मोक्षोपाय · अध्याय 3.102
स्वसङ्कल्पवशान् मूढो मोहम् एति न पण्डितः ।
अयक्षे यक्षसङ्कल्पान् मुह्यते शिशुनैव हि ॥
को ऽसौ सङ्कल्पितः केन यक्षो ब्रह्मविदां वर ।
असतैव महामोहं येनादत्ते सदैव हि ॥
अमुना भूतसङ्गेन यक्षो ऽहङ्काररूपधृत् ।
वेतालश् शिशुनेवेह मिथ्यैव परिकल्पितः ॥
एकस्मिन्न् एव सर्वस्मिन् स्थिते परमवस्तुनि ।
कुतः को ऽयम् अहं नाम कथं नाम किलोदितः ॥
वस्तुतो नास्त्य् अहङ्कारः परमात्मन्य् अभेदतः ।
असम्यग्दर्शनान् मार्गी सरित् तीव्रातपे यथा ॥
मनोमणिर् महारम्भस् संसार इति लक्ष्यते ।
आत्मनात्मानम् आश्रित्य स्फुरत्य् अम्बु यथाम्बुना ॥
असम्यग्दर्शनं तेन त्यज राम निराश्रयम् ।
साश्रयं सत्यम् आनन्दि सम्यग्दर्शनम् आश्रय ॥
धिया विचारधर्मिण्या मोहसंरम्भहीनया ।
विचारयाधुना सत्यम् असत्यं सम्परित्यज ॥
अबद्धो बद्ध इत्य् उक्त्वा किं शोचसि मुधैव हि ।
अनन्तस्यात्मतत्त्वस्य किं कथं केन बध्यते ॥
नानानानात्वकलनास्व् अविभिन्ने महात्मनि ।
सर्वस्मिन् ब्रह्मतत्त्वे ऽस्मिन् किं बद्धं किं विमुच्यते ॥
अनार्तो ऽप्य् आर्तिसद्भावाच् छिन्ने ऽङ्गे किं च ताम्यसि ।
भेदाभेदविकारार्तिः काचिन् नात्मनि विद्यते ॥
देहे नष्टे क्षते क्षीणे कात्मनः क्षतिर् आगता ।
भस्त्रायां परिदग्धायां तत्स्थं हेम न नश्यति ॥
देहः पततु वोदेतु का नः क्षतिर् उपागता ।
को नष्टः प्रक्षते पुष्पे आमोदो व्योमसंश्रयः ॥
आपतन्तु वपुःपद्मं सुखदुःखहिमश्रियः ।
आकाशोड्डयने ऽलीनां का नः क्षतिर् उपस्थिता ॥
देहः पततु वोदेतु यातु वा गगनान्तरम् ।
तद्विलक्षणरूपस्य कासौ भवति ते क्षतिः ॥
यथा पयोदमरुतोर् यथा षट्पदपद्मयोः ।
तथा राघव सम्बन्धस् त्वच्छरीरत्वदात्मनोः ॥
मनो नाम शरीरं हि जगतस् सकलस्य च ।
आत्मशक्तिश् चिद् अस्यात्मा न नश्यति कदाचन ॥
यो ऽसाव् आत्मा महाप्राज्ञ नश्यतीत्य् अवगच्छसि ।
न नश्यति कदाचिद् स किं मुधा परितप्यसे ॥
विशीर्णे ऽभ्रे यथा वातश् शुष्के ऽब्जे षट्पदो यथा ।
यात्य् अनन्तपदं व्योम तथात्मा देहसङ्क्षये ॥
संसारे ऽस्मिन् विहरतो मनो ऽपि हि न नश्यति ।
ज्ञानाग्निना विना जन्तोर् आत्मनाशे तु का कथा ॥
यः कुण्डबदरन्यायो यो घटाकाशयोः क्रमः ।
स्थितिर् देहात्मनोस् सैव सविनाशाविनाशयोः ॥
बदरं हस्तम् आयाति यथा स्फुटति कुण्डके ।
आत्मा गगनम् आयाति तथा चलति देहके ॥
कुम्भे गच्छत्य् अकुम्भत्वं कुम्भाकाशो यथाम्बरे ।
तिष्ठत्य् एवम् अयं देही देहे क्षीणे निरामयः ॥
मनो देहो हि जन्तूनां देशकालतिरोहितः ।
मुहुर् मृतिपटाच्छन्नश् शेते किं परिदेवना ॥
देशकालतिरोधाने मूढो ऽपि मरणे नरः ।
किं बिभेति महाबाहो नेह नश्यति कश्चन ॥
अतस् त्वं वासनां राम मिथ्यैवाहम् इति स्थिताम् ।
त्यज पक्षीश्वरो व्योमगमनोत्क इवाण्डकम् ॥
यैषा हि मानसी शक्तिर् इष्टानिष्टानुबन्धिनी ।
अनयेदं मुधा भ्रान्त्या स्वप्नवत् परिकल्पितम् ॥
अविद्यैषा दुरन्तैषा दुःखायैषा हि वर्धते ।
अपरिज्ञायमानैषा तनोतीदम् असन्मयम् ॥
एषा कुड्यवद् आकाशं तुषारम् अनलं यथा ।
परिपश्यति विभ्रान्ता स्वरूपस्य स्वभावतः ॥
असद् एवेदम् आरम्भमन्थरं सद् इवोत्थितम् ।
कल्पितं जगद् आभोगि दीर्घस्वप्न इवैतया ॥
भावनामात्रम् एवास्यास् स्वरूपं कर्तृतां गतम् ।
जगताम् आकुलं चक्षुर् व्योम्नि पिञ्छकताम् इव ॥
लयम् अस्यास् स्वरूपं त्वं नय राम विचारणात् ।
यथा हिमशिलायास् तु तपनाद् दिवसाधिपः ॥
हिमाभावार्थिनो ऽर्कस्य स्वोदयेन हितं यथा ।
सिध्यत्य् एवं विचारेण मनोनाशार्थिनो ऽर्थितम् ॥
अविद्या सम्प्रवृत्ता हि विततानर्थदुर्गमा ।
नानेन्द्रजालकलणं शाम्बरी हेम वर्षति ॥
स्वविनाशक्रियां चैतां मन एव करोत्य् अलम् ।
मनो ह्य् आत्मवधं नाम नाटकं परिनृत्यति ॥
आत्मानम् ईक्षते चेतस् स्वविनाशाय केवलम् ।
न हि जानाति दुर्बुद्धिर् विनाशं प्रत्युपस्थितम् ॥
असङ्कल्पनमात्रेण स्वविकल्पदशाम् इदम् ।
मनस् संसाधयत्य् आशु क्लेशो नात्रोपयुज्यते ॥
स्वं विकल्प्य विकल्प्याशु विवेकोपहितं मनः ।
सन्त्यज्य रूपम् आरम्भि करोत्य् आत्मावबोधनम् ॥
महोदयो मनोनाशो महोत्पातो ऽस्य तूदयः ।
मनोनाशे प्रयत्नं त्वं कुरु मा मनसो जवे ॥
अविरलसुखदुःखवृक्षषण्डे विषमकृतान्तमहोरगे वने ऽस्मिन् ।
प्रभुर् इदम् अखिले विवेकहीनं सुभग मनो महद् आपदेकहेतुः ॥
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0