भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.105

3.105.1

मुहूर्तद्वितयेनाथ बोधम् आप महीपतिः ।
प्रावृषेण्याम्बुनिर्मुक्तम् अम्भोरुहम् इवोत्तमम् ॥

3.105.2

आसनात् साङ्गदोत्तंसः प्रबुद्धो ऽसाव् अकम्पत ।
सवनाभोगशृङ्गाग्रो भूकम्प इव पर्वतः ॥

3.105.3

बभाव् अर्धप्रबुद्धो ऽसाव् आसने परिकम्पितः ।
विक्षुब्ध इव पातालावरणे मन्दराचलः ॥

3.105.4

पतन्तं धारयाम् आसुस् तं पुरोगा नृपं भुजैः ।
मेरुं प्रलयविक्षुब्धं कुलशैलास् तटैर् इव ॥

3.105.5

पुरोगैर् धार्यमाणो ऽसौ पर्याकुलमतिर् नृपः ।
वीचिविक्षोभितस्येन्दोर् बभार वदने श्रियम् ॥

3.105.6

को ऽयं प्रदेशः कस्येयं सभेति स नृपश् शनैः ।
दध्वान मज्जदम्भोजकोशस्थ इव षट्पदः ॥

3.105.7

अथोवाच सभा देव किम् एतद् इति सादरम् ।
रणन्मधुकरी भानुं दृष्टराहुम् इवाब्जिनी ॥

3.105.8

अथैनं परिपप्रच्छुः पुरोगा मन्त्रिणस् तथा ।
प्रलयोल्लाससन्त्रस्तं मार्काण्डेयम् इवामराः ॥

3.105.9

त्वयीत्थं संस्थिते देव वयम् अत्यन्तम् आकुलाः ।
अभेद्यम् अपि भिन्दन्ति निर्निमित्तभ्रमा मनः ॥

3.105.10

आपातरमणीयेषु पर्यन्तविरसेषु च ।
भोगेष्व् इव विकल्पेषु केषु ते लुठितं मनः ॥

3.105.11

सततोदारवृत्तासु कथासु परिशीलितम् ।
मनस् ते निर्मलं कस्मात् सम्भ्रमेषु निमज्जति ॥

3.105.12

तुच्छालम्बनम् आलूनविशीर्णं लोकवृत्तिषु ।
मनो मोहम् उपादत्ते न महत्त्वविजृम्भितम् ॥

3.105.13

सातत्येन हि यैवास्य मनसो वृत्तिर् उत्थिता ।
शरीरमदमत्तासु ताम् एवानुविधावति ॥

3.105.14

अतुच्छालम्बनं शुद्धं प्रबुद्धं गुणहारि च ।
तवापि हि मनश् चित्रम् आलूनम् इव लक्ष्यते ॥

3.105.15

अनभ्यस्तविवेकं हि देशकालवशानुगम् ।
मन्त्रौषधवशं याति मनो नोदारवृत्तिमत् ॥

3.105.16

नित्यम् आत्तविवेकस्य कथम् आलूनशीर्णता ।
दुनोति विततं चेतो वात्येव विबुधाचलम् ॥

3.105.17

इति जातासु गीर्ष्व् अस्य भूपतेः कान्तिर् आननम् ।
भूषयाम् आस शीतांशुं मासान्त इव पूर्णता ॥

3.105.18

रराज राजा साश्चर्यम् उन्मीलितविलोचनः ।
गते हिमर्तौ प्रोल्लासिपुष्पौघ इव माधवः ॥

3.105.19

अथातिसम्भ्रमाश्चर्यखिन्नस्मितमुखो बभौ ।
आसन्नमृत्युम् आलोक्य राहुम् इन्दुर् इवाम्बरे ॥

3.105.20

ऐन्द्रजालिकम् आलोक्य प्रोवाचाथ हसन्न् इव ।
बभ्रुं हिंसात्मकं दृष्ट्वा सर्परूपीव तक्षकः ॥

3.105.21

जाल्म जालं जटालेन किम् एतद् भवता कृतम् ।
मीनस्पन्दाप्रसन्नो ऽब्धिः क्षणाद् एति प्रसन्नताम् ॥

3.105.22

चित्रं चित्रा हि देवस्य पदार्थशतशक्तयः ।
सुशक्तम् अपि मे चित्तम् आभिर् मोहे निवेशितम् ॥

3.105.23

क्व वयं लोकपर्यायवृत्तान्तपरिदेविनः ।
क्व मनोमोहदायिन्यो वितताः प्राकृतापदः ॥

3.105.24

अप्य् अभ्यस्तमहाज्ञानं मनस् तिष्ठति देहके ।
कदाचिन् मोहम् आदत्ते क्षणं मतिमताम् अपि ॥

3.105.25

इदम् आश्चर्यम् आख्यानं शृणुताथ सभासदः ।
मम शाम्बरिकेणेह यन् मुहूर्तं प्रदर्शितम् ॥

3.105.26

दृष्टवान् अहम् एतस्मिन् बह्वीः कार्यदशाश् चलाः ।
मुहूर्ते प्रोत्थितध्वस्तशक्रास् सृष्टीर् इवाब्जजः ॥

3.105.27

इत्य् उक्त्वोन्मुखनेत्रेषु सभ्येषु स हसन्न् इव ।
राजा वर्णयितुं चित्रं वृत्तान्तम् उपचक्रमे ॥

3.105.28

इह विविधपदार्थसङ्कुलायां ह्रदनदपर्वतपत्तनाकुलायाम् ।
कुलशिखरिसमुद्रसङ्कटायां भुवि विभवावलितो ऽस्त्य् अयं प्रदेशः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc