
यथा सूर्यातपे गेहे भ्रमन्ति त्रसरेणवः ।
तथेमे परमाकाशे ब्रह्माण्डत्रसरेणवः ॥
यथा वायौ स्थितस् स्पन्द आमोदश् शैत्यम् अम्बरे ।
पिण्डग्रहविनिर्मुक्तं तथा विश्वं स्थितम् परे ॥
भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचराचराः ।
विवर्जितस्यावयवैर् भावा ब्रह्मण ईदृशैः ॥
साकारस्येव बोधाय विज्ञेया भवताधुना ।
अनन्यास् स्वात्मनस् ते स्युस् तरोर् अवयवा इव ॥
यथास्थितम् इदं विश्वं निजभावक्रमोदितम् ।
रिक्तं तद् विश्वशब्दार्थैर् अनन्यद् ब्रह्मणि स्थितम् ॥
न तत् सत्यं न चासत्यं रज्ज्वां सर्पभ्रमोपमम् ।
मिथ्यानुभूतितस् सत्यम् असत्यं तत् परीक्षणात् ॥
परमं कारणं वित्त्वाज् जीवत्वम् इव वेत्त्य् अलम् ।
अतस् तद् एवानुभवञ् जीवत्वं विन्दते स्फुटम् ॥
सत्यं भवत्य् असत्यं वा खे ऽपि भातम् इदं जगत् ।
रञ्जयत्य् एव जीवाणुं स्वोत्थाभिर् अनुभूतिभिः ॥
अनुभूतय एतास् तु काश्चित् पूर्वानुभूतितः ।
अपूर्वानुभवाः काश्चित् समाश् चैवासमाश् च ताः ॥
क्वचित् कदाचित् ता एव क्वचिद् एव समा अपि ।
कचन्त्य् असत्यास् सत्याभा जीवाकाशे ऽनुभूतयः ॥
तत्कुलास् तत्समाचारास् तज्जन्मानस् तदीहिताः ।
त एव मन्त्रिणः पौराः प्रतिभाने भवन्ति वः ॥
ते चैवात्मन्य् अलं सत्या देशकालेहितैस् समाः ।
सर्वगात्मस्वरूपायाः प्रतिभाया इति स्थितिः ॥
यथा राजात्मनि व्योम्नि प्रतिभोदेति सन्मयी ।
तथान्व् अगग्रगोदेति सत्यैव प्रतिभास्वरे ॥
त्वच्छीला त्वत्समाचारा त्वत्कुला त्वद्वपुष्मयी ।
इति लीलेयम् आभाति प्रतिभा प्रतिबिम्बजा ॥
सर्वगे संविदादर्शे प्रतिभा प्रतिबिम्बति ।
यादृशी यत्र सा तत्र तथोदेति निरन्तरा ॥
जीवाकाशस्य यान्तस्स्था प्रतिभा कचति स्वयम् ।
सा बहिः खे चिदादर्शप्रतिबिम्बाद् इयं स्थिता ॥
एषा त्वम् अम्बरम् अहं भुवनं धरादि राजेति सर्वम् अजम् एव विभातमात्रम् ।
चिद्व्योम बिल्वजठरं विदुर् अङ्ग विद्धि त्वं चेति शान्तम् अलम् आस्स्व यथास्थितेह ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0