मोक्षोपाय · अध्याय 3.103
परस्माद् उत्थितं चेतः कणो लोल इवार्णवात् ।
स्फारताम् एत्य भुवनं तनोतीदम् इतस् ततः ॥
ह्रस्वं दीर्घीकरोत्य् आशु दीर्घं नयति खर्वताम् ।
स्वतां नयत्य् अन्यद् अलं स्वं तथैवान्यताम् अपि ॥
प्रादेशमात्रम् अपि यद् वस्तु भावनयैव तत् ।
स्वयं सम्पन्नयैवाशु करोत्य् अद्रीन्द्रभासुरम् ॥
लब्धप्रतिष्ठं परमात् पदाद् उल्लसितं मनः ।
निमेषेणैव संसारान् करोति न करोति च ॥
यद् इदं दृश्यते किञ्चिज् जगत् स्थास्नु चरिष्णु च ।
सर्वं सर्वप्रकाराढ्यं चित्ताद् एतद् उपागतम् ॥
देशकालक्रियाद्रव्यशक्तिपर्याकुलीकृतम् ।
भावाद् भावान्तरं याति लोलत्वान् नटवन् मनः ॥
सद् असत्तां नयत्य् आशु सत्तां चासन् नयत्य् अलम् ।
तादृशान्य् एव चादत्ते सुखदुःखानि भावितम् ॥
यथानिश्चयम् आदत्ते यथैव चपलं मनः ।
हस्तपादादिसङ्घातस् तथा प्रयतते सदा ॥
ततस् सैव क्रिया चित्तसमीहितम् अलं फलम् ।
क्षणात् प्रयच्छति लता काले सिक्तेव तादृशम् ॥
चित्रां क्रीडनकश्रेणीं यथा पङ्काद् गृहे शिशुः ।
करोत्य् एवं मनो राम विकल्पात् कुरुते जगत् ॥
मनश्शिशुजनक्रीडामृदूद्गारलवेष्व् अतः ।
किम् एकं तत्पदार्थेषु रूपं जगति कल्प्यते ॥
करोत्य् ऋतुकरः कालो यथा रूपान्यतां तरोः ।
चित्तम् एवं पदार्थानां तेषाम् एवान्यताम् इह ॥
मनोरथे तथा स्वप्ने सङ्कल्पकलनासु च ।
गोष्पदं योजनव्यूहस् स्वासु लीलासु चेतसः ॥
कल्पं क्षणीकरोत्य् एतत् क्षणं नयति कल्पताम् ।
मनस् तदायत्तम् अतो देशकालक्रमं विदुः ॥
तीव्रमन्दत्वसंवेगाद् बहुत्वाल्पत्वभेदतः ।
विलम्बते न च चिरं न च चित्तम् अशक्तितः ॥
व्यामोहसम्भ्रमानर्थदेशकालगमागमाः ।
चेतसः प्रभवन्त्य् एते पादपाद् इव पल्लवाः ॥
जलम् एव यथाम्भोधिर् औष्ण्यम् एव यथानलः ।
तथा विविधसंरम्भस् संसारश् चित्तम् एव हि ॥
सकर्तृकर्मकरणं यद् इदं चेत्यम् आततम् ।
द्रष्टृदर्शनदृश्याढ्यं तत् सर्वं चित्तम् एव वः ॥
चित्तं जगन्ति भुवनानि वनान्तराणि संलक्ष्यते स्वयम् उपागतम् आत्मभेदैः ।
केयूरमौलिकटकैस् तदतत्स्वरूपं त्यक्तैककाञ्चनधियेव जनेन हेम ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0