मोक्षोपाय · अध्याय 3.112
यस्मिन् यस्मिन् पदार्थे हि येन येन यथा तथा ।
तीव्रसंवेगसम्पन्नं मनः पश्यति वाञ्छितम् ॥
जायते म्रियते चैषा मनसस् तीव्रवेगिता ।
सौम्याम्बुबुद्बुदालीव निर्निमित्ता स्वभावतः ॥
शीतता तुहिनस्येव कज्जलस्येव कृष्णता ।
लोलता मनसो रूपं तीव्रातीव्रैकरूपिणः ॥
कथम् अस्यातिलोलस्य वेगावेगैककारणम् ।
चलता मनसो ब्रह्मन् बलतो विनिवार्यते ॥
नेह चञ्चलताहीनं मनः क्वचन दृश्यते ।
चञ्चलत्वं मनोधर्मो वह्निधर्मो यथोष्णता ॥
यैषा हि चञ्चला स्पन्दशक्तिश् चित्तत्वसंस्थिता ।
तां विद्धि मानसीं शक्तिं जगदाडम्बरात्मिकाम् ॥
स्पन्दस्पर्शाद् ऋते वायोर् यथा सत्तैव नोह्यते ।
तथास्ति चित्तसत्ता नो चञ्चलस्पन्दनाद् ऋते ॥
यत् तु चञ्चलताहीनं तन् मनो मृतम् उच्यते ।
स एव च तपश्शास्त्रप्रसिद्धो मोक्ष उच्यते ॥
मनोविलयमात्रेण दुःखशान्तिर् अवाप्यते ।
मनोजननमात्रेण दुःखं परम् अवाप्यते ॥
दुःखम् उत्पादयत्य् उच्चैर् उत्थितश् चित्तराक्षसः ।
सुखायानन्तभोग्याय तं प्रयत्नेन पातय ॥
तस्य चञ्चलता यैषा ह्य् अविद्या नाम सोच्यते ।
वासनापरनाम्नी तां विचारेण विनाशय ॥
अविद्यया वासनया तयान्तश् चित्तशान्तया ।
विलीनया त्यागवशात् परं श्रेयो ऽधिगम्यते ॥
यत् तत् सदसतोर् मध्यं यन् मध्यं चित्त्वजाड्ययोः ।
तन् मनः प्रोच्यते राम द्वयदोलायिताकृति ॥
जाड्यानुसन्धानहृतं जाड्यात्मकतयेद्धया ।
चेतो जडत्वम् आयाति दृढाभ्यासवशेन हि ॥
विवेकैकानुसन्धानाच् चिदंशात्मतया मनः ।
चितैकताम् उपायाति दृढाभ्यासवशात् स्थिरम् ॥
पौरुषेण प्रयत्नेन यस्मिन्न् एव पदे मनः ।
पात्यते तत् पदं प्राप्य भवत्य् अभ्यासलोहितम् ॥
अतः पौरुषम् आश्रित्य चित्तम् आक्रम्य चेतसा ।
विशोकं पदम् आश्रित्य निराशङ्कस् स्थिरो भव ॥
भवभावनया भग्नं मनसैव न चेन् मनः ।
बलाद् उत्तार्यते राम तद् उपायो ऽस्ति नेतरः ॥
मन एव समर्थं वै मनसो दृढनिग्रहे ।
अराजा कस् समर्थस् स्याद् राज्ञो राघव निग्रहे ॥
तृष्णाग्राहगृहीतानां संसारार्णवरंहसि ।
आवर्तैर् उह्यमानानां दूरं स्वमन एव नौः ॥
मनसैव मनश् छित्त्वा पाशं परमबन्धनम् ।
उन्मोचितो न येनात्मा नासाव् अन्येन मोक्ष्यते ॥
या योदेति मनोनाम्नी वासना वासितान्तरा ।
तां तां परिहरेत् प्राज्ञस् ततो ऽविद्याक्षयो भवेत् ॥
भोगौघवासनां त्यक्त्वा त्यज त्वं खेदवासनाम् ।
भावाभावौ ततस् त्यक्त्वा निर्विकल्पस् सुखी भव ॥
अभावनं भावनायास् त्व् एतावान् भावनाक्षयः ।
एष एव मनोनाशस् त्व् अविद्यानाश उच्यते ॥
यद् यत् संवेद्यते किञ्चित् तत्रासंवेदनं वरम् ।
असंवित्तिस् तु निर्वाणं दुःखं संवेदनाद् भवेत् ॥
स्वेनैव तत् प्रयत्नेन पुंसस् सम्पद्यते क्षणात् ।
भावस्याभावनं भूत्यै तत् तस्मान् नित्यम् आहरेत् ॥
रागादयो ये मनसेप्सितास् ते बुद्ध्वैव तांस् तांस् त्वम् अवस्तुभूतान् ।
त्यक्त्वा तदास्थाङ्कुरम् अस्तबीजं मा हर्षशोकौ समुपैषि तृप्तः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0