मोक्षोपाय · अध्याय 3.111
अस्य चित्तमहाव्याधेश् चिकित्सायां वरौषधम् ।
स्वायत्तं शृणु युक्त्यात्मसुसाधं स्वात्मनि स्थितम् ॥
स्वेनैव पौरुषेणाशु स्वसंवेदनरूपिणा ।
यत्नेन चित्तवेतालस् त्यक्त्वेष्टं वस्तु जीयते ॥
त्यजन्न् अभिमतं वस्तु यस् तिष्ठति निरामयः ।
जितम् एव मनस् तेन कुदान्त इव दन्तिना ॥
स्वसंवेदनयत्नेन पाल्यते चित्तबालकः ।
अवस्तुनो वस्तुनि च योज्यते बोध्यते ऽपि च ॥
शास्त्रसङ्गमधीरेण चिन्तातप्तम् अतापिना ।
छिन्द्धि त्वम् अयसेवायो मनसैव मनो मुने ॥
अयत्नेन यथा बाल इतश् चेतश् च युज्यते ।
भव्यैस् तथैव चेतो ऽन्तः किम् इवात्रातिदुष्करम् ॥
सत्कर्मणि समाक्रान्तम् उदर्कोदयदायिनि ।
स्वपौरुषेणैव मनश् चेतनेन नियोजयेत् ॥
स्वायत्तम् एकान्तहितं स्वेप्सितत्यागवेदनम् ।
यस्य दुष्करतां यातं धिक् तं पुरुषकीटकम् ॥
अरम्यं रम्यरूपेण भावयित्वा स्वसंविदा ।
मल्लेनेव शिशुश् चित्तम् अयत्नेनैव जीयते ॥
पौरुषेण प्रयत्नेन चित्तम् आश्व् एव जीयते ।
अचित्तेनासपत्नेन पदं ब्रह्मणि धीयते ॥
स्वायत्तं च सुसाधं च स्वचित्ताक्रान्तिमात्रकम् ।
शक्नुवन्ति न ये कर्तुं धिक् तान् पुरुषजम्बुकान् ॥
स्वपौरुषैकसाध्येन स्वेप्सितत्यागरूपिणा ।
मनःप्रशममन्त्रेण विनास्ति न शुभा गतिः ॥
मनोमारणमात्रेण साध्येन स्वात्मसंविदा ।
निस्सपत्नम् अनाद्यन्तम् अनिङ्गनम् इहोष्यताम् ॥
ईप्सितावेदनाङ्ग्यां तु मनःप्रशमनश्रियि ।
गुरूपदेशशास्त्रार्थमन्त्राद्या युक्तयस् तृणम् ॥
सर्वं सर्वगतं शान्तं ब्रह्म सम्पद्यते तदा ।
असङ्कल्पनशस्त्रेण च्छिन्नं चित्तगदं यदा ॥
स्वसंवेदनसाध्ये ऽस्मिन् सङ्कल्पानर्थनाशने ।
शान्तस्याच्छाभ्रवपुषि पुंसः केव कदर्थना ॥
नूनं दैवम् अनादृत्य मूढसङ्कल्पकल्पितम् ।
पुरुषार्थेन संवित्त्या नय चित्तम् अचित्तताम् ॥
तां महापदवीम् एकां काम् अप्य् अनुसरंश् चिरम् ।
चित्तं चिद्भक्षितं कृत्वा चित्त्वाद् अपि परं भव ॥
भवभावनया मुक्तो युक्तः परमया धिया ।
धारयात्मानम् अव्यग्रो ऽग्रस्तचित्तं चितः परम् ॥
परं पौरुषम् आश्रित्य नीत्वा चित्तम् अचित्तताम् ।
तां महापदवीम् एहि यत्र नासि न चेतरत् ॥
संवेदनविपर्यासरूपिणारिर् इवाबलः ।
जेतुम् आशु मनो राम पौरुषेनैव शक्यते ॥
अनुद्वेगश् श्रियो मूलम् अनुद्वेगात् प्रवर्तते ।
जन्तोर् मनोजयो येन त्रिलोकीविजयस् तृणम् ॥
न शस्त्रदहनोत्पातपाता यस्यां मनाग् अपि ।
स्वभावमात्रव्यावृत्तौ तस्यां केव कदर्थना ॥
अपि स्ववेदनाक्रान्ताव् अशक्ता ये नराधमाः ।
