मोक्षोपाय · अध्याय 3.119
ऊर्मिकासंविदा हेम यथा विस्मृत्य हेमताम् ।
विरौति नाहं हेमेति वृथात्माहन्तया तथा ॥
ऊर्मिकासंविदुदयः कथं हेम्नो महामुने ।
अहम्भावात्मक इति यथावद् ब्रूहि मे प्रभो ॥
सत एवागमापायौ प्रष्टव्यौ नासतस् सदा ।
अहन्त्वम् ऊर्मिकात्वं च सती तु न कदाचन ॥
हेम देह्य् ऊर्मिकात्वं त्वं गृहाणेत्य् उदिते यदि ।
तद् दीयते सोर्मिकेण तत् तद् अस्ति न संशयः ॥
एवं चेत् तत् प्रभो ऽत्र स्याद् ऊर्मिकात्वं तु कीदृशम् ।
अनयैवार्थविच्छित्त्या ज्ञास्यामि ब्रह्मणो वपुः ॥
रूपं राघव नीरूपम् असतश् चेन् निरूप्यते ।
तद् वन्ध्यातनयाकारगुणान् मे त्वम् उदाहर ॥
ऊर्मिकात्वं मुधा भ्रान्तिर् मायेवासत्स्वरूपिणी ।
रूपं तद् एतद् एवास्याः प्रेक्षिता यन् न दृश्यते ॥
मृगतृष्णाम्भसि द्वीन्दाव् अहन्तारुचकादिषु ।
एतावद् एव रूपं यत् प्रेक्ष्यमाणं न लक्ष्यते ॥
यश् शुक्तौ रजताकारं प्रेक्षते रजतस्य सः ।
न सम्प्राप्नोत्य् अणुम् अपि कणं क्षीणम् अपि क्वचित् ॥
अपर्यालोचनेनैव सद् इवासद् विराजते ।
यथा शुक्तौ रजतता जलं मरुमरीचिषु ॥
यन् नास्ति तस्य नास्तित्वं प्रेक्ष्यमाणं प्रकाशते ।
अप्रेक्ष्यमाणं स्फुरति मृगतृष्णास्व् इवाम्बुधीः ॥
असद् एव च तत् कार्यकरं भवति च स्थिरम् ।
बालानां मरणायैव वेतालभ्रान्तिसङ्गमः ॥
हेमतां वर्जयित्वैकां वर्तते हेम्नि नेतरत् ।
ऊर्मिकाकटकादित्वं तैलादि सिकतास्व् इव ॥
नेहास्ति सत्यं नो मिथ्या यद् यथा प्रतिभासते ।
तत् तथार्थक्रियाकारि बालयक्षविकारवत् ॥
सद् वा भवत्व् असद् वापि सुदृढं हृदये तु यत् ।
तत् तद् अर्थक्रियाकारि विषस्येवामृतक्रिया ॥
परमैव हि साविद्या मायैषा संसृतिर् ह्य् असौ ।
असतो निष्प्रतिष्ठस्य यदाहन्त्वस्य भावनम् ॥
हेम्न्य् अस्ति नोर्मिकादित्वम् अहन्ताद्य् अस्ति नात्मनि ।
अहन्त्वाभावतस् त्व् एवं स्वच्छे शान्ते समे परे ॥
न सनातनता काचिन् न च काचिद् विरिञ्चता ।
न च ब्रह्माण्डता काचिन् न च काचित् सुरादिता ॥
न लोकान्तरता काचिन् न च सर्गादिता क्वचित् ।
न मेरुता नाम्बरता न मनस्ता न देहता ॥
न महाभूतता काचिन् न च कारणता क्वचित् ।
न चर्तुकालकलना न भावाभाववस्तुता ॥
त्वत्ताहन्तात्मता तत्ता सत्तासत्ता न काश्चन ।
न क्वचिद् भेदकलना न भावाभावरञ्जना ॥
सर्वं शान्तं निरालम्भं ज्ञम् अच्छं शाश्वतं शिवम् ।
अनामयम् अनाभासम् अनामकम् अकारणम् ॥
न सन् नासन् न मध्यान्तं न सर्वं सर्वम् एव च ।
मनोवचोभिर् अग्राह्यं शून्याशून्यं सुशाश्वतम् ॥
अवबुद्धं महाब्रह्मन् सर्वम् एतन् मयाधुना ।
तथापि भूयः कथय सर्गः किम् अवलोक्यते ॥
परे शान्तं परं नाम स्थितम् इत्थम् इदन्तया ।
नेह सर्गो न सर्गाख्या काचनास्ति कदाचन ॥
महार्णवाम्भसीवाम्बु संस्थितं परमे पदे ।
जलं द्रवत्वात् स्पन्दीव निस्स्पन्दं परमं पदम् ॥
भास्वात्मनीव कचति न कचच् चैव तत् पदम् ।
भासते कचनं भासां परं त्व् अकचनं विदुः ॥
अध ऊर्ध्वं वर्जयित्वा यथाब्धेर् उदरे पयः ।
स्फुरत्य् एवं परे चित्त्वाद् इदं नानेव तत्परम् ॥
ईषद्विदन् स्वयं चित्त्वाद् अन्यताम् इव पश्यति ।
बुध्यते सर्ग इत्य् एव शमाच् छाम्यति शाश्वतम् ॥
सर्गस् तु परमार्थस्य सञ्ज्ञेत्य् एव विनिश्चयः ।
न नास्ति नायम् अस्त्य् अन्तर् अम्बरस्य यथाम्बरम् ॥
चित्त्वात् सर्गसमापत्तिर् अचित्त्वात् सर्गसङ्क्षयः ।
परे परमं संशान्ते हेम्नीव कटकभ्रमः ॥
सन्न् एव सर्गो ऽसर्गत्वम् एति वित्त्वशमोदये ।
असत् सत्ताम् अवाप्नोति स्वतस् संवेदनोदये ॥
संवेदनम् अहम्भावसर्गसम्भवसम्भ्रमः ।
असंवेदनम् आशान्तं परं विद्धि न तज् जडम् ॥
नानेन सर्गो नानायं ज्ञास्यैकात्मा शिवात्मकः ।
पुस्तकर्मकृता सेना मृण्मयी शिल्पिनां यथा ॥
इदं पूर्णम् अनारम्भम् अनन्तम् अनवोदयम् ।
पूर्णे पूर्णं परापूरैः पूर्वम् एवावतिष्ठते ॥
यद् अयं लक्ष्यते सर्गस् तद् ब्रह्म ब्रह्मणि स्थितम् ।
नभो नभसि विश्रान्तं शान्तं शान्ते शिवं शिवे ॥
मकुरप्रतिबिम्बस्थे नगरे नगरं जने ।
यथा दूरम् अदूरं च तथेशे तदतत्क्रमः ॥
असद् अभ्युत्थितं विश्वं सद् अप्य् अभ्युदितं सदा ।
प्रतिभासात् सदाभासम् अवस्तुत्वाद् असन्मयम् ॥
आदर्शनगराकारे मृगतृष्णाम्बुभास्वरे ।
द्विचन्द्रविभ्रमाभासे सर्गे ऽस्मिन् केव सत्यता ॥
मायाचूर्णपरिक्षेपाद् यथा व्योम्नि पुरभ्रमः ।
तथा संविदि संसारस् सारो ऽसारश् च भासते ॥
यावद् विचारदहनेन समूलदाहं दग्धा न जर्जरलतेव बलाद् अविद्या ।
शाखाप्रतानगहना गहनानि तावन् नानाविधानि सुखदुःखवनानि सूते ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0