भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.106

3.106.1

अस्ति तावद् अयं देशो नानावननदीयुतः ।
वसुधामण्डलस्यास्य सहोदर इवानुजः ॥

3.106.2

अस्मिंश् चायम् अहम् राजा पौराभिमतवृत्तिमान् ।
इन्द्रस् स्वर्ग इवास्यां तु सभायाम् अद्य संस्थितः ॥

3.106.3

यावद् अभ्यागतो दूरात् कश्चिच् छाम्बरिकस् त्व् अयम् ।
रसातलाद् अभ्युत्थितो मायी मय इव स्वयम् ॥

3.106.4

अनेन भ्रामितैषेह पिञ्छिका राजिराजिता ।
कल्पान्तपवनाभ्रेण शक्रचापलता यथा ॥

3.106.5

आलोक्यैताम् अहं लोलाम् अस्याश्वस्य पुरस्स्थितेः ।
पृष्ठम् आरूढवान् एक आत्मना भ्रान्तमानसः ॥

3.106.6

ततो ऽद्रिं प्रलयक्षुब्धं पुष्करावर्तको यथा ।
तथा चलन्तं चलितस् स्वश्वम् आरूढवान् अहम् ॥

3.106.7

गन्तुं प्रवृत्तो मृगयाम् एको ऽहम् अथ रंहसा ।
उर्वराम् इव निर्भेत्तुं कल्लोलः प्रलयाम्बुधेः ॥

3.106.8

तेनानिलविलोलेन दूरं नीतो ऽस्मि वाजिना ।
भोगाभ्यासजडेनाज्ञो मुग्धस् स्वमनसा यथा ॥

3.106.9

अकिञ्चनमनश्शून्यं स्त्रीचित्तम् इव दुर्भगम् ।
ततः प्रलयनिर्दग्धजगदास्पदभीषणम् ॥

3.106.10

निष्पक्षि क्षारनीहारं निर्वृक्षम् अजलं महत् ।
सम्प्राप्तो ऽहम् अपर्यन्तम् अरण्यं तान्तवाहनः ॥

3.106.11

तद् द्वितीयम् इवाकाशं तथाष्टमम् इवाम्बुधिम् ।
पञ्चमं सागरम् इव संशुष्कं शून्यकोटरम् ॥

3.106.12

ज्ञस्येव विततं चेतो मूर्खस्येव रुषो ऽजवम् ।
अदृष्टजनसंसर्गम् अजाततृणपल्लवम् ॥

3.106.13

अरण्यं महद् आसाद्य मतिर् मे खेदम् आगता ।
ललनेवैत्य दारिद्र्यं निरन्नफलबान्धवम् ॥

3.106.14

कचन्मरुमरीच्यम्बुपूरप्लुतककुब्मुखे ।
आसूर्यान्तं दिनं तत्र प्रक्रान्तं सीदता मया ॥

3.106.15

तद् अरण्यं मयातीतम् अतिकृच्छ्रेण खेदिना ।
विवेकिनेव संसारो मध्यशून्यातताकृतिः ॥

3.106.16

तद्दिनेनातिवाह्याहं प्राप्तवाञ् जङ्गलं महत् ।
अस्ताद्रिसानुं खिन्नः खं शून्यं भ्रान्त्वेव भास्करः ॥

3.106.17

जम्बूकदम्बप्रायेषु कलालापाः पतत्रिणः ।
यत्र स्फुरन्ति षण्डेषु पान्थानाम् इव बन्धवः ॥

3.106.18

यत्र शष्पशिखाश्रेण्यो दृश्यन्ते ऽविरलास् स्थले ।
कदर्थलक्ष्म्या जिह्मस्य हृदीवानन्दवृत्तयः ॥

3.106.19

पूर्वाद् अरण्याद् अरसात् तद् धि किञ्चित् सुखावहम् ।
अत्यन्तदुःखान् मरणाद् वरं व्याधिर् हि जन्तुषु ॥

3.106.20

तत्र जम्बीरषण्डस्य तलं सम्प्राप्तवान् अहम् ।
मार्काण्डेय इवागेन्द्रम् एकार्णवविहारतः ॥

3.106.21

आलम्बिता मया तत्र स्कन्धसंसङ्गिनी लता ।
नीला जलदमालेव तापतप्तेन भूभृता ॥

3.106.22

मयि प्रलम्बमाने ऽस्यां प्रयातस् स तुरङ्गमः ।
गङ्गावलम्बिनि जने यथा दुष्कृतसञ्चयः ॥

3.106.23

चिरदीर्घाध्वगः खिन्नस् तत्र विश्रान्तवान् अहम् ।
भानुर् अस्ताचलोत्सङ्गे तले कल्पतरोर् इव ॥

3.106.24

यावत् समस्तसंसारव्यवहारभरैस् समम् ।
रविर् विश्रमणायेव निविष्टो ऽस्ताचलाङ्गने ॥

3.106.25

शनैश् श्यामिकया ग्रस्ते समस्ते भुवनोदरे ।
रात्रिसंव्यवहारेषु सम्प्रवृत्तेषु जङ्गले ॥

3.106.26

अहं तनुतृणे तस्मिन् पेलवे षण्डकोदरे ।
निलीनो ऽविरलालस्यस् स्वनीडे विहगो यथा ॥

3.106.27

विपद्भ्रष्टविवेकस्य च्छिन्नाशस्य गलत्स्मृतेः ।
विक्रीतस्येव दीनस्य मग्नस्येवान्धकूपके ॥

3.106.28

तत्र कल्पसमा रात्रिर् मोहमग्नस्य मे गता ।
एकार्णवोह्यमानस्य मार्काण्डेयमुनेर् इव ॥

3.106.29

न स्नातवान् न स्थितवान् न तदा भुक्तवान् अहम् ।
केवलं मे गता रात्रिस् सापदां धुरि तिष्ठतः ॥

3.106.30

विनिद्रस्य विधैर्यस्य स्फुरतस् सह पल्लवैः ।
मम दुःखातिदैर्घ्येण सा व्यतीयाय शर्वरी ॥

3.106.31

ततस् तिमिरलेखासु सह तारेन्दुकैरवैः ।
मयीवापद्यमानासु म्लानताम् अलसाननैः ॥

3.106.32

शाम्यन्तीषु च वेतालक्ष्वेडास्व् अजनजङ्गले ।
सह शीतार्तिमद्दन्तपङ्क्तिटाङ्कारसीत्कृतैः ॥

3.106.33

माम् अबन्तरनिर्मग्नं हसन्तीम् इव दृष्टवान् ।
अहं पूर्वां दिशं प्रातर् मधुपानारुणाम् इव ॥

3.106.34

क्षणाद् अज्ञ इव ज्ञानं दरिद्र इव काञ्चनम् ।
दृष्टवान् अहम् अर्कं खवारणारोहणोन्मुखम् ॥

3.106.35

उत्थाय वारवाणं च तत आस्फोटितं मया ।
हस्तिचर्म हरेणेव सन्ध्यानृत्तानुरागिणा ॥

3.106.36

प्रवृत्तस् ताम् अहं स्फारां विहर्तुं जङ्गलस्थलीम् ।
कालो जगत्कुटीं कल्पदग्धभूतगणाम् इव ॥

3.106.37

न किञ्चिद् दृश्यते तत्र भूतं जरढजङ्गले ।
अभिजातो गुणलवो यथा मूर्खशरीरके ॥

3.106.38

केवलं विगताशङ्कं षण्डभ्रमणचञ्चलाः ।
चीचीकूचीचीवचना विहरन्ति विहङ्गमाः ॥

3.106.39

अथाष्टभागम् आपन्ने व्योम्नो दिवसनायके ।
शुष्कावश्यायलेशासु स्नातास्व् इव लतासु च ॥

3.106.40

भ्रमतात्र मया दृष्टा दारिकौदनधारिणी ।
गृहीतामृतसत्कुम्भा दानवेनेव माधवी ॥

3.106.41

तरत्तारकनेत्रां तां श्यामाम् अधवलाम्बराम् ।
अहम् अभ्यागतस् तत्र शर्वरीम् इव चन्द्रमाः ॥

3.106.42

मह्यम् ओदनम् आश्व् एतद् बाले बलवदापदे ।
देहि दीनार्तिहरणात् स्फारतां यान्ति सम्पदः ॥

3.106.43

क्षुद् अन्तर् दहतीयं मां बाले वृद्धिम् उपेयुषी ।
कृष्णसर्पी प्रसूतेव कोटरस्था जरद्द्रुमम् ॥

3.106.44

याच्ञयापि तया मह्यम् इत्थं दत्तं न किञ्चन ।
यत्नप्रार्थितया लक्ष्म्या यथा दुष्कृतिने धनम् ॥

3.106.45

केवलं चिरकालेन मय्य् अत्यन्तानुगामिनि ।
षण्डात् षण्डं निपतति च्छायाभूते पुरस्स्थिते ॥

3.106.46

तयोक्तो हारकेयूरिंश् चण्डालीं विद्धि माम् इति ।
राक्षसीम् इव सुक्रूरां पुरुषाश्वगजाननाम् ॥

3.106.47

राजन् याचनमात्रेण मत्तो नाप्नोषि भोजनम् ।
ग्राम्याद् अनभिजातेहात् सौजन्यम् इव सुन्दर ॥

3.106.48

इत्य् उक्तवत्या गच्छन्त्या स्खलन्त्येव पदे पदे ।
कुञ्जकेषु निमज्जन्त्या लीलावनतयोदितम् ॥

