मोक्षोपाय · अध्याय 3.40
एवं निशाचराचारचिरघोरे रणाङ्गने ।
उल्लसन्तीषु वेतालक्ष्वेडासूड्डामरारवैः ॥
नभःप्रेक्षकसेनासु प्रगतासु यथागतम् ।
विश्रान्तेष्व् इव भूपेषु रथादिषु निजास्पदे ॥
महासरोजल इव जने दृश्ये रणाङ्गने ।
अहनीव जनाचारे स्थिते श्यामाचरेहिते ॥
हस्तहार्यतमःपिण्डस्फुटकुड्ये निशागृहे ।
लाभोत्सवोच्छलच्चित्ते भूतसङ्घे प्रनृत्यति ॥
निश्शब्दशान्तसञ्चारे निद्रामुद्रे ककुब्गणे ।
लीलापतिर् उदारात्मा किञ्चित् खिन्नमना इव ॥
प्रातःकार्यं विचार्याशु मन्त्रिभिर् मन्त्रकोविदैः ।
दीर्घचन्द्रसमाकारे शयने हिमशीतले ॥
चन्द्रोदयनिभे वासगृहे शिशिरकोटरे ।
निद्रां मुहूर्तम् अगमन् मुद्रितेक्षणपुष्करः ॥
अथ ते ललने व्योम तत् परित्यज्य तद् गृहम् ।
रन्ध्रैर् विविशतुर् वातलेखो ऽब्जमुकुलं यथा ॥
इयन्मात्रम् इदं स्थूलं शरीरं वाग्विदां वर ।
रन्ध्रेण तन्तुतनुना कथं प्रविशति प्रभो ॥
आधिभौतिकदेहो ऽयम् इति यस्य मतिभ्रमः ।
तस्यासाव् अणुरन्ध्रेण गन्तुं शक्नोति नानघ ॥
रोधितो ऽहम् अनेनेति न माम्य् अत्रेति यस्य धीः ।
अनुभूतानुभविनी भवतीत्य् अनुभूयते ॥
येनानुभूतं पूर्वार्धं गच्छामीति स तत्क्रियः ।
कथं भवति पश्चार्धगमनोन्मुखचेतनः ॥
वारि नैवोर्ध्वम् आयाति नाधो गच्छति पावकः ।
या यथैव प्रवृत्ता चित् सा तथैवावतिष्ठते ॥
छायायाम् उपविष्टस्य कुतस् तापानुभूतयः ।
अन्यसंवेदनो ऽन्योऽर्थः केनचिन् नानुभूयते ॥
या यथा सम्प्रवृत्ता चित् सा तथैव स्थितिं गता ।
परमेण प्रयत्नेन नीयते ऽन्यां दशां पुनः ॥
सर्पैकप्रत्ययो रज्ज्वाम् असत्यप्रत्ययाद् बलात् ।
निवर्तते ऽन्यथा त्व् एष तिष्ठत्य् एव यथास्थितम् ॥
यथा संवित् तथा चित्तं यथा चित्तं तथेहितम् ।
बालं प्रत्य् अपि संसिद्धम् एतत् को नानुभूयते ॥
यः पुनस् स्वप्नसङ्कल्पपुरुषप्रतिमाकृतिः ।
आकाशमात्रकाकारस् स कथं केन रोध्यते ॥
चित्तमात्रशरीरं तु सर्वस्यैव हि सर्वतः ।
विद्यते वेदनात्वे तत् क्वचिद् एतीव हृद्गतात् ॥
यथाभिमतम् एवास्य भवत्य् अस्तमयोदयम् ।
आदिसर्गे स्वभावोत्थं पश्चाद् द्वैतैक्यभावनम् ॥
चित्ताकाशं चिदाकाशम् आकाशं च तृतीयकम् ।
विद्ध्य् एतत् त्रयम् एवैकम् अविनाभावतावशात् ॥
एतच् चित्तशरीरं त्वं विद्धि सर्वगतोदयम् ।
यथा संवेदनेच्छत्वाद् यथा संवेदनोदयम् ॥
वसति त्रसरेण्वन्तर् नीयते गगनोदरे ।
लीयते ऽङ्कुरकोशेषु रसीभवति पल्लवे ॥
उल्लसत्य् अम्बुवीचित्वे प्रनृत्यति शिलोदरे ।
प्रवर्षत्य् अम्बुदो भूत्वा शिलीभूयावतिष्ठते ॥
यथेच्छम् अम्बरे याति जठरे ऽपि च भूभृताम् ।
अनन्तम् आकाशवपुर् धत्ते ऽथ परमाणुताम् ॥
भवत्य् अद्रिवराधारो बद्धपीठो नभश्शिरः ।
देहस्यान्तर् बहिर् अपि दधद्वरतनूरुहम् ॥
भवत्य् आकाशम् आधत्ते कोटीः पद्मजसद्मनाम् ।
अनन्यास् स्वात्मनाम्भोधिर् आवर्तरचन इव ॥
अनुद्भिन्नप्रबोधो ऽसौ सर्गादौ चित्तदेहकः ।
आकाशात्मा महान् भूत्वा वेत्ति प्रकृतितां गतः ॥
असत्यम् एव वारित्वं बुद्ध्वोदेतीव तत्तया ।
वन्ध्यापुत्रो ऽयम् अस्मीति यथा स्वप्नभ्रमे नरः ॥
किं चित्तम् एतद् भवति किं वा भवति नो कथम् ।
कथम् एवंमयाद् रूपान् नान्यद् भवति वा क्षणात् ॥
प्रत्येकम् एव यच् चित्तं तद् एवंरूपशक्तिमत् ।
पृथक् प्रत्येकम् उदिताः प्रतिचित्तं जगद्भ्रमाः ॥
क्षणकल्पजगत्सङ्गात् समुद्यन्ति गलन्ति च ।
निमेषात् कस्यचित् कल्पात् कस्यचित् तत् क्रमं शृणु ॥
मरणादेर् महामोहाद् अनन्तरम् इयं स्थितिः ।
क्षणाच् चिराद् वोदेत्य् आशु तत्रेमं त्वं क्रमं शृणु ॥
मरणादिमयी मूर्छा प्रत्येकेनानुभूयते ।
यैवैतां विद्धि सुमते महाप्रलययामिनीम् ॥
तदन्ते तनुते सर्गं सर्व एव पृथक् पृथक् ।
सहजस्वप्नसङ्कल्पसम्भ्रमाचलवृत्तिवत् ॥
महाप्रलयरात्र्यन्ते विराडात्मा मनोवपुः ।
यथेदं तनुते तद्वत् प्रत्येकं मृत्यनन्तरम् ॥
मृतेर् अनन्तरं सर्गो यथा स्मृत्यानुभूयते ।
विराट् तथानुभवति नातो विश्वम् अकारणम् ॥
महति प्रलये राम सर्वे हरिहरादयः ।
विदेहमुक्ततां यान्ति स्मृतेः क इव सम्भवः ॥
अस्मदादिप्रबुद्धात्मा किलावश्यं विमुच्यते ।
कथं भवन्तु वामुक्ता विदेहाः पद्मजादयः ॥
अद्यत्वे ते हि ये जीवास् तेषां मरणजन्मसु ।
स्मृतिः कारणताम् एति मोक्षाभाववशाद् इह ॥
जीवो हि मृतिमूर्छान्ते यद् अन्तः प्रोन्मिषन्न् इव ।
अनुन्मिषित एवास्ते तत् प्रधानम् उदाहृतम् ॥
तद् व्योम प्रकृतिस् सोक्ता तद् अव्यक्तं जडाजडम् ।
संसृतेर् अस्मृतेश् चैव क्रम एष भवोदये ॥
बोधोन्मुखत्वे हि महत् तत् प्रबुद्धं यदा भवेत् ।
तदा तन्मात्रदिक्कालक्रियाभूताद्य् उदेति खात् ॥
तद् एवोच्छूनम् आबुद्धं भवतीन्द्रियपञ्चकम्।
तद् एव बुध्यते देहं स एषो ऽस्त्य् आतिवाहिकः ॥
चिरकालप्रत्ययतः कल्पनापरिपीवरः ।
आधिभौतिकताबोधम् आधत्ते ऽथैष एव वः ॥
ततो दिक्कालकलनास् तदाधारतया स्थिताः ।
उद्यन्त्य् अनुदिता एव वायौ स्पन्दक्रिया इव ॥
वृद्धिम् इत्थम् अयं यातो मुधैव भुवनभ्रमः ।
स्वप्नाङ्गनासङ्गसमस् स्वनुभूतो ऽप्य् असन्मयः ॥
यदैव म्रियते जन्तुः पश्यत्य् आशु तदैव सः ।
तत्रैव भुवनाभोगम् इदम् इत्थम् अवस्थितम् ॥
व्योम्नैवानुभवत्य् अच्छम् अहं जगद् इति भ्रमम् ।
व्योमरूपं व्योमरूपी जीवो जात इवात्मवान् ॥
पुरपत्तनशैलार्कतारानिकरदन्तुरम् ।
जरामरणवैक्लव्यव्याधिसङ्कटकोटरम् ॥
सभावाभावसंरम्भस्थूलसूक्ष्मचलाचलम् ।
साद्रिद्यूर्वीनदीशाहोरात्रिकल्पक्षयोदयम् ॥
अहं जातो ऽमुना पित्रा किलात्रेत्य् आत्तनिश्चयम् ।
इयं माता धनम् इदं ममेत्य् उदितवासनम् ॥
सुकृतं दुष्कृतं चेति ममेति कृतकल्पनम् ।
बालो ऽभूवम् अहं त्व् अद्य युवेति विलसन् हृदि ॥
प्रत्येकम् एवम् उदितस् संसारवनषण्डकः ।
ताराकुसुमितो नीलमेघचञ्चलपल्लवः ॥
चरन्नरमृगानीकस् सुरासुरविहङ्गमः ।
सालोककौसुमरजोमायागहनकुञ्जकः ॥
अब्धिपुष्करिणीपूर्णो मेर्वाद्यचललोष्टकः ।
चित्तपुष्करबीजे ऽन्तर् निलीनानुभवाङ्कुरः ॥
यत्रैष म्रियते जीवस् तत्रैवं पश्यति क्षणात् ।
प्रत्येकम् उदितेष्व् एवं जगत्षण्डेषु भूरिशः ॥
कोटयो ब्रह्मरुद्रेन्द्रमरुद्विष्णुविवस्वताम् ।
मेर्वब्धिमण्डलद्वीपलोकान्तरदृशं गताः ॥
याता यास्यन्ति यान्त्य् एता दृष्तयो ऽनष्टरूपिणि ।
या ब्रह्मण्य् उपबृंहाढ्ये ताः के गणयितुं क्षमाः ॥
एवं कुड्यमयं विश्वं नास्त्य् एव मननाद् ऋते ।
मननं च खम् एवातस् तद् इदानीं विचारय ॥
यद् एव तच् चिदाकाशं तद् एव परमं स्मृतं ।
मननं च चिदाकाशं तद् एव परमं पदम् ॥
यद् एवाम्बु स आवर्तो न त्व् अस्त्य् आवर्त वस्तुसत् ।
दृष्ट्वैवास्ते दृश्यम् इव दृश्यं न त्व् अस्ति वस्तुसत् ॥
चिद्व्योम्नो भूतनभसि कचनं यन् मणेर् इव ।
तज् जगद् भाति नानात्मरत्नं श्वभ्रम् इवाम्बरे ॥
मद्बुद्धार्थो जगच्छब्दो विद्यते परमं पदम् ।
त्वद्बुद्धार्थस् तु नास्त्य् एव त्वमहंशब्दकाव् अपि ॥
तस्माल् लीलासरस्वत्याव् आकाशवपुषौ स्थिते ।
सर्वगे परमात्माच्छे सर्वत्राप्रतिघे ऽनघे ॥
यत्र तत्र तदा व्योम्नि यथाकाशं यथेप्सितम् ।
उदयं कुरुतस् तेन तद्गृहे ते स्थितिं गते ॥
सर्वत्र सम्भवति चिद्गगनं तदन्तस् तद्वेदनं कलनम् आमननं विसारि ।
तच् चातिवाहिकम् इहाहुर् अकुड्यम् एव देहं कथं क इव तं वद किं रुणद्धि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0