मोक्षोपाय · अध्याय 3.122
नाभिनन्दति सम्प्राप्तं नाप्राप्तम् अभिशोचति ।
केवलं विगताशङ्कस् सम्प्राप्तम् अनुवर्तते ॥
त्वयापि राघव ज्ञातं ज्ञातव्यम् अखिलान्तरम् ।
मन्ये ते सर्वकार्येभ्यो वासनास् तनुतां गताः ॥
शरीरातीतवृत्तिस् त्वं शरीरस्थो ऽथवा भव ।
मा गाश् शोकं च हर्षं च त्वम् आत्मा विगतामयः ॥
त्वय्य् आत्मनि स्थिते स्वच्छे सर्वगे सततोदिते ।
कुतो दुःखसुखे राम कुतो मरणजन्मनी ॥
अबन्धुर् अपि कस्मात् त्वं बन्धुदुःखानि शोचसि ।
अद्वितीये स्थिते ह्य् अस्मिन् बान्धवाः क इवात्मनि ॥
दृश्यते केवलं देहपरमाणुचयः परम् ।
देशकालान्यतापत्तेर् नात्मोदेति न लीयते ॥
अविनाशो ऽपि कस्मात् त्वं विनश्यामीति शोचसि ।
अमृत्युवशिनि स्वच्छे विनाशः क इवात्मनि ॥
घटे कपालतां याते घटाकाशो न नश्यति ।
यथा तथा शरीरे ऽस्मिन् नष्टे त्वं न विनश्यसि ॥
मृगतृष्णातरङ्गिण्यां क्षीणायां नातपो यथा ।
विनश्यति तथा देहे नष्टे नात्मा विनश्यति ॥
वाञ्छैवोदेति ते कस्माद् भ्रान्तिर् अन्तर् निरर्थिका ।
अद्वितीयो द्वितीयं तत् किं वस्त्व् आत्माभिवाञ्छतु ॥
श्रव्यं स्पृश्यं तथा दृश्यं रम्यं घ्रेयं च राघव ।
न किञ्चिद् अस्ति जगति व्यतिरिक्तं यद् आत्मनः ॥
सर्वशक्ताव् इमास् तस्मिन्न् आत्मन्य् एवाखिलास् स्थिताः ।
शक्तयो वितते व्यक्ते आकाश इव शून्यताः ॥
चित्ताद् राघव रूढेयं त्रिलोकीललनोदरे ।
त्रिविधेन क्रमेणेह जनता जनितभ्रमा ॥
मनःप्रशमने सिद्धे वासनाक्षयनामनि ।
कर्मक्षयाभिधाने च मायेयं प्रविनश्यति ॥
संसारोग्रारघट्टे ऽस्मिन् या दृढा यन्त्रवाहिनी ।
रज्जुस् तां वासनाम् एतां छिन्द्धि राघव यत्नतः ॥
अपरिज्ञायमानैषा महामोहप्रदायिनी ।
परिज्ञाता त्व् अनन्ताख्यसुखदा ब्रह्मगामिनी ॥
आगता ब्रह्मणो भुक्त्वा संसारम् इह लीलया ।
पुनर् ब्रह्मैव संस्मृत्य ब्रह्मण्य् एव विलीयते ॥
शिवाद् राघव नीरूपाद् अप्रमेयान् निरामयात् ।
सर्वभूतानि जातानि प्राकाश्यानीव तेजसः ॥
रेखावृन्दं यथा पर्णे वीचिजालं यथा जले ।
कटकादि यथा हेम्नि तथौष्ण्यादि यथानले ॥
तदतद्भावभूतं हि तथेदं भुवनत्रयम् ।
तस्मिन्न् एव स्थितं तज्जं तस्माद् एव तद् एव च ॥
स एष सर्वभूतानाम् आत्मा ब्रह्मेति कथ्यते ।
तस्मिञ् ज्ञाते जगज् ज्ञातम् अज्ञाते ऽज्ञातम् एव तत् ॥
शास्त्रसंव्यवहारार्थं तस्यास्य वितताकृतेः ।
चिद् ब्रह्मात्मेति नामानि कल्पितानि कृतात्मभिः ॥
विषयेन्द्रियसंयोगे हर्षामर्षविवर्जिता ।
यैषा शुद्धानुभूतिर् हि सो ऽयम् आत्मा चिदव्ययः ॥
आकाशातितराच्छाच्छम् इदं तस्मिंश् चिदात्मनि ।
स्वाभोग एव हि जगत् पृथग्वत् प्रतिबिम्बति ॥
बुद्धास् तद्व्यतिरेकेण लोभमोहादयो ऽरिताम् ।
यान्त्य् अथाव्यतिरेकेण बुद्धास् तस्मिंस् तदैव ते ॥
अदेहस्यैव ते नाम निर्विकल्पचिदाकृतेः ।
लज्जाभयविषादाख्यः कुतो मोहस् समुत्थितः ॥
अदेहो देहजैर् दोषैर् लज्जादिभिर् असन्मयैः ।
किं मूर्ख इव दुर्बुद्धे विकल्पैर् अभिभूयसे ॥
अखण्डचितिरूपस्य देहे खण्डनम् आगते ।
असम्यग्दर्शिनो ऽप्य् अस्ति न नाशः किम् उ सन्मतेः ॥
यद् एतद् अर्कमार्गे ऽपि न विरुद्धगमागमम् ।
चित्त्वं राम स विज्ञेयः पुरुषो न शरीरकम् ॥
शरीरे सत्य् असति वा पुमान् एष जगत्त्रये ।
ज्ञो ऽप्य् अज्ञो ऽपि स्थितो राम नष्टे देहे न नश्यति ॥
यानीमानि विचित्राणि दुःखानि परिपश्यसि ।
तानि सर्वाणि देहस्य नाग्राह्यस्य चिदात्मनः ॥
मनोमर्गाद् अतीतत्वाद् यासौ शून्यम् इव स्थिता ।
चित् कथं नाम सा दुःखैस् सुखैर् वा परिगृह्यते ॥
संविदात्मा तद् अस्मात् तु विशिष्टाद् देहपञ्जरात् ।
अभ्यस्तां वासनां याति षट्पदः खम् इवाम्बुजात् ॥
असच् चेद् आत्मतत्त्वं तद् अस्मिंस् ते देहपञ्जरे ।
नष्टे किं नाम नष्टं स्याद् राम येनानुशोचसि ॥
सत्यं भावय तेन त्वं मा मोहम् अनुभावय ।
निरिच्छस्यात्मनो नेच्छाः काश्चिद् अप्य् अनघाकृतेः ॥
साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि ।
स्वयं जगन्ति दृश्यन्ते सन्मणाव् इव रश्मयः ॥
निरिच्छम् अभिसम्बन्धो यथा दर्पणबिम्बयोः ।
स्वभाववशसम्पन्नस् तथा चिज्जगतोर् अयम् ॥
द्वित्वैकत्वे स्थिते यद् वर्मकुरप्रतिबिम्बयोः ।
तथैवेहात्मजगतोर् भेदाभेदौ व्यवस्थितौ ॥
सूर्यसन्निधिमात्रे तु यथोदेति भुवि क्रिया ।
चित्सत्तामात्रकेनेदं जगन् निष्पद्यते तथा ॥
पिण्डग्रहे निवृत्ते ऽस्या एवं राम जगत्स्थितेः ।
आकाशम् एषा सम्पन्ना भवताम् अपि चेतसि ॥
सत्तामात्रेण दीपस्य यथा दीप्तिस् स्वभावतः ।
चित्तत्त्वस्य स्वभावात् तु तथेयं जागती क्रिया ॥
पूर्वं मनस् समुदितं परमात्मतत्त्वात् तेनाततं जगद् इदं स्वविकल्पजालम् ।
शून्येन शून्यम् अमलेन यथाम्बरेण नीलत्वम् उल्लसति चारुलताभिरामम् ॥
सङ्कल्पसङ्क्षयवशाद् गलिते तु चित्ते संसारमोहमिहिका गलिता भवन्ति ।
स्वच्छं विभाति शरदीव खम् आश्रितायां चिन्मात्रम् एकम् अजम् आद्यम् अनन्तम् अन्तः ॥
कर्मात्मकं प्रथमम् एव मनो ऽभ्युदेति सङ्कल्पतः कमलजप्रकृतिं तद् एत्य ।
नानाविधं जगद् अनन्तम् इदं तनोति वेतालदेहकलनाम् इव मुग्धबालः ॥
असन्मयं सद् इव पुरोपलक्ष्यते पुनर् भवत्य् अथ परिलीयते पुनः ।
स्वयं मनश् चिति विततं स्फुरद्वपुर् महार्णवे जलवलयावली यथा ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0