भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.134

3.134.1

सुरासुरनराकारा इमा यास् संविदो मुने ।
ब्रह्मार्णवाद् अभिन्नास् ते सत्यम् एतन् मृषेतरत् ॥

3.134.2

मिथ्याभावनया ब्रह्मन् स्वविकल्पकलङ्किताः ।
न ब्रह्म वयम् इत्य् अन्तर्निश्चयेन ह्य् अधोगताः ॥

3.134.3

ब्रह्मणो व्यतिरिक्तत्वं ब्रह्मार्णवगता अपि ।
भावयन्त्यो विमुह्यन्ति भीमासु भवभूमिषु ॥

3.134.4

या एतास् संविदो ब्राह्म्यो मुने नैककलङ्किताः ।
एतत् तत् कर्मणां बीजम् अथ कर्मैव विद्धि वा ॥

3.134.5

सङ्कल्परूपयैवान्तर् मुने कलनयैतया ।
कर्मजालकरञ्जानां बीजमुष्ट्या करालया ॥

3.134.6

इमा जगति विस्तीर्णे शरीरोपलपङ्क्तयः ।
तिष्ठन्ति परिवल्गन्ति रुदन्ति च हसन्ति च ॥

3.134.7

आब्रह्मस्तम्बपर्यन्तं स्पन्दनैः पवनो यथा ।
उल्लसन्ति नियच्छन्ति म्लायन्ति विहसन्ति च ॥

3.134.8

ता एताः काश्चिद् अत्यच्छा यथा हरिहरादयः ।
काश्चिद् अल्पविमोहस्था यथोरगनरामराः ॥

3.134.9

काश्चिद् अत्यन्तमोहस्था यथा तरुतृणादयः ।
काश्चिद् अज्ञानसम्मूढाः क्रिमिकीटत्वम् आगताः ॥

3.134.10

काश्चित् तृणवद् उह्यन्ते दूरे ब्रह्ममहोदधेः ।
अप्राप्तभूमिका एता यथोरगनरादयः ॥

3.134.11

तटमात्रं समालोक्य काश्चित् खेदम् उपागताः ।
जाताजाता निखन्यन्ते कृतान्तजरदाखुना ॥

3.134.12

काश्चिद् अन्तरम् आसाद्य ब्रह्मतत्त्वमहाम्बुधेः ।
गतास् तत्ताम् अशोकाय हरिब्रह्महरादिकाः ॥

3.134.13

अल्पमोहान्विताः काश्चित् तम् एव ब्रह्मवारिधिम् ।
अदृष्टरागरोगौघम् अवलम्ब्य व्यवस्थिताः ॥

3.134.14

काश्चिद् भोक्तव्यजन्मौघा भुक्तजन्मौघकोटयः ।
वन्ध्याः प्रकाशतामस्यस् संस्थिता भूतजातयः ॥

3.134.15

काश्चिद् ऊर्ध्वाद् अधो यान्ति तथाधस्तान् महत् पदम् ।
ऊर्ध्वाद् ऊर्ध्वतरं काश्चिद् अधस्तात् काश्चिद् अप्य् अधः ॥

3.134.16

बहुसुखदुःखकटङ्कटा क्रियेयं परमपदास्मरणात् समागतेह ।
परमपदावगमात् प्रयाति नाशं विहगपतिस्मरणाद् विषव्यथेव ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc