भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.104

3.104.1

अत्र ते शृणु वक्ष्यामि वृत्तान्तम् इमम् अद्भुतम् ।
जागतीहेन्द्रजालश्रीश् चित्तायत्ता स्थिता यथा ॥

3.104.2

अस्त्य् अस्मिन् वसुधापीठे नानानगवनाकुलः ।
उत्तराः पाण्डवा नाम स्फीतो जनपदो महान् ॥

3.104.3

नीरन्ध्रनवजम्बीरवनविश्रान्ततापसः ।
विद्याधरीकृतलतादोलोपवनपत्तनः ॥

3.104.4

वातोद्धूताब्जकिञ्जल्कपुञ्जपिञ्जरपर्वतः ।
लसत्कुसुमसम्भारवनमालावतंसकः ॥

3.104.5

करञ्जमञ्जरीकुञ्जगुप्तपर्यन्तजङ्गलः ।
खर्जूरान्तरितग्रामघुङ्घुमध्वनिताम्बरः ॥

3.104.6

पाकपिङ्गमिलच्छ्रेणिशालिकेदारपिङ्गलः ।
नीलकण्ठरवोद्दामवनमण्डलमण्डितः ॥

3.104.7

सारसारवसंरम्भरणत्कमलकाननः ।
तमालपटलानीलगिरिग्रामककुण्डलः ॥

3.104.8

विचित्रविहगव्यूहविरावाहितकाकलिः ।
नदीपरिसरोन्निद्रपारिभद्रद्रुमारुणः ॥

3.104.9

गायत्कलमकेदारदारिकाहूतमन्मथः ।
पुष्पस्थलवलद्वातव्याधूतकुसुमाम्बुदः ॥

3.104.10

दरीगृहविनिष्क्रान्तसिद्धचारणवन्दितः ।
स्वर्गाद् इव समाहूय लावण्यम् अभिनिर्मितः ॥

3.104.11

गायत्किन्नरपर्यन्तकदलीषण्डमण्डितः ।
मन्दानिलबलोद्धूतपुष्पोपवनपाण्डुरः ॥

3.104.12

तत्रास्ति लवणो नाम राजा परमधार्मिकः ।
हरिश्चन्द्रकुलोद्भूतो भूमाव् इव दिवाकरः ॥

3.104.13

यद्यशःकुसुमोत्तंसपाण्डुरस्कन्धमण्डलाः ।
तत्र शैला विराजन्ते हराः प्रोद्धूलिता इव ॥

3.104.14

कृपाणशकलोत्कृत्तनिश्शेषारातिमण्डलात् ।
अरातिलोकः प्राप्नोति यदनुस्मरणाज् ज्वरम् ॥

3.104.15

यस्योदारसमारम्भम् आर्यलोकानुपालनम् ।
चरितं संस्मरिष्यन्ति हरेर् इव चिरं जनाः ॥

3.104.16

यस्याप्सरोभिर् अद्रीन्द्रमूर्धस्व् अमरसद्मसु ।
विकासिपुलकोल्लासं गीयन्ते गुणगीतयः ॥

3.104.17

यस्य स्वस्सुन्दरीगीता लोकपालचिरश्रुताः ।
विरिञ्चहंसैर् ध्वन्यन्ते स्वाभ्यासाद् गुणगीतयः ॥

3.104.18

स्वप्नेष्व् अपि न सामान्या यस्योदारचमत्कृतेः ।
राम दृष्टाश् श्रुता वापि दैन्यदोषमरीचयः ॥

3.104.19

जिह्मतां यो न जानाति न दृष्टा येन गृध्नुता ।
उदारता येन धृता ब्रह्मणेवाक्षमालिका ॥

3.104.20

दिनाष्टभाग आकाश आगते दिवसाधिपे ।
कदाचित् स सभास्थाने सिंहासनगतो ऽभवत् ॥

3.104.21

सुखोपविष्टे तत्रास्मिन् राजनीन्दाव् इवाम्बरे ।
प्रविशन्तीषु सामन्तसेनासु च ससम्भ्रमम् ॥

3.104.22

गायन्तीष्व् अथ कान्तासु सूपविष्टेषु राजसु ।
मनोहरति साह्लादे वीणावंशकलारवे ॥

3.104.23

चारुचामरहस्तासु सविलासासु राजनि ।
देवासुरगुरुप्रख्ये विश्रान्ते मन्त्रिमण्डले ॥

3.104.24

प्रस्तुतेषु प्रकृष्टेषु राजकार्येषु मन्त्रिभिः ।
प्रोक्तासु देशवार्तासु निपुणैश् चारतन्त्रिभिः ॥

3.104.25

इतिहासमये पुण्ये वाच्यमाने च पुस्तके ।
पठत्सु च स्तुतीः पुण्याः पुरःप्रह्वेषु वन्दिषु ॥

3.104.26

सभां विवेश साटोपः कश्चित् ताम् ऐन्द्रजालिकः ।
वर्षणाहितसंरम्भो वसुधाम् इव वारिदः ॥

3.104.27

स ननाम महीपालं शिखरोदारकन्धरम् ।
पादोपान्तगतः कान्तं शैलं फलतरुर् यथा ॥

3.104.28

सच्छायस्योन्नतांसस्य फलिनः पुष्पधारिणः ।
संविवेश पुरो राज्ञस् तरोर् अग्रे कपिर् यथा ॥

3.104.29

चपलो लम्पटो ऽर्थानां सामोदसुखमारुतम् ।
उवाचोत्कन्धरं भूपं स पद्मम् इव षट्पदः ॥

3.104.30

विलोकय विभो तावद् एकाम् इह खरोलिकाम् ।
पीठस्थ एव साश्चर्यां व्योम्नश् चन्द्र इवावनिम् ॥

3.104.31

इत्य् उक्त्वा भ्रमिता तेन पिञ्छिका भ्रमदायिनी ।
नानाविरचनाबीजं मायेव परमात्मना ॥

3.104.32

तां ददर्श महीपालस् तेजोरेखाविराजिताम् ।
शक्रस् सुरविमानस्थस् स्वकार्मुकलताम् इव ॥

3.104.33

सभां सैन्धवसामन्तो विवेशास्मिन् क्षणे तदा ।
तारापतिकराकीर्णां व्योमवीथीम् इवाम्बुदः ॥

3.104.34

तं चैवानुजगामाश्वश् शस्यः परमवेगवान् ।
देवलोकोन्मुखस् त्व् अब्धेश् शक्रम् उच्चैश्श्रवा इव ॥

3.104.35

स तम् अश्वम् उपादाय पार्थिवं समुवाच ह ।
सोच्चैश्श्रवा इव क्षीरसागरो मरुतां पतिम् ॥

3.104.36

इदम् उच्चैश्श्रवःप्रख्यं हयरत्नं महीपते ।
जवे जयनशीले तु मूर्तिमान् इव मारुतः ॥

3.104.37

अश्वो ऽयम् अस्मत्प्रभुणा प्रभो सम्प्रहितस् त्वयि ।
राजते हि पदार्थश्रीर् महताम् अर्पणाच् छुभा ॥

3.104.38

इत्य् उक्तवति तस्मिंस् तु प्रत्युवाचैन्द्रजालिकः ।
जलदस्तनिते शान्ते चातको भूधरं यथा ॥

3.104.39

सदश्वम् एनम् आरुह्य भुवनं विहर प्रभो ।
स्वप्रतापाहितानल्पशोभाम् उर्वीं रविर् यथा ॥

3.104.40

अश्वम् आलोकयाम् आस तेनोक्त इति पार्थिवः ।
निर्ह्रादसूचितं मेघं स मयूर इवोत्सुकः ॥

3.104.41

अथानिमेषया दृष्ट्या राजा चित्रोपमाकृतिः ।
बभूवालोकयन्न् अश्वं लिपिकर्मार्पितोपमम् ॥

3.104.42

क्षणम् आलोक्य पिञ्छाश्वौ तस्थौ स स्थगितेक्षणः ।
दृष्टक्षुब्धसमुद्राद्रिर् भीरुर् एकतरो यथा ॥

3.104.43

तस्थौ मुहूर्तयुग्मं तु ध्यानासक्त इवात्मनि ।
वीतरागो मुनिर् बुद्धः परानन्द इव स्थितः ॥

3.104.44

बोधितः केनचिन् नासौ स्वप्रतापजितोर्जितः ।
भयात् काम् अप्य् अयं भूपश् चिन्तां चिन्तयतीति ह ॥

3.104.45

बभूवुः केवलं तत्र निस्स्पन्दसितचामराः ।
चामरिण्यो हि शर्वर्यस् स्तम्भितेन्दुकरा इव ॥

3.104.46

विरेजुर् विस्मयापूर्णा निस्स्पन्दास् ते सभासदः ।
निस्स्पन्दकिञ्जल्कदलाः पद्माः पङ्ककृता इव ॥

3.104.47

प्रशशाम सभास्थाने जनकोलाहलश् शनैः ।
प्रशान्तप्रावृषो व्योम्नस् साम्भोदम् इव गर्जितम् ॥

3.104.48

सन्देहसागरोन्मग्ना जग्मुश् चिन्तां सुमन्त्रिणः ।
विषीदति गदापाणाव् असुराजाव् इवामराः ॥

3.104.49

विततविस्मयजिह्मतया तया जनतया भवमोहनिषण्णया ।
स्तिमितचक्षुषि भूमिपतौ स्थिते मुकुलिताब्जवनस्य धृता द्युतिः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc