मोक्षोपाय · अध्याय 3.123
एवं तावद् इदं विद्धि दृश्यं जगद् इति स्थितम् ।
अहं चेत्याद्य् अनाकारं भ्रान्तिमात्रम् असन्मयम् ॥
अकर्तृकम् अनङ्गं च गगने चित्रम् उत्थितम् ।
अद्रष्टृकं सानुभवम् अनिद्रं स्वप्नदर्शनम् ॥
भविष्यत्पुरनिर्माणं चित्रसंस्थम् इवोदितम् ।
मर्कटानलतापाभम् अम्ब्वावर्तवद् आस्थितम् ॥
सद्रूपम् अपि निश्शून्यं तेजस् सौरम् इवाम्बरे ।
रत्नाभाजालम् इव खे दृश्यमानम् अभित्तिमत् ॥
सङ्कल्पपुरवत् प्रौढम् अनुभूतम् असन्मयम् ।
कथार्थप्रतिभानात्म न क्वचित् स्थितम् अस्ति च ॥
निस्सारम् अप्य् अतीवान्तस्सारं स्वप्नाचलोपमम् ।
भूताकाशम् इवाकारभासुरं शून्यमात्रकम् ॥
शरदभ्रम् इवाग्रस्थम् अलक्ष्यक्षयम् आक्षयि ।
वर्णो व्योमतलस्येव दृश्यमानम् अवस्तुकम् ॥
स्वप्नाङ्गनारताकारम् अर्थनिष्ठम् अनर्थकम् ।
चित्रोद्यानम् इवोत्फुल्लम् अरसं सरसाकृति ॥
प्रकाशम् इव निस्तेजश् चित्रार्कानलवत् स्थितम् ।
अनुभूतं मनोराज्यम् इवासत्यम् अवास्तवम् ॥
चित्रपद्माकर इव सारसौगन्ध्यवर्जितम् ।
शून्ये प्रकचितं नानावर्णम् आकारितात्मकम् ॥
परमार्थेन शुष्यद्भिर् भूतपेलवपल्लवैः ।
ततं जडम् असारात्म कदलीस्तम्भभासुरम् ॥
स्फारितेक्षणदृश्यान्धकारचक्रकवत् ततम् ।
अत्यन्तम् अभवद्रूपम् अपि प्रत्यक्षवत् स्थितम् ॥
वार् बुद्बुद इवाभोगि शून्यम् अन्तस् स्फुरद्वपुः ।
रसात्मकं सत्यरसम् अविच्छिन्नक्षयोदयम् ॥
नीहार इव विस्तारि गृहीतं सन् न किञ्चन ।
जडं शून्यास्पदं शून्यं केषाञ्चित् परमाणुवत् ॥
किञ्चिद् भूतमयो ऽस्तीति स्थितं शून्यम् अभूतकम् ।
गृह्यमाणम् असद्रूपं निशातम इवोत्थितम् ॥
महाकल्पक्षये दृश्यम् आस्ते बीज इवाङ्कुरम् ।
परे भूय उदेत्य् एतत् तत एवेति किं वद ॥
एवम्बोधाः किम् अज्ञास् स्युर् उत तज्ज्ञा इति स्फुटम् ।
यथावद् भगवन् ब्रूहि सर्वसंशयशान्तये ॥
इदं बीजे ऽङ्कुर इव दृश्यम् आस्ते महाक्षये ।
ब्रूते यः परम् अज्ञत्वम् एतत् तस्यातिशैशवात् ॥
स्पर्शे किं तद् असम्बद्धं कथम् एतद् अवास्तवम् ।
विपरीतो बोध एष वक्तुश् श्रोतुश् च मौर्ख्यकृत् ॥
बीजकाले ऽङ्कुर इव जगद् आस्त इतीह या ।
बुद्धिस् सासत्प्रलापार्था मूढा शृणु कथं किल ॥
बीजं भवेत् स्वयं दृश्यं चित्तादीन्द्रियगोचरः ।
वटधानादि धान्यादि युक्तम् अत्राङ्कुरोद्भवः ॥
मनष्षष्ठेन्द्रियातीतं यः खाद् अतितराम् अपि ।
बीजं तद् भवितुं शक्तं स्वयम्भूर् जगतः कथम् ॥
आकाशाद् अपि सूक्ष्मस्य परस्य परमात्मनः ।
सर्वाक्षानुपलभ्यस्य कीदृशी बीजता कथम् ॥
सत् सूक्ष्मम् असदाभासम् असद् एव ह्य् अतद्दृशाम् ।
कीदृशी बीजता तत्र बीजाभावे कुतो ऽङ्कुरः ॥
गगनाङ्गाद् अपि स्वच्छे शून्ये तत्र परे पदे ।
कथं सन्ति जगन्मेरुसमुद्रगगनादयः ॥
नकिञ्चिद् यत् कथं किञ्चित् तत्रास्ते वस्त्व् अवस्तुनि ।
अस्ति चेत् तत् कथं तत्र विद्यमानं न दृश्यते ॥
नकिञ्चिदात्मनः किञ्चित् कथम् एति कुतो ऽथ वा ।
शून्यरूपाद् घटाकाशाज् जातो ऽद्रिः क्व कुतः कदा ॥
प्रतिपक्षे कथं किञ्चिद् आस्ते छायातपे यथा ।
कथम् आस्ते तमो भानौ कथम् आस्ते हिमे ऽनलः ॥
मेरुर् आस्ते कथम् अणौ कुतः किञ्चिद् अनाकृतौ ।
तदतद्रूपयोर् ऐक्यं क्व च्छायातपयोर् इव ॥
साकारे वटधानादाव् अङ्कुरो ऽस्तीति युक्तिमत् ।
अनाकारे महाकारं जगद् अस्तीत्य् अयुक्तिमत् ॥
देशान्तरे यच् च नरान्तरे च बुद्ध्यादिसर्वेन्द्रियशक्त्यदृश्यम् ।
नास्त्य् एव तत्तद्विधबुद्धिबोधे नकिञ्चिद् इत्य् एव तद् उच्यते च ॥
कार्यस्य तत् कारणतां प्रयातं वक्तीति यस् तस्य विमूढबोधः ।
कैर् नाम तत्कार्यम् उदेति तस्मात् स्वैः कारणौघैस् सहकारिरूपैः ॥
दुर्बुद्धिभिः कारणकार्यभावं सङ्कल्पितं दूरतरे व्युदस्य ।
यद् एव तत् सत्यम् अनादिमध्यं जगत् तद् एव स्थितम् इत्य् अवेहि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0