भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.43

3.43.1

अस्मिन् रणवरे राजन् मृतव्यं भवताधुना ।
प्राप्तव्यं प्राक्तनं राज्यम् एतत् प्रत्यक्षम् एव मे ॥

3.43.2

कुमार्या मन्त्रिणा चैव त्वया च प्राक्तनं पुरम् ।
आगन्तव्यं शवीभूतं प्राप्तव्यं तच्छरीरकम् ॥

3.43.3

आवां यावो यथायातं वातरूपेण च त्वया ।
आगन्तव्यश् च तद्देशः कुमार्या मन्त्रिणापि च ॥

3.43.4

अन्यैव गतिर् अश्वस्य गतिर् अन्या खरोष्ट्रयोः ।
मदक्लिन्नकपोलस्य गतिर् अन्यैव दन्तिनः ॥

3.43.5

प्रस्तुतेति कथा यावन् मिथो मधुरभाषिणोः ।
तावद् प्रविश्य सम्भ्रान्त उवाचोर्ध्वं स्थितो नरः ॥

3.43.6

देव सायकचक्रासिगदापरिघवृष्टिमत् ।
महत् परबलं प्राप्तम् एकार्णव इवोद्धतः ॥

3.43.7

कल्पकालानिलोद्धूतकुलाचलशिलोपमः ।
गदाशक्तिभुसुण्डीनां वृष्टीन् मुञ्चति वृष्टिवत् ॥

3.43.8

नगरे नगसङ्काशे लग्नो ऽग्निर् व्याप्तदिक्तटः ।
दहंश् चटचटास्फोटैः पातयत्य् उत्तमाः पुरीः ॥

3.43.9

कल्पाम्बुदघटातुल्या व्योम्नि धूममहाद्रयः ।
बलात् प्रोड्डयनं कर्तुं प्रवृत्ता गरुडा इव ॥

3.43.10

ससम्भ्रमं वदन्त्य् एवं पुरुषे परुषारवे ।
उदभूत् पूरयन्न् आशा बहिः कोलाहलो महान् ॥

3.43.11

बलाद् आकृष्टकर्णानां धनुषां शरवर्षिणाम् ।
बृहतां मत्तमत्तानां कुञ्जराणां तरस्विनाम् ॥

3.43.12

पुरे चटचटास्फोटैर् वेल्लतां जातवेदसाम् ।
पौराणां दग्धदाराणां महाहलहलारवैः ॥

3.43.13

तरताम् अग्निखण्डानां ष्वक्कारकठिनारवम् ।
ज्वलन्तीनां परिस्पन्दाद् ध्वगध्वगिति चार्चिषाम् ॥

3.43.14

अथ वातायनाद् देव्यौ मन्त्री राजा विदूरथः ।
ददृशुः प्रोन्नमन्नादं महानिशि महापुरम् ॥

3.43.15

प्रलयानिलसङ्क्षुब्धपूर्णैकार्णवरंहसा ।
पूर्णं परबलेनोग्रहेतिमेघतरङ्गिणा ॥

3.43.16

कल्पान्तवह्निविगलन्देहभूधरभासुरैः ।
दह्यमानं महाज्वालाजालैर् अम्बरपूरकैः ॥

3.43.17

मुष्टिग्राह्यमहामेघगर्जसन्तर्जनोर्जितैः ।
घोरं कलकलारावैर् मांसलैर् मन्त्रिजल्पितैः ॥

3.43.18

पुष्करावर्तसङ्काशधूमाभ्रपिहिताम्बरम् ।
प्रोड्डीनहेमाभ्रनिभज्वालापुञ्जैर् निरन्तरम् ॥

3.43.19

तरदुल्मुकखण्डोघतारातरलिताम्बरम् ।
अन्योऽन्यदेहसद्मौघप्रज्वलज्ज्वालनाकुलम् ॥

3.43.20

हतसैन्यपुरापातधूताङ्गाराभ्रकोटरम् ।
कर्कशाक्रन्दनिर्दग्धलोकपूरोग्रगर्जितम् ॥

3.43.21

कृशानुकणनाराचनिरन्तरतराम्बरम् ।
बृहदग्निशिखाजाललुठद्दग्धपुरोत्करम् ॥

3.43.22

रणद्द्विरदसङ्घट्टकुट्टितोद्भटसद्भटम् ।
विद्रवत्तस्करच्छेदमार्गकीर्णमहाधनम् ॥

3.43.23

अङ्गारराशिनिपतन्नरनार्युग्ररोदनम् ।
स्फुटच्चटचटाशब्दप्रलुठत्प्लुष्टकाष्टकम् ॥

3.43.24

विपुलालातचक्रौघशतसूर्यनभस्तलम् ।
अङ्गारशिखराकीर्णसमस्तवसुधातलम् ॥

3.43.25

दग्धाग्निकाष्ठक्रेङ्काररणज्ज्वलनवैणिकम् ।
दग्धजन्तुपराक्रन्दरुदत्सकलसैरिभम् ॥

3.43.26

पटविश्रान्तराजस्त्रीवृद्धोत्सन्नहृताशनम् ।
सकलग्रसनारम्भसोद्योगाग्निमहाशिखम् ॥

3.43.27

कटच्छाक्कारदुक्कारकठिनाग्निरणद्गृहम् ।
अनन्तजन्तुभोज्यान्नवह्निमुक्तेन्धनस्पृहम् ॥

3.43.28

अथ शुश्राव तत्रासौ गिरो राजा विदूरथः ।
योधानां दह्यमानानां पश्यताम् अभिधावताम् ॥

3.43.29

हा मत्तमरुद् ऊर्ध्वस्थान् अङ्गारगृहपादपान् ।
रणत्खगवरलीनज्वलनान् पातयन् स्थितः ॥

3.43.30

हा खड्गधारा प्रालेयशीता देहेषु दन्तिनाम् ।
लग्ना मनस्सु महताम् इव विज्ञानसूक्तयः ॥

3.43.31

हा तात हेतयो लग्नास् तरुणीकवरीतृणे ।
ज्वलन्ति शुष्कपर्णौघा इव वीरानलेरिताः ॥

3.43.32

आवर्तवर्तिनी दीर्घा वहत्य् ऊर्ध्वं तरङ्गिनी ।
पश्येयं धूमयमुना व्योमगङ्गां प्रधावति ॥

3.43.33

वहदुल्मुककाष्टौर्ध्वगामिनी धूमनिम्नगा ।
वैमानिकान् अन्धयति पश्याग्निकणबुद्बुदा ॥

3.43.34

अस्य माता पिता भ्राता जामाता तनयस् सुता ।
अस्मिन् सद्मनि निर्दग्धा दग्धैषाम् अन्तम् इच्छति ॥

3.43.35

हा हा हा गच्छ भोश् शीघ्रम् एतद् अङ्गारमन्दिरम् ।
इतः प्रवृत्तं पतितुं सुमेरोश् शिखरं यथा ॥

3.43.36

अहो शरशिलाशक्तिकुन्तप्रासासिहेतयः ।
ज्वालासन्ध्यभ्रपटलं विशन्ति शलभा इव ॥

3.43.37

हेतिप्रवाहा ज्वलनं नभस् सर्वे विशन्त्य् अहो ।
वडवानलम् उज्ज्वालम् अर्णःपूरा इवार्णवात् ॥

3.43.38

धूमायन्ते महाभ्राणि ज्वालाशिखरकोटिषु ।
सरसान्य् अपि शुष्यन्ति हृदयानीव रागिनाम् ॥

3.43.39

आलानत्वरुषैवैता दन्तिभिर् वृक्षपङ्क्तयः ।
स्फुटत्कटकटारावं पात्यन्ते कृतपीत्कृतैः ॥

3.43.40

प्लुष्टपुष्पफलस्कन्धगन्धश्रीका गृहद्रुमाः ।
गता निर्दग्धसर्वस्वा गृहस्था इव दीनताम् ॥

3.43.41

मातापितृविनिर्मुक्ता बालकास् तिमिरावलीः ।
मथ्नन्तो ऽङ्गेषु रथ्यासु कुड्यपातेन हा हताः ॥

3.43.42

वत विद्रावितान्धस्य करिणो रणमूर्धनि ।
पतदङ्गारकागारभारिणः कटुकूजितम् ॥

3.43.43

हा कष्ठम् असिनिर्भिन्नस्कन्धे सन्नदृढोल्मुके ।
पतितो यन्त्रपाषाणः पुरुषस्याशनिर् यथा ॥

3.43.44

गवाश्वमहिषाजोष्ट्रश्वशृगालवृकैर् अहो ।
घोरो रण इहारब्धो मार्गरोधक आकुलैः ॥

3.43.45

पटैः पटपटाशब्दैर् ज्वलज्ज्वालालिमारुतैः ।
आक्रन्दिन्यस् स्त्रियो यान्ति स्थलपद्माचिता इव ॥

3.43.46

स्त्रीणां ज्वालालवाः पश्य लिहन्त्य् अलकवल्लरीः ।
कुर्वन्तो ऽशोकपुष्पाभां करभा इव पन्नगीः ॥

3.43.47

हा हा हरिणशावाक्ष्याः पक्ष्मलेक्षणपक्ष्मसु ।
कुशाग्रेष्व् इव विश्रान्तिम् एति कार्षाणवी शिखा ॥

3.43.48

दह्यमानो ऽपि निर्याति न कलत्रं विना नरः ।
अहो बत दुरुच्छेदाः प्राणिनां स्नेहवागुराः ॥

3.43.49

करी रभसनिर्भिन्नज्वलदङ्गारपादपैः ।
प्लुष्टपुष्करकः कोपान् मथ्नात्य् उत्पुष्करं सरः ॥

3.43.50

धूमोऽम्बुदपदं प्राप्य लोलालाततडिल्लतम् ।
ज्वलदङ्गारनाराचनिकरं परिवर्षति ॥

3.43.51

इह धूमस् स्फुरद्वह्निकण आवर्तवृत्तिमान् ।
स्थित आपीडवान् व्योम्नि रत्नपूर इवाम्बरे ॥

3.43.52

गौरम् अम्बरम् आभाति ज्वालाशिखरतेजसा ।
मृत्योर् इवोत्सवे दत्तः कुङ्कुमाङ्कः कदर्थकः ॥

3.43.53

अहो नु विषमं वैरं वर्तते वृत्तिवर्जितम् ।
ह्रियन्ते राजनार्यो ऽपि वरवीरैर् उदायुधैः ॥

3.43.54

लोलस्रग्दामकुसुमैर् मार्गप्रकरकारिकाः ।
अर्धनिर्दग्धकवरीकीर्णवक्षस्स्थलाम्बराः ॥

3.43.55

आलोलाम्बरसंलक्ष्यनितम्बजघनस्थलाः ।
पतन्माणिक्यवलया वलितावनिमण्डलाः ॥

3.43.56

छिन्नहारलताजालविकीर्णामलमौक्तिकाः ।
दृष्टादृष्टस्तनश्रोणिपार्श्वोद्यत्कनकप्रभाः ॥

3.43.57

कुररीकर्कशाक्रन्दमन्दीकृतरणारवाः ।
धारापात्यस्रुनाराचभिन्नपार्श्वस्थचेतनाः ॥

3.43.58

रक्तकर्दमबाष्पाम्बुक्लिन्नग्रथितवाससः ।
भुजमूलार्पितभुजैर् नीयमाना बलान् नृभिः ॥

3.43.59

क इवास्मत्परित्राता स्याद् इत्य् आदीनवीक्षितैः ।
उत्पलैर् इव वर्षद्भिः परिरोदितसैनिकाः ॥

3.43.60

मृणालकोमलाच्छोरुमूलजालैस् सुनिर्मलैः ।
स्वच्छाम्बरतलालक्ष्यैर् आकाशनलिनीनिभाः ॥

3.43.61

आलोलमाल्यवसनाभरणाङ्गरागा ईर्ष्याकुलाननचलालकवल्लरीकाः ।
आनन्दसुन्दरनिरङ्कुशमथ्यमानात् कामार्णवात् समुदिता इव राजलक्ष्म्यः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc