मोक्षोपाय · अध्याय 3.120
हेमोर्मिकादिवन् मिथ्या कचितायाः क्षयोन्मुखम् ।
त्वम् अहन्त्वम् अविद्यायाश् शृणु राघव कीदृशम् ॥
लवणो ऽसौ महीपालस् तदा दृष्ट्वा तथा भ्रमम् ।
द्वितीये दिवसे गन्तुं प्रवृत्तस् तां महाटवीम् ॥
यत् तद् दृष्टं मया दुःखम् अरण्यानीं स्मरामि ताम् ।
चित्तादर्शगता चित्त्वात् कदाचिल् लभ्यते च सा ॥
इति निश्चित्य सचिवैस् स ययौ दक्षिणापथम् ।
पुनर् दिग्विजयायैव प्राप विन्ध्यमहीधरम् ॥
पूर्वदक्षिणपाश्चात्यमहार्णवतटस्थलीम् ।
बभ्राम कौतुकात् सर्वां व्योमवीथीम् इवोष्णरुक् ॥
अथैकस्मिन् प्रदेशे तां भित्ताव् इव पुरोगताम् ।
ददर्शोग्राम् अरण्यानीं परलोकमहीम् इव ॥
सर्वत्र विहरंस् तांस् तान् वृत्तान्तान् सकलान् अपि ।
दृष्टवान् दृष्टवांश् चैव ज्ञातवांश् च विसिस्मये ॥
तान् परिज्ञातवांश् चासीद् व्याधान् पुक्कसजान् पुरः ।
विस्मयाकुलया बुद्ध्या भूयो बभ्राम सम्भ्रमी ॥
अथ प्राप महाटव्याः पर्यन्ते धूमधूसरम् ।
तम् एव ग्रामकं यस्मिन् सो ऽभवत् पुष्टपुक्कसः ॥
तत्रापश्यज् जनांस् तांस् तांस् स्त्रियस् तास् ताः कुटीरिकाः ।
तान् आरामाञ् जलाधारांस् तांस् तांश् च वसुधातटान् ॥
तं चाकाण्डपरिभ्रंशं तान् वृक्षांस् तान् वृतिव्रजान् ।
तांस् तथैव समुद्देशांस् तद्वृत्तान्तैकलाञ्छितान् ॥
अन्यासु वृद्धासु सबाष्पनेत्रास्व् आर्त्याभियुक्तासु च वर्णयन्ती ।
अकालकान्तारविशीर्णबन्धुदुःखान्य् असङ्ख्यानि सखी सखीषु ॥
वृद्धा प्रवृद्धोज्ज्वलबाष्पानेत्र कन्थावृता शुष्ककुचा कृशाङ्गी ।
अवग्रहोग्राशनिदग्धदेशे तत्रान्तरान्ता परिरोदितीयम् ॥
हा पुत्र पुत्रावृतसर्वगात्र दिनत्रयाभोजनजर्जराङ्ग ।
कृत्तेशुना चर्मणि जीर्णदेहात् कथं क्व मुक्ता भवतासवस् ते ॥
तालीलतालम्बनम् अम्बुदार्द्रदन्तान्तरस्थारुणसत्फलस्य ।
स्मरामि गुञ्जाफलदामहेतोः पुरस् स्ववध्वा रसहासिनस् ते ॥
कदम्बजम्बीरलवङ्गगुञ्जकुञ्जान्तर् अत्रस्ततरत्तरक्षोः ।
पश्यामि पुत्रस्य कदा नु भूयो भयङ्कराण्य् आप्लुतिवल्गितानि ॥
न तानि ताम्बूलविलासिनीनां मुखेषु शोभललितानि सन्ति ।
तमालनीले चिबुकैकदेशे सुतस्य यान्य् आस्यगतामिषस्य ॥
सुतापि नीता सह तेन भर्त्रा यमेन यास्या यमुना समाना ।
तमालवल्ली सहपुष्पगुच्छा समीरणेनेव वनेचरेण ॥
हा पुत्रि गुञ्जाफलदामहारे समुन्नताभोगपयोधराङ्गि ।
वातोल्लसत्कज्जलनीलवर्णे पर्णाम्बरे ऽबाधरजे ऽम्बुदन्ते ॥
हा राजपुत्रेन्दुसमान कान्त सन्त्यज्य शुद्धान्तविलासिनीस् ताः ।
रतिं प्रयातो ऽसि ममात्मजायां न सापि ते सुस्थिरताम् उपेता ॥
संसारनद्यास् स्वतरङ्गभङ्गैः क्रियाविलासैर् विहितोपहासैः ।
किं नाम तुच्छं न कृतं नृपो ऽसौ यद् योजितः पुक्कसकन्यकायाम् ॥
सा त्रस्तसारङ्गसमाननेत्रा स तृप्तशार्दूलसमानवीर्यः ।
उभौ गताव् एकपदेन नाशम् आशा सहार्थेन यथा च हेम ॥
मृतेश्वरास्म्य् अस्तमितात्मजास्मि दुर्देशयातास्मि च दुर्गतास्मि ।
दुर्जातजातास्मि महापदास्मि साक्षात् स्वयं वोन्नमितापदास्मि ॥
नीचावमानप्रभवस्य मन्योः क्षुधावसन्नस्य कलत्रकस्य ।
शोकस्य वेगाद् अनिवार्यवृत्तेर् नार्यस् सदैकायतनं विनाथाः ॥
दैवोपतप्तस्य विबान्धवस्य मूढस्य रूढस्य महाधिभूमौ ।
यत् प्राणनं तन् मरणं महापद् या स्यान् मृतिर् जीवितम् उत्तमं तत् ॥
जनैर् विहीनस्य विदेशवृत्तेर् दुःखान्य् अनन्तानि समुल्लसन्ति ।
सहस्रशाखारससङ्कुलानि तृणानि वर्षास्व् इव पर्वतस्य ॥
एवं लपन्तीं स्वकलत्रवृद्धां दासिभिर् आश्वास्य नृपस् स्त्रियं ताम् ।
पप्रच्छ किं वृत्तम् इहासि का च का ते सुता कश् च पतिस् तवेति ॥
उवाच सोद्बाष्पविलोचनाथ ग्रामस् त्व् अयं पुक्कसघोषनामा ।
इहाभवत् पुक्कसकः पतिर् मे बभूव तस्येन्दुसमा सुतैका ॥
सा दैवयोगात् पतिम् इन्दुतुल्यम् इहागतं दैववशेन भूपम् ।
शून्ये विशीर्णं मधुकुम्भम् आप वने वराकी करभी यथैका ॥
सा तेन सार्धं सुचिरं सुखानि भुक्त्वा प्रसूता तनयां सुतांश् च ।
वृद्धिं गता काननकोटरे ऽस्मिंस् तुम्बीलता पादपसंवृतेव ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0