भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.109

3.109.1

तस्मिंस् तदा वर्तमाने कष्टे विधिविपर्यये ।
अकालोल्बणकल्पान्ते नितान्तातपदायिनि ॥

3.109.2

जनाः केचन निष्क्रम्य सकलत्रसुहृज्जनाः ।
गता देशान्तरं व्योम्नश् शरदीव पयोधराः ॥

3.109.3

देहावयवसंलीनपुत्रदाराग्र्यबान्धवाः ।
शीर्णाः केचन तत्रैव च्छिन्ना इव वने द्रुमाः ॥

3.109.4

भुक्ताः केचन दिग्व्याघ्रैर् निर्गच्छन्तस् स्वमन्दिरात् ।
अजातपक्षकाश् श्येनैः खगा नीडोद्गता इव ॥

3.109.5

प्रविष्टाः केचिद् अनलं ज्वलितं शलभा इव ।
केचिच् छ्वभ्रेषु पतिताश् शिलाश् शैलच्युता इव ॥

3.109.6

अहं तु तान् परित्यज्य श्वशुरादीन् स्वकाञ् जनान् ।
कलत्रमात्रम् आदाय कृच्छ्राद् देशाद् विनिर्गतः ॥

3.109.7

अनलान् अनिलांश् चैव रक्षकान् भक्षकान् अपि ।
वञ्चयित्वा भयान् मृत्योस् सदारो ऽहं विनिर्गतः ॥

3.109.8

प्राप्य तद्देशपर्यन्तं तत्र तालतरोस् तले ।
अवरोप्य सुतान् स्कन्धात् तान् अनर्थान् इवोल्बणान् ॥

3.109.9

विश्रान्तो ऽस्मि चिरश्रान्तो रौरवाद् इव निर्गतः ।
ग्रीष्मदावनिदाघार्तो ग्रीष्मे पद्म इवाजलः ॥

3.109.10

अथ चण्डालकन्यायां विश्रान्तायां तरोस् तले ।
सुप्तायां शीतलच्छाये द्वौ समालिङ्ग्य दारकौ ॥

3.109.11

थुत्थको नाम तनयो ममैकः पुरतस् स्थितः ।
अत्यन्तवल्लभो ऽस्माकं कनीयान् कान्तिमान् इति ॥

3.109.12

स माम् उवाच दीनात्मा बाष्पपूर्णविलोचनः ।
आप्त देह्य् आशु मे मांसं पानं च रुधिरं क्षणात् ॥

3.109.13

पुनः पुनर् वदन्न् एवं स बालस् तनयो मम ।
प्राणान्तिकीं दशां प्राप्तस् साक्रन्दो हि पुनः क्षुधा ॥

3.109.14

तस्योक्तं हि मया पुत्र मांसं नास्तीति भूरिशः ।
तथापि मांसं देहीति वदत्य् एव सुदुर्मतिः ॥

3.109.15

अथ वात्सल्यमूढेन मया दुःखातिभारिणा ।
तस्योक्तं पुत्र मन्मांसं पक्वं सम्भुज्यताम् इति ॥

3.109.16

तद् अप्य् अङ्गीकृतं तेन देहीति वदता पुनः ।
मन्मांसभक्षणं क्षीणवृत्तिना श्लथकृत्तिना ॥

3.109.17

सर्वदुःखापनोदाय स्नेहकारुण्यमोहितः ।
मरणायात्तमित्राय ततो ऽहं सहसोत्थितः ॥

3.109.18

ग्रीष्मतापोपतप्तानि काष्ठान्य् आहृत्य जङ्गलात् ।
मरणायात्मनस् तत्र चिता विरचिता मया ॥

3.109.19

लेलिहानानलज्वाला चिता प्रज्वालिताथ सा ।
क्षणाच् चटचटास्फोटैस् स्थिता मदभिकाङ्क्षिणी ॥

3.109.20

मयोक्तं तनयास्यां तु चितायां पतितात् पुनः ।
उत्कृत्योत्कृत्य भोक्तव्यं मत्तो मांसं क्षणात् त्वया ॥

3.109.21

इत्य् उक्त्वा यावद् आत्मानं स्वं चितायां क्षिपाम्य् अहम् ।
लुठितो ऽस्मि जवात् तावद् अस्मात् सिंहासनान् नृपः ॥

3.109.22

ततस् तूर्यनिनादेन जयशब्देन चाभितः ।
भृशम् एव प्रबुद्धो ऽहं स्मृत्या च वलितस् स्थितः ॥

3.109.23

इति शाम्बरिकेणेह मोह उत्पादितो मम ।
अज्ञानेनेव जीवस्य दशाशतसमन्वितः ॥

3.109.24

आत्मोदन्तं भवत्स्व् इत्थम् एनं कथितवान् अहम् ।
मार्काण्डेय इवानन्तं कल्पदुःखं सुराजसु ॥

3.109.25

इत्य् उक्तवति राजेन्द्रे लवणे भूरितेजसि ।
अन्तर्धानं जगामासौ तत्र शाम्बरिकः क्षणात् ॥

3.109.26

अथेदम् ऊचुस् ते सभ्या विस्मयाकुलचेतसः ।
अन्योऽन्यालोकनव्यग्रपद्मपत्त्रनिभेक्षणाः ॥

3.109.27

अहो नु खलु चित्रेयं माया ननु विलक्षणा ।
को नु शाम्बरिको नाम क्व चासाव् अग्रतो गतः ॥

3.109.28

सर्वशक्तेर् विचित्रा हि शक्तयश् शतशो विधेः ।
यद् विवेकिमनो ऽप्य् एष विमोहयति मायया ॥

3.109.29

विज्ञातलोकवृत्तान्तः क्व नामायं महीपतिः ।
क्व सामान्यमनोवृत्तियोग्या विपुलसम्भ्रमाः ॥

3.109.30

न च शाम्बरिकोत्थेयं माया मनसि मोहनी ।
अर्थस्य गृध्नवो ह्य् एते नित्यं शाम्बरिकाः किल ॥

3.109.31

यत्नेन प्रार्थयन्ते ऽर्थं नान्तर्धानं व्रजन्ति ते ।
इति सन्देहदोलायां संस्थितौ लुठिता वयम् ॥

3.109.32

सभायाम् अवसं तस्याम् अहं राम तदा किल ।
तेन प्रत्यक्षतो दृष्टं मयैतन् नाप्ततश् श्रूतम् ॥

3.109.33

अतिबहुकलनाविवर्धिताङ्गं नय निजचित्तम् इदं शमं महात्मन् ।
शमम् उपगमिते परं स्वभावे परमम् उपैष्यसि पावनं पदं तत् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc