मोक्षोपाय · अध्याय 3.107
बहुनात्र किम् उक्तेन स्वोत्सवावर्जिताशयः ।
ततःप्रभृति तत्राहं सम्पन्नः पुष्टपुक्कसः ॥
सप्तरात्रोत्सवस्यान्ते क्रमान् मासाष्टकं गतम् ।
पुष्पिता साथ सम्पन्ना स्थिता गर्भवती ततः ॥
प्रासूत दुःखदां कन्यां विपद् दुःखक्रियाम् इव ।
सा कन्या ववृधे शीघ्रं मूर्खचिन्तेव पीवरी ॥
पुनः प्रासूत सा वर्षैस् त्रिभिः पुत्रम् अशोभनम् ।
अनर्थम् इव दुर्बुद्धिर् आशापाशविधायकम् ॥
पुनः प्रासूत कन्यां च पुनर् अप्य् अर्भकं ततः ।
कलत्रवान् अहं जातो वने जरढपुक्कसः ॥
तया सह समास् तत्र मया बह्व्यो ऽतिवाहिताः ।
नरके चिन्तया सार्धं ब्रह्मघ्नेनेव नश्यता ॥
शीतवातातपक्लेशविवशेन वनान्तरे ।
चिरं विलुलितं वृद्धकच्छपेनेव पल्वले ॥
कलत्रचिन्ताहतया धिया सन्दह्यमानया ।
दृष्टाः कष्टसमारम्भा दिशः प्रज्वलिता इव ॥
क्षौमानेकसमाक्षीणपटखण्डकधारिणा ।
काष्ठभारो वने व्यूढो यो मूर्तम् इव दुष्कृतम् ॥
यौककीर्णजरक्लिन्नगन्धिकौपीनवाससा ।
आढ्यास्पदवलीकानां तले नीता घनागमाः ॥
कलत्रापूरणोत्केन जर्जरेण हिमानिलैः ।
हेमन्ते दुर्दुरेणेव निलीनं वनकुक्षिषु ॥
नानाकलहकल्लोलतापप्रसरविद्रुताः ।
बाष्पव्याजेन निर्मुक्ता नेत्राभ्यां रक्तबिन्दवः ॥
यामिन्यो विपिने क्लिन्नवराहामिषभोजिना ।
शिलातलकुटीकोणे नीता जलदविप्लुताः ॥
काले क्षयं गते स्नेहे कलत्रे ऽघनतां गते ।
असौहार्देन बन्धूनां कलहैश् चातिसन्ततैः ॥
सर्वत्र जातशङ्केन कुलीलामुखरार्भके ।
मया कृपणचित्तेन नीताः परगृहे समाः ॥
चण्डालीकलहोद्विग्नचण्डचण्डालतर्जनैः ।
मुखं जर्जरतां यातम् इन्दू राहुरदैर् इव ॥
चर्विताः खर्वितोष्ठेन द्वीपीपिशितपेशयः ।
नरकाहृतविक्रीता नारक्यो रसना इव ॥
हिमवत्कन्दरोद्गीर्णाश् चण्डा हेमन्तवायवः ।
अङ्गे निरम्बरे सोढा मृत्युमुक्ता इवेषवः ॥
जरज्जरढमूढेन मूलानि क्षीणभूरुहाम् ।
सुकृतानाम् इवैकेन समुत्खातानि भूरिशः ॥
शरावकेष्व् अटव्यां च पललं पक्वम् आदरात् ।
अमृष्टेन जनैर् भुक्तं कुकलत्रवता मया ॥
ग्रहीतृतेजःक्षतये बहुवक्त्रविकारिणा ।
भागधेयम् इवात्मीयं विक्रीतं पण्यम् अन्यतः ॥
प्राण्यङ्गवपुषस् स्वस्य प्रोत्कृत्योत्कृत्य पेशयः ।
आयुषः परि विक्रीता विन्ध्यपक्कणभूमिषु ॥
जन्मान्तरसहस्रोत्थं स्वं पापम् इव वृद्धये ।
अवकीर्णं च सङ्कीर्णं मण्डलारामभूमिषु ॥
दृष्टं कुद्दालकं दृष्ट्या ऋज्व्या स्नेहसमुत्कया ।
रौरवापतितेनेव तत्काकस् स्निग्धतां गतः ॥
विन्ध्यकन्दरगुल्मानां बन्धुत्वम् इव गच्छता ।
पुलिन्दवपुषा पत्त्रपङ्क्तयो ऽङ्गे समर्पिताः ॥
तर्पिता लगुडास्फालजितकौलेयरंहसा ।
पुत्रदाराः कदन्नेन ग्राम्यकाद् याचितेन च ॥
धारासाररणत्पत्त्रशुष्कतालतले निशाः ।
नीता रणितदन्तेन सार्धं विपिनवानरैः ॥
रोमभिः कोटिषु प्रोच्चैश् शीतेनोद्धृषितस्य मे ।
वर्षासु मुक्ताकणवद् धृतास् सलिलबिन्दवः ॥
अजाजिमूलखण्डार्थं क्षुत्क्षोभक्षीणकुक्षिणा ।
कलत्रेण महाटव्यां कृतः कलह आकुलः ॥
वने रणितदन्तेन शीतकेकरचक्षुषा ।
मषीमलिनगात्रेण वेतालस्वजनायितम् ॥
सरित्तीरेषु मत्स्यार्थं भ्रान्तं बडिशधारिणा ।
कल्पे जगत्सु भूतार्थं कृतान्तेनेव पाशिना ॥
पीतं बहूपवासेन सम्यक्कृत्तान् मृगोरसः ।
तत्कालकोष्णं रुधिरं मातुस् स्तनपयो यथा ॥
श्मशानसंस्थितान् मत्तो रक्तरक्तात् पलाशिनः ।
विद्रुता वनवेतालाश् चण्डिकाभिद्रुता इव ॥
वागुरा विपिने व्युप्ता बन्धार्थं मृगपक्षिणाम् ।
आशा इव विवृद्ध्यर्थं पुत्रदारकलत्रजाः ॥
मया मायामयैर् लोकास् सूत्रजालमयैः खगाः ।
जालैर् जर्जरतां नीता दिशश् च सुकृतायुषाम् ॥
तत्रातिदत्तप्रसरे मनसो दुष्कृतोदये ।
आशा प्रसारिता दूरं प्रावृषीव तरङ्गिणी ॥
करभ्या इव सर्पेण विद्रुतं दूरतो ह्रिया ।
दूरे त्यक्ता दया देहाद् भुजङ्गेनेव कञ्चुकम् ॥
क्रौर्यं मुखरसंरम्भि शरवर्षि निनादि च ।
अङ्गीकृतं निदाघान्ते नभसेवासिताम्बुदः ॥
विकासिन्यो ऽक्षताकारा दूरं परिहृता जनैः ।
श्वभ्रेणेव कुमञ्जर्यश् चिरम् ऊढा मयापदः ॥
श्वकाकाकुलकोणासु नरकोड्डारभूमिषु ।
उप्ता दुष्कृतबीजानां मुष्टयो मोहवृष्टयः ॥
वागुरासिमता विन्ध्यकन्दरस्थेन निर्दयम् ।
भूतेष्व् इव कृतान्तेन मृगेषु परिवल्गितम् ॥
पामरीकण्ठकुड्येषु विश्रान्तशिरसा मया ।
सुप्तम् अस्तविवेकेन शेषाङ्गेष्व् इव शौरिणा ॥
विलोलपर्णाम्बरया शरावोल्लासिधूमया ।
मम तन्वा सनीहारविन्ध्यकच्छगुहायितम् ॥
कृष्णदेहेन यौकाढ्या कन्था स्कन्धे मया चिरम् ।
ग्रीष्मेषूढा बलोद्भूता वराहेण यथोर्वरा ॥
बहुशो ऽहं वनोत्थाग्निनिर्दग्धप्राणिमण्डलः ।
कल्पाग्निभुक्तजगतः कालस्यानुकृतिं गतः ॥
लोहलिङ्गा यथा रोगान् अनर्थान् इव दुर्ग्रहाः ।
प्रसूतास् तत्र मे दारा दुःखान्य् अपि सुतान् अपि ॥
त्रिबालपुत्रिकेणैकतनयेन तदा मया ।
नीता नीरन्ध्रदोषेण षष्टिः कल्पसमास् समाः ॥
आक्रुष्टम् उद्धतरवं रुदितं विपत्सु भुक्तं कदन्नम् उषितं हतपक्कणेषु ।
कालान्तरं बहु मयोपहतेन तत्र दुर्वासनानिगडबन्धगतेन सभ्याः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0