मोक्षोपाय · अध्याय 3.117
कीदृश्यो भगवन् योगभूमिकास् सप्त सिद्धिदाः ।
समासेनेति मे ब्रूहि सर्वतत्त्वविदां वर ॥
अज्ञानभूस् सप्तपदा ज्ञभूस् सप्तपदैव च ।
पदान्तराण्य् असङ्ख्यानि भवन्त्य् अन्यान्य् अथैतयोः ॥
स्वयत्नमाधवरसान् महासत्तातरौ लते ।
एते प्रतिपदं बद्धमूले स्वं फलतः फलम् ॥
तत्र सप्तप्रकारत्वं त्वम् अज्ञानभुवश् शृणु ।
ततस् सप्तप्रकारत्वं श्रोष्यसि ज्ञानभूमिजम् ॥
स्वरूपावस्थितिर् मुक्तिस् तद्भ्रंशो ऽहन्त्ववेदनम् ।
एतत् सङ्क्षेपतः प्रोक्तं तज्ज्ञत्वाज्ञत्वलक्षणम् ॥
शुद्धचिन्मात्रसंवित्तेस् स्वरूपान् न चलन्ति ये ।
रागद्वेषोदयाभावात् तेषां नाज्ञत्वसम्भवः ॥
यत् स्वरूपपरिभ्रंशश् चेत्यार्थपरिमज्जनम् ।
एतस्माद् अपरो मोहो न भूतो न भविष्यति ॥
अर्थाद् अर्थान्तरं चित्ते याते मध्ये हि या स्थितिः ।
निरस्तमननाङ्कासौ स्वरूपस्थितिर् उच्यते ॥
संशान्तसर्वसङ्कल्पं या शिलान्तरवत् स्थितिः ।
जाड्यनिद्रादिनिर्मुक्ता सा स्वरूपस्थितिस् स्मृता ॥
अहन्तादाव् अलं शान्ते भेदे निस्स्पन्दचित्तता ।
अजडा यत् प्रतपति तत् स्वरूपम् इति स्मृतम् ॥
बीजजाग्रत् तथा जाग्रन् महाजाग्रत् तथैव च ।
जाग्रत्स्वप्नस् तथा स्वप्नस् स्वप्नजाग्रत् सुषुप्तकम् ॥
इति सप्तविधो मोहः पुनर् एष परस्परम् ।
श्लिष्टो भवत्य् अनेकाख्यं शृणु लक्षणम् अस्य च ॥
प्रथमं चेतनं यत् स्याद् अनाख्यं निर्मलं चितः ।
भविष्यच्चितिजीवादिनामशब्दार्थभाजनम् ॥
बीजरूपं स्थितं जाग्रद् बीजजाग्रत् तद् उच्यते ।
एषा ज्ञप्तेर् नवावस्था त्वं जाग्रत्संस्थितिं शृणु ॥
एवं प्रसूतस्य पराद् अयं चाहम् इदं मम ।
इति यः प्रत्ययस् स्वच्छस् तज् जाग्रत् प्रागभावना ॥
अयं सो ऽहम् इदं तन् मे इति जन्मान्तरोदितः ।
पीवरः प्रत्ययः प्रोक्तं महाजाग्रद् इति स्फुरत् ॥
अरूढम् अथ वारूढम् अनिद्रम् अबहिर्मयम् ।
यज् जाग्रतो मनोराज्यं जाग्रत्स्वप्नस् स उच्यते ॥
द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः ।
अभ्यासं प्राप्य जाग्रत्त्वं तद् अनेकविधं भवेत् ॥
अल्पकालं मया दृष्टम् एतन् नो सत्यम् इत्य् अपि ।
निद्राकालानुभूते ऽर्थे निद्रान्ते प्रत्ययो हि यः ॥
स स्वप्नः कथितस् तस्य महाजाग्रत् स्थितं हृदि ।
चिरसन्दर्शनाभावाद् अप्रफुल्तबृहद्वपुः ॥
स्वप्नो जाग्रत्तयारूढो महाजाग्रत्पदं गतः ।
यत् क्षते वाक्षते देहे स्वप्नजाग्रन् मतं हि तत् ॥
षडवस्थापरित्यागे जडजीवस्य या स्थितिः ।
भविष्यद्दुःखबोधाढ्या सौषुप्ती सोच्यते गतिः ॥
एते तस्याम् अवस्थायां तृणलोष्टशिलादयः ।
पदार्थास् संस्थितास् सर्वे पुरापाश्चात्यनूतनाः ॥
सप्तावस्था इति प्रोक्ता मयाज्ञानस्य राघव ।
एकैका शतशाखात्र नानाविभवरूपिणी ॥
जाग्रत्स्वप्नश् चिरं रूढो जाग्रत्ताम् एव गच्छति ।
नानापदार्थभेदेन स विकासं विजृम्भते ॥
अस्याश् चाप्य् उदरे सन्ति महाजाग्रद्दशादृशः ।
तासाम् अप्य् अन्तर् अन्याश् च सन्त्य् एवं संसृतिर् घना ॥
सुषुप्तस्वप्नकलने आस्व् अन्तरदशास्व् अपि ।
स्थिते तेनायम् अखिलस् स्थितो मोहश् शिलाघनः ॥
स्वप्नात् स्वप्नान्तरं लोको मोहान् मोहान्तरं व्रजेत् ।
अधःपातिजलावर्त इव याति जलान्तरम् ॥
काश्चित् संसृतयो दीर्घस्वप्नजाग्रत्तया स्थिताः ।
काश्चित् पुनःपुनस् स्वप्ना जाग्रत्स्वप्नास् तथेतराः ॥
अज्ञानभूमिर् इति सप्तपदा मयोक्ता नानाविकारदपदान्तरभेदभिन्ना ।
अस्यास् समुत्तरसि चारुविचारणाभिर् दृष्टे प्रबोधविमले स्वयम् आत्मनीति ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0