मोक्षोपाय · अध्याय 3.135
एतासां भूतजातीनाम् ऊर्मीणाम् इव सागरे ।
विविधानां विचित्राणां लतानाम् इव माधवे ॥
मध्याज् जितमनोमोहा दृष्टलोकपरावराः ।
जीवन्मुक्ता भ्रमन्तीह यक्षगन्धर्वकिन्नराः ॥
अन्ये तु काष्ठकुड्याभा मूढास् स्थावरतां गताः ।
अपरिक्षीणमोहास् ते किं तेषां प्रविचार्यते ॥
लोके प्रबुध्यमानानां भूतानाम् आत्मसिद्धये ।
विहरन्तीह शास्त्राणि कल्पितान्य् उचितात्मभिः ॥
सम्प्रबुद्धाशया ये तु दुष्कृतानां परिक्षये ।
तेषां शास्त्रविचारेषु निर्मला धीः प्रवर्तते ॥
विलीयते मनोमोहस् सच्छास्त्रप्रविचारणात् ।
नभोविहरणाद् भानोश् शार्वरं तिमिरं यथा ॥
अक्षीयमाणं हि मनो मोहायैव न सिद्धये ।
नीहार इव सञ्छाद्य वेताल इव वल्गति ॥
सर्वेषाम् एव भूतानां सुखदुःखार्थभाजनम् ।
शरीरं मन एवेह न तु मांसमयं मुने ॥
यो ऽयं मांसास्थिसङ्घातो दृश्यते चाधिभौतिकः ।
मनोविकल्पितं विद्धि न देहः पारमार्थिकः ॥
मनश्शरीरेण तव पुत्रो यत् कृतवान् मुने ।
तद् एव प्राप्तवान् आशु वयं नात्रापराधिनः ॥
स्वया वासनया लोको यद् यत् कर्म करोति यः ।
स तथैव तद् आप्नोति नेतरस्यात्र कर्तृता ॥
नानुसंहितम् अन्तर् यन् मनोवासनया स्वया ।
को नाम भुवने सो ऽस्ति तत् कर्तुं यस्य शक्तता ॥
ये स्वर्गनरकाभोगा यास् स्वर्गनरकैषणाः ।
स्वमनोमननेन्दोस् स निष्ष्यन्दो मान्द्यदुःखदः ॥
बहुनात्र किम् उक्तेन शब्दसन्दर्भकारिणा ।
उत्तिष्ठ भगवन् यामो यत्र ते तनयस् स्थितः ॥
सर्वं चित्तशरीरेण भुक्त्वा शुक्रः क्षणाद् इह ।
अद्येन्दुरश्मिसङ्घट्टात् समङ्गातापसस् स्थितः ॥
तत्प्राणपवनश् चित्त्वयुक्त इन्द्वंशुगः फलम् ।
अवश्यायतया भूत्वा वीर्यत्वेन नरस् स्थितः ॥
इत्य् उक्त्वा भगवान् कालो हसन्न् इव जगद्गतीः ।
हस्ताद् धस्तेन जग्राह भृगुम् इन्दुम् इवांशुमान् ॥
अहो नु चित्रा नियतेर् व्यवस्थेति वदञ् शनैः ।
भगवान् भृगुर् उत्तस्थाव् उदयाद्रेर् यथा रविः ॥
तेजोनिधी सुसमसङ्गसमुत्थितौ तौ भातस् तदा वरवने सतमालजाले ।
तुल्योदयाव् इव नभस्य् अमले विहर्तुम् अभ्युद्यताव् अजलदौ सकलेन्दुसूर्यौ ॥
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0