3.106.49

ददानि भोजनम् इदं भर्ता भवसि चेन् मम ।
लोको नोपकरोत्य् अर्थं सामान्यस् स्निग्धतां विना ॥

3.106.50

वाहयत्य् अत्र मे दान्तान् उड्डारे पुक्कसः पिता ।
श्मशान इव वेतालः क्षुधितो धूलिधूसरः ॥

3.106.51

तस्येदम् अन्नं भवति भर्तृत्वे दीयते स्थिते ।
प्राणैर् अपि हि सम्पूज्या वल्लभाः पुरुषा यतः ॥

3.106.52

अथोक्ता सा मया भर्ता भवामि तव सुव्रते ।
केनापदि विचार्यन्ते वर्णधर्मकुलक्रमाः ॥

3.106.53

ततस् तयौदनाद् अर्धं मह्यम् एकं समर्पितम् ।
माधवीवामृताद् अर्धम् इन्द्रायाग्निमते पुरा ॥

3.106.54

जम्बूफलरसः पीतस् स भुक्तः पुक्कसौदनः ।
विश्रान्तं च मया तत्र मोहापहृतचेतसा ॥

3.106.55

मां तडाकम् इवापूर्य सा प्रावृट्श्यामला गता ।
हस्तेन समुपादाय प्राणं बहिर् इव स्थितम् ॥

3.106.56

दुराकृतिं दुरारम्भम् आससाद भयप्रदम् ।
पितरं पीवराकारम् अवीचिम् इव शासना ॥

3.106.57

तया मदनुषङ्गिण्या स्वार्थस् तस्मै निवेदितः ।
मातङ्गाय भ्रमर्येव निस्स्वनेनालिलग्नया ॥

3.106.58

स तस्या बाढम् इत्य् उक्त्वा दिनान्ते समुपस्थिते ।
मुमोच दान्ताव् आबद्धौ कृतान्तः किङ्कराव् इव ॥

3.106.59

नीहाराभ्रकडारासु दिक्षु प्रोद्धूलितास्व् इव ।
वेतालवद् वनात् तस्माद् दिनान्ते चलिता वयम् ॥

3.106.60

क्षणेन पक्कणं प्राप्तास् सन्ध्यायां दीर्घजङ्गलात् ।
श्मशानाद् इव वेतालाश् श्मशानम् इतरन् महत् ॥

3.106.61

विकर्तितवराहाश्वकपिकुक्कुटवायसम् ।
रक्तसिक्तोर्वराभागप्रभ्रमन्मक्षिकागणम् ॥

3.106.62

शोषार्थप्रसृतार्द्रान्त्रतन्द्रीजालपतत्खगम् ।
निष्कुटास्थितजम्बीरषण्डलग्नश्वजाघनि ॥

3.106.63

शुष्यद्गुरुवसापिण्डपूर्णालिन्दलसत्खगम् ।
दृतिप्रसक्तरक्ताक्तचर्मस्रवदसृग्लवम् ॥

3.106.64

बालहस्तस्थितक्रव्यपिण्डारणितमक्षिकम् ।
जर्जरज्येष्ठचण्डालतर्जितारटितार्भकम् ॥

3.106.65

तत् प्रविष्टा वयं कीर्णशिरोऽन्त्रं भीमपक्कणम् ।
मृतभूतं जगत् कल्पे कृतान्तानुचरा इव ॥

3.106.66

सम्भ्रमोपहितानल्पकदलीदलपीठके ।
अहम् आस्थितवांस् तत्र नवे श्वशुरमन्दिरे ॥

3.106.67

श्वश्र्वा मे केकराक्ष्यास् तु तेनास्रुलवचक्षुषा ।
जामातायम् इति प्रोक्तं तया तद् अभिनन्दितम् ॥

3.106.68

अथ विश्रम्य चण्डालभोजनान्य् अजिनासने ।
सञ्चितान्य् उपभुक्तानि दुष्कृतानीव भूरिशः ॥

3.106.69

अनन्तदुःखबीजानि नमनोज्ञतराण्य् अपि ।
तानि प्रणयवाक्यानि श्रुतान्य् असुभगान्य् अलम् ॥

3.106.70

निरभ्राम्बरनक्षत्रे कस्मिंश्चिन् दिवसे ततः ।
तैस् तैर् आरम्भसंरम्भैस् तैर् वस्त्रविभवार्पणैः ॥

3.106.71

दत्ताथ तेन सा मह्यं कुमारी भयदायिनी ।
सुकृष्णा कृष्णवर्णेन दुष्कृतेनेव शासना ॥

3.106.72

सरभसम् अभितो विनेदुर् अत्र प्रसृतमहामदिरासवाश् श्वपाकाः ।
हतपटुपटहा विलासवन्तस् स्वयम् इव दुष्कृतराशयो महान्तः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc