भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.137

3.137.1

विचारयन्तस् तत्त्वज्ञा इति ते जागतीर् गतीः ।
समङ्गायास् तटात् तस्मात् प्रचेलुश् चञ्चलांशवः ॥

3.137.2

क्रमाद् आकाशम् आक्रम्य निर्गत्याम्बुदकोटरैः ।
सम्प्रापुस् सिद्धमार्गेण मन्दरं हेमकन्दरम् ॥

3.137.3

अधित्यकायां तस्याद्रेर् आर्द्रपर्णावगुण्ठिताम् ।
ददर्श भार्गवश् शुष्कां पूर्वजन्मोद्भवां तनुम् ॥

3.137.4

उवाच चेदं हे तात तन्वी तनुर् इयं हि सा ।
या त्वया सुखसम्भोगैः पुरा समभिलालिता ॥

3.137.5

इयं सा मत्तनुर् यस्या मन्दारकुसुमोत्करैः ।
रचिताश् शीतलाश् शय्या मेरूपवनभूमिषु ॥

3.137.6

इयं सा मत्तनुर् मत्तदेवस्त्रीगणलालिता ।
सरीसृपमुखक्षुण्णा पश्य शेते धरातले ॥

3.137.7

नन्दनोद्यानषण्डेषु मम तन्वा ययानया ।
चिरं विलसितं सेयं शुष्ककङ्कालतां गता ॥

3.137.8

सुराङ्गनाङ्गसंसङ्गाद् उत्तुङ्गानङ्गरङ्गया ।
चेतोवृत्त्या रहितया तन्वेह मम शुष्यते ॥

3.137.9

तेषु तेषु विलासेषु तासु तासु दशासु च ।
तथा ता भावना बद्ध्वा कथं स्वस्थो ऽसि देहक ॥

3.137.10

हा तनो क्वावभग्नासि तापसंशोषम् आगता ।
करङ्कतां प्रयातासि मां भावयसि दुर्भगे ॥

3.137.11

देहेनाहं विलासेषु येनैव मुदितो ऽभवम् ।
कङ्कलताम् उपगतात् तस्माद् एव बिभेम्य् अहम् ॥

3.137.12

ताराजालसमाकारो यत्र हारो ऽभवत् पुरा ।
ममोरसि निलीयन्ते पश्य तत्र पिपीलकाः ॥

3.137.13

द्रवत्काञ्चनकान्तेन लोभं नीता वराङ्गनाः ।
येन मद्वपुषा तेन पश्य कङ्कलतोह्यते ॥

3.137.14

पश्येमे विततास्येन तापसंशुष्ककृत्तिना ।
मत्कङ्कालकुवक्त्रेण वित्रास्यन्ते वने मृगाः ॥

3.137.15

पश्यातिसंशुष्कतया शवोदरदरी मम ।
प्रकाशार्कांशुजालेन विवेकेनेव शोभते ॥

3.137.16

मत्तनुः परिशुष्केयं स्थितोत्ताना वनावनौ ।
वैराग्यं नयतीवात्मतुच्छत्वेनाम्बरस्थितान् ॥

3.137.17

शब्दरूपरसस्पर्शगन्धलोभविमुक्तया ।
निर्विकल्पसमाध्येव मम तन्वोष्यते गिरौ ॥

3.137.18

संशान्ते चित्तवेताले याम् आनन्दकलां तनुः ।
याति ताम् अपि राज्येन जागतेन न गच्छति ॥

3.137.19

पश्य विश्रान्तसर्वेहं विगताशेषकौतुकम् ।
निरस्तकल्पनाजालं सुखं शेते कलेवरम् ॥

3.137.20

चित्तमर्कटसंरम्भसङ्क्षुब्धः कायपादपः ।
तथा वेगेन चलति यथा मूलानि कृन्तति ॥

3.137.21

चित्तानर्थविमुक्तो ऽद्रौ गजाभ्रहरिविभ्रमम् ।
नायं पश्यति मे देहः परानन्द इव स्थितः ॥

3.137.22

सर्वाशाज्वरसम्मोहमिहिकाशरदागमम् ।
अचित्तत्वं विना नान्यच् छ्रेयः पश्यामि जन्तुषु ॥

3.137.23

त एव सुखसम्भोगसीमान्तं समुपागताः ।
महाधियश् शान्तधियो ये याता विमनस्कताम् ॥

3.137.24

सर्वदुःखदशामुक्तां संशान्तां विगतज्वराम् ।
दिष्ट्या पश्याम्य् अमननां वने तनुम् इमाम् अहम् ॥

3.137.25

भगवन् सर्वधर्मज्ञ भार्गवेण तदा किल ।
सुबहून्य् उपभुक्तानि शरीराणि पुनः पुनः ॥

3.137.26

भृगुणोत्पादिते काये तत् तस्मिंस् तस्य किं मुने ।
महान् अतिशयो जातः परिदेवनम् एव वा ॥

3.137.27

शुक्रस्य कलना राम यासौ जीवदशां गता ।
कर्मात्मिका समुत्पन्ना भृगोर् भार्गवरूपिणी ॥

3.137.28

सा हीदम्प्रथमत्वेन समेत्य परमात् पदात् ।
भूताकाशपदं प्राप्य वातव्यावलिता सती ॥

3.137.29

प्राणापानप्रवाहेण प्रविश्य हृदयं भृगोः ।
क्रमेण वीर्यताम् एत्य सम्पन्नौशनसी तनुः ॥

3.137.30

विहितब्राह्मसंस्कारा ततस् सा पितुर् अग्रगा ।
कालेन महता प्राप्ता शुष्ककङ्कालरूपताम् ॥

3.137.31

इदम्प्रथमम् आयाता यदा सा ब्रह्मणस् तनुः ।
ततस् तां प्रति शुक्रेण तदा तत् परिदेवितम् ॥

3.137.32

वीतरागो ऽप्य् अनिच्छो ऽपि समङ्गाविप्ररूपवान् ।
स्वां शुशोच तनुं शुक्रस् स्वभावो ह्य् एष देहजः ॥

3.137.33

किं तु प्रदर्शितं तेन शोकव्याजेन धीमताम् ।
वैराग्यप्रतिपत्त्यै तत् पृथक्त्वं देहदेहिनोः ॥

3.137.34

ज्ञस्याज्ञस्य च देहस्य यावज्जीवम् अयं क्रमः ।
लोकवद् व्यवहारो यत् सक्त्यासक्त्याथ वा सदा ॥

3.137.35

ये परिज्ञातगतयो ये चाज्ञाः पशुधर्मिणः ।
लोकसंव्यवहारेषु ते स्थिता वनजालवत् ॥

3.137.36

व्यवहारी यथैवाज्ञस् तथैव किल पण्डितः ।
वासनामात्रभेदो ऽत्र कारणं बन्धमोक्षयोः ॥

3.137.37

यावच् छरीरं तावद् धि दुःखे दुःखं सुखे सुखम् ।
असंसक्तधियो धीरा दर्शयन्त्य् अप्रबुद्धवत् ॥

3.137.38

सुखेषु सुखिता नित्यं दुःखिता दुःखवृत्तिषु ।
महात्मानो हि दृश्यन्ते नूनम् अन्तस् तु शीतलाः ॥

3.137.39

स्तम्भस्य प्रतिबिम्बानि क्षुभ्यन्ति न वपुस् स्थिरम् ।
ज्ञस्य कर्मेन्द्रियाण्य् एव क्षुभ्यन्ति न मनस् स्थिरम् ॥

3.137.40

चलाचलतया तज्ज्ञो लोकवृत्तिषु तिष्ठति ।
अधस्स्थितिर् इव स्वच्छं प्रतिबिम्बेषु भास्करः ॥

3.137.41

सन्त्यक्तलोककर्मापि बद्ध एवाप्रबुद्धधीः ।
अत्यक्तमोहलीलो ऽपि मुक्त एव प्रबुद्धधीः ॥

3.137.42

मुक्तबुद्धीन्द्रियो मुक्तो बद्धकर्मेन्द्रियो ऽपि हि ।
बद्धबुद्धीन्द्रियो बद्धो मुक्तकर्मेन्द्रियो ऽपि हि ॥

3.137.43

सुखदुःखदृशोर् लोके बन्धमोक्षदृशोस् तथा ।
हेतुर् बुद्धीन्द्रियाण्य् एव तेजांसीव प्रकाशने ॥

3.137.44

बहिर् लोकोचिताचारस् त्व् अन्तर् आचारवर्जितः ।
समो ऽसन्न् इव तिष्ठ त्वं संशान्तसकलैषणः ॥

3.137.45

सर्वैषणाविमुक्तेन स्वात्मनात्मनि तिष्ठता ।
कुरु कर्माणि कार्याणि नूनं सामनसि स्थितिः ॥

3.137.46

आधिव्याधिमहावर्ते गर्ते संसारवर्त्मनि ।
ममतोग्रान्धकूपे ऽस्मिन् मा पतातपदायिनि ॥

3.137.47

न त्वं भावेषु नो भावास् त्वयि तामरसेक्षण ।
शुद्धबुद्धस्वभावस् त्वम् आत्मसंस्थस् स्थिरो भव ॥

3.137.48

व्यपगतममतामहान्धकारं पदम् अमलं विगतैषणं समेत्य ।
प्रभवसि यदि चेतसो महात्मंस् तद् अतिधिये महते सते नमस् ते ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc