भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.41

3.41.1

तयोः प्रविष्टयोर् देव्योः पद्मसद्म बभूव तत् ।
चन्द्रद्वयोदयोद्द्योतधवलोदरसुन्दरम् ॥

3.41.2

कोमलामलसौगन्ध्यमृदुमन्दारमारुतम् ।
तत्प्रभावेण निद्रालुनृपेतररणाङ्गनम् ॥

3.41.3

सौभाग्यनन्दनोद्यानं विद्रुतव्याधिवेदनम् ।
सवसन्तं वनम् इव फुल्लं प्रातर् इवाम्बुजम् ॥

3.41.4

तयोर् देहप्रभापूरैश् शशिनिष्ष्यन्दशीतलैः ।
आह्लादितो ऽसौ बुबुधे राजोक्षित इवामृतैः ॥

3.41.5

आसनद्वयविश्रान्तं स ददर्शाप्सरोद्वयम् ।
मेरुशृङ्गद्वये लीनं चन्द्रद्वयम् इवोदितम् ॥

3.41.6

निमेषम् इव सञ्चिन्त्य स विस्मितमना नृपः ।
उत्तस्थौ शयनाच् छेषाद् इव चक्रगदाधरः ॥

3.41.7

परिसम्यमितालम्बमाल्यहारवराम्बरः ।
पुष्पोत्कर इवोत्फुल्लं जग्राह कुसुमाञ्जलिम् ॥

3.41.8

उपधानप्रदेशस्थात् स्वयं पटलकोदरात् ।
बद्धपद्मासनो भूमौ भूत्वोवाचेदम् आनतः ॥

3.41.9

जयतां जन्मदौस्स्थित्यदाहदोषशशिप्रभे ।
देव्यौ बाह्यान्तरतमोविद्रावणरविप्रभे ॥

3.41.10

तयोर् उक्त्वेति तत्याज पादयोः कुसुमाञ्जलिम् ।
तीरद्रुमो विकसितं पद्मिन्योः पद्मयोर् इव ॥

3.41.11

लीलायै भूपजन्माथ वक्तुं मन्त्रिणम् ईश्वरी ।
बोधयाम् आस पार्श्वस्थं सङ्कल्पेन सरस्वती ॥

3.41.12

प्रबुद्धो ऽप्सरसौ दृष्ट्वा प्रणम्य कुसुमाञ्जलिम् ।
तयोः पादेषु सन्त्यज्य विवेश पुरतो नतः ॥

3.41.13

उवाच देवी हे राजन् कस् त्वम् कस्य सुतः कदा ।
इह जात इति श्रुत्वा स मन्त्री वाक्यम् अब्रवीत् ॥

3.41.14

देव्यौ युष्मत्प्रसादो ऽयं भवत्योर् अपि यत् पुरः ।
वक्तुं शक्नोमि तद् इदं श्रूयतां जन्म मत्प्रभोः ॥

3.41.15

आसीद् इक्ष्वाकुवंशोत्थो राजा राजीवलोचनः ।
श्रीमत्कुन्दरथो नाम दोश्छायाच्छादितावनिः ॥

3.41.16

तस्याभूद् इन्दुवदनः पुत्रो भद्ररथाभिधः ।
तस्य विश्वरथः पुत्रस् तस्य पुत्रो बृहद्रथः ॥

3.41.17

तस्य सिन्धुरथः पुत्रस् तस्य शैलरथस् सुतः ।
तस्य कामरथः पुत्रस् तस्य पुत्रो महारथः ॥

3.41.18

तस्य विष्णुरथः पुत्रस् तस्य पुत्रः कलारथः ।
तस्य सूर्यरथः पुत्रस् तस्य पुत्रो नभोरथः ॥

3.41.19

अयम् अस्मत्प्रभुस् तस्य पुत्रः पूर्णामलद्युतेः ।
अमृतापूरितरथः क्षीरोदस्येव चन्द्रमाः ॥

3.41.20

महद्भिः पुण्यसम्भारैर् विदूरथ इति श्रुतः ।
जातो मातुस् सुमित्राया गौर्या गुह इवापरः ॥

3.41.21

पितास्य दशवर्षस्य दत्त्वा राज्यं वनं गतः ।
पालयत्य् एष भूपीठं ततःप्रभृति धर्मतः ॥

3.41.22

भवन्त्याव् अद्य सम्प्राप्ते फलिते सुकृतद्रुमे ।
देव्यौ दीर्घतपःक्लेशशतदुष्प्रापदर्शने ॥

3.41.23

इत्य् अयं वसुधाधीशो विदूरथ इति श्रुतः ।
अद्य युष्मत्प्रसादेन परां पावनतां गतः ॥

3.41.24

इत्य् उक्त्वा संस्थिते तूष्णीं मन्त्रिण्य् अवनिपे तथा ।
कृताञ्जलौ नतमुखे बद्धपद्मासने ऽवनौ ॥

3.41.25

राजन् स्मर विवेकेन पूर्वजातिम् इमां स्वयम् ।
वदन्ती मूर्ध्नि पस्पर्श तं करेण सरस्वती ॥

3.41.26

अथ हार्दतमोमाया पद्मस्य क्षयम् आययौ ।
सविकासं च हृदयं ज्ञप्तिस्पर्शाद् अथाभवत् ॥

3.41.27

सस्मार पूर्ववृत्तान्तम् अन्तस्स्फुरद् इव स्थितम् ।
अन्यदेहैकराजत्वं लीलाविलसितान्वितम् ॥

3.41.28

ज्ञात्वा प्रज्ञप्तिवृत्तान्तं लीलायत्नविजृम्भितम् ।
आत्मोदन्तं बभूवासाव् उह्यमान इवार्णवे ॥

3.41.29

उवाचात्मनि संसारे बत मायेयम् आतता ।
परिज्ञाता प्रसादेन देव्योर् इह मयाधुना ॥

3.41.30

हे देव्यौ किम् इदं नाम दिनम् एकं मृतस्य मे ।
गतम् अद्येह यातानि वयो वर्षाणि सप्ततिः ॥

3.41.31

स्मराम्य् अनेककार्याणि स्मरामि प्रपितामहम् ।
स्मरामि बाल्यं तारुण्यं मित्रबन्धुपरिच्छदम् ॥

3.41.32

राजन् मृतिमहामोहमूर्छायास् समनन्तरम् ।
तस्मिंल् लोकान्तरे ऽतीते तस्मिन्न् एव मुहूर्तके ॥

3.41.33

तस्मिन्न् एव गृहे ऽथास्मिन् नैव वेत्स्य् अथ वच्मि ते ।
अयं तस्य गृहस्यान्तर् व्योमन्य् एव किल स्थितः ॥

3.41.34

गिरिग्रामकविप्रस्य गृहे ऽन्तर् भूपमण्डपः ।
तस्यान्तर् इदम् आभाति प्रत्येकं च जगद्गृहम् ॥

3.41.35

किल ब्राह्मणगेहान्तर् जीवस् ते मद्वरात् स्थितः ।
तत्रैव तस्य भूपीठं तस्मिंश् च निजमण्डपः ॥

3.41.36

तस्यैव च गृहस्यान्तर् इदं संसारमण्डलम् ।
तत्रैवेदं तव गृहं स्थितम् आरम्भमन्थरम् ॥

3.41.37

तत्रैव चेतसि तव निर्मलाकाशनिर्मले ।
प्रतिभासागतम् इदं व्यवहारभ्रमं ततम् ॥

3.41.38

यथेदं नाम मे जन्म तथेक्ष्वाकुकुलं मम ।
एतन्नामान एते मे पुराभूवन् पितामहाः ॥

3.41.39

जातो ऽहम् अभवं बालो दशवर्शस्य मे पिता ।
परिव्राड् विपिनं यात इह राज्ये ऽभिषिच्य माम् ॥

3.41.40

ततो दिग्विजयं कृत्वा कृत्वा राज्यम् अकण्टकम् ।
अमीभिर् मन्त्रिभिः पौरैः पालयामि वसुन्धराम् ॥

3.41.41

यज्ञक्रियाक्रमवतो धर्मे पालयतः प्रजाः ।
वयसस् समतीतानि मम वर्षाणि सप्ततिः ॥

3.41.42

इदं परबलं प्राप्तं मम दारुणविग्रहम् ।
युद्धं कृत्वेदम् आयातो गृहम् अस्मि यथास्थितम् ॥

3.41.43

इमे देव्यौ गृहं प्राप्ते ममैते पूजयाम्य् अहम् ।
पूजिता हि प्रयच्छन्ति देवतास् स्वं समीहितम् ॥

3.41.44

ममेयम् एतयोर् एका ज्ञानं जातिस्मृतिप्रदम् ।
इह दत्तवती देवी भाब्जस्येव विकासनम् ॥

3.41.45

इदानीं कृतकृत्यो ऽस्मि जातो ऽस्मि गतसंशयः ।
शाम्यामि परिनिर्वामि सुखम् आसे च केवलम् ॥

3.41.46

इतीयम् आतता भ्रान्तिर् भवतो भूरिसम्भ्रमा ।
नानाहारविहाराढ्या सलोकान्तरसञ्चरा ॥

3.41.47

यस्मिन्न् एव मुहूर्ते त्वं मृतिम् अभ्यागतः पुरा ।
तदैव प्रतिभैषा ते स्वयम् अभ्युदिता हृदि ॥

3.41.48

एकाम् आवर्तवलनां त्यक्त्वाधत्ते यथापराम् ।
क्षिप्रम् एव नदीवाहश् चित्प्रवाहस् तथैव वः ॥

3.41.49

आवर्तान्तरसंमिश्रो यथावर्तः प्रवर्तते ।
कदाचिद् एवं सर्गश्रीर् मिश्रामिश्रा च वर्धते ॥

3.41.50

तस्मिन् मृतिमुहूर्ते ते प्रतिभानम् उपागतम् ।
एतज् जालम् असद्रूपं चिद्भागे सद् इव स्थितम् ॥

3.41.51

यथा स्वप्नमुहूर्ते ऽन्तस् संवत्सरशतक्रमः ।
यथा सङ्कल्पनिर्माणे जीवितान् मरणं पुनः ॥

3.41.52

यथा गन्धर्वनगरे कुड्यमण्डपकुट्टनम् ।
यथा नौयानसंरम्भे वृक्षपर्वतचोपनम् ॥

3.41.53

यथा स्वधातुसङ्क्षोभे पुरपर्वतनर्तनम् ।
यथा समञ्जसं स्वप्ने स्वशिरःपरिकर्तनम् ॥

3.41.54

मिथ्यैवेयम् इह प्रौढा भ्रान्तिर् आततरूपिणी ।
वस्तुतस् तु न जातो ऽसि न मृतो ऽसि कदाचन ॥

3.41.55

शुद्धविज्ञानरूपस् त्वं शान्तम् आत्मनि तिष्ठसि ।
पश्यसीवैतद् अखिलं न च पश्यसि किञ्चन ॥

3.41.56

सर्वात्मकतया नित्यं प्रकचस्य् आत्मनात्मनि ।
महामणिर् इवोदार आलोक इव भासुरः ॥

3.41.57

वस्तुतस् तु न भूपीठम् इदम् न च भवान् अयम् ।
न चेमे गिरयो ग्रामा न चेह न च वै वयम् ॥

3.41.58

गिरिग्रामकविप्रस्य मण्डपाकाशके किल ।
तल् लीलापतिराज्याढ्यं जगद् आभाति भासुरम् ॥

3.41.59

तत्र लीलाराजधानीमण्डपो मण्डिताकृतिः ।
भाति तस्योदरे व्योम्नि तवेदं विततं जगत् ॥

3.41.60

यस्मिञ् जगति गेहे ऽन्तर् यस्मिन् वयम् इह स्थिताः ।
एवं तेषां मण्डपानां व्योम व्योमैव निर्मलम् ॥

3.41.61

तेषु मण्डपखेष्व् अस्ति न मही न च पत्तनम् ।
न वनानि व शैलौघा न मेघसरिदर्णवाः ॥

3.41.62

केवलं तत्र निश्शून्ये विहरन्ति गृहे जनाः ।
न पश्यन्ति जगन् नापि पार्थिवान् न च भूधरान् ॥

3.41.63

एवं चेत् तत् कथं देवि ममेहानुचरा इमे ।
सम्पन्ना आत्मना सन्ति ते किम् आत्मनि नाथवा ॥

3.41.64

जगत् स्वप्नार्थवद् भाति तत्र स्वप्ने नवाद्रयः ।
कथम् आत्मनि सत्यास् स्युर् नासत्या वेति मे वद ॥

3.41.65

राजन् विदितवेद्येषु शुद्धबोधैकरूपिषु ।
न किञ्चिद् एतत् सद्रूपं चिद्व्योमात्मसु जागतम् ॥

3.41.66

शुद्धबोधात्मनो भाति कुतो नाम जगद्भ्रमः ।
रज्ज्वां सर्पभ्रमे शान्ते पुनस् सर्पभ्रमः कुतः ॥

3.41.67

असद्भाते परिज्ञाते कुतस् सत्ता जगद्भ्रमे ।
परिज्ञाते मरुजले पुनर् जलमतिः कुतः ॥

3.41.68

स्वप्नकाले परिज्ञाते स्वे स्वप्नमरणे कुतः ।
स्वस्वप्ने स्वप्नमृतिभीर् अमृतस्यैव जायते ॥

3.41.69

बुद्धस्य शुद्धस्य शरन्नभश्श्रीस्वच्छावदातस्य घनाशयस्य ।
अहं जगच् चेति कुशब्दकार्थवर्जं यद् अस्त्य् अङ्गनवाचिकं तत् ॥

3.41.70

इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc