मोक्षोपाय · अध्याय 3.136
अथ कालभृगू देवौ मन्दराचलकन्दरात् ।
गन्तुं प्रवृत्ताव् अवनौ समङ्गासरितस् तटम् ॥
तौ शैलाद् अवरोहन्तौ दृष्टवन्तौ महाद्युती ।
नवहेमलताजालकुञ्जसुप्तान् नभश्चरान् ॥
वल्लीवलयदोलाभिः क्रीडन्तीर् गगनाङ्गनाः ।
हरिणीमुग्धमुग्धाक्षिप्रेक्षितस्मारितोत्पलाः ॥
सिंहान् अध्यासितोत्तुङ्गशिलाशकलविष्टरान् ।
धृताकारान् इवोत्साहान् हेलादृष्टजगत्त्रयान् ॥
तालोत्ताललतान्यस्तहस्तान् हस्तिघटापतीन् ।
मदावलेपनिद्रालून् मदान् मूर्तिम् इवास्थितान् ॥
पुष्पकेसररक्ताङ्गपवनारुणवालधीन् ।
चञ्चलांश् चमरांश् चारु भूभृन्मङ्गलचालितान् ॥
कृताजस्रपतत्पुष्पधारासारनिमज्जनान् ।
भ्रमरान् सर्जखर्जूरशाखाशरणतां गतान् ॥
परस्परफलाघातक्ष्वेडाविजितकीचकान् ।
धातुपाटलसद्वक्त्रान् मर्कटान् अटनोत्कटान् ॥
लतावितानसञ्छन्नसानूपवनमन्दिरान् ।
सिद्धान् अमरनारीभिर् मन्दारकुसुमाहतान् ॥
धातुपाटलनिर्वारिपयोदपटसंवृतान् ।
तटान् अजनसंसर्गान् बौद्धान् प्रव्राजितान् इव ॥
सरितः कुन्दमन्दारपिनद्धलहरीघटाः ।
सागरोत्कतयेवात्तमधुमासप्रसाधनाः ॥
पुष्पभारपिनद्धाङ्गान् वृक्षान् पवनकम्पितान् ।
क्षीवान् इव मधुप्राप्तौ घूर्णन्मधुकरेक्षणान् ॥
शैलराजश्रियं स्फीतां पश्यन्तौ ताव् इतस् ततः ।
प्राप्तवन्तौ वसुमतीं पुरपत्तनमण्डिताम् ॥
क्षणाद् अवापतुस् तत्र पुष्पलोलतरङ्गिणीम् ।
समङ्गां सरितं साधू सर्वपुष्पमयीम् इव ॥
ददर्शाथ तटे तस्याः कस्मिंश्चित् तनयं भृगुः ।
देहान्तरपरावृत्तं भावम् अन्यम् उपागतम् ॥
शान्तेन्द्रियं समाधिस्थम् अचञ्चलमनोमृगम् ।
सुचिराद् इव विश्रान्तं सुचिरं श्रमशान्तये ॥
चिन्तयन्तम् इवानन्ताश् चिरभुक्ताश् चिरोज्झिताः ।
संसारसागरगतीर् हर्षशोकनिरन्तराः ॥
नूनं निश्चलतां यातम् अतिभ्रमितचक्रवत् ।
अनन्तजगदावर्तविवर्तातिशयाद् इव ॥
एकान्तसंस्थितं कान्तं कान्त्यैकाकिनम् आश्रितम् ।
उपशान्तेहितं त्यक्तचित्तसम्भ्रमसङ्गमम् ॥
निर्विकल्पसमाधिस्थं विरतं द्वन्द्ववृत्तितः ।
हसन्तम् अखिला लोकगतीश् शीतलया धिया ॥
विदिताखिलवृत्तान्तं विगताशेषकौतुकम् ।
निरस्तकल्पनाजालम् आलम्बितमहापदम् ॥
अनन्तविश्रान्तितते पदे विश्रान्तम् आत्मनि ।
प्रतिबिम्बम् अगृह्णन्तं सितं मणिम् इव स्थितम् ॥
हेयोपादेयसङ्कल्पविकल्पाभ्यां समुज्झितम् ।
सुप्रबुद्धमतिं धीरं ददर्श तनयं भृगुः ॥
तम् आलोक्य भृगोः पुत्रं कालो भृगुम् उवाच ह ।
वाक्यम् अब्धिध्वनिनिभं तव पुत्रस् त्व् असाव् इति ॥
विबुध्यताम् इति गिरा समाधेर् विरराम सः ।
भार्गवो ऽम्भोदघोषेण शनैर् इव शिखण्डभृत् ॥
उन्मील्य नेत्रे सो ऽपश्यद् अग्रे कालभृगू प्रभू ।
समोदयाव् इवायातौ देवौ शशिदिवाकरौ ॥
कदम्बलतिकापीठाद् अथोत्थाय ननाम तौ ।
समं समागतौ कान्तौ विप्रौ हरिहराव् इव ॥
मिथः कृतसमाचाराश् शिलायां समुपाविशन् ।
मेरुपृष्ठे जगत्पूज्या ब्रह्मविष्णुहरा इव ॥
अथ शान्ततपा नाम स समङ्गातटे द्विजः ।
ताव् उवाच वचश् शान्तम् अमृतस्यन्दसुन्दरम् ॥
भवतोर् दर्शनेनाहम् अद्य निर्वृतिम् आगतः ।
समम् आगतयोर् लोकं शीतलोष्णरुचोर् इव ॥
यो न शास्त्रैर् न तपसा न ज्ञानेन न विद्यया ।
विनष्टो मे मनोमोहः क्षीणो ऽसौ दर्शनेन वाम् ॥
न तथा सुखयन्त्य् अन्तर् निर्मलामृतवृष्टयः ।
यथा प्रहर्षयन्त्य् एता महताम् एव दृष्टयः ॥
चरणाभ्याम् इमं देशं भवन्तौ भूरितेजसौ ।
कौ पवित्रितवन्तौ नश् शशाङ्कार्काव् इवाम्बरम् ॥
इत्य् उक्तवन्तं प्रोवाच भृगुर् जन्मान्तरात्मजम् ।
स्मरात्मानं प्रबुद्धो ऽसि नाज्ञो ऽसीति रघूद्वह ॥
प्रबोधितो ऽसौ भृगुणा जन्मान्तरदशा निजाः ।
मुहूर्तमात्रं सस्मार ध्यानोन्मीलितलोचनः ॥
अथासौ विस्मयस्मेरमुखो मुदितमानसः ।
वितर्कमन्थरां वाचम् उवाच वदतां वरः ॥
जयत्य् अविरतारम्भा नियतिः परमात्मनः ।
यद्वशाद् इदम् आभोगि जगच्चक्रं विवर्तते ॥
ममानन्तान्य् अतीतानि जन्मान्य् अविदितानि ह ।
तानि तान्तदशाढ्यानि संस्मृतान्य् उचितानि च ॥
भुक्तानि बहुकार्याणि विचित्रविभवान्य् अति ।
दशाफलान्य् अनन्तानि कल्पान्तकलितानि च ॥
दृष्टाः कठिनसंरम्भा विभवोपार्जनभ्रमाः ।
विहृतं वीतशोकासु चिरं मेरुस्थलीषु च ॥
पीतम् आमोदि मन्दारकुसुमारुणितं पयः ।
मन्दाकिन्यास् सकल्हारं तटेष्व् अमरभूभृतः ॥
भ्रान्तं सन्तानकुञ्जेषु फुल्लहेमलतालिषु ।
मेरौ कल्पतरुच्छायापुष्पसुन्दरसानुषु ॥
न तद् अस्ति न यद् भुक्तं न तद् अस्ति न यत् कृतम् ।
न तद् अस्ति न यद् दृष्टम् इष्टानिष्टासु दृष्टिषु ॥
ज्ञातं ज्ञातव्यम् अधुना दृष्टं द्रष्टव्यम् अक्षतम् ।
विश्रान्तो ऽस्मि चिरश्रान्तो गतो मे सकलो भ्रमः ॥
उत्तिष्ठ तात गच्छामः पश्यामो मन्दरस्थिताम् ।
तां तनुं तावद् आशुष्कां शुष्कां वनलताम् इव ॥
नासमीहितम् अस्तीह न समीहितम् अस्ति मे ।
नियते रचनां द्रष्टुं केवलं विहराम्य् अहम् ॥
किम् इति सुभगम् आर्यसेवितं तत् स्थिरम् अनुयामि मदेकभावबुद्ध्या ।
तद् अलम् अभिमतामतैर् ममास्तु प्रकृतम् इमं व्यवहारम् आचरामि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0