मोक्षोपाय · अध्याय 3.121
केनचित् त्व् अथ कालेन ग्रामके ऽस्मिञ् जनेश्वर ।
अवृष्टिदुःखम् अभवद् भीषणं भग्नमानवम् ॥
महतानेन दुःखेन सर्वे ते ग्रामकाज् जनाः ।
विनिर्गत्य गता दूरं तत्र पञ्चत्वम् आगताः ॥
तेनेमा दुःखभागिन्यश् शून्या वयम् इह प्रभो ।
शोच्याश् शोचाम उद्बाष्पम् आचान्तेक्षणवारयः ॥
इत्य् आकर्ण्याङ्गनावक्त्राद् राजा विस्मयम् आगतः ।
मन्त्रिणां मुखम् आलोक्य चित्रार्पित इवाभवत् ॥
भूयो विचारयाम् आस तद् आश्चर्यम् अनुत्तमम् ।
भूयो भूयश् च पप्रच्छ बभूवाश्चर्यवान् अति ॥
तेषां समुचितैर् मानसम्मानैर् दुःखसङ्क्षयम् ।
कृत्वा करुणयाविद्धो दृष्टलोकपरावरः ॥
स्थित्वा तत्र चिरं कालं विमृश्य नियतेर् गतीः ।
आजगाम पुरं पौरैर् वन्दितः प्रविवेश च ॥
प्रातस् तत्र सभास्थाने माम् अपृच्छद् असौ नृपः ।
कथम् एष मुने स्वप्नः प्रत्यक्ष इति विस्मितः ॥
यथावस्तु मया तस्य तत्तद्युक्त्या स तादृशः ।
संशयो हृदयान् नुन्नो वातेनेवाम्बुदोदयः ॥
इतीयं राघवाविद्या महती भ्रमदायिनी ।
असत् सत्तां नयत्य् आशु सच् चासत्तां नयत्य् अलम् ॥
कथम् एवं वद ब्रह्मन् स्वप्नस् सत्यत्वम् आगतः ।
भ्रमभार इवैषो ऽर्थो न मे लगति चेतसि ॥
सर्वम् एतद् अविद्यायां सम्भवत्य् एव राघव ।
घटेषु पटता दृष्टा स्वप्नसम्भ्रमणादिवत् ॥
दूरं निकटवद् भाति मकुरे ऽन्तर् इवाचलः ।
चिरं शीघ्रत्वम् आयाति यूनस् सेष्टेव यामिनी ॥
असम्भवं सम्भवति स्वप्ने स्वमरणं यथा ।
असच् च सद् इवोदेति स्वप्नेष्व् इव नभोगतिः ॥
सुस्थिरं सुष्ठु चलति भ्रमे भूमिविवर्तवत् ।
अबलो बलम् आयाति मदविक्षुब्धचित्तवत् ॥
वासनावलितं चेतो यद् यथा भावयत्य् अलम् ।
तत् तथानुभवत्य् आशु न सद् अस्ति न चाप्य् असत् ॥
यदैवाभ्युदिताविद्या त्व् अहन्तादिमयी मुधा ।
तदैवानादिमध्यान्ता भ्रमस्यानन्ततोदिता ॥
प्रतिभासवशाद् एव सर्वं विपरिवर्तते ।
क्षणः कल्पत्वम् आयाति कल्पश् च भवति क्षणः ॥
विपर्यस्तमतिर् जन्तुः काम् अवस्थां न वापतेत् ।
बिभर्ति सिंहताम् एणो वासनावशतस् स्वयम् ॥
विषभ्रममदाविद्यामोहाहन्तादयस् समाः ।
सर्वे चित्तविपर्यासात् फलसम्पत्तिहेतवः ॥
काकतलीयवच् चेतोवासनावशतस् स्वतः ।
संविशन्ति महारम्भा व्यवहाराः परस्परम् ॥
वृत्तं प्राक् पक्कणे राज्ञः कस्यचिल् लवणस्य यत् ।
प्रतिभातं तद् एतस्य सद् वासद् वा मनोगतम् ॥
विस्मरत्य् अपि विस्तीर्णां क्रियां चेतःकृतां यथा ।
तथा कृताम् अप्य् अकृताम् इति स्मरति निश्चितम् ॥
तथाप्य् अभुक्तवान् अस्मि भुक्तवान् इति वेत्ति हि ।
स्वप्ने देशान्तरगमश् चाकृतो ऽप्य् अवबुध्यते ॥
विन्ध्यपुक्कसक्तग्रामव्यवहारो ऽयम् ईदृशः ।
प्रतिभासागतस् तस्य स्वप्ने पूर्वकथा यथा ॥
अथ वा लवणेनाशु दृष्टो यस् स्वप्नविभ्रमः ।
स एव संविदं प्राप्तो विन्ध्यपुक्कसचेतसः ॥
विन्ध्यपुक्कससंविद् वारूढा पार्थिवचेतसि ।
यथा बहूनां सदृशं वचनं नाम चाननम् ॥
तथा स्वप्नो ऽपि भवति कालो देशः क्रियापि च ।
व्यवहारगतेस् त्व् अस्यास् सत्तास्ति प्रतिभासतः ॥
सत्ता सर्वपदार्थानां नान्या संवेदनाद् ऋते ।
संवेदने ऽन्तर् आभाति विचित्रा सर्गसन्ततिः ॥
भूतभव्यभविष्यत्स्था तरुबीजे तरुर् यथा ।
तस्यास् सत्त्वम् असत्त्वं च न सन् नासद् इति स्थितम् ॥
सत् सद् एव हि संवित्तेर् असंवित्तेर् न सन्मयम् ।
नाविद्या विद्यते किञ्चित् तैलादि सिकतास्व् इव ॥
हेम्नः किं कटुकत्वं तद् अन्यत् स्याद् धेमतां विना ।
अविद्ययात्मनो ऽच्छस्य सम्बन्धो नोपपद्यते ॥
सम्बन्धस् सदृशानां यस् स स्फुटस् सो ऽनुभूतिदः ।
जतुकाष्ठादिसम्बन्धो यस् स नो समयोर् अतः ॥
नान्योऽन्यानुभवात्मासौ तद् एकास्पदमात्रकम् ।
परमार्थमयं सर्वं यदा तेनोपलादयः ॥
चिता समभिचेत्यन्ते सम्बन्धवशतस् समात् ।
यदा चिन्मात्रसन्मात्रमयास् सर्वे जगद्गताः ॥
भावास् तदा विभान्त्य् एते मिथस् स्वानुभवस्थितौ ।
न सम्भवति सम्बन्धो विषमाणां निरन्तरः ॥
न परस्परसम्बन्धाद् विनानुभवनं मिथः ।
सदृशे सदृशं वस्तु क्षणाद् गत्वैकताम् अलम् ॥
रूपम् आस्फारयत्य् एकम् एकत्वाद् एव नान्यथा ।
चिच् चिता मिलिता दृश्यरूपयोदेति चेतनम् ॥
जडं जडेन मिलितं जडं सम्पद्यते घनम् ।
न च चिज्जडयोर् ऐक्यं वैलक्षण्यात् क्वचिद् भवेत् ॥
चिज्जडौ चेत् स्त एकत्र न तौ सम्मिलतः क्वचित् ।
चिन्मयत्वाच् चिदालेहे चिदालेहेन वेदनम् ॥
दारुपाषाणभेदानां न तु ह्य् एते चिदात्मकाः ।
पदार्थो हि पदार्थेन परिणम्यानुभूयते ॥
जिह्वयेव रसस् सा च सजातीयोदया चला ।
ऐक्यं च विद्धि सम्बन्धं नास्त्य् असारससारयोः ॥
जडचेतनयोस् तेन नोपलादि जडं मतम् ।
चिद् एवोपलकुड्यादिरूपिणी मिलिता चिता ॥
एकीभावं गता द्रष्टृदृश्यादि कुरुते भ्रमम् ।
काष्ठोपलाद्य् अशेषं हि परमार्थमयं यदा ॥
तदात्मनान्तस्सम्बद्धं दृश्यत्वेनोपलभ्यते ।
सर्वं सर्वप्रकाराढ्यम् अनन्तम् इव यत् ततम् ॥
विश्वं सन्मात्रम् एवैतद् विद्धि तत्त्वविदां वर ।
असताप्य् अङ्ग विश्वेन विश्वलक्षशतभ्रमैः ॥
पूरितश् चिच्चमत्कारो न च किञ्चन पूरितम् ।
सङ्कल्पनगरा नॄणां मिथः पश्यति नो यथा ॥
न देशकालबोधाय तथा सर्गाश् चिति स्थिताः ।
भेदबोधो हि सर्गत्वम् अहन्तादिभ्रमोदयः ॥
हेमसंवित्परित्यागे कटकादिभ्रमो यथा ।
कटकादिभ्रमो हेम्नि देशादेस् सम्भवाद् भवेत् ॥
त्वद्दर्शनपरीतात् तु नाविद्यास्ति पृथक् परा ।
कटकादिमहाभेदम् एकं ब्रह्म तथामलम् ॥
बोधैकत्वाद् अयं सर्गस् सत्तैवासद् भवत्य् अलम् ।
सेना मृत्संविदा चित्रा मृण्मात्रम् इव मृण्मयी ॥
जलम् एकं तरङ्गादि दार्व् एकं सालभञ्जिकाः ।
मृण्मात्रम् एकं कुम्भादि ब्रह्मैकं त्रिजगद्भ्रमः ॥
सम्बन्धे द्रष्टृदृश्यानां मध्ये द्रष्टुर् हि यद् वपुः ।
द्रष्टृदर्शनदृश्यादिवर्जितं तद् इदं परम् ॥
देशाद् देशं गते चित्ते मध्ये यश् चेतसो वपुः ।
अजाड्यसंविन्मननं तन्मयो भव सर्वदा ॥
अजाग्रत्स्वप्ननिद्रस्य यत् ते रूपं सनातनम् ।
अचेतनं चाजडं च तन्मयो भव सर्वदा ॥
जडतां वर्जयित्वैकां शिलाया हृदयं हि यत् ।
अक्षुब्धो वाथवा क्षुब्धस् तन्मयो भव राघव ॥
कस्यचित् किञ्चनापीह नोदेति न विलीयते ।
अक्षुब्धो वाथवा क्षुब्धस् स्वस्थस् तिष्ठ यथासुखम् ॥
नाभिवाञ्छति न द्वेष्टि देहे किञ्चित् क्वचित् पुमान् ।
स्वस्थस् तिष्ठ निराशङ्कं देहवृत्तिम् उपागतः ॥
भविष्यद्ग्रामकग्राम्यकार्ये तिष्ठसि नो यथा ।
चित्तवृत्तिषु मा तिष्ठ तथा तथ्यात्मतां गतः ॥
यथा देशान्तरनरो यथा काष्ठं यथोपलः ।
तथैव पश्य चित्तं त्वम् अचित्तैव यथात्मता ॥
यथा दृषदि नास्त्य् अम्बु यथाम्भस्य् अनलस् तथा ।
स्वात्मन्य् एवास्ति नो चित्तं परमात्मनि तत् कुतः ॥
प्रेक्ष्यमाणं न यत् किञ्चित् तेन यत् क्रियते क्वचित् ।
कृतं भवति तन् नेति मत्वा चित्तातिगो भव ॥
अत्यन्तानात्मभूतस्य चेच् चित्तस्यानुवर्तसे ।
पर्यन्तवासिनः कस्मान् न म्लेच्छस्यानुवर्तसे ॥
निरन्तरम् अनादृत्य त्वम् आराच् चित्तपुक्कसम् ।
स्वस्थम् आस्स्व निराशङ्कं पङ्केनेव कृतो जडः ॥
चित्तं नास्त्य् एव मे भूतं मृतम् एवाद्य वेति च ।
भव निश्चयवान् भूत्वा शिलापुरुषनिश्चलः ॥
प्रेक्षायाम् अस्ति नो चित्तं तद्विहीनो ऽसि तत्त्वतः ।
तत् किमर्थम् अनर्थेन तदर्थेन कदर्थ्यसे ॥
असता चित्तयक्षेण ये ऽथवातिवशीकृताः ।
तेषां पेलवबुद्धीनां चन्द्राद् अशनिर् उत्थिता ॥
चित्तं दूरे परित्यज्य यो ऽसि सो ऽसि स्थिरो भव ।
भव भावनया मुक्तो युक्त्या परमयान्वितः ॥
असतो ये ऽनुवर्तन्ते चेतसो ऽसत्त्वरूपिणः ।
व्योमकाननकर्मैकनीतकालान् धिग् अस्तु तान् ॥
व्यपगलितमना महानुभावो भव भवपारम् उपागतामलात्मा ।
सुचिरम् अपि विचारितं न लब्धमलम् अलम् आत्मनि मानसात्म किञ्चित् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0