कथं व्यवहरिष्यन्ति व्यवहारदशासु ते ॥
पुमान् दृतो ऽस्मि जातो ऽस्मि जीवामीति कुदृष्टयः ।
चेतसो वृत्तयो यान्ति चपलस्यासदुत्थिताः ॥
न कश्चनेह म्रियते जायते नेह कश्चन ।
स्वयं वेत्ति मृतिं देहे लोकम् अन्यं गतं मनः ॥
इतो यातं परे लोके स्फुरत्य् अन्यतया मनः ।
न नश्यत्य् एतद् आमोक्षम् अतो मृतिभयं कुतः ॥
देहरूपेण विचरद् इहलोके परत्र च ।
चित्तम् आमोक्षम् आस्ते ऽस्य रूपम् अन्यन् न विद्यते ॥
सुते भ्रातरि भृत्यादौ क्लेश आक्रमणं नृणाम् ।
न स्वचित्ते स्वचैतन्यव्यावृत्त्यात्मेति मे मतिः ॥
तिर्यग् ऊर्ध्वम् अधस्ताच् च भूयो भूयो विचारितम् ।
यावन् नास्ति किलोपायश् चित्तोपशमनाद् ऋते ॥
ऋते पथ्ये तते शुद्धे बोधे हृद्य् उदिते चिति ।
मनोविलयमात्रेण विश्रान्तिर् उपजायते ॥
ध्यायते हृदयाकाशे चितिश् चिच्चक्रधारया ।
मनो मारय निश्शङ्कं त्वां प्रमथ्नन्ति नाधयः ॥
यदि रम्यम् अरम्यत्वे त्वया संविदितं विदा ।
छिन्नान्य् एव तद् अङ्गानि चित्तस्येति मतिर् मम ॥
अयं सो ऽहम् इदं तन् मे एतावन्मात्रकं मनः ।
तदभावनमात्रेण दात्रेणेव विलूयते ॥
छिन्नाभ्रम् अमले व्योम्नि यथा शरदि धूयते ।
निर्विकल्पे परे तत्त्वे तथा निर्वासनं मनः ॥
वहन्ति यत्र शस्त्राग्निपवनास् तत्र भीर् भवेत् ।
स्वायत्ते मृदुनि स्वच्छे किम् असङ्कल्पने भयम् ॥
इदं श्रेय इदं नेति सिद्धम् आबालम् अक्षतम् ।
बालं पुत्रम् इवोदारे मनश् श्रेयसि योजयेत् ॥
अक्षपञ्चाननं चेतस्सिंहं संसृतिबृंहणम् ।
घ्नन्ति ये ते जयन्तीह निर्वाणपदपातिनः ॥
भीमास् सम्भ्रमदायिन्यस् सङ्कल्पकलनाद् इमाः ।
विपदस् सम्प्रसूयन्ते मृगतृष्णा मरोर् इव ॥
कल्पान्तपवना वान्तु यन्तु चैकत्वम् अर्णवाः ।
तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ॥
मनोबीजात् समुद्यन्ति शुभाशुभफलप्रदाः ।
संसारषण्डका एते लोकसप्तकपल्लवाः ॥
असङ्कल्पनमात्रैकसाध्ये सकलसिद्धये ।
असङ्कल्पाभिसाम्राज्ये तिष्ठावष्टम्भतत्परः ॥
प्रयच्छत्य् उत्तमानन्दं क्षीयमाणं मनः क्रमात् ।
कषक्षीणाङ्गको ऽङ्गारो यथाङ्गारक्षयार्थिनः ॥
अपि ब्रह्मकुटीलक्ष्यं मनसश् चेत् समीहितम् ।
तद् अणोर् अन्तरे व्यक्तं विभक्तं परिदृश्यते ॥
सङ्कल्पमात्रविभवेन कृतात्यनर्थं सङ्कल्पशान्तिविभवेन सुसाधितार्थम् ।
सन्तोषमात्रविभवेन मनो विजित्य नित्योदितेन जयम् एहि निरीहितेन ॥
परमपावनया विमनस्तया समतया मतयात्मविदाम् अति ।
शमितया मितयान्तर् अहन्तया यद् अवशिष्टम् अजं पदम् अस्तु तत् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0