मोक्षोपाय · अध्याय 3.113
एषा हि वासना नित्यम् असत्य् एव यद् उत्थिता ।
द्विचन्द्रभ्रान्तिवत् तेन त्यक्तुं राघव युज्यते ॥
अविद्याविद्यमानैव नष्टप्रज्ञस्य विद्यते ।
नाम्नैवाङ्गीकृताभावा सम्यक्प्रज्ञस्य सा कुतः ॥
मा भवाज्ञो भव प्राज्ञस् सम्यग् राम विचारय ।
नास्त्य् एवेन्दुर् द्वितीयः खे भ्रान्त्या संलक्ष्यते मुधा ॥
नात्मतत्त्वाद् ऋते किञ्चिद् विद्यते वस्त्व् अवस्तु वा ।
ऊर्मिमालिनि विस्तीर्णे वारिपूराद् ऋते यथा ॥
स्वविकल्पकृतान् एतान् भावाभावान् असन्मयान् ।
नित्ये तते सिते शुद्धे मा समारोपयात्मनि ॥
नासि कर्ता किम् एतासु क्रियासु ममता तव ।
एकस्मिन् विद्यमाने हि किं केन क्रियते कथम् ॥
मा चाकर्ता भव प्राज्ञ किम् अकर्तृतयेह ते ।
साध्यं साध्यम् उपादेयं तस्मात् स्वस्थो भवानघ ॥
कर्ता संस् त्वम् असक्तत्वाद् भवाकर्ता रघूद्वह ।
असक्तत्वाद् अकर्तापि कर्तृवत् स्पन्दनं कुरु ॥
सत्यं चेत् स्याद् उपादेयं मिथ्या स्याद् धेयम् एव तत् ।
उपादेयैकसक्तत्वाद् युक्ता सक्तिर् हि कर्मणि ॥
यत्रेन्द्रजालम् अखिलं मायामयम् अवस्तुकम् ।
तत्र कास् ताः कथं राम हेयोपादेयदृष्टयः ॥
संसारबीजकणिका यैषाविद्या रघूद्वह ।
एषा ह्य् अविद्यमानैव सतीव स्फारतां गता ॥
येयम् आभोगिनिस्सारसंसारारम्भचक्रिका ।
विज्ञेया वासनैषा सा चैतसी मोहदायिनी ॥
चारुवंशलतेवान्तश्शून्यनिस्सारकोटरा ।
सरित्तरङ्गमालेव न व्युच्छिन्ना विनश्वरी ॥
गृह्यमाणापि हस्तेन ग्रहीतुं नैव युज्यते ।
मृद्व्य् अप्य् अत्यन्ततीक्ष्णाग्रा निर्झरोर्मिर् इवोत्थिता ॥
दृश्यते प्रकटाभासा सदर्थे नोपयुज्यते ।
तरङ्गिणी तरङ्गाभास्व् आकारपरिनिष्ठिता ॥
क्वचिद् वक्रा क्वचिद् ऋज्वी दीर्घा खर्वा स्थिरा चला ।
यत्प्रसादोद्भवा तस्माद् व्यतिरेकम् उपागता ॥
अन्तश्शून्यापि सर्वत्र दृश्यते ऽसारसुन्दरी ।
न क्वचित् संस्थितापीह सर्वत्रैवोपलक्ष्यते ॥
जडैव चिन्मयीवासाव् अन्यस्पन्दोपजीविनी ।
निमेषम् अप्य् अतिष्ठन्ती स्थैर्याशङ्कां प्रयच्छति ॥
ज्वालेव शुद्धवर्णापि मषीमलिनकोटरा ।
वल्गत्य् अन्यप्रसादेन क्षीयते तदवीक्षिता ॥
आलोके विमले म्लाना तमस्य् अतिविराजते ।
मृगतृष्णेव सुस्फारा नानावर्णविलासिनी ॥
वक्रा विषमयी तन्वी मृद्वी कण्टककर्कशा ।
ललना चञ्चला क्षुद्धा तृष्णा जिह्वेव भोगिनः ॥
स्वयं दीपशिखेवाशु क्षीयते स्नेहसङ्क्षये ।
सिन्दूरधूलिलेखेव विना रागं न रञ्जते ॥
क्षणप्रकाशा तरला कृतसंस्था जडाशये ।
मुग्धानां त्रासजननी वक्रा विद्युद् इवोदिता ॥
यत्नाद् गृहीत्वा दहति भूत्वा भूत्वा प्रलीयते ।
लभ्यते ऽपि च नान्विष्टा विद्युद्वद् अतिभङ्गुरा ॥
अप्रार्थितैवोपनता रमणीयाप्य् अनर्थदा ।
अकालपुष्पमालेव श्रेयसे नाभिनन्दिता ॥
अत्यन्तविस्मृतैवातिसुखाय भ्रमदायिनी ।
दुस्स्वप्नकलनेवेयम् अनर्थायैव सूत्थिता ॥
प्रतिभासवशाद् एव त्रिजगन्ति महान्ति च ।
मुहूर्तमात्रेणोत्पाद्य धत्ते ग्रासीकरोति च ॥
मुहूर्तो वत्सरश्रेणी लवणस्यानया कृता ।
रात्रिर् द्वादशवर्षाणि हरिश्चन्द्रस्य निर्मिता ॥
वियोगिनाम् अथान्येषां कान्ताविरहशालिनाम् ।
रात्रिर् वत्सरवद् दीर्घा भवत्य् अस्याः प्रसादतः ॥
सुखितस्याल्पताम् एति दुःखितस्यैति दीर्घताम् ।
कालो ह्य् अस्याः प्रसादेन विपर्यासैकशालिना ॥
अस्यास् स्वसत्तामात्रेण कर्तृतैतासु वृत्तिषु ।
दीपस्यालोककार्याणां यथा तद्वन् न वस्तुतः ॥
सनितम्बस्तना चित्रे न स्त्री स्त्रीधर्मिणी यथा ।
तथैवाकारधीरेयं कर्तुं योग्या न किञ्चन ॥
मनोराज्यम् इवाकारभास्वरा सत्यवर्जिता ।
सहस्रशतशाखापि न किञ्चित् परमार्थतः ॥
अरण्ये मृगतृष्णेव मिथ्यैवाडम्बरान्विता ।
विडम्बयति तान् मुग्धमृगान् एव न मानुषान् ॥
फेनमालेव सञ्जातध्वस्ता विच्छेदवर्जिता ।
जडैव चञ्चलाकारा गृह्यमाना न किञ्चन ॥
अनन्या चेतनस्यापि नूनम् अन्येव च स्थिता ।
क्रिमितन्तुर् इवादीर्घा जडैवाप्य् अजडाश्रिता ॥
कलुषोड्डामरकारा रजःप्रसरधूसरा ।
चला कल्पान्तवात्येव स्वाक्रान्तभुवनान्तरा ॥
धूमालीवाङ्गसंलग्ना दाहस्वेदप्रदायिनी ।
गर्भीकृतरसाक्रम्य जगन्ति परिवर्तते ॥
धारा जलधरस्येव सुदीर्घा जडनिर्मिता ।
असारसङ्घातदृढरज्जुस् तृणगणैर् इव ॥
तरङ्गोत्पलमालेव कल्पनामात्रवर्णिता ।
मृणालीव बहुच्छिद्रा पङ्कप्रौढा जडात्मिका ॥
ज्वालेव दृश्यते वृद्धितत्परा न च वर्धते ।
विषास्वाद इवापातमधुरान्ते सुदारुणा ॥
नष्टा दीपशिखेवैषा न जाने क्वेह गच्छति ।
मिहिकेवाग्रदृष्टापि गृह्यमाणा न किञ्चन ॥
पांसुमुष्टिर् इवास्तीर्य प्रेक्षिता पारमाणवी ।
आकाशनीलिमेवैषा निर्निमित्तैव दृश्यते ॥
द्विचन्द्रमोहवज् जाता स्वप्नवद् विहितभ्रमा ।
यथा नौयायिनस् स्थाणुस्पन्दस् तद्वद् इहोत्थिता ॥
अनयोपहते चित्ते दीर्घकालम् इवाकुलैः ।
जनैर् आलक्ष्यते दीर्घस् संसारस्वप्नविभ्रमः ॥
मनोज्ञम् अपि सत्यं च दृश्यते सद् असत्तया ।
अमनोज्ञम् असत्यं च दृश्यते ऽसच् च सत्तया ॥
अनयोपहते त्व् अस्मिंश् चित्राश् चेतसि विभ्रमाः ।
उत्पद्यन्ते विनश्यन्ते तरङ्गास् तोयधेर् इव ॥
पदार्थरथम् आरूढा भावनैषा बलान्विता ।
आक्रामति मनः क्षिप्रं विहगं वागुरा यथा ॥
कारुण्यात् स्पन्दमानाक्षीं स्रवत्क्षीरलवस्तनीम् ।
नयत्य् उल्लासितानन्दं जननीं गृहिणीपदम् ॥
विषीकरोति निष्ष्यन्दसन्तर्पितजगत्त्रयम् ।
सुधा सार्द्रम् अपि क्षिप्रं प्रवृद्धा बिम्बम् ऐन्दवम् ॥
उन्मत्तवरवेतालवर्तनारम्भसम्भ्रमम् ।
स्थाणवस् सम्प्रयच्छन्ति मूकम् अप्य् एति यद् धिया ॥
सन्ध्यादिषु च कालेषु लोष्टपाषाणभित्तयः ।
अस्याः प्रसादाद् दृश्यन्ते सर्पा जगति दृष्टिभिः ॥
एको ऽपि द्वितयोदेति यथा द्विशशिदर्शने ।
दूरम् अभ्याशतां याति स्वप्ने ऽब्धितरणं यथा ॥
आदीर्घः क्षणताम् एति कालस् सेष्टा यथा निशा ।
क्षणो वर्षम् इवाभाति कान्ताविरहिणाम् इव ॥
न तद् अस्ति न यन् नाम न करोतीयम् उद्धता ।
अस्यास् त्व् अकिञ्चनायास् तु शक्ततां पश्य राघव ॥
संरोधयेत् प्रयत्नेन संविदैवाशु संविदम् ।
संवित्स्रोतोनिरोधेन शुष्यत्य् एषा मनोनदी ॥
अविद्यमानयैवेदं पेलवाङ्ग्या सुतुच्छया ।
मिथ्याभावनया नाम चित्रम् अन्धीकृतं जगत् ॥
अरूपया निराकृत्या चारुचेतनहीनया ।
असत्येवाशु नश्यन्त्या चित्रम् अन्धीकृतं जगत् ॥
आलोकेन विनश्यन्त्या स्फुरन्त्या तमसो ऽन्तरे ।
कौशिकेक्षणधर्मिण्या चित्रम् अन्धीकृतं जगत् ॥
कुकर्मैकान्तकारिण्या न सहन्त्यावलोकनम् ।
देहम् अप्य् अविजानन्त्या चित्रम् अन्धीकृतं जगत् ॥
सुधीराचारधर्मिण्या नित्यं प्राकृतकान्तया ।
अनारतास्तङ्गतया चित्रम् अन्धीकृतं जगत् ॥
अनन्तदुःखाकुलया सदैव धृतयानया ।
सम्बोधहीनया नाम चित्रम् अन्धीकृतं जगत् ॥
कामक्रोधघनस्तन्या तमःप्रसरवक्त्रया ।
अचेतनशरीरिण्या चित्रम् अन्धीकृतं जगत् ॥
आत्मान्धकूपास्पदया जडया जाड्यजीर्णया ।
दुःखदीर्घप्रलापिन्या चित्रम् अन्धीकृतं जगत् ॥
पुरुषासङ्गभङ्गिन्या रोगिण्याक्षतमायया ।
विवर्तिन्या विवक्षासु चित्रम् अन्धीकृतं जगत् ॥
पुरुषस्य न या शक्ता सोढुम् ईक्षितम् अप्य् अलम् ।
तया स्त्रियाशरणया चित्रम् अन्धीकृतः पुमान् ॥
न यस्याश् चेतनैवास्ति याप्य् अनष्टैव नश्यति ।
तया स्त्रियापुरुषया चित्रम् अन्धीकृतः पुमान् ॥
अनन्तदुष्प्रसरविलासकारिणी क्षयोदयोन्मुखसुखदुःखकारिणी ।
इयं प्रभो विगलति केन वासना मनोगुहानिलयनिबद्धभावना ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0