भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.39

3.39.1

अथ वीर इवारक्तः कालेनास्तमितो रविः ।
शश्वत्तेजःपरिम्लानप्रतापो ऽब्धौ समुज्झितः ॥

3.39.2

रणरक्तरुचिव्योमदर्पणप्रतिबिम्बिता ।
अह्नस् सूर्यशिरश्छेदे सन्ध्यालेखोदभूत् क्षणात् ॥

3.39.3

भूपातालनभोदिग्भ्यः प्रलयाब्धिजलौघवत् ।
समाजग्मुस् तमस्ताला वेतालवलया इव ॥

3.39.4

दृष्टं ध्वान्तासिदलिते दिननागेन्द्रमस्तके ।
सन्ध्यारागारुणाकीर्णं तारानिकरमौक्तिकम् ॥

3.39.5

निस्सत्त्वेषु तमोऽन्धेषु सरस्स्व् अरसशालिषु ।
सङ्कोचम् आययुः पद्मा मृतानां हृदयेष्व् इव ॥

3.39.6

मीलत्पक्षाः क्षणात् सुप्ताः कच्छव्रुडितकन्धराः ।
कुलायेषु खगा आसन् सर्वाङ्गेष्व् इव हेतयः ॥

3.39.7

आसन्नचन्द्रसुभगालोकाः कुमुदपङ्क्तयः ।
उल्लसद्धृदया जाता वीरपक्षेष्व् इव श्रियः ॥

3.39.8

रक्तवारिमयी सायसङ्गगुप्तशिलीमुखा ।
सङ्कुचद्वक्त्रपद्माभूद् रणभूमिर् इवाब्जिनी ॥

3.39.9

उपर्य् अभूद् व्योमसरस् ताराकुमुदमण्डितम् ।
अधस् त्व् अभूद् वारिवियत् स्फुरत्कुमुदतारकम् ॥

3.39.10

तमांस्य् अपीतकार्याणि भूतानि चाखिलान्य् अलम् ।
पयांसीव विसेरूनि प्रसृतानि दिशं प्रति ॥

3.39.11

आसीद् रणाङ्गनं गायद्वेतालकुलसङ्कुलम् ।
क्वणत्कङ्कालकण्ठस्थकङ्ककाकोलकेलिमत् ॥

3.39.12

रथकाष्टचितिज्वालासताराम्बरभासुरम् ।
पचत्पचपचाशब्दमेदोमांसमयानलम् ॥

3.39.13

शवाङ्गास्थिस्फुटास्फोटलुठच्चितिचयोल्मुकम् ।
वेतालललनारब्धजललीलातिरोहितम् ॥

3.39.14

श्वकाकयक्षवेतालतालकोलाहलोल्बणम् ।
समागमेन भूतानां समुड्डीनवनोपमम् ॥

3.39.15

रक्तमांसवसामेदोहरणव्यग्रडाकिनम् ।
चर्वितासृग्वसामांसस्रवत्सृक्विपिशाचकम् ॥

3.39.16

सभ्यमध्यचितालोकप्रकटासृक्शवव्रजम् ।
खरूपिकानीयमानाश्वसन्न्यस्तमहाशवम् ॥

3.39.17

उत्ताण्डवोग्रकुम्भाण्डमण्डलोड्डामरोदरम् ।
छमच्छमिविलापान्तं मेदोऽसृग्बाष्पसाम्बुदम् ॥

3.39.18

वहद्रक्तनदीरंहोरूढभूचररूपिकम् ।
वेतालाकुलकङ्कालकर्षणाकुलकाककम् ॥

3.39.19

मृतेभोदरमञ्जूषासुप्तवेतालबालकम् ।
विविक्तैकतरूद्देशपानक्रीडास्थराक्षसम् ॥

3.39.20

मत्तवेतालकलहे चितालातरणोज्ज्वलम् ।
वहद्रक्तवसामिश्रगन्धबन्धुरमारुतम् ॥

3.39.21

रूपिकापेटके वेगरणद्रुटरुटारवम् ।
अर्धपक्वशवास्वादलुब्धयक्षोल्लसत्किलि ॥

3.39.22

तुङ्गवङ्गकलिङ्गाङ्गतङ्गनाङ्गलगत्खगम् ।
तारापातोपमभवत्संमुखज्वालरूपिकम् ॥

3.39.23

पतद्वेतालसोल्लासमध्यस्थासृक्सुरूपिकम् ।
पिशाचाकर्णिताभ्यर्णयोगिनीगणगायनम् ॥

3.39.24

प्रसृतान्त्रमहातन्त्रीप्रायसम्पन्नवादनम् ।
पिशाचवासनोत्क्रान्तपिशाचीभूतमानवम् ॥

3.39.25

रूपिकालोकनापूर्वत्रासार्धमृतसद्भटम् ।
क्वचिद्वेतालरक्षोभिर् अहनीवोन्नमद्रणम् ॥

3.39.26

खरूपिकास्कन्धपतच्छवत्रस्तनिशाचरम् ।
नभस्सङ्घटितापूर्वभूतपेटकसङ्कटम् ॥

3.39.27

अतिप्रयत्नापहृतम्रियमाणनराधिपम् ।
सुभक्षापेक्षियक्षेक्षाविक्षिप्तशवराशिमत् ॥

3.39.28

शिवामुखानलशिखाखण्डैश् छमितनक्तगैः ।
समुड्डीननवाशोकपुष्पगुच्छम् इवाभितः ॥

3.39.29

कबन्धकन्धराबद्धव्यग्रवेतालबालकम् ।
यक्षरक्षःपिशाचाजिकचदाकाशगोल्मुकम् ॥

3.39.30

आकाशभूधरनिकुञ्जगुहान्तराल पिण्डोपमस्थिततमोऽम्बुदपीठपूरम् ।
व्यालोलभूतरभसाकुलकल्पवात व्याधूतलोककरकाण्डकवाटकल्पम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc