मोक्षोपाय · अध्याय 3.116
राजसूयफलं प्राप्तं लवणेन खिल प्रभो ।
प्रमाणं किम् इवात्र स्यात् कल्पनाजालशम्बरे ॥
यदा शाम्बरिकः काले सम्प्राप्तो लावणीं सभाम् ।
तदाहम् अवसं तत्र तत् प्रत्यक्षेण दृष्टवान् ॥
अहं सभ्यैस् ततस् तत्र गते शम्बरकारिणि ।
किम् एतद् इति यत्नेन पृष्टश् च लवणेन च ॥
चिन्तयित्वा मया दृष्ट्वा तत्र यत् कथितं ततः ।
शृणु तत् ते प्रवक्ष्यामि राम शाम्बरिकेहितम् ॥
राजसूयस्य कर्तारो ये हि ते द्वादशाब्दिकम् ।
आपद्दुःखं प्राप्नुवन्ति नानाकारदशामयम् ॥
अतश् शक्रेण गगनाद् दुःखाय लवणस्य सः ।
प्रहितो देवदूतो हि राम शाम्बरिकाकृतिः ॥
राजसूयक्रियाकर्तुस् तस्य दत्त्वा महापदम् ।
अगच्छत् स्वनभोमार्गं सुरसिद्धनिषेवितम् ॥
भावराशिस् तथा बोधे सर्वो यात्य् एकपिण्डताम् ।
विचित्रमृद्भाण्डगणो यथापक्वो जले स्थितः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0