भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसासूत्र (टीका सहित) · अध्याय 7.2

7.2.1

साकमेधे श्रूयते, एतद् ब्राह्मण{*7।79*} एककपाल इति. तत्र चिन्त्यते, वैश्वदेविकस्यैककपालस्येदं ग्रहणम् उत वारुणप्राघासिकस्येति. किं प्राप्तम्. वैश्वदेविकस्येति ब्रूमः. किं कारणम्. तस्य विहिता धर्माः, अलंकृत्याभिपूर्योपांशु यष्टव्यः, आविः पृष्टः कार्य{*7।80*} इत्येवमादयः. वारुणप्राघासिकस् त्व् अधर्मकः. यस्य विहिता धर्माः, तत्रैतद् युज्यते वक्तुम्, तद्वद् इदं कर्तव्यम् इति. तस्माद् वैश्वदेविकस्य ग्रहणम्.
नन्व् ऐन्द्राग्नसमुच्चारणाद् एककपालो ऽपि वारुणप्राघासिक एव स्यात्. न, अवश्यम् एकपर्वणोर् एव समुच्चारणेन भवितव्यम्, नानापर्वणोर् अपि समुच्चारणम् अविरुद्धम्. तस्माद् वैश्वदेविकस्य ग्रहणम्.
इति प्राप्ते उच्यते, वारुणप्राघासिकस्यैककपालस्य ग्रहणम् इति. कुतः. तत{*7।81*} एककपालानां वैश्वदेविकः प्रकृतिः. कथं ज्ञायते. आग्रयणे सर्वहोमापरिवृत्तिदर्शनात्. आग्रयणे द्यावापृथिवीयस्यैककपालस्य सर्वहोमम् अपर्यावृत्तिं{*7।82*} च दर्शयति. यत् सर्वहुतं करोति, सा त्व् एका परिचक्षा, हुतो हुतः{*7।83*} पर्यावर्तते, सा द्वितीया. आज्यस्यैव द्यावापृथिव्यौ यजेति{*7।84*} इति, आज्ययागविधिपरे वाक्य एककपालस्य सर्वहोमम् अपर्यावृत्तिं च प्राप्तां दर्शयति. एतस्माद् दर्शनाद् अवभृथे च सकृद् द्व्यवदानस्य वचनात्. अवभृते चावधारणं भवति, इदम् एवैककपालस्य द्विर् अवद्यतीति. तेन ज्ञायते, नूनम् अन्यत्र न द्विर् अवदानम् इति. तच् चैतत् सर्वं वैश्वदेविक एककपाले विहितम्. तस्माद् एककपालानां वैश्वदेविकः प्रकृतिः. किम् अतः. साकमेधिके ऽप्य् एककपाले वैश्वदेविका धर्माः प्राप्ताः, तेषाम् अतिदेशो ऽनर्थकः. वारुणप्राघासिकस्य ये धर्माः वैशेषिका अप्राप्ताः, तेषाम् अतिदेशो ऽर्थवान्. तस्माद् वारुणप्राघासिकस्यैककपालस्येदं ग्रहणम् इति. उच्यते, लिङ्गम् एतत्. कुतः प्राप्तिर् इति. प्राप्तिम् उत्तरत्र वक्ष्यामः, स्वरसामैककपालामिक्षं चेत्य् अत्र. के पुनस् ते धर्माः. हिरण्यमयः स्रुवः शमीमयो{*7।85*} वेत्येवमादयः.
[19]{*7।86*}
नोतेस्:
*{7।79: ए2: ब्राह्मणं}*
*{7।80: मैत्. स्. 1.10.7}*
*{7।81: ए2: यत}*
*{7।82: श्प्ब्र्. 2.4.3.6}*
*{7।83: ए2: ऽहुतः}*
*{7।84: श्प्ब्र्. 2.4.3.9}*
*{7।85: ए2: स्रुवो भवन्ति, शमीमयो}*
*{7।86: ए2: 5,394; ए6: 3,13}*
साम्नो ऽभिधानशब्देन प्रवृत्तिः स्याद् यथाशिष्टम्

7.2.2

इदं श्रूयते, रथन्तरम् उत्तरयोर् गायति{*7।87*}, कवतीषु रथन्तरं गायति{*7।88*} इत्येवमादीनि समाम्नायन्ते. तत्र चिन्ता, किम् इहातिदिश्यते इति.
ननु यद् रथन्तरादिभिः शब्दैर् उच्यते, तद् अतिदिश्यते. बाढम्. तद् एव तु न ज्ञायते किम् एभिः शब्दैर् उच्यत इति.
ननु सिद्धम् एतत्, गीतेषु सामाख्या{*7।89*} इति. तथा सिद्धस्याक्षेपः करिष्यते. स एव तु निर्णयो भविष्यति. यदिओ स एव निर्णयः, किम् अर्थः आक्षेपः. दार्ढ्यार्थः, स्थूणानिखननवत्. तत्र किं प्राप्तम्. तद् उच्यते, स स्तोभस्वरकालाभ्यासविकारायां हिङ्कारप्रणवप्रस्तावोद्गीथप्रतिहारोपद्रवनिधनवत्याम् ऋचि गीतौ{*7।90*} सामशब्दो ऽभियुक्तैर् उपचर्यते{*7।91*}. तस्मात् संशयः.
उच्यते, ननु गीतौ सत्यां भावाद् नानाख्यस्य संस्कारकर्मणो वाचका एते शब्दा इत्य् उक्तम्. तद् एवेदम् उक्तम् आक्षिप्यते. नेमे संस्कारस्य वाचकाः. किं कारणम्. अकर्मकाले प्रयोगात्. अकर्मकाले साम प्रयुज्यते. न च संस्कारकर्मणि प्रोक्षणावक्षेपणपर्यग्निकरणादीन्य् अकर्मकाले प्रयुज्यन्ते. प्रयोजनाभावात्. अथ नु [20]{*7।92*} मन्त्रा एते, ततो ऽन्व् अहं स्वाध्यो ऽध्येतव्य इति नियमाद् अकर्मकाले प्रयोगो युज्यते. तस्माद् ऋचां नामानि.
किं च, संज्ञाभेदात्. संज्ञाभेदश् च भवति, रथन्तरं बृहद् इत्येवमादिः. स एकत्वात् संस्कारकर्मणो अनर्थकः. एकेनैव हि तदा पर्याप्तम्. यथा गीतिर् इति. अथर्चां नामानि, ततस् तासां भेदात् संज्ञापृथक्त्वं युक्तम्.
अपि च. यदि गानं रथन्तरं गानं च बृहत्, इदं रथन्तरम् इदं बृहद् इति पृथक्त्वेन संज्ञानिवेशो नोपपद्यते. ऋङ्नामत्वे तूपपद्यते.
किं च, विकारपृथक्त्वात् तु. प्रतिसाम च विकारपृथक्त्वात्. प्रतिसाम च विकारपृथक्त्वं दृश्यते. तद् एकत्वाद् गानस्य, अनुपपन्नम्. संस्कारभेदे हि विकारपृथक्त्वं दृष्टम्. तद् यथा, अवहन्तेस् तण्डुलीभावः, पिषेश् चूर्णम्. न त्व् एकस्य तण्डुलीभावश् चूर्णनं च. अथर्ङ्नामान्य् एतानि. तत ऋचां भेदाद् विकारपृथक्त्वं युज्यते. तस्माद् ऋङ्नामानीति. तत उत्तरं पठति, साम्नो ऽभिधानशब्देन प्रवृत्तिः स्याद् यथाशिष्टम् इति. साम्नो ऽभिधानशब्देन यथाशिष्टम् प्रवृत्तिः स्यात्. यच् छिष्टं प्रवक्तृभिः शिष्येभ्यः. किं च शिष्टम्. स्तोमादिविशिष्टा ऋक् साम, सा प्रवर्तेत. किं कारणम्. तस्या रथन्तरादि नामधेयम् इति.
नोतेस्:
*{7।87: स्व् 680, 681}*
*{7।88: ताण्ड्. ब्र्. 11.4.2; एबेन्सो zउ श्भ् अद् म्स् 7.2.2-3, 8-9, 12, 21}*
*{7।89: म्स् 1.4.3}*
*{7।90: ए2 ओम्. गीतौ}*
*{7।91: छु 2.10.1-4}*
*{7।92: ए2: 5,394; ए6: 3,13}*
शब्दैस् त्व् अर्थविधित्वाद् अर्थान्तरे ऽप्रवृत्तिः स्यात् पृथग्भावात् क्रियाया ह्य् अभिसंबन्धः

7.2.3

तुशब्दः पक्षनिवृत्तौ. न त्व् एवं स्यात्, ऋचः प्रवृत्तिर् इति. कथम्. इह कवतीषु रथन्तरं गायतीति कवतीनां वा कार्ये ऽभिवत्यो{*7।93*} ऽतिदिश्येरन्, कवतीनां{*7।94*} वोपर्य् [21]{*7।95*} आधार्याधेयभावेन{*7।96*}. तत्र कार्ये तावद् अतिदेशो न घटते. कुतः. शब्दैर् अर्थविधित्वात्. शब्दानाम् अर्थविधानं कार्यम्. न च, कवतीषु रथन्तरं गायतीति कवतीभिर् यो ऽर्थो ऽभिधीयते, तम् अभिवत्यः शक्नुवन्ति वक्तुम्. तस्मान् न कर्यातिदेशः. आधेयत्वे ऽपि न संभवति, पृथग्भावात्. न हि शब्दः शब्दे समवैति, पृथग् एवावतिष्ठते. अभि त्वा, कया न इति{*7।97*}. क्रियाया हि गानक्रियायाः{*7।98*} शब्देनाभिसंबन्धो भवेत्, न शब्दस्य. तस्माद् आधेयत्वेनापि नातिदेशः. अतो नायम् ऋचः प्रदेश इति.
नोतेस्:
*{7।93: व्ग्ल्. ऋव् 7.32.22}*
*{7।94: व्ग्ल्. ऋव् 4.31.1}*
*{7।95: ए2: 5,395; ए6: 3,13}*
*{7।96: ए2: आधेयभावेन}*
*{7।97: ऋव् 7.32.22 उन्द् 4.31.1}*
*{7।98: ए1 हत् गानक्रियायाः इन् क्लम्मेर्न्}*
स्वार्थे वा स्यात् प्रयोजनं क्रियायास् तदङ्गभावेनोपदिश्येरन्

7.2.4

स्वार्थ वा प्रवर्तमाना अभिवत्यः कवतीनाम् अङ्गभावेनोपदिश्येरन्. कथं पुनः कवतीषु गायतीत्य् अङ्गभावः शक्य उपदेष्टुम्. शक्यो यथा, येन कर्मणेर्त्सेत् तत्र जयान् जुहुयाद्{*7।99*} इति. किं पुनः प्रयोजनं कवतीनाम् अभिवत्यो निर्वर्तयन्तीति. उच्यते, प्रयोजनम् अदृष्टं कल्प्यम्. कुतः. क्रियायाः. यस्मात् क्रिया श्रूयते, कवतीषु रथनतरं गायतीति, यथा प्रयाजादीनां प्रयोजनं क्रियायाः.
उच्यते, अयम् एवास्मिन् पक्षे दोषः, यत् प्रयोजनं क्रियायाः कल्पयितव्यम्. तस्माद् अयम् अपि पक्षो दुःश्लिष्टः.
नोतेस्:
*{7।99: व्ग्ल्. अद् म्स् 3.4.25-27}*
शब्दमात्रम् इति चेत्

7.2.5

इति चेत् पश्यसि, कवत्यङ्गभावेनाभिवतीनाम् उपदेशो दुःश्लिष्ट इति, तेन तर्हि शब्दमात्रं प्रदिश्यताम्. रथ[22]{*7।100*}न्तरशब्दं कवतीषु प्रयुञ्जीत. कवतीः रथन्तरशब्देनाभिलपेद् इति. किं कारनम्. शब्द उच्चरिते. तत्र तावन् मुख्या प्रतिपत्तिः. शब्दे कार्यस्यासंभवात्, अर्थे कार्यं विज्ञायते, यथा गाम् आनयेति. इह तु शब्द एव कार्यं संभवति, नार्थे. अतो ऽत्र शब्दं विज्ञास्यामः.
नोतेस्:
*{7।100: ए2: 5,396; ए2: 3,14}*
नौत्पत्तिकत्वात्

7.2.6

पूर्वस्माद् एष वादः पापीयान्. कस्मात्. औत्पत्तिकत्वात्. औत्पत्तिको हि नामिनाम्नोः संबन्धः. यः शब्दो यस्मिन् अर्थ औत्पत्तिकेन संबन्धेन प्रसिद्धः. न स ततो ऽन्यं प्रत्याययितुं शक्नोति. न हि गोशब्देनाश्वो ऽभिधातुं शक्यते.
शास्त्रं चैवम् अनर्थकं स्यात्

7.2.7

एवं च सत्य् अतिदेशशास्त्रम् अनर्थकं स्यात्, अशक्यार्थत्वात्. तस्मान् न शब्दस्यापि प्रदेशो युक्तः. वृत्तिकारस् तु मेने, गानशास्त्रम् औक्थिक्यम् अनर्थकं स्याद् इति. तस्याभिप्रायः, सत्यां गतौ नैतावान् प्रयासः शिष्टानाम् अफलो ऽभ्युपगन्तुं न्याय्य इति.
स्वरस्येति चेत्

7.2.8

इति चेत् पश्यसि, नाम्नो ऽतिदेशो ऽयुक्त इति. तेन [23]{*7।101*} तर्हि स्वरस्यातिदेशो भवतु. स्वरः सामशब्देन लोके ऽभिधीयते. सुसामा देवदत्त इति. सुस्वरो देवदत्त इति. स्वरो घोषो नाद{*7।102*} इति समानार्थाः. स सामशब्देनोच्यते, साम च रथन्तरम्. तस्मात् तस्यातिदेशः.
नोतेस्:
*{7।101: ए2: 5,196; ए6: 3,15}*
*{7।102: व्ग्ल्. निघण्टु 11}*
नार्थाभावाच् छ्रुतेर् असंबन्धः

7.2.9

नैतद् एवम्, स्वरस्यातिदेश इति. कुतः. अर्थाभावाद् अर्थस्याभावत्. अर्थस्याभिवतीस्वरस्य कवतीष्व् अभावात्. नन्व् असन्न् एवासाव् अतिदेशेन भाव्यते. उच्यते, भावयितुम् अपि न शक्यते. न ह्य् अभिवत्यक्षराणाम् अभिव्यञ्जको नादः कवतीषु भावयितुं शक्यः. यदि भाव्येत, न कवत्यो भवेयुः. न चेद् भाव्यते, न भूतः. कवतीषु रथन्तरं गायतीत्य् एतस्याः श्रुतेः पदान्तरेणाभिसंबन्धो{*7।103*} न स्यात्. तस्मान् न स्वरस्यातिदेशः.
नोतेस्:
*{7।103: ए2: श्रुतेः पदानां परस्परेणाभिसंबन्धो}*
स्वरस् तूत्पत्तिषु स्यान् मात्रावर्णाविभक्तत्वात्

7.2.10

तुशब्दः पक्षान्तरपरिग्रहे. यद्य् अभिवतीस्वरस्य कवतीषु प्रदेशो नोपपद्यते, अनुवादो भवतु, कवतीषु रथन्तरं गायतीति. कथम्. तद् उच्यते, इह कवतीषु रथनत्रं गायतीत्य् अस्य वाक्यस्य द्वे वचनव्यक्ती भवतः. कवतीषु यद् रथन्तरम्, तद् गायतीत्य् एका. रथन्तरं यत्, तत् कवतीषु गायतीत्य् अपरा. तयोर् यैषा द्वितीया, रथन्तरं यत् तत् कवतीषु गायतीति. सा स्वरस्य सामत्वे न संभवतीत्य् उक्तम्. न ह्य् अभिवतीस्वरः कवतीषु समावेशयितुं शक्य इति. पूर्वा तु संभवति. कवतीषु यद् रथन्तरम्, तद् गायतीति.
ननु सापि न संभवति. न हि कवतीषु रथन्तरम् अस्ति. [24]{*7।104*} अतः परम् उच्यते, स्वरस् तूत्पत्तिषु स्यात्. स्वरस् त्व् अभिवतीस्वरः, कवतीनाम् उत्पत्तिषूच्चारणेषु स्यात्. कथम्. मात्रावर्णाविभक्तत्वात्. बहवो मात्रावर्णाश् चाभिवतीनां कवतीनां चाविभक्ता अभिभवतीष्व् अपि विद्यन्ते, कवतीष्व् अपि. सो ऽसाव् अभिवतीस्वरः कवतीषु साधारणवर्णसमवेतो विद्यते, तस्यानुवादो ऽयं घटते, कवतीषु रथन्तरं गायतीति. तस्मात् स्वरस्यानुवादः.
नोतेस्:
*{7।104: ए2: 5,397; ए6: 3,16}*
लिङ्गदर्शनाच् च

7.2.11

लिङ्गं च दृश्यत एतस्मिन्न् अर्थे. अस्ति रथन्तरम् उत्तरयोर्{*7।105*} इति. किं तल्लिङ्गं भवति. एवम् आह, रथन्तरम् उत्तरयोर् न पश्यामि{*7।106*} इति विश्वामित्रस् तपस् तेपे, बृहद् उत्तरयोर् न पश्यामीति वसिष्ठ इति. यच् च विद्यमानं न दृश्यते, तद्दर्शनाय यत्नः. क्रियते, यथा घटं न पश्यामीति प्रदीपं करोति, न शशविषाणं न पश्यामीति. तस्माद् अस्त्य् उत्तरयो रथन्तरं बृहच् च. तयोर् अनुवाद इति.
नोतेस्:
*{7।105: स्व् 680, 681}*
*{7।106: स्व् 809-810}*
अश्रुतेस् तु विकारस्योत्तरासु यथाश्रुति

7.2.12

तुशब्दः पक्षं व्यावर्तयति. नैतद् एवम्, स्वरस्यानुवाद इति. कुतः. एवं सत्य् उत्तरासु विकारो न कश्चिच् छ्रुतो भवति. तदोत्तरा यथाश्रुताः प्रयोक्तव्याः. यथा स्वाध्यायकाले श्रुताः. तत्र रथन्तरम् उत्तरयोर् गायतीत्य् एतद् अनुवादमात्रम् अप्रवृत्तिविशेषकरम् अनर्थकम् एवापवद्यते. अतो न स्वरस्यानुवादो युक्तः. [25]{*7।107*}
नोतेस्:
*{7।107: ए2: 5,398; ए6: 3,16}*
शब्दानां चासामञ्जस्यम्

7.2.13

रथन्तरादीनां च सामशब्दानाम् असामञ्जस्यं स्यात्. रथन्तरम् उत्तरयोः, बृहद् उत्तरयोर् इति. कथम्. तद् उच्यते, अयं रथन्तरशब्दो बृहच्छब्दो वा स्वरस्य सामशब्दत्वे स्वरसमुदाय आनुपूर्व्या व्यवस्थिते{*7।108*} स्वरविशेषे प्रयुक्तः. स एकदेशे भिन्नानुपूर्व्ये वासमञ्जसो{*7।109*} भवति. तस्मात् नैतद् युक्तम्. स्वरस्य सामशब्दः, तस्य चानुवाद इति.
अत्राह, एवं भवता सर्वे पक्षा निरुद्धाः. ततः किम् अप्रवृत्तिर् एवेति. उच्यते, ऋच एव प्रदेशो भवतु. ननूक्तम्, न शक्या ऋच ऋगन्तरे प्रदेष्टुम् इति. बाढम्, देशलक्षणा भविष्यति. कवतीषु रथन्तरं गायतीत्य् उच्यते. न च शक्यते कवतीषु रथन्तरं गातुम्. तत्र देशलक्षणा भवति कवतीदेश इति. यथा, अग्नौ तिष्ठति, कूपे तिष्ठतीति. धर्मलक्षणा वा स्यात्. रथन्तरधर्मा वा कवतीषु रथन्तरशब्देनातिदिश्यन्ते. यथा, रथन्तरे प्रस्तूयमाने पृथिवीं मनसा ध्यायेद्{*7।110*} इत्येवमादयः. यथाचार्ये प्रोषिते, आचार्यानी भवताम् आचार्य{*7।111*} इत्य् आचार्यशुश्रुषाचार्यान्याम् अतिदिश्यते.
नोतेस्:
*{7।108: ए2: अवस्थिते}*
*{7।109: ए2: चासमञ्जसो}*
*{7।110: ताण्ड्. ब्र्. 7.7.15}*
*{7।111: आध्स् 1.2.7}*
अपि तु कर्मशब्दः स्याद् भावो ऽर्थः प्रसिद्धग्रहणत्वाद् विकारो ह्य् अविशिष्टो ऽन्यैः

7.2.14

अपि तु नैवं स्यात्, ऋचः सामशब्दः. तस्याश् च प्रदेश इति. तथा देशलक्षणा धर्मलक्षणा वाश्रयणीया. अगतिश् चैषा यल्लक्षणापरिग्रहः. किं तर्हि. कर्मशब्दः स्यात्. रथन्तरादिर् गानाख्यस्य संस्कारकर्मणो वाचकः. कुतः. उक्तो न्यायो गीतिषु सामाख्या{*7।112*} इत्य् अत्र. तत्र गीति[26]{*7।113*}विशिष्टायाम् ऋचि, एष शब्दो दृष्टः. न चागृहीतविशेषणा विशेष्ये बुद्धिर् उत्पद्यते. तस्माद् विशेषणं तावद् अभिधीयते. विशेषणप्रत्ययाच् च सहचरिते विशिष्टे प्रत्ययः. अतो नास्त्य् ऋचः शब्देन संस्पर्श इति. तेनैव न्यायेन गीतिनामधेयम् इति ब्रूमः.
किं च प्रसिद्धग्रहणत्वात्. अयं च गायतीति शब्दो गानक्रियायां प्रसिद्धः. का पुनर् असौ शब्दस्योच्चारणविशेषः. गायति गानं करोतीति, तद्ग्रहणश् च रथन्तरादिशब्दः. तद्वचन इत्य् अर्थः. तेन समुच्चारणाद् द्वितीयासामर्थ्याच् च. यथा, आसारितकं गायतीति, वर्धमानकं गायतीति.
ननु शब्दवचनेनापि समुच्चारणं भवति, गाथां गायति, ऋचं गायति{*7।114*} इति.
सत्यम्, विपरिणम्य तु शब्दम्, गानेन ऋचं संस्करोतीति यथानिपतितेनार्थेन न संबध्यते गानं करोतीत्य् ऋचम् इति. तस्माद् गीतिवचनः.
इतश् च गीतिवचनः. कुतः. विकारो ह्य् अविशिष्टो ऽन्यैः. विकारश् चात्रर्ग्द्रव्यस्य दृश्यते. ह्रस्वानाम् अक्षराणां दीर्घता, दीर्घाणां च ह्रस्वत्वम्. विवृतानां संवृतत्वम्, संवृतानां विवृतत्वम्. सो ऽविशिष्टो ऽन्यैः संस्कारकर्मभिः. यथावहन्तिना व्रीहीणां तण्डुलीभावः, पिषिणा तण्डुलानां पिष्टीभावः. तस्माच् छब्दानां संस्कारो गानाख्यो रथन्तरादिभिः शब्दैर् उच्यते. तस्यायं प्रदेशः, रथन्तरम् उत्तरयोर् गायतीत्येवमादिः.
नोतेस्:
*{7।112: म्स् 1.4.3}*
*{7।113: ए2: 5,399; ए6: 3,17}*
*{7।114: श्प्ब्र्. 8.1.3.3}*
अद्रव्यं चापि दृश्यते

7.2.15

अपि चाद्रव्यं साम दृश्यते. द्रव्यशब्दश् छन्दोगैर् ऋक्ष्व् आचरितः. अद्रव्यम् अनृचम् इत्य् अर्थः. अनृचं साम दृश्यते, प्रजापतेर् हृदयम् अनृचं गायति{*7।115*} इति. प्रजापतिहृदयं [27]{*7।116*} नाम साम. तद् अनृच्य् उत्पन्नम्. यद्य् ऋचि सामशब्दः, कथं प्रजापतिहृदयम् अनृचं स्यात्. अथ गीतेः{*7।117*} सामशब्दः, ततो विनाप्य् ऋचा गीतिर् भवति. तत्रैतद् उपपद्यते, प्रजापतेर् हृदयम् अनृचं गायतीति. तस्माद् अपि गीतिः साम.
ननूक्तम्, संस्कारकर्मत्वे ऽनर्थको ऽकर्मकाले प्रयोग इति.
तत्र ब्रूमः,
नोतेस्:
*{7।115: मैत्. स्. 3.3.5}*
*{7।116: ए2: 5,399; ए6: 3,18}*
*{7।117: ए2: गीताव् एव}*
तस्य च क्रिया ग्रहणार्था नानार्थेषु विरूपित्वाद् अर्थो ह्य् आसामलौकिको विधानात्

