भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.131

3.131.1

इति चिन्तयतस् तस्य शुक्रस्य पितुर् अग्रतः ।
जगामातितरां कालो बहुसंवत्सरात्मकः ॥

3.131.2

अथ कालेन महता पवनातपजर्जरः ।
कायस् तस्य पपातोर्व्यां छिन्नमूल इव द्रुमः ॥

3.131.3

मनस् तु चञ्चलाभोगं तासु तासु दशासु च ।
बभ्रामातिविचित्रासु वनराजिष्व् इवैणकः ॥

3.131.4

भ्रान्तम् उद्भ्रान्तम् अभितश् चक्रार्पितम् इवाकुलम् ।
मनस् तस्य विशश्राम समङ्गासरितस् तटे ॥

3.131.5

अनन्तवृत्तान्तघनां पेलवां सुदृढाम् अपि ।
तां संसृतिदशां शुक्रो विदेहो ऽनुभवन् स्थितः ॥

3.131.6

मन्दराचलसानुस्था सा तनुस् तस्य धीमतः ।
तापप्रसरसंशुष्का चर्मशेषा बभूव ह ॥

3.131.7

शारीररन्ध्रप्रवहद्वातशीत्काररूपया ।
चेष्टादुःखक्षयानन्दात् काकल्येव स्म गायति ॥

3.131.8

प्राणानुस्मरणोच्छ्वासम् इव बाष्पं स्म मुञ्चति ।
चण्डानिलविलासेन लुलित्वा वनभूमिषु ॥

3.131.9

मनोवराकम् अवटे लुठितं भवभूमिषु ।
हसन्तीवातिशुभ्राभ्रसितया दन्तमालया ॥

3.131.10

दर्शयन्ती स्वकं शून्यं वपुर् अक्ष्णोर् अकृत्रिमम् ।
मुखारण्यजरत्कूपरूपया गर्तशोभया ॥

3.131.11

तापोपतप्ता संसिक्ता वर्षाजलभरेण सा ।
पांसुना पवनोत्थेन दुष्कृतेनेव रूषिता ॥

3.131.12

शुष्ककाष्ठवद् आलोला पातेषु कृतझाङ्कृता ।
धारानिकरपातेन विनुन्ना जलदागमे ॥

3.131.13

प्रावृण्निर्झरपूरेण प्लुता गिरिनदीतटे ।
तारमारुतशीत्कारा वनोपल इव स्थिता ॥

3.131.14

वक्रा शुष्कान्त्रतन्त्री च पूता झाङ्कारकारिणी ।
अरण्यलक्ष्मीवीणेव शून्यचर्ममयोदरी ॥

3.131.15

रागद्वेषविहीनत्वात् तस्य पुण्याश्रमस्य तु ।
महातपस्त्वाच् च भृगोर् न भुक्ता मृगपक्षिभिः ॥

3.131.16

यमनियमकृशीकृताङ्गयष्टेश् चरति तपस् स्म भृगूद्वहस्य चेतः ।
तनुर् अथ पवनापनीतरक्ता चिरम् अलुठन् महतीषु सा शिलासु ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc