मोक्षोपाय · अध्याय 3.118
इमां सप्तपदां ज्ञानभूमिम् आकर्णयानघ ।
न यया ज्ञातया मोहपङ्के भूयो निमज्जसि ॥
वदन्ति बहुभेदेन वादिनो योगभूमिकाः ।
मम त्व् अभिमता नूनम् इमा एव शुभप्रदाः ॥
अवबोधं विदुर् ज्ञानं तद् इदं साप्तभूमिकम् ।
मुक्तिस् तज् ज्ञेयम् इत्य् उक्ता भूमिका सप्तकात् परम् ॥
सत्यावबोधो मोक्षश् चैवेति पर्यायनामनी ।
सत्यबोधेन जीवो ऽयं नेह भूयः प्ररोहति ॥
ज्ञानभूमिश् शुभेच्छाख्या प्रथमा समुदाहृता ।
विचारणा द्वितीयात्र तृतीया तनुमानसा ॥
सत्त्वापत्तिश् चतुर्थी स्यात् ततो ऽसंसक्तिनामिका ।
पदार्थाभावनी षष्ठी सप्तमी तुर्यगा स्मृता ॥
आसाम् अन्ते स्थिता मुक्तिस् तस्यां भूयो न शोचते ।
एतासां भूमिकानां त्वम् इदं निर्वचनं शृणु ॥
स्थितः किं मूढ एवास्मि प्रेक्षे ऽहं शास्त्रसज्जनम् ।
वैराग्यपूर्वम् इच्छेति शुभेच्छेत्य् उच्यते बुधैः ॥
शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् ।
सदाचारप्रवृत्तिर् या प्रोच्यते सा विचारणा ॥
विचारणाशुभेच्छाभ्याम् इन्द्रियार्थेष्व् अरक्तता ।
यत्राशातनुताभावात् प्रोच्यते तनुमानसा ॥
भूमिकात्रितयाभ्यासाच् चित्ते ऽर्थविरतेर् वशात् ।
सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिर् उदाहृता ॥
दशाचतुष्टयाभ्यासाद् असंसङ्गफलेन वै ।
रूढसत्त्वचमत्कारा प्रोक्तासंसक्तिनामिका ॥
भूमिकापाञ्चकाभ्यासात् स्वात्मारामतया दृढम् ।
आभ्यन्तराणां बाह्यानां पदार्थानाम् अभावनात् ॥
परप्रयुक्तेन चिरं प्रयत्नेनार्थबोधनात् ।
पदार्थाभावनानाम्नी षष्ठी सञ्जायते गतिः ॥
भूमिषट्कचिराभ्यासाद् भेदस्यानुपलम्भतः ।
यत् स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥
एषा हि जीवन्मुक्तेषु तुर्यावस्थेह विद्यते ।
विदेहमुक्तविषयं तुर्यातीतम् अतः परम् ॥
ये हि नाम महाभागास् सप्तमीं भूमिकाम् इताः ।
आत्मारामा महात्मानस् ते महत् पदम् आगताः ॥
जीवन्मुक्ता न मज्जन्ति सुखदुःखरसस्थितौ ।
प्राकृतेनार्यकार्येण किंचित् कुर्वन्ति वा न वा ॥
पार्श्वस्था बोधितास् सन्तस् सर्वाचारे क्रमागतम् ।
आचारम् आचरन्त्य् एव सुप्तबुद्धवद् अक्षताः ॥
आत्मारामतया तांस् तास् सुखयन्ति न काश्चन ।
जगत्क्रियास् सुसंसुप्तान् रूपालोकश्रियो यथा ॥
भूमिकासप्तकं त्व् एतद् धीमताम् एव गोचरम् ।
न पशुस्थावरादीनां न च म्लेच्छादिचेतसाम् ॥
प्राप्ता ज्ञानदशाम् एतां पशुम्लेच्छादयो ऽपि ये ।
सदेहा वाप्य् अदेहा वा ते मुक्ता नात्र संशयः ॥
ज्ञप्तिर् हि ग्रन्थिविच्छेदस् तस्मिन् सति विमुक्तता ।
मृगतृष्णाम्बुबुद्ध्यादिशान्तिमात्रात्मकस् त्व् असौ ॥
ये तु मोहाद् घनात् तीर्णा न प्राप्ताः पावनं पदम् ।
ते स्थिता भूमिकास्व् आसु स्वात्मलाभपरायणाः ॥
सर्वभूमिगताः केचित् केचिद् आन्तैकभूमिकाः ।
भूमित्रयगताः केचित् केचित् पञ्चमभूगताः ॥
भूमिषट्कगताः केचित् केचित् सार्धैकभूमिकाः ।
भूचतुष्टयगाः केचित् केचिद् भूमिद्वये स्थिताः ॥
भूम्यंशभाजनाः केचित् केचित् सार्धत्रिभूमिकाः ।
केचित् सार्धचतुर्भूकास् सार्धषड्भूमिकाः परे ॥
विवेकिनो नरा लोके चरन्त इति भूमिषु ।
गृहायतनतापस्य दशावेशेषु संस्थिताः ॥
ते हि धीरास् सुराजानो दशास्व् आसु जयन्ति ते ।
तृणायते तु दिग्दन्तिघटाभटपराजयः ॥
एतासु भूमिषु जयन्ति हि ये महान्तो वन्द्यास् त एव हि जितेन्द्रियशात्रवास् ते ।
सम्राड् विराड् अपि च यत्र तृणायते तत् स्फारं पदं झगिति ते समवाप्नुवन्ति ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0