भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.114

3.114.1

अविद्याविभवप्रोत्थं जगतः पुरुषस्य वा ।
महद् आन्ध्यम् इदं ब्रह्मन् कथं नाम विनश्यति ॥

3.114.2

यथा तुषारनलिनी भास्करालोकनात् क्षणात् ।
नश्यत्य् एवम् अविद्येयं नश्यत्य् आत्मावलोकनात् ॥

3.114.3

तावत् संसारभृगुषु स्वात्मना सह देहिनम् ।
आन्दोलयति सा यैषा दुःखकण्टकजालिषु ॥

3.114.4

अविद्या यावद् अस्यास् तु नोत्पन्ना क्षयकारिणी ।
स्वयम् आत्मावलोकेच्छा मोहसङ्क्षयदायिनी ॥

3.114.5

अस्याः परं प्रपश्यन्त्यास् स्वात्मनाशः प्रवर्तते ।
आतपानुभवार्थिन्याश् छायाया इव राघव ॥

3.114.6

दृष्टे सर्वगते देवे स्वयम् एव विलीयते ।
सर्वाशाभ्युदिते छाया द्वादशार्कगणे यथा ॥

3.114.7

इच्छामात्रम् अविद्येह तन्नाशो मोक्ष उच्यते ।
स चासङ्कल्पमात्रेण सिद्धो भवति राघव ॥

3.114.8

मनाग् अपि मनोव्योम्नि वासनातमसि क्षते ।
कालिमा तनुताम् एति चिदादित्यमहोदयात् ॥

3.114.9

यथोदिते दिनकरे क्वापि याति तमस्वती ।
तथा विवेके ऽभ्युदिते क्वाप्य् अविद्या प्रलीयते ॥

3.114.10

दृढवासनया बन्धो घनताम् एति चेतसः ।
चलवेतालसङ्कल्पस् सन्ध्याकाले यथा शिशोः ॥

3.114.11

यावत् किञ्चिद् इदं दृश्यं साविद्या क्षीयते च सा ।
आत्मभावनया ब्रह्मन्न् आत्मासौ कीदृशस् स्मृतः ॥

3.114.12

चेत्यानुपातरहितं सामान्येन च सर्वगम् ।
यच् चित्तत्त्वम् अनाख्येयं स आत्मा परमेश्वरः ॥

3.114.13

आब्रह्मस्तम्बपर्यन्तं तृणादि यद् इदं जगत् ।
तत् सर्वं सर्वदात्मैव नाविद्या विद्यते ऽनघ ॥

3.114.14

सर्वं च खल्व् इदं ब्रह्म नित्यं चिद्घनम् अक्षयम् ।
कल्पनान्या मनोनाम्नी विद्यते न हि काचन ॥

3.114.15

न जायते न म्रियते किञ्चिद् अस्मिञ् जगत्त्रये ।
न च भावविकाराणां सत्ता क्वचन विद्यते ॥

3.114.16

केवलं केवलाभासं सर्वसामान्यम् अक्षतम् ।
चेत्यानुपातरहितं चिन्मात्रम् इह विद्यते ॥

3.114.17

अस्मिन् नित्ये तते शुद्धे चिन्मात्रे निरुपद्रवे ।
शान्ते समसमाभोगे निर्विकारोदितात्मनि ॥

3.114.18

यैषा स्वभावाभिगतं स्वयं सङ्कल्प्य धावति ।
चिच् चेत्यं स्वयम् अम्लाना सा म्लाना तन् मनस् स्मृतम् ॥

3.114.19

एकस्मात् सर्वगाद् देवात् सर्वशक्तेर् महात्मनः ।
विभागकलनाशक्तिर् लहरीवोत्थिताम्भसः ॥

3.114.20

एकस्मिन् वितते शान्ते या न किञ्चन विद्यते ।
सङ्कल्पमात्रेण गता सा सिद्धिं परमात्मनि ॥

3.114.21

अतस् सङ्कल्पसिद्धेयं सङ्कल्पेनैव नश्यति ।
येनैव जाता तेनैव वह्निज्वालेव वायुना ॥

3.114.22

पौरुषोद्योगसिद्धेन भोगाशारूपतां गता ।
असङ्कल्पनमात्रेण साविद्या परिलीयते ॥

3.114.23

नाहं ब्रह्मेति सङ्कल्पात् सुदृढाद् बध्यते मनः ।
सर्वं ब्रह्मेति सङ्कल्पात् सुदृढान् मुच्यते पुनः ॥

3.114.24

सङ्कल्पः परमो बन्धस् त्व् असङ्कल्पो विमुक्तता ।
सङ्कल्पम् अवजित्यान्तर् यथेच्छसि तथा कुरु ॥

3.114.25

दृष्टा मयाम्बरे ऽत्रास्ति नलिनी हेमपङ्कजा ।
लोलवैडूर्यमधुपा सुगन्धितदिगम्बरा ॥

3.114.26

उद्दण्डैः प्रकटाभोगैर् मृणालभुजमण्डलैः ।
विहसन्ती प्रकाशस्य शशिनो रश्मिमण्डलात् ॥

3.114.27

विकल्पजालिकैवेत्थम् असत्यैवापि सत्समा ।
मनस्स्वास्थ्यविनाशार्थं यथा बालेन कल्प्यते ॥

3.114.28

तथैवेयम् अविद्येह भावनाभवबन्धनी ।
चपलेनासुखायैव मनोबालेन कल्पिता ॥

3.114.29

कृशो ऽतिदुःखी बद्धो ऽहं हस्तपादादिमान् अहम् ।
इति भावानुरूपेण व्यवहारेण बध्यते ॥

3.114.30

नाहं दुःखी न मे देहः को बन्धो ऽस्यात्मनश् चितः ।
इति भावानुरूपेण व्यवहारेण मुच्यते ॥

3.114.31

नाहं मांसं न चास्थीनि देहाद् अन्यः परो ह्य् अहम् ।
इति निश्चयवान् अन्तःक्षीणाविद्य इहोच्यते ॥

3.114.32

प्रोत्तुङ्गसुरशैलाग्रवैडूर्यशिखरप्रभा ।
अथ वार्कांशुदुर्भेदा तिमिरश्रीस् स्थितोपरि ॥

3.114.33

कल्प्यते हि यथा व्योम्नः कालिमेति स्वभावजः ।
पुंसा धरणिसंस्थेन स्वविकल्पनयेद्धया ॥

3.114.34

कल्पितैवम् अविद्येयम् अनात्मन्य् आत्मभावना ।
पुरुषेणाप्रबुद्धेन न प्रबुद्धेन राघव ॥

3.114.35

मेरुनीलमणिच्छाया नेयं नापि तमःप्रभा ।
तद् इदं किं कृतं ब्रह्मन् नीलत्वं नभसो वद ॥

3.114.36

न राम नीलता व्योम्नश् शून्यस्य गुणवत् स्थिता ।
अन्यरत्नप्रभाभावान् न चाप्य् एषात्र मैरवी ॥

3.114.37

तेजोमयत्वाद् अण्डस्य स्फारत्वात् सिद्धतेजसः ।
प्राकाश्याद् अण्डपारस्य तमसो नात्र सम्भवः ॥

3.114.38

केवलं शून्यतैवैषा बह्वी सुभग दृश्यते ।
वयस्येवानुरूपाया अविद्याया न सन्मयी ॥

3.114.39

स्वदृष्टिक्षयसम्पत्ताव् असद् एवोत्थितं तमः ।
वस्तु स्वभावात् तद् व्योम्नः कार्ष्ण्यम् इत्य् अवलोक्यते ॥

3.114.40

एतद्बुद्ध्या यथा व्योम्नि दृश्यमानो ऽपि कालिमा ।
न कालिमेति बोधस् स्याद् अविद्यातिमिरे तथा ॥

3.114.41

असङ्कल्पो ह्य् अविद्याया निग्रहः कथितो बुधैः ।
यथा गगनपद्मिन्यास् स चातिसुकरस् स्वयम् ॥

3.114.42

भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अपुनस्स्मरणं मन्ये साधो विस्मरणं वरम् ॥

3.114.43

नष्टो ऽहम् इति सङ्कल्पाद् यथा दुःखेन नश्यति ।
प्रबुद्धो ऽस्मीति सङ्कल्पाज् जनो ऽभ्येति तथा सुखम् ॥

3.114.44

तथा सम्मूढसङ्कल्पान् मूढताम् एति वै पुनः ।
प्रबोधोदारसङ्कल्पात् प्रबोधायानुधावति ॥

3.114.45

क्षणात् संस्मरणाद् एषाम् अविद्योदेति शाश्वती ।
यत्नाद् विस्मरणाद् अर्थः परिनश्यति तत्त्वतः ॥

3.114.46

भावनी सर्वभावानां सर्वभूतविमोहनी ।
तारणी स्वात्मनो नाशे स्वात्मवृद्धौ विनाशिकी ॥

3.114.47

मनो यद् अनुसन्धत्ते तत् सर्वेन्द्रियवृत्तयः ।
क्षणात् सम्पादयन्त्य् एता राजाज्ञाम् इव मन्त्रिणः ॥

3.114.48

तस्मान् मनोऽनुसन्धानं भावेषु न करोति यः ।
अन्तश् चेतनयत्नेन स शान्तिम् अधिगच्छति ॥

3.114.49

यद् आदाव् एव नास्तीदं तद् अद्यापि न विद्यते ।
यद् इदं भाति तद् ब्रह्म शान्तम् एकम् अनिङ्गनम् ॥

3.114.50

मननीयमनोमानान्य् अतः कस्य कथं कुतः ।
निर्विकारम् अनाद्यन्तम् आस्यताम् अपयन्त्रणम् ॥

3.114.51

परं पौरुषम् आश्रित्य यत्नाद् परमया धिया ।
भोगाशाभावनां चित्तात् समूलम् अलम् उद्धरेत् ॥

3.114.52

यद् उदेति परो मोहो जरामरणकारणम् ।
आशापाशशतोल्लासी वासना तद् विजृम्भते ॥

3.114.53

मम पुत्रा मम धनम् अहं सो ऽयम् इदं मम ।
इतीयम् इन्द्रजालेन वासनैका विवल्गति ॥

3.114.54

शून्य एव शरीरे ऽस्मिन् विलोलो ऽर्जुनवातवत् ।
अविद्यया वासनया त्व् अहम्भावाहिर् अर्पितः ॥

3.114.55

परमार्थेन तत्त्वज्ञ ममाहम् इदम् इत्य् अलम् ।
आत्मतत्त्वाद् ऋते मन्ये न कदाचन किञ्चन ॥

3.114.56

साद्रिद्यूर्वीगिरिश्रेण्या सृष्टिदृष्ट्या पुनः पुनः ।
सैवान्येव विचित्रेयम् अविद्या परिवर्तते ॥

3.114.57

उदेत्य् अज्ञानमात्रेण नश्यति ज्ञानमात्रतः ।
संविन्मात्रपरिच्छेद्या रज्ज्वाम् इव भुजङ्गमः ॥

3.114.58

साद्रिद्यूर्वीनदी सेयं याविद्या ज्ञस्य राम सा ।
नाविद्या तस्य तद् ब्रह्म स्वे महिम्नि व्यवस्थितम् ॥

3.114.59

रज्जुसर्पविकल्पौ द्वाव् अज्ञानैकोपकल्पितौ ।
ज्ञेन त्व् एकैव निर्णीता ब्रह्मदृष्टिर् अकृत्रिमा ॥

3.114.60

मा भवाज्ञो भव ज्ञस् त्वं जहि संसारवासनाः ।
अनात्मन्य् आत्मभावेन किम् अन्य इव रोदिषि ॥

3.114.61

कस् तवायं जडो मूको देहो भवति राघव ।
यदर्थं सुखदुःखाभ्याम् अवशः परिहीयते ॥

3.114.62

यथा हि काष्ठजतुनोर् यथा बदरकुण्डयोः ।
श्लिष्टयोर् अपि नैकत्वं देहदेहवतोस् तथा ॥

3.114.63

भस्त्रादाहे यथा दाहो न भस्त्रान्तरवर्तिनः ।
पवनस्य तथा देहनाशे नात्म विनश्यति ॥

3.114.64

दुःखितो ऽहं सुखाढ्यो ऽहम् इति भ्रान्ती रघूद्वह ।
अनयोपहते चित्ते दुष्पारेह कदर्थना ॥

3.114.65

मिथ्यैवानर्थकारिण्या मनोमननपीनया ।
अनया दुःखदायिन्या महामोहमलान्धया ॥

3.114.66

चन्द्रबिम्बे सुधार्द्रे ऽपि कृत्वा रौरवकल्पनाम् ।
नारकं दाहसंशोषदुःखं समनुभूयते ॥

3.114.67

जललोलोच्चकल्हारपुष्पशीतलवीचिषु ।
सरस्सु मृगतृष्णाढ्यं महत्त्वं परिदृश्यते ॥

3.114.68

नभोनगरनिर्माणपातोत्पतनसम्भ्रमाः ।
स्वप्नादिष्व् अनुभूयन्ते विचित्रसुखदुःखदाः ॥

3.114.69

संसारवासना चेतो यदि नाम न पूरयेत् ।
तज् जाग्रत्स्वप्नसंरम्भाः कं नयेयुर् इहापदम् ॥

3.114.70

दृश्यन्ते रौरवावीचिनरकानर्थशासनाः ।
मिथ्याज्ञाने गते वृद्धिं स्वर्गोपवनभूमिषु ॥

3.114.71

अनया वेधितं चेतो बिसतन्ताव् अपि क्षणात् ।
पश्यत्य् अखिलसंसारसागरावर्तविभ्रमम् ॥

3.114.72

अनयोपहते चित्ते राज्य एव हि संस्थितः ।
तास् ता दशा जनो याति या न योग्याश् श्वपाकिनः ॥

3.114.73

तस्माद् राम परित्यज्य वासनां भवबन्धनीम् ।
सर्वभावमयीं तिष्ठ नीरागस् स्फटिको यथा ॥

3.114.74

तिष्ठतस् तव कार्येषु मास्तु रागानुरञ्जना ।
स्फटिकस्येव चित्राणि प्रतिबिम्बानि गृह्णतः ॥

3.114.75

विगतकौतुकसङ्गसमिद्धया यदि करोषि सदैव हि लीलया ।
वरधिया जगति प्रकृतिक्रियास् तद् असि केन महान् उपमीयसे ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc