भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 3.101

3.101.1

किम् उच्यते मुनिश्रेष्ठ बालकाख्यायिकाक्रमः ।
क्रमेण कथयैतन् मे मनोवर्णनकारणम् ॥

3.101.2

मुग्धमुग्धमतिर् बालो धात्रीं पृच्छति राघव ।
काञ्चित् कर्णपथायातां वर्णयाख्यायिकाम् इति ॥

3.101.3

सा बालस्य विनोदाय धात्री तस्य महामते ।
आख्यायिकां कथयति प्रसन्नमधुराक्षराम् ॥

3.101.4

क्वचित् सन्ति महात्मानो राजपुत्रास् त्रयश् शुभाः ।
विस्तीर्णे शून्यनगरे व्योम्नीवोज्ज्वलतारकाः ॥

3.101.5

द्वौ न जातौ तथैकश् च गर्भ एव हि न स्थितः ।
शुभाचाराश् शुभाकारा इति भान्तीन्दवो यथा ॥

3.101.6

अथात्युत्तमलाभार्थम् एकदा समवायतः ।
निर्बन्धवः खिन्नमुखाश् शोकोपहतचेतसः ॥

3.101.7

ते तस्माच् छून्यनगरान् निर्गता विकृताननाः ।
गगनाद् इव संश्लिष्टा बुधशुक्रशनैश्चराः ॥

3.101.8

शिरीषसुकुमाराङ्गाः पृष्ठतो ऽर्केण तापिताः ।
मार्गे ग्लानिं गता ग्रीष्मतापार्त्या पल्लवा इव ॥

3.101.9

सन्तप्तमार्गसिकतादग्धपादसरोरुहाः ।
हा ताताम्बेति शोचन्तो मृगा यूथच्युता इव ॥

3.101.10

दर्भाग्रभिन्नचरणास् तापस्विन्नाङ्गसन्धयः ।
उल्लङ्घ्य दूरम् अध्वानं धूलिधूसरमूर्तयः ॥

3.101.11

मञ्जरीजालजटिलं फलपल्लविताम्बरम् ।
मृगपक्षिगणाधारं प्रापुर् मार्गे तरुत्रयम् ॥

3.101.12

तस्मिन् वृक्षत्रये वृक्षौ द्वौ न जातौ मनाग् अपि ।
बीजम् एव तृतीयस्य स्वारोहस्य न विद्यते ॥

3.101.13

विश्रान्तास् ते परिश्रान्तास् तत्रैकस्य तरोर् अधः ।
पारिजाततले स्वर्गे शक्रानिलयमा इव ॥

3.101.14

फलान्य् अमृतसृष्टानि भुक्त्वा पीत्वा च तद्रसम् ।
कृत्वा गुलुच्छकैर् मालाश् चिरं विश्रम्य ते ययुः ॥

3.101.15

पुनर् दूरतरं गत्वा मध्याह्ने समुपस्थिते ।
सरित्त्रितयम् आसेदुस् तरङ्गतरलारवम् ॥

3.101.16

तत्रैका परिशुष्कैव मनाग् अप्य् अम्बु न द्वयोः ।
विद्यते सरितोर् दृष्टिर् अन्धलोचनयोर् इव ॥

3.101.17

परिशुष्का भृशं यासौ तस्यां ते सस्नुर् आदृताः ।
घर्मार्ता दिवि गङ्गायां विष्णुब्रह्महरा इव ॥

3.101.18

चिरं कृत्वा जलक्रीडां पीत्वामृतसमं पयः ।
जग्मुस् ते राजतनयाः प्रहृष्टमनसस् सुखम् ॥

3.101.19

अथासेदुर् दिनस्यान्ते लम्बमाने दिवाकरे ।
भविष्यन् नवनिर्माणं नगरं नगसन्निभम् ॥

3.101.20

पताकापद्मिनीव्याप्तनीलाम्बरजलाशयम् ।
दूरश्रुतिसमुल्लासगायन्नगरमण्डलम् ॥

3.101.21

ददृशुस् तत्र रम्याणि त्रीणि सद्विभवानि ते ।
मणिकाञ्चनगेहानि शृङ्गाणीव महागिरेः ॥

3.101.22

अनिर्मिते द्वे सदने एकं निर्भित्ति तत्र वै ।
अभित्तिमन्दिरं चारु प्रविष्टास् ते नरास् त्रयः ॥

3.101.23

सम्प्रविश्योपविश्याशु विहरन्तो वराननाः ।
प्रापुस् स्थालीत्रयं तत्र तप्तकाञ्चननिर्मितम् ॥

3.101.24

यत्र कर्परतां याते द्वे एका चूर्णतां गता ।
जगृहुश् चूर्णरूपां तां स्थालीं ते दीर्घबुद्धयः ॥

3.101.25

द्रोणैर् नवनवत्या तैस् तस्यां द्रोणेन चान्धसः ।
तत्र द्रोणशतं हीनं रन्धितं बहुभोजिभिः ॥

3.101.26

ततो भुक्तं जनशतैर् ब्राह्मणानां शतैस् तथा ।
त्रिभिस् तै राजपुत्रैश् च परां निर्वृतिम् आगतैः ॥

3.101.27

भविष्यन्नगरे तस्मिन् राजपुत्रास् त्रयो ऽपि ते ।
सुखम् अद्य स्थिताः पुत्र मृगयाव्यवहारिणः ॥

3.101.28

आख्यायिकैषा कथिता मया रम्या तवानघ ।
एतां हृदि कुरु प्राज्ञ विदग्धस् त्वं भविष्यसि ॥

3.101.29

धात्र्येति कथिता राम बालायाख्यायिका शुभा ।
तुष्टिं जगाम बालश् च शुभाख्यायिकयानया ॥

3.101.30

एषा हि कथिता राम चित्ताख्यानकथां प्रति ।
बालकाख्यायिका तुभ्यं मया कमललोचन ॥

3.101.31

इयं संसाररचना स्थितिम् एवम् उपागता ।
बालकाख्यायिकेवोग्रैस् सङ्कल्पैर् व्यर्थकल्पितैः ॥

3.101.32

विकल्पजालिकैवेयं प्रतिभासात्मिकानघ ।
बन्धमोक्षादिकलनारूपेण प्रविजृम्भते ॥

3.101.33

सङ्कल्पमात्राद् इतरद् विद्यते नेह किञ्चन ।
सङ्कल्पवशतः किञ्चिन् नकिञ्चित् किञ्चिद् एव वा ॥

3.101.34

द्यौः क्षमा वायुर् आकाशः पर्वतास् सरितो दिशः ।
सङ्कल्पकलितं सर्वम् एतत् स्वप्नवद् आत्मनः ॥

3.101.35

राजपुत्रास् त्रयो नद्यो भविष्यन्नगरं तथा ।
यथा सङ्कल्परचना तथेयं त्रिजगत्स्थितिः ॥

3.101.36

सङ्कल्पमात्रम् अभितः परिस्फुरति चञ्चलम् ।
पयोमात्रात्मको ऽम्भोधिर् अम्भसीवात्मनात्मनि ॥

3.101.37

सङ्कल्पमात्रम् उत्पन्नं प्रथमं परमात्मनि ।
तद् इदं स्फारतां यातं व्यापारैर् दिवसं यथा ॥

3.101.38

सङ्कल्पजालकलनैव जगत् समग्रं सङ्कल्पम् एव ननु विद्धि विलासि चेत्यम् ।
सङ्कल्पमात्रम् अलम् उत्सृज निर्विकल्पम् आश्रित्य निश्चयम् अवाप्नुहि राम शान्तिम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc