भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.133

3.133.1

अद्योद्दामतरङ्गौघझाङ्काररणितानिले ।
तीरे वरतरङ्गिण्यास् तपस् तपति ते सुतः ॥

3.133.2

जटावान् अक्षवलयी जितसर्वेन्द्रियभ्रमः ।
तत्र वर्षशतान्य् अष्टौ संस्थितस् तपसि स्थिरे ॥

3.133.3

यदीच्छसि मुने द्रष्टुं तं स्वपुत्रमनोभ्रमम् ।
तत् समुन्मील्य विज्ञाननेत्रम् आशु विलोकय ॥

3.133.4

इत्य् उक्ते जगदीशेन कालेन समदृष्टिना ।
मुनिस् सञ्चिन्तयाम् आस ज्ञानाक्ष्णा तनयेहितम् ॥

3.133.5

ददर्श च मुहूर्तेन प्रतिभासवशाद् असौ ।
पुत्रोदन्तम् अशेषेण बुद्धिदर्पणबिम्बितम् ॥

3.133.6

पुनर् मन्दरसानुस्थां काले कालाग्रसंस्थिताम् ।
समङ्गायास् तटाद् एत्य विवेश स्वतनुं भृगुः ॥

3.133.7

विस्मयस्मेरया दृष्ट्या कालम् आलोक्य कान्तया ।
वीतरागम् उवाचेदं वीतरागो मुनिर् वचः ॥

3.133.8

भगवन् भूतभव्येश बाला वयम् अनाबिला ।
त्वादृशाम् एव धीर् देव त्रिकालामलदर्शिनी ॥

3.133.9

नानाकारं विकाराढ्या सत्येवासत्यरूपिणी ।
विभ्रमं जनयत्य् एषा धीरस्यापि जगद्गतिः ॥

3.133.10

त्वम् एव देव जानासि त्वदभ्यन्तरवर्ति यत् ।
रूपम् अस्या मनोवृत्तेर् इन्द्रजालविधायकम् ॥

3.133.11

मत्पुत्रस्यास्य भगवन् मृत्युः किल न विद्यते ।
तेनेमं मृतम् आलोक्य जातस् सम्भ्रमवान् अहम् ॥

3.133.12

अक्षीणजीवितं पुत्रं कालो मे नीतवान् इति ।
नियतेर् वशतो देव त्वच्छापेच्छा ममोदिता ॥

3.133.13

न तु विज्ञातसंसारगतयो वयम् आपदम् ।
सम्पदं वापि गच्छामो हर्षामर्षवशं किल ॥

3.133.14

अयुक्तकारिणि क्रोधः प्रसादो युक्तकारिणि ।
कर्तव्य इति रूढेयं सांसारी भगवन् स्थितिः ॥

3.133.15

इदं कार्यम् इदं नेति यावज्जीवं जगत्क्रमः ।
यावद् अग्निस् स्थिता तावद् औष्ण्यदाहादिदृष्टयः ॥

3.133.16

इदं कार्यम् इदं नेति हेया यस्य जगत्स्थितिः ।
तस्यैतत्सम्परित्यागो हेय एव जगद्गुरो ॥

3.133.17

केवलं तानयीं चिन्ताम् अनालोक्य यदा वयम् ।
भगवन् भवते क्षुब्धा यातास् स्मस् तेन वाच्यताम् ॥

3.133.18

त्वयेदानीम् अहं देव स्मारितस् तनयेहितम् ।
समङ्गायास् तटे तेन दृष्टो ऽयं तनयो मया ॥

3.133.19

मन्ये जगति भूतानां द्वे शरीरे न सर्वग ।
मन एव शरीरं हि येनेदं भाव्यते जगत् ॥

3.133.20

सम्यग् उक्तं त्वया ब्रह्मञ् शरीरं मन एव नः ।
करोति देहं सङ्कल्प्य कुम्भकारो घटं यथा ॥

3.133.21

करोत्य् अकृतम् आकारं कृतं नाशयति क्षणात् ।
सङ्कल्पेन मनो मोहाद् बालो वेतालकं यथा ॥

3.133.22

तथा च सम्भ्रमे स्वप्नमिथ्याज्ञानादिभास्वराः ।
गन्धर्वनगराकारा दृष्टा मनसि शक्तयः ॥

3.133.23

स्थूलदृष्टिदृशं त्व् एताम् अवलम्ब्य महामुने ।
पुंसो मनश् शरीरं च कायौ द्वाव् इति कथ्यते ॥

3.133.24

मनोमनननिर्माणमात्रम् एतज् जगत्त्रयम् ।
न सन् नासद् इव स्फारम् उदितं नेतरन् मुने ॥

3.133.25

चित्तदेहाङ्गलतया भेदवासनयेद्धया ।
द्विचन्द्रत्वम् इवाज्ञानान् नानातेयं समुत्थिता ॥

3.133.26

भेदवासनया बह्व्या पदार्थनिचयं मनः ।
भिन्नं पश्यति सर्वत्र घटावटपटादिकम् ॥

3.133.27

कृशो ऽतिदुःखी मूढो ऽहम् एताश् चान्याश् च भावनाः ।
भावयत् स्वविकल्पोत्था याति संसारतां मनः ॥

3.133.28

मननं कृत्रिमं रूपं ममैतन् न पताम्य् अहम् ।
इति तत्त्यागतश् शान्तं चेतो ब्रह्म सनातनम् ॥

3.133.29

यथा प्रवितते ऽम्बोधौ तते ऽनेकतरङ्गिणि ।
सोम्यस्पन्दमयानेककल्लोलावलिशालिनि ॥

3.133.30

वार्यात्मनि समे स्वच्छे शुद्धे स्वादुनि शीतले ।
अविनाशिनि विस्तीर्णे महामहिमनि स्फुटे ॥

3.133.31

त्र्यश्रस् तरङ्गस् स्वं रूपं भावयन् स स्वभावतः ।
त्र्यश्रो ऽस्मीति विकल्पेन करोति स्वेन कल्पनाम् ॥

3.133.32

भ्रश्यंश् चैव परिभ्रष्टरूपो ऽस्मीति तलातलम् ।
भावयन् भूतलं याति तादृग्भावनया तया ॥

3.133.33

उत्थितं च बलाद् ऊर्ध्वम् उत्थितो ऽस्मीति भावितः ।
तैस् तैर् विकल्पैस् तद्भावं विकल्पयति साभिधम् ॥

3.133.34

ससूर्यप्रतिबिम्बस् तु प्रकाशो ऽस्मीति भावितः ।
सरजःपुञ्जपातस् तु मलिनो ऽस्मीति भावितः ॥

3.133.35

सरत्नरश्मिजालस् तु शोभते दीप्तया श्रिया ।
तुषारभरविद्धस् तु शीतलो ऽस्मीति विन्दति ॥

3.133.36

सतटाचलदावाग्निप्रतिबिम्बोज्ज्वलद्वपुः ।
बिभेति वत दग्धो ऽस्मीत्य् आत्तमीनश् च कम्पते ॥

3.133.37

प्रतिबिम्बितवेलाद्रितटपक्षिवनद्रुमः ।
महान् आरम्भसंरम्भसंयुतो ऽस्मीति राजते ॥

3.133.38

विमलोल्लसनोत्पन्नध्वस्तलोलशरीरकः ।
खण्डशः परियातो ऽस्मीत्य् आत्ताक्रन्द इवारवी ॥

3.133.39

न चोर्मयस् ते जलधेर् व्यतिरिक्ताः पयोरसात् ।
न चैकं रूपम् एतेषां किञ्चित् सन्न् अप्य् असन्मयम् ॥

3.133.40

न च ते न्यूनदैर्घ्याद्या गुणास् तेषु च तेषु ते ।
नोर्मयस् संस्थिता अब्धौ न च तत्र न संस्थिताः ॥

3.133.41

केवलं स्वस्वभावस्थसङ्कल्पविकलीकृताः ।
नष्टानष्टाः पुनर् जाता जाताजाताः पुनः क्षताः ॥

3.133.42

परस्परपरामर्शान् नानाताम् उपयान्त्य् अलम् ।
एकरूपाम्बुसामान्यमया एव निरामयाः ॥

3.133.43

तथैवास्मिन् प्रवितते सिते शुद्धे निरामये ।
ब्रह्ममात्रैकवपुषि ब्रह्मणि स्फाररूपिणि ॥

3.133.44

सर्वशक्ताव् अनाद्यन्ते पृथग्वद् अपृथक्कृताः ।
संस्थिताश् शक्तयश् चित्रा विचित्राचारचञ्चलाः ॥

3.133.45

नानाशक्ति हि नानात्वम् एति स्ववपुषि स्थितम् ।
बृंहितं ब्रह्मणि ब्रह्म पयसीवोर्मिमण्डलम् ॥

3.133.46

नानारूपकरूपत्वाद् वैरूप्यशतकारिणी ।
नियतिर् नियताकारा पदार्थम् अधितिष्ठति ॥

3.133.47

जडा जाड्यम् उपादत्ते चित्त्वम् आयाति चिन्मयी ।
वासनारूपिणी शक्तिस् स्वस्वरूपस्थितात्मनः ॥

3.133.48

ब्रह्मैवानघ तेनेदं स्फाराकारं विजृम्भते ।
नानारूपैः परिस्पन्दैः परिपूर्ण इवार्णवः ॥

3.133.49

नानातां स्वयम् आदत्ते नानाकारविहारतः ।
आत्मैवात्मन्य् आत्मनैव समुद्राम्भ इवाम्भसि ॥

3.133.50

व्यतिरिक्ता न पयसो विचित्रा वीचयो यथा ।
व्यतिरिक्ता न सर्वेशात् समग्राः कलनास् तथा ॥

3.133.51

स्तम्भपुष्पलतापत्त्रफलकोरकयुक्तयः ।
यथैकस्मिं स्थिता बीजे तथा ब्रह्मणि शक्तयः ॥

3.133.52

नानाकर्तृतया नानाशक्तिता पुरुषे यथा ।
तथैवात्मनि सर्वज्ञे सर्वदा सर्वशक्तिता ॥

3.133.53

विचित्रवर्णता यद्वद् दृश्यते कठिनातपे ।
विचित्रशक्तिता तद्वद् देवेशे सदसन्मयी ॥

3.133.54

विचित्ररूपोदेतीयम् अविचित्रात् स्थितिश् शिवात् ।
एकवर्णात् पयोवाहाच् छक्रचापलता यथा ॥

3.133.55

अजडाज् जडतोदेति जाड्यभावनहेतुका ।
ऊर्णनाभाद् यथा तन्तुर् यथा पुंसस् सुषुप्तता ॥

3.133.56

अचित्तश् चैतसीं शक्तिं स्वबन्धायेच्छया शिवः ।
तनोति तान्तवं कोशं कोशकारक्रिमिर् यथा ॥

3.133.57

स्वेच्छयात्मात्मनो ब्रह्मन् भावयित्वा स्वकं वपुः ।
संसारान् मोक्षम् आयाति स्वालानाद् इव वारणः ॥

3.133.58

यद् एव भावयत्य् आत्मा सततं भावितस् स्वयम् ।
तयैवापूर्यते शक्त्या शीघ्रम् एव महान् अपि ॥

3.133.59

भाविता शक्तिर् आत्मानम् आत्मतां नयति क्षणात् ।
अनन्तम् अपि खं प्रावृण्मिहिका महती यथा ॥

3.133.60

या शक्तिर् उदिता शीघ्रं याति तन्मयताम् अजः ।
याम् एव तु स्थितिं यातस् तन्मयो भवति द्रुमः ॥

3.133.61

न मोक्षो मोक्ष ईशस्य न बन्धो बन्ध आत्मनः ।
बन्धमोक्षदृशौ लोके न जाने प्रोत्थिते कुतः ॥

3.133.62

नास्य बन्धो न मोक्सो ऽस्ति तन्मयश् चैव लक्ष्यते ।
ग्रस्तं नित्यम् असत्येन मायामयम् अहो जगत् ॥

3.133.63

यदैव चित्तं कलितम् अकलेन किलात्मना ।
कोशकीटवद् आत्मायम् अनेनावलितस् तदा ॥

3.133.64

अनन्यरूपास् त्व् अन्यत्वविकल्पितशरीरकाः ।
मनश्शक्तय एतस्माद् इमा निर्यान्ति कोटिशः ॥

3.133.65

तत्स्थास् तज्जाः पृथग्रूपास् समुद्राद् इव वीचयः ।
तत्स्थास् तज्जाः पृथक्स्थाश् च चन्द्राद् इव मरीचयः ॥

3.133.66

अस्मिन् स्पन्दमये स्फारे परमात्ममहाम्बुधौ ।
चिज्जले वितताभोगे चिन्मात्ररसशालिनि ॥

3.133.67

काश्चित् स्थिता हरिब्रह्मरुद्रचिद्वलनाधिकाः ।
लहर्यः प्रस्फुरन्त्य् एतास् स्वभावोद्भावितात्मिकाः ॥

3.133.68

काश्चिद् यममहेन्द्रार्कवह्निवैश्रवणादिकाः ।
घ्नन्ति कुर्वन्ति तिष्ठन्ति लहर्यश् चपलैषणाः ॥

3.133.69

काश्चित् किन्नरगन्धर्वविद्याधरसुरादिकाः ।
उत्पतन्ति पतन्त्य् उग्रा लहर्यः परिवल्गिताः ॥

3.133.70

काश्चित् किञ्चित्स्थिताकारा यथा कमलजादिकाः ।
काश्चिद् उत्पन्नविध्वस्ता यथा सुरनरादिकाः ॥

3.133.71

क्रिमिकीटपतङ्गादिगोनासाजगरादिकाः ।
काश्चित् तस्मिन् महाम्भोधौ स्फुरन्त्य् एतेषु बिन्दुवत् ॥

3.133.72

काश्चिच् चलाननमृगगृध्रवञ्जुलकादयः ।
स्फुरन्ति गिरिकुञ्जेषु वेलावनतटेष्व् इव ॥

3.133.73

सुदीर्घजीविताः काश्चित् काश्चिद् अत्यल्पजीविताः ।
स्वतुच्छभावनात् तुच्छात् काश्चित् तुच्छशरीरिकाः ॥

3.133.74

संसारस्वप्नसंरम्भे काश्चित् स्थैर्येण भाविताः ।
स्वविकल्पहताः काश्चिच् छङ्कन्ते सुस्थिरं जगत् ॥

3.133.75

अल्पाल्पभावनाः काश्चिद् दैन्यदोषवशीकृताः ।
कृशो ऽतिदुःखी मूढो ऽहम् इति दुःखैर् दृढीकृताः ॥

3.133.76

काश्चित् स्थावरतां याताः काश्चिद् देवत्वम् आगताः ।
काश्चित् पुरुषतां प्राप्ताः काश्चिद् दानवतां गताः ॥

3.133.77

काश्चित् स्थिता जगति कल्पशतान्य् अनल्पाः काश्चिद् व्रजन्ति परमं पुरुषं सुशुद्धाः ।
ब्रह्मार्णवात् समुदिता लहरीविलोलाश् चित्संविदो हि मननापरनामवत्यः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc