भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.110

3.110.1

परस्मात् कारणाद् आदौ चिच् चेत्यपदपातिनी ।
कलनापदम् आसाद्य कलङ्ककलनान्तरम् ॥

3.110.2

असत्स्व् एव विमोहेषु रामैवम्प्रायवृत्तिषु ।
घनेषु तुच्छताम् एत्य चिराय परिमज्जति ॥

3.110.3

असद् एव मनोवृत्तिर् म्लाना विस्तारयत्य् अलम् ।
दुःखं दोषसहस्रेण वेतालम् इव बालकः ॥

3.110.4

सद् एव हि महादुःखम् असत्तां नयति क्षणम् ।
निष्कलङ्का मनोवृत्तिर् अन्धकारम् इवार्करुक् ॥

3.110.5

नयद् अभ्याशतां दूरम् अभ्याशं दूरतां नयत् ।
मनो वल्गति भूतेषु बालो बालखगेष्व् इव ॥

3.110.6

अभयं भयम् अज्ञस्य चेतसो वासनावतः ।
दूरतो मुग्धपान्थस्य स्थाणुर् याति पिशाचताम् ॥

3.110.7

शत्रुत्वं शङ्कते मित्रे कलङ्कमलिनं मनः ।
मदाविष्टमतिर् जन्तुर् भ्रमत् पश्यति भूतलम् ॥

3.110.8

पर्याकुले हि मनसि शशिनो जायते ऽशनिः ।
अमृतं विषभावेन भुक्तं याति विषक्रियाम् ॥

3.110.9

पुरपत्तननिर्माणम् असत् सद् इव पश्यति ।
वासनावलितं चेतस् स्वप्नवज् जाग्रद् एव हि ॥

3.110.10

मोहैककारणं जन्तोर् मनसो वासनोल्बणा ।
उत्खातव्या प्रयत्नेन मूलच्छेदेन चैव सा ॥

3.110.11

वासनावागुराकृष्टो मनोहरिणको नृणाम् ।
परां विवशताम् एति संसारवनगुल्मके ॥

3.110.12

येनोच्छिन्ना विचारेण जीवस्य ज्ञेन वासना ।
निरभ्रस्येव सूर्यस्य तस्यालोको विराजते ॥

3.110.13

अतस् त्वं मन एवेदं नरं विद्धि न देहकम् ।
जडो देहो मनस् त्व् अत्र न जडं नाजडं विदुः ॥

3.110.14

यत् कृतं मनसा राम तत् कृतं विद्धि राघव ।
यत् त्यक्तं मनसा राम तत् त्यक्तं विद्धि राघव ॥

3.110.15

मनोमात्रं जगत् कृत्स्नं मनः पर्वतमण्डलम् ।
मनो व्योम मनो भूमिर् मनो वायुर् मनो महान् ॥

3.110.16

मनो यदि पदार्थं तु तद्भावेन न योजयेत् ।
ततस् सूर्यादयो ऽप्य् एते न प्रकाशाः कदाचन ॥

3.110.17

मनो मोहम् उपादत्ते यस्यासौ मूढ उच्यते ।
शरीरे मोहम् आपन्ने न शवे मूढ उच्यते ॥

3.110.18

मनः पश्यद् भवत्य् अक्षि शृण्वच् श्रवणतां गतम् ।
त्वग्भावं स्पर्शनाद् एति घ्राणताम् एति शिङ्घनात् ॥

3.110.19

रसनाद् रसताम् एति विचित्रास्व् अत्र वृत्तिषु ।
नाटके नटवद् देहे मन एवाभिवर्तते ॥

3.110.20

लघु दीर्घं करोत्य् एतत् सत्तासत्तां च गच्छति ।
कटुतां नयति स्वादु रिपुं नयति मित्रताम् ॥

3.110.21

य एव प्रतिभासो ऽस्य चेतसो वृत्तिवर्तिनः ।
तत् सद् एव हि प्रत्यक्षं तन्मात्रानुभवाद् इह ॥

3.110.22

प्रतिभासवशाद् एव स्वप्नार्थलितचेतसः ।
हरिश्चन्द्रस्य सम्पन्ना रात्रिर् द्वादशवार्षिकी ॥

3.110.23

चित्तानुभाववशतो मुहूर्तत्वं गतं युगम् ।
इन्द्रद्युम्नस्य वैरिञ्चपुराभ्यन्तरवर्तिनः ॥

3.110.24

मनोज्ञया मनोवृत्त्या सुखतां याति रौरवम् ।
प्रातःप्राप्यस्वराज्यस्य सुबद्धस्येव बन्धनम् ॥

3.110.25

जिते मनसि सर्वैव विजितैवेन्द्रियावली ।
शीर्यते च यथा तन्तौ दग्धे सौक्तिकमालिका ॥

3.110.26

सर्वतस् स्थितया स्वच्छरूपया निर्विकारया ।
समया सूक्ष्मया नित्यं चिच्छक्त्या साक्षिभूतया ॥

3.110.27

सर्वभावानुगतया न चेत्यार्थविभिन्नया ।
रामात्मसत्तयामूकम् अपि देहसमं जडम् ॥

3.110.28

मनो ऽन्तर् वल्गति व्यस्तमननैषणम् ऊर्जया ।
बहिर्गिरिसरिद्व्योमसमुद्रपुरलीलया ॥

3.110.29

जाग्रच् चाभिमतं वस्तु नयत्य् अमृतमृष्टताम् ।
अनीहितं च विषतां नयत्य् अमृतम् अप्य् अलम् ॥

3.110.30

प्रसृज्य सर्वभावानाम् अलम् आत्मचमत्कृतिम् ।
मनस् त्व् अभिमताकारं रूपं सृजति वस्तुषु ॥

3.110.31

स्पन्देषु वायुताम् एति प्रकाशेषु प्रकाशताम् ।
द्रवेषु द्रवताम् एति चिच्छक्तिच्छुरितं मनः ॥

3.110.32

पृथ्व्यां कठिनताम् एति शून्यवृत्तिषु शून्यताम् ।
सर्वत्रेच्छास्थितौ याति चिच्छक्तिच्छुरितं मनः ॥

3.110.33

शुक्लं कृष्णीकरोत्य् एतत् कृष्णं नयति शुक्लताम् ।
विनैव देशकालाभ्यां शक्तिं पश्यास्य चेतसः ॥

3.110.34

मनस्य् अन्यत्र संसक्ते चर्वितस्यापि जिह्वया ।
भोजनस्यातिमृष्टस्य न स्वादो ह्य् अनुभूयते ॥

3.110.35

यच् चित्तदृष्टं तद् दृष्टं न दृष्टं तदलोकितम् ।
अन्धकारे यथा रूपम् इन्द्रियं निर्मनस् तथा ॥

3.110.36

इन्द्रियेण विनोदेति मनो नेन्द्रियम् उन्मनः ।
इन्द्रियाणि प्रसूतानि मनसो नेन्द्रियान् मनः ॥

3.110.37

अत्यन्तभिन्नयोर् ऐक्यं येषाम् चित्तशरीरयोः ।
ज्ञातज्ञेया महात्मानो नमस्यास् ते सुपण्डिताः ॥

3.110.38

कुसुमोल्लासिधम्मिला हेलावलितलोचना ।
काष्ठकुड्योपमाङ्गेषु लग्नाप्य् अमनसो ऽङ्गना ॥

3.110.39

मनस्य् अन्यत्र संसक्ते वीतरागेण कानने ।
क्रव्यादचर्वितो ऽङ्गस्थस् स्वकरो ऽपि न लक्षितः ॥

3.110.40

सुखीकर्तुं सुदुःखानि दुःखीकर्तुं सुखानि च ।
सुखेनैवाशु युज्यन्ते मनसो ऽतिशयान् मुनेः ॥

3.110.41

मनस्य् अन्यत्र संसक्ते कथ्यमानापि यत्नतः ।
लता परशुकृत्तेव कथा विच्छिद्यते बत ॥

3.110.42

मनस्य् अद्रितटारूढे गृहस्थेनापि जन्तुना ।
श्वभ्राभ्रकन्दरभ्रान्तिदुःखं समनुभूयते ॥

3.110.43

मनस्य् उल्लसिते स्वप्ने हृद्य् एव पुरपर्वताः ।
आकाश इव विस्तीर्णे दृश्यन्ते निर्मिताः क्षणात् ॥

3.110.44

मनो विलुलितं स्वप्ने हृद्य् एवाद्रिपुरावलीम् ।
तनोति चलितो ऽम्भोधिर् वीचीचयम् इवात्मनि ॥

3.110.45

अन्तर् अब्धेर् जलाद् यद्वत् तरङ्गापीडवीचयः ।
देहान्तर् मनसस् तद्वत् स्वप्नाद्रिपुरराजयः ॥

3.110.46

अङ्कुरस्य यथा पत्त्रलतापुष्पफलश्रियः ।
मनसो ऽस्य तथा जाग्रत्स्वप्नविभ्रमभूतयः ॥

3.110.47

व्यतिरिक्ता यथा हेम्नो न हैमवनिता तथा ।
जाग्रत्स्वप्नक्रियालक्ष्मीर् व्यतिरिक्ता न चेतसः ॥

3.110.48

धाराकणोर्मिफेनश्रीर् यथा संलक्ष्यते ऽम्भसः ।
तथा विचित्रविभवा नानातेयं हि चेतसः ॥

3.110.49

स्वचित्तवृत्तिर् एवेयं जाग्रत्स्वप्नदृशोदिता ।
रसावेशाद् उपादत्ते शैलूष इव भूमिकाम् ॥

3.110.50

चण्डालत्वं हि लवणः प्रतिभासवशाद् यथा ।
तथेदं जगद् आभोगि मनोमननमात्रकम् ॥

3.110.51

यद् यत् संवेद्यते किञ्चित् तेन तेनाशु भूयते ।
मनोमनननिर्माणं यथेच्छसि तथा कुरु ॥

3.110.52

नानापुरसरिच्छैलरूपताम् एत्य देहिनाम् ।
तनोत्य् अन्तस्स्थम् एवेदं जाग्रत्स्वप्नभ्रमं मनः ॥

3.110.53

सुरत्वाद् दैत्यताम् एति नागत्वान् नगताम् अपि ।
प्रतिभासवशाच् चित्तम् आपदं लवणो यथा ॥

3.110.54

नरत्वाद् एति नारीत्वं पितृत्वात् पुत्रतां पुनः ।
यथा क्षिप्रं प्रति नटस् स्वसङ्कल्पात् तथा मनः ॥

3.110.55

सङ्कल्पतः प्रम्रियते सङ्कल्पाज् जायते पुनः ।
मनश् चिरतराभ्यस्ताज् जीवताम् एत्य् अनाकृति ॥

3.110.56

मनो मननसम्मूढम् ऊढवासनमारुतात् ।
सङ्कल्पाद् योनिम् आयाति सुखं दुःखं भयाभये ॥

3.110.57

सुखं दुःखं च मनसि तिले तैलम् इव स्थितम् ।
तद् देशकालवशतो घनं वा तनु वा भवेत् ॥

3.110.58

तैलं तिलस्य च क्रान्त्या स्फुटताम् एति शाश्वतीम् ।
चेतसो मननासङ्गाद् घनीभूते सुखासुखे ॥

3.110.59

देशकालाभिधानेन राम सङ्कल्प एव हि ।
कथ्यते तद्वशाद् यस्माद् देशकालौ स्थितिं गतौ ॥

3.110.60

प्रशाम्यत्य् उल्लसत्य् एति याति नन्दति वल्गति ।
मनश् शरीरसङ्कल्पे फलिते न शरीरकम् ॥

3.110.61

नानास्फालसमुल्लासैस् स्वसङ्कल्पोपकल्पितैः ।
मनो वल्गति देहे ऽस्मिन् स्वश्ववार इवाजिरे ॥

3.110.62

चापले प्रसरस् तस्माद् अन्तर् येन न दीयते ।
मनो विनयम् आधत्ते तस्यालान इव द्विपः ॥

3.110.63

न स्पन्दते मनो यस्य शस्त्रस्तम्भ इवोत्तमः ।
सद्वस्तुनो ऽसौ पुरुषश् शिष्टाः कर्दमकीटकाः ॥

3.110.64

यस्याचापलतां यातं मन एकत्र संस्थितम् ।
अनुत्तमपदेनासौ ध्यानेनानुगतो ऽनघः ॥

3.110.65

संयमान् मनसश् शान्तिम् एति संसारसम्भ्रमः ।
मन्दरे ऽस्पन्दतां याते यथा क्षीरमहार्णवः ॥

3.110.66

मनसो वृद्धयो या या भोगसङ्कल्पविभ्रमैः ।
संसारविषवृक्षस्य ता एवाङ्कुरयोनयः ॥

3.110.67

चित्तं चलत्कुवलयं वलयन्त एते मूढा महाजडजवे मदमोहमन्दाः ।
आवर्तवर्तिनि विलूनविशीर्णचित्ताश् चक्रभ्रमे पुरुषदुर्भ्रमराः पतन्ति ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc