भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.42

3.42.1

यस् त्व् अबुद्धमतिर् मूढो रूढो न वितते पदे ।
वज्रसारम् इदं तस्य जगद् अस्त्य् असद् एव सत् ॥

3.42.2

यथा बालस्य वेतालो मृतिपर्यन्तदुःखदः ।
असद् एव सदाकारं तथा मूढमतेर् जगत् ॥

3.42.3

ताप एव यथा वारि मृगाणां भ्रमकारणम् ।
असत्यम् एव सत्याभं तथा मूढधियां जगत् ॥

3.42.4

यथा स्वप्ने मृतिर् जन्तोर् असत्या सत्यरूपिणी ।
नार्थक्रियाकरी भाति तथेदं दुर्विदां जगत् ॥

3.42.5

अव्युत्पन्नस्य कनके कानके कटके यथा ।
कटकज्ञप्तिर् एवास्ति न मनाग् अपि हेमधीः ॥

3.42.6

यथाज्ञस्य पुरागारनगनागेन्द्रकल्पना ।
इयं दृश्यदृग् एवास्ति न त्व् अन्या परमार्थदृक् ॥

3.42.7

यथा नभसि मुक्तालीपिञ्छकेशोण्डुकादयः ।
असत्यास् सत्यतां याता तथेदं दुर्दृशां जगत् ॥

3.42.8

दीर्घस्वप्नम् इदम् विश्वं विद्ध्य् अहन्तादिसंयुतम् ।
अत्रान्ये स्वप्नपुरुषा यथा सत्यास् तथा शृणु ॥

3.42.9

अस्ति सर्वगतं शान्तं परमार्थघनं शुचि ।
अचेत्यचिन्मात्रवपुः परमाकाशम् आततम् ॥

3.42.10

तत् सर्वगं सर्वशक्ति सर्वं सर्वात्मकं स्वयम् ।
यत्र यत्र यथोदेति तथास्ते तत्र तत्र वै ॥

3.42.11

तेन स्वप्नपुरे द्रष्टा यान् वेत्ति पुरवासिनः ।
नरान् इति नरा एव क्षणात् तस्य भवन्ति ते ॥

3.42.12

यद् द्रष्टुश् चित्स्वरूपं तत् स्वप्नाकाशान्तरस्थितम् ।
स्वप्नाकाशचिताहं हि नरो ऽनेनेति भावितम् ॥

3.42.13

चित्पक्षतैक्यवशतो नरतैवावबुध्यते ।
आत्मन्य् अतो दिग्द्वयेन द्वयोर् अप्य् एति सत्यता ॥

3.42.14

स्वप्ने ते स्वप्नपुरुषा न सत्यास् स्युर् मुने यदा ।
वद तत् को भवेद् दोषो मायामात्रशरीरिणि ॥

3.42.15

स्वप्ने ऽन्यपुरवास्तव्या वस्तुतस् सत्यरूपिणः ।
प्रमाणम् अत्र शृणु मे प्रत्यक्षं नाम नेतरत् ॥

3.42.16

सर्गादाव् आत्मभूर् भाति स्वप्नाभो ऽनुभवात्मकः ।
तत्सङ्कल्पकला विश्वम् एवं स्वप्नाभम् एव तत् ॥

3.42.17

एवं विश्वम् इदं स्वप्नस् तत्र सत्यं भवान् मम ।
यथैव त्वं तथैवान्ये स्वप्ने स्वप्नं तथा नृणाम् ॥

3.42.18

स्वप्ने नगरवास्तव्यास् सत्या न स्युर् इमे यदि ।
तद् इहापि तदाकारे न सत्यं मे भवान् अपि ॥

3.42.19

यथाहं तव सत्यात्मा सत्यम् एवं भवान् मम ।
स्वप्नोपलम्भे संसारे मिथस् सिद्ध्यै प्रथेदृशी ॥

3.42.20

संसारविपुले स्वप्ने यथा सत्यम् अहं तव ।
तथा त्वम् अपि मे सत्यं सर्वस्वप्नेष्व् इति क्रमः ॥

3.42.21

स्वप्नद्रष्टरि निर्निद्रे तद् दृष्टं स्वप्नपत्तनम् ।
सद्रूपत्वात् तथैवास्ते ममैवं भगवन् मतिः ॥

3.42.22

एवम् एतत् तथैवास्ते सत्यत्वात् स्वप्नपत्तनम् ।
स्वप्नद्रष्टरि निर्निद्रे ऽप्य् आकाशविषदाकृतिः ॥

3.42.23

एतद् आस्ताम् इदं तावद् यज् जाग्रद् इति मन्यसे ।
विद्धि तत् स्वप्नम् एवान्तर् देशकालाद्यपूरकम् ॥

3.42.24

एवं सर्वम् इदं भाति न सत्यं सत्यवत् स्थितम् ।
रञ्जयत्य् अपि मिथ्यैव स्वप्नस्त्रीसुरतोपमम् ॥

3.42.25

सर्वत्र वर्तते सर्वं देहस्यान्तर् बहिस् तथा ।
यत् तु वेत्ति यथा संवित् तत् तथाश्व् एव पश्यति ॥

3.42.26

यत् कोशे विद्यते द्रव्यं तद् दृष्ट्वा लभ्यते यथा ।
तथास्ति सर्वं चिद्व्योम्नि लभ्यते यत् प्रचेत्यते ॥

3.42.27

अनन्तरम् उवाचेदं देवी ज्ञप्तिर् विदूरथम् ।
कृत्वा बोधामृतासेकैर् विवेकाङ्कुरसुन्दरम् ॥

3.42.28

तद् एवम् एष राजंस् त्वं लीलार्थम् उपवर्णितः ।
स्वस्ति ते ऽस्तु गमिष्यावो दृष्टा दृष्टान्तदृष्टयः ॥

3.42.29

इति प्रोक्तं सरस्वत्या गिरा मधुरवर्णया ।
उवाच वचनं धीमान् भूमिपालो विदूरथः ॥

3.42.30

ममापि दर्शनं देवि मोघं भवति नार्थिनि ।
महाफलप्रदायास् तु कथं तव भविष्यति ॥

3.42.31

अहं देहं समुत्सृज्य लोकान्तरम् इतः परम् ।
निजम् आयामि हे देवि स्वप्नात् स्वप्नान्तरं यथा ॥

3.42.32

अत्रादिशाशु मां मातः प्रपन्नं शरणागतम् ।
भक्ते ऽवहेला वरदे महतां न विराजते ॥

3.42.33

यं प्रदेशम् अहम् यामि तम् एवायात्व् अयं मम ।
मन्त्री कुमारी चैवेयं बालेति कुरु मे दयाम् ॥

3.42.34

आगच्छ राज्यम् उचिताङ्गविचारचारु प्राग्जन्ममण्डलवरे कुरु निर्विशङ्कम् ।
अस्माभिर् अर्थिजनकामनिराकृतिर् हि दृष्टा न काचन कदाचिद् अपीति विद्धि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc