मोक्षोपाय · अध्याय 3.132
अथ वर्षसहस्रेण दिव्येन परमेश्वरः ।
भृगुः परमसम्बोधाद् विरराम समाधितः ॥
नापश्यद् अग्रे तनयं तं नयावनताननम् ।
सीमान्तं गुणसीमायाः पुण्यं मूर्तम् इव स्थितम् ॥
अपश्यत् केवलं कालं कङ्कालं पुरतो महत् ।
देहयुक्तम् इवाभाग्यं दारिद्र्यम् इव मूर्तिमत् ॥
तापशुष्कवपुः कृत्तिरन्ध्रस्फुरिततित्तिरि ।
संशुष्कान्त्रोदरगुहाछायाविश्रान्तदर्दुरम् ॥
नेत्रगर्तकसंसुप्तप्रसूनवनकीटकम् ।
मक्षिकापञ्जरप्रोतकोशकारक्रिमिव्रजम् ॥
प्राक्तनीम् उपभोगेहाम् इष्टानिष्टफलप्रदाम् ।
धाराधौतान्तया तन्वा हसच् छुष्कास्थिमालया ॥
शिरोघटेन शुभ्रेण सम्पन्नेनेन्दुवर्चसा ।
विडम्बयच् च कर्पूरप्लुतलिङ्गशिरश्श्रियम् ॥
ऋज्वा संशुष्कसितया स्वास्थिमात्रावशेषया ।
ग्रीवयात्मानुसृतया दीर्घीकुर्वद् इवाकृतिम् ॥
मृणालिकापाण्डुरया धारावधुतमांसया ।
नासास्थिलतया वक्त्रं कृतसीमाक्रमं दधत् ॥
दीर्घकन्धरया नूनम् उत्तानीकृतवक्त्रया ।
प्रेक्षमाणम् इव प्राणान् उत्क्रान्तान् अम्बरोदरे ॥
जङ्घोरुजानुदोर्दण्डैर् द्विगुणं दीर्घतां गतैः ।
प्रमिमाणम् इवाशान्तं दीर्घाध्वश्रमभीतितः ॥
उदरेणातिनिम्नेन चर्मशेषेण शोषिणा ।
प्रदर्शयद् इवाज्ञस्य हृदयस्यातिशून्यताम् ॥
प्रेक्ष्य तच् छुष्ककङ्कालम् आलानम् इव दन्तिनः ।
पूर्वापरपरामर्शम् अकुर्वन् भृगुर् उत्थितः ॥
आलोकसमकालं हि प्रतिभातं ततो भृगोः ।
चिरम् उत्क्रान्तजीवः किं मत्पुत्रो ऽयम् इति क्षणात् ॥
अचिन्तयत एवास्य भविष्यत्ताबलं ततः ।
कालं प्रति बभूवाशु कोपः परमदारुणः ॥
अकाल एव मत्पुत्रो नीतः किम् इति कोपितः ।
कालाय शापम् उत्स्रष्टुं भगवान् उपचक्रमे ॥
अथाकलितरूपो ऽसौ कालः कवलितप्रजः ।
आधिभौतिकम् आस्थाय वपुर् मुनिम् उपाययौ ॥
खड्गपाशधरश् श्रीमान् कुण्डली कवचान्वितः ।
षड्भुजष् षण्मुखो बह्व्या वृतः किङ्करसेनया ॥
यच्छरीरसमुत्थेन ज्वालाजालेन वल्गता ।
फुल्लकिंशुकवृक्षस्य बभाराद्रेश् श्रियं नभः ॥
यत्करस्थत्रिशूलाग्रनिष्ठ्यूतैर् अग्निमण्डलैः ।
विरेजुर् उदितैर् आशाः कानकैर् इव कुण्डलैः ॥
यत्पाशश्वसनायस्तशिखरा मेदिनीभृतः ।
दोलाम् इव समारूढाश् चेलुः पेतुश् च घूर्णिताः ॥
यत्खड्गमण्डलोद्द्योतश्यामं बिम्बं विवस्वतः ।
कल्पदग्धजगद्धूमपर्याकुलम् इवाबभौ ॥
स उपेत्य महाबाहुः कुपितं तं महामुनिम् ।
कल्पक्षुब्धाब्धिगम्भीरं सान्त्वपूर्वम् उवाच ह ॥
विज्ञातलोकस्थितयो मुने दृष्टपरावराः ।
हेतुनापि न मुह्यन्ति किम् उ हेतुम् विनोत्तमाः ॥
त्वम् अनन्ततपा विप्रो वयं नियतिपालकाः ।
तेन सम्पूज्यसे पूज्य साधो नेतरयेच्छया ॥
मा तपः क्षपय क्षुब्धैः कल्पकालमहानलैः ।
यो न दग्धो ऽस्मि मे तस्य किं त्वं शापेन धक्ष्यसि ॥
संसारावलयो ग्रस्ता निगीर्णा रुद्रकोटयः ।
भुक्तानि विष्णुवृन्दानि केन शप्ता वयं मुने ॥
भोक्तारो हि वयं ब्रह्मन् भोजनं युष्मदादयः ।
स्वयं नियतिर् एषा हि नावयोर् एतद् ईहितम् ॥
स्वयम् ऊर्ध्वं प्रयात्य् अग्निस् स्वयं यान्ति पयांस्य् अधः ।
भोक्तारं भोजनं याति सृष्टिश् चाप्य् अन्तकं स्वयम् ॥
इदम् इत्थं मुने रूपम् अस्येह परमात्मनः ।
स्वात्मनि स्वयम् एवात्मा स्वत एव विजृम्भते ॥
नेह कर्ता न भोक्तास्ति दृष्ट्या नष्टकलङ्कया ।
बहवश् चेह कर्तारो दृष्ट्यानष्टकलङ्कया ॥
कर्तृताकर्तृते ब्रह्मन् केवलं परिकल्पिते ।
असम्यग्दर्शनेनैव न सम्यग्दर्शनेन वः ॥
पुष्पाणि तरुषण्डेषु भूतानि भुवनेषु च ।
स्वयम् आयान्ति यान्तीह कल्प्यते हेतुता विधेः ॥
अब्बिम्बितस्य चन्द्रस्य चलने कर्त्रकर्तृते ।
न सत्ये नानृते यद्वत् तद्वत् कालस्य सृष्टिषु ॥
मनो मिथ्याभ्रमाल् लोके कर्तृताकर्तृतामयीम् ।
करोति कलनां रज्ज्वां भ्रान्तेक्षण इवाहिताम् ॥
तेन मा गा मुने कोपम् आपदाम् ईदृशः क्रमः ।
यद् यथा तत् तथैवास्तु सत्यम् आलोकयाकुलः ॥
न वयं प्रभुतार्थेन नाभिमानवशीकृताः ।
स्वतो हेवाकवशतः केवलं नियतौ स्थिताः ॥
प्रकृतव्यवहारेहां नियतां नियतेर् वशात् ।
प्राज्ञस् समनुवर्तेत नाभिमानमहातमाः ॥
कर्तव्यम् एव क्रियते केवलं कार्यकोविदैः ।
सौषुप्तीं वृत्तिम् आश्रित्य कयाचिद् अपि नाशया ॥
क्व सा ज्ञानमयी दृष्टिः क्व महत्त्वं क्व धीरता ।
मार्गे सर्वप्रसिद्धे हि किम् अन्ध इव मुह्यसि ॥
त्रिकालामलदर्शित्वं धारयन्न् अपि चेतसि ।
अविचार्य जगद्यात्रां किं मूर्ख इव मुह्यसि ॥
स्वकर्मफलपाकोत्थाम् अविचार्य दशां सुते ।
किं मूर्ख इव सर्वज्ञ मुधा मां शप्तुम् अर्हसि ॥
देहिनाम् इह सर्वेषां शरीरं द्विविधं मुने ।
किं न जानासि वा देहम् एकम् अन्यन् मनोऽभिधम् ॥
तत्र देहो जडो ऽत्यर्थं विनाशैकपरायणः ।
मनस् तूत्थाननियतं कदर्थात् क्षीयते न वा ॥
चतुरेण यथा साधो रथस् सारथिनोह्यते ।
कुर्वता किञ्चन स्वेहां देहो ऽयं मनसा तथा ॥
असत् सङ्कल्प्य क्रियते सच् छरीरं विनाश्यते ।
क्षणेन मनसा पङ्कपुरुषश् शिशुना यथा ॥
चित्तम् एवेह पुरुषस् तत्कृतं कृतम् उच्यते ।
तद् बद्धं कलनाहेतोः कलनास्तं विमुच्यते ॥
अयं देह इदं नेत्रम् इदम् अङ्गम् इदं शिरः ।
इदं स्फारविकारं तन् मन एवाभिधीयते ॥
मनो हि जीवज् जीवाख्यं निश्चायकतया तु धीः ।
अहङ्कारो ऽभिमानित्वान् नानात्वं त्व् इदम् एति हि ॥
देहवासनया चेतस् त्व् अन्यानि स्वानि चेद्धया ।
पार्थिवानि शरीराणि सन्तीव परिपश्यति ॥
आलोकयति चेत् सत्यं तद् असत्यमयीं मनः ।
शरीरभावनां त्यक्त्वा परमां याति निर्वृतिम् ॥
तन् मनस् तव पुत्रस्य समाधौ त्वयि संस्थिते ।
स्वमनोरथमार्गेण दूराद् दूरतरं गतम् ॥
इदम् औशनसं त्यक्त्वा देहं मन्दरकन्दरे ।
प्रयातं वैबुधं सद्म नीडोड्डीनः खगो यथा ॥
तत्र मन्दारकुञ्जेषु पारिजातगृहेषु च ।
नन्दनोद्यानषण्डेषु लोकपालपुरेषु च ॥
मुने चतुर्युगान्य् अष्टौ विश्वाचीं देवसुन्दरीम् ।
असेवत महातेजाष् षट्पदः पद्मिनीम् इव ॥
तीव्रसंवेगसम्पन्नस् स्वसङ्कल्पोपकल्पिते ।
अथ पुण्यक्षये जाते नीहार इव शार्वरे ॥
प्रम्लानकुसुमोत्तंसस् स्विन्नाङ्गावलयालसः ।
स पपात तया साकं कालपक्वं फलं यथा ॥
वैबुधं तत् परित्यज्य नभस्य् एव शरीरकम् ।
भूताकाशम् अथासाद्य वसुधायाम् अजायत ॥
आसीद् द्विजो दशार्णेषु कोसलेषु महीपतिः ।
धीवरो ऽङ्गमहाटव्यां हंसस् त्रिपथगातटे ॥
सूर्यवंशी नृपः पौण्ड्रे सौरस् साल्वेषु दैशिकः ।
कल्पं विद्याधरश् श्रीमान् धीमान् अथ मुनेस् सुतः ॥
मद्रेष्व् अथ महीपालस् ततस् तापसबालकः ।
वासुदेव इति ख्यातस् समङ्गायास् तटे स्थितः ॥
अन्यास्व् अपि विचित्रासु वासनावशतस् स्वयम् ।
विषमास्व् एष पुत्रस् ते चचारानन्तयोनिषु ॥
अभूद् विन्ध्यवने गोपः किरतः केकयेषु च ।
सौवीरेषु च सामन्तस् त्रैगर्तश् चैव दैशिकः ॥
वंशगुल्मः किरातेषु हरिणश् चीरजङ्गले ।
सरीसृपस् तालतले तमाले वनकुक्कुटः ॥
अयं स पुत्रो भवतो भूत्वा मन्त्रविदां वरः ।
प्रजजाप पुरा विद्यां विद्याधरपदप्रदाम् ॥
तेनासौ भगवन् ब्रह्मन् व्योम्नि विद्याधरो महान् ।
हारकुण्डलकेयूरी लीलानिचयलासकः ॥
नायिकानलिनीभानुः पुष्पचाप इवापरः ।
विद्याधरीणां दयितो गन्धर्वपुरभूषणम् ॥
स कल्पावधिम् आसाद्य द्वादशादित्यधामनि ।
जगाम भस्मशेषत्वं शलभः पावके यथा ॥
जगन्निर्माणरहिते स्फारे नभसि सा ततः ।
वासना तस्य बभ्राम निर्नीडा विहगी यथा ॥
अथ कालेन सञ्जाते विचित्रारम्भकारिणि ।
संसाराडम्बरारम्भे ब्राह्मी रात्रिविपर्यये ॥
सा मनोवासना तस्य वातव्यावलिता सती ।
कृते ब्राह्मणताम् एत्य जाताद्य वसुधातले ॥
वासुदेवाभिधानो ऽसौ मुने विप्रकुमारकः ।
जातो मतिमतां मध्ये समधीताखिलश्रुतिः ॥
कल्पं विद्याधरो भूत्वा नद्या अद्य महामुने ।
तपश् चरति ते पुत्रस् समङ्गायास् तटे स्थितः ॥
विविधविषमवासनानुवृत्त्या खदिरकरञ्जकरालकोटरासु ।
जगति जरढयोनिषु प्रयातो गहनतरासु च काननस्थलीषु ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0