मोक्षोपाय · अध्याय 3.115
एवम् उक्तो भगवता वसिष्ठेन महात्मना ।
रामः कमलपत्त्राक्ष उन्मीलित इवाबभौ ॥
विकासितान्तःकरणश् शोभाम् अलम् उपाययौ ।
आश्वस्तस् तमसि क्षीणे पद्मो ऽर्कालोकवान् इव ॥
बोधविस्मयसञ्जातसौम्यस्मितसिताननः ।
दन्तरश्मिसुधाधौताम् इमां वाचम् उवाच च ॥
अहो नु चित्रं पद्मोत्थैर् बद्धास् तन्तुभिर् अद्रयः ।
अविद्यमाना याविद्या तया सर्वे वशीकृताः ॥
इदं तद् वज्रतां यातं रूपम् अस्मिञ् जगत्त्रये ।
अविद्ययापि यन् नाम सद् एवासद् इव स्थितम् ॥
अस्यास् संसारमायाया नट्यास् त्रिभुवनाङ्गने ।
रूपं सदवबोधार्थं कथयानुग्रहात् पुनः ॥
अन्यच् च संशयो ऽयं मे महात्मन् हृदि वर्तते ।
लवणो ऽसौ महाभागः किं ताम् आपदम् आप्तवान् ॥
संश्लिष्टयोर् अहतयोर् द्वयोर् वा देहदेहिनोः ।
ब्रह्मन् क इव संसारी शुभाशुभफलैकभुक् ॥
लवणस्य तथा दत्त्वा ताम् आपदम् अनुत्तमाम् ।
किं गतश् चञ्चलारम्भः कश् चासाव् ऐन्द्रजालिकः ॥
काष्ठकुड्योपमो देहो न किञ्चन इवानघ ।
स्वप्नालोक इवानेन चेतसा परिकल्प्यते ॥
चेतस् तु जीवतां यातं चिच्छक्तिपरिरूषितम् ।
विद्धि संसारि सुमते कपिपोतकचञ्चलम् ॥
चेतो हि कर्मभाग् देहे नानाकारं शरीरधृत् ।
अहङ्कारमनोजीवनामभिः परिकथ्यते ॥
तस्येमान्य् अप्रबुद्धस्य सुप्रबुद्धस्य राघव ।
सुखदुखान्य् अनन्तानि न शरीरस्य कानिचित् ॥
अप्रबुद्धं मनो नानासञ्ज्ञाकल्पितकल्पनम् ।
वृत्तीर् अनुपतच् चित्रा विचित्राकृतितां गतम् ॥
अप्रबुद्धम् भवेद् यावन् निद्रान्तं तावद् एव हि ।
सम्भ्रमं पश्यति स्वप्ने न प्रबुद्धः कदाचन ॥
अज्ञाननिद्राकुलितो जीवो यावन् न बोधितः ।
तावत् पश्यति दुर्बोधं संसारारम्भविभ्रमम् ॥
सम्प्रबुद्धस्य मनसस् तमस् सर्वं विलीयते ।
कमलस्य यथा ह्य् आन्ध्यं दिनालोकविकासिनः ॥
चित्ताविद्यामनोजीववासनेति कृतात्मभिः ।
कर्मात्मेति च यः प्रोक्तस् स देही दुःखकोविदः ॥
जडो देहो न दुःखार्हो दुःखी जीवो ऽविचारतः ।
अविचारो घनाज्ञानाद् अज्ञानं दुःखकारणम् ॥
शुभाशुभानां धर्माणां जीवो विषयतां गतः ।
अविवेकैकदोषेण कोशे नेदं महापदम् ॥
अविवेकामयोत्तब्धं मनो विविधवृत्तिमत् ।
नानाकारविहारेण परिभ्रमति चक्रवत् ॥
उदेति रौति हन्त्य् अत्ति याति वल्गति नन्दति ।
मन एव शरीरे ऽस्मिन् न शरीरं कदाचन ॥
यथा गृहपतिर् गेहे रथे वा सारथिर् यथा ।
यथा भुजङ्गो भस्त्रायां शरीरे ऽस्मिंस् तथा मनः ॥
अचले चञ्चलाकारः पादपे पवनो यथा ।
स्फुरत्य् एवं मनो देहे स्थितो देहो न चेतसि ॥
सर्वेषु सुखदुःखेषु सर्वासु कलनासु च ।
मनः कर्तृ मनो भोक्तृ मानसं विद्धि मानवम् ॥
अत्र ते शृणु वक्ष्यामि वृत्तान्तम् इमम् अद्भुतम् ।
लवणो ऽसौ यथा यातश् चण्डालत्वं मनोभ्रमात् ॥
मनः कर्मफलं भुङ्क्ते शुभं वाशुभम् एव वा ।
यथैतद् बुध्यसे नूनं तथाकर्णय राघव ॥
हरिश्चन्द्रकुलोत्थेन लवणेन पुरानघ ।
एकान्तैकोपविष्टेन चिन्तितं मनसा चिरम् ॥
पितामहो मे सुमहान् राजसूयस्य याजकः ।
अहं तस्य कुले जातस् तं यजे मनसा मखम् ॥
इति सञ्चिन्त्य मनसा कृत्वा सम्भारम् आदितः ।
राजसूयस्य दीक्षायां विवेश स महीपतिः ॥
ऋत्विजश् चार्चयाम् आस पूजयाम् आस सन्मुनीन् ।
देवता वन्दयाम् आस ज्वालयाम् आस पावकम् ॥
तस्येत्थं यजमानस्य मनस्य् उपवनान्तरे ।
ययौ संवत्सरस् साग्रो देवर्षिद्विजपूजया ॥
भूतेभ्यो द्विजपूर्वेभ्यो दत्त्वा सर्वस्वदक्षिणाम् ।
व्यबुध्यत दिनस्यान्ते स्वस्मिन्न् उपवने नृपः ॥
एवं स लवणो राजा राजसूयम् अवाप्तवान् ।
मनसैव हि पुष्टेन युक्तस् तस्य फलेन च ॥
अतश् चित्तं नरं विद्धि भोक्तारं सुखदुःखयोः ।
तद् अनादाव् अनायासे सत्ये योजय राघव ॥
पूर्णे चेतसि सम्पूर्णः पुमान् नष्टे विनश्यति ।
देहो ऽहम् इति येषां तु निश्चयस् तैर् अलं बुधैः ॥
पूर्णे विवेकवति चेतसि सम्प्रबुद्धे दुःखान्य् अलं विगलितानि विविक्तबुद्धेः ।
भास्वत्करप्रकटिते ननु पद्मषण्डे सङ्कोचजाड्यतिमिराणि चिरं कृतानि ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0