7.2.16

तस्य क्रियाकर्मकाले ग्रहणार्था शिक्षितुम् अभ्यसितुम् च. नानार्थेषु नानाभूतेष्व् अर्थेषु भिन्नेष्व् इत्य् अर्थः{*7।118*} विरूपित्वात्, आश्रयभेदाद् विविधरूपं तद्गानं भवति. तत् प्रत्य् ऋचं शिक्षितव्यम् अभ्यसितव्यं च प्रयोगप्राशुभावाय. भूमिरथिकवत्, तद् यथा, भूमिरथिको भूमौ रथम् आलिख्य योग्यां करोति. सा तस्य योग्या{*7।119*} प्रयोगकाले सौकर्यम् उत्पादयति. अर्थो ह्य् आसां रथन्तरादिसंज्ञानां न लौकिके व्यवहारे सिद्धः, यथावहन्त्यादीनाम्. कुतः. विधानाद्. विधीयते ह्य् असौ शिष्योपाध्यायसंबन्धेन, एवंरूपं रथन्तरं भवतीति. न लौकिको विज्ञायते. तस्मान् न परिचोदनैषा, अकर्मकाले प्रयोगाद् इति.
अथ यद् उक्तम्, संज्ञापृथक्त्वाद् इति. तत्रोच्यते,
नोतेस्:
*{7।118: ए1 हत् इत्य् अर्थः इन् क्लम्मेर्न्}*
*{7।119: ए2 ओम्. योग्या}*
तस्मिन् संज्ञाविशेषाः स्युर् विकारपृथक्त्वात्

7.2.17

तस्मिन्न् एकस्मिन्न् अपि गानाख्ये संस्कारे संज्ञाविशेषा भवेयुः. कुतः. विकारपृथक्त्वात्. तुल्ये ऽपि गाने विशेषो{*7।120*} [28]{*7।121*} भवति. गानविशेषाच् च संज्ञापृथक्त्वम्. यथा, आसारितकम्, वर्धमानकम् इति{*7।122*}, अन्यथालक्षणासारितकगीतिः. अन्यथालक्षणा वर्धमानकगीतिः. एवम् इहाप्य् अन्यथालक्षणा रथन्तरगीतिः, अन्यथालक्षणा बृहद्गीतिः. तस्मात् संज्ञापृथक्त्वम्.
नोतेस्:
*{7।120: ए2: गानत्वे गानविशेषो}*
*{7।121: ए2: 5,400; ए6: 3,18}*
*{7।122: ए2: वर्धमानकगीतिः}*
योनिशस् याश् च तुल्यवद् इतराभिर्विधीयन्ते

7.2.18

योनिश् चासौ शस्या च योनिशस्या. योनिशस्याश् चर्चस् तुल्यवद् इतराभिर् अयोनिशस्याभिर् विधीयन्ते. याम्याः शंसति, शिपिविष्टवन्तीः शंसति{*7।123*}, रथन्तरस्य योनिम् अनुशंसति, बृहतो योनिम् अनुशंसति{*7।124*} इति. का तत्र तुल्यता. शंसतिशब्देनाभिधानम्{*7।125*}. इहैतौ स्तौतिशंसतिशब्दौ समाने ऽपि स्तुत्यर्थत्वे व्यवस्थितविषयौ. प्रगीतेषु मन्त्रवाक्येषु स्तौतिशब्दः, अप्रगीतेषु शंसतिशब्दः, यथा, प्रüगं शंसति, निष्केवल्यं{*7।126*} शंसतीति. आज्यैः स्तुवते, पृष्ठैः स्तुवन्त इति. अतः शंसतिशब्देन विधानाद् अप्रगीताम् ऋचं रथन्तरस्य योनिं दर्शयति. यदि च गीतिः रथन्तरम्, ततस् तस्याप्रगीता ऋग्योनिः. अन्यथायं व्यपदेशो नोपपद्यते, रथन्तरस्य योनिम् इति. तस्माद् गीतिषु सामाख्या.
नोतेस्:
*{7।123: ऋव् 7.100.6}*
*{7।124: ऋव् 4.31.1; स्व् 169}*
*{7।125: ए2: विधानम्}*
*{7।126: ए2: निष्कैवल्यं}*
अयोनौ चापि दृश्यते ऽतथायोनि

7.2.19

अयोनौ च साम दृश्यते. स्थाल्यां सक्त्व् अवधीयत इत्य् आहुर् यद् बृहद् गायत्रीषु क्रियते ऽपि चैनां रुजति. न चास्यां संभवतीति, बृहतो बृहती योनिः. तस्य गायत्रीषु प्राप्तिर् नास्ति, [29]{*7।127*} यद्य् ऋचः सामशब्दः. अथ नु गीतेः, ततः सा बृहद्गीतिर् गायत्रीषु वचनात् प्राप्ता, तस्या अयम् अनुवादो घटते, यद् बृहद् गायत्रीषु क्रियत इति. अतथायोनि च साम दर्शयति. यादृशी यस्य योनिः, ततो ऽन्यादृशे, यो वै विच्छन्दसि सामोहति, स ऋचं संशृणाति, साम वा विलिशति, साम संशृणाति, ऋचं विलिशतीति यतरद् वर्षीयः, तस्य संशरः{*7।128*}, तच् च गीताव् एव साम्नि युज्यते, नर्चि. ऊहतिशदश् च गीताव् एव समर्थः, नर्चि. ऋक् चेत्, सैव यथाम्नायं पद्यते. तत्र नास्त्य् ऊहप्रसङ्गः. तस्माद् अपि गीतौ सामशब्दः.
नोतेस्:
*{7।127: ए2: 5,401; ए6: 3,19}*
*{7।128: ए2: तस्य विलेशः. यतरद् वर्षीयस् तस्य संशरः}*
एकार्थ्ये नास्ति वैरूप्यम् इति चेत्

7.2.20

यद् उक्तम्, तस्य क्रिया ग्रहणार्थेति. तत्र परिचोद्यते. ऐकार्थ्ये नास्ति वैरूप्यम् इति. रथन्तरगीतेर् बृहद्गीतिर् अर्थान्तरम्. तेन रथन्तरगीतौ गृहीतायां बृहद्गीतिर् अगृहीता भवतीति युक्तो रथन्तरे गृहीते बृहतः शिक्षार्थम् अकर्मकाले प्रयोगः. रथन्तरगीतेस् त्व् एक एवार्थः. तस्य योन्यां प्रयोगे शिक्षिते पुनर् उत्तरासु न शिक्षितव्यम्. तास्व् अकर्मकाले प्रयोगः संस्कारकर्मत्वे न युक्तो भवति. तस्मान् न संस्कारस्य सामशब्द इति स्थितायां प्रतिज्ञायां सूत्रेण परिचोदयति.
स्याद् अर्थान्तरेषु अनिष्पत्तेर् यथा पाके

7.2.21

स्याद् वैरूप्यम्. कुत एतत्. अर्थानत्रेष्व् अनिष्पत्तेः. ऋगन्तरेष्व् आश्रयभेदात्. यथा{*7।129*} पाके, यथैक एवायम् अर्थः [30]{*7।130*} पाको नाम. तस्यार्थान्तरे वैरूप्यं भवति. अन्यथालक्षण ओदनस्य पाकः, अन्यथालक्षणो गुडस्य, येनौदनपाको गृहीतः, नासाव् अशिक्षित्वा गुडं पक्तुं जानाति. तस्मात् तस्याप्य् अकर्मकाले प्रयोग उपपद्यते.
नोतेस्:
*{7।129: ए2: आश्रयभेदाद् भिद्यते. यथा}*
*{7।130: ए2: 5,402; ए6: 3,20}*
शब्दानां च सामञ्जस्यम्

मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc