भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसासूत्र (टीका सहित) · अध्याय 7.3

7.3.1

एवं च सामशब्दानाम् ऋक्शब्दानां च सामञ्जस्यं भवति. कवतीषु रथन्तरं गायति{*7।131*} इति कवतीशब्द ऋच एव{*7।132*} वक्षति, रथन्तरशब्दश् च साम. इतरथा कवतीशब्दे वा देशलक्षणा स्यात्. रथन्तरशब्दे वा धर्मलक्षणा. तस्माद् गीतौ सामशब्द इति.
नोतेस्:
*{7।131: ताण्ड्. ब्र्. 11.4.2}*
*{7।132: ताण्ड्. ब्र्. 11.4.2}*
उक्तं क्रियाभिधानं तच्छ्रुताव् अन्यत्र धर्मप्रदेशाः स्यात्

7.3.2

नाम्ना धर्मप्रदेशं वक्ष्याम इत्य् आदौ प्रतिज्ञातम्, सो ऽयम् उच्यते. कुण्डपायिनामयने श्रूयते, मासम् अग्निहोत्रं जुहोति{*7।133*} इति. तत्रैतत् समधिगतम्, नैयमिकाद् अग्निहोत्रात् कर्मान्तरम् एतद् इति. अधुनाग्निहोत्रशबश् चिन्त्यते, कथम् अयं प्रयुक्त इति. तदर्थम् आरभ्यते, उक्तम् क्रियाभिधानं तच्छ्रुताव् अन्यत्र विधिप्रदेशः स्याद् इति. उक्तम् आदौ, क्रियाभिधानं कर्मनामधेयम् अग्निहोत्रशब्द इति तत्प्रख्यं चान्यशास्त्रम् इत्य् अत्र. तस्यान्यत्र श्रुतौ कौण्डपायिनाम् अयनीये जुहोतौ विधिप्रदेशः स्यात् धर्मप्रदेशः{*7।134*}. नैयमिकस्याग्निहोत्रस्य ये धर्मास् ते ऽस्मिन्न् अनेन नाम्नातिदिश्येरन्. किं कारणम्. उच्यते, परशब्दो ऽयं परत्र वृत्तः, परशब्दस्य परत्र वृत्तौ तद्वद्भावो गम्यते. स यत्र विज्ञातो भवति तत्रानूद्यते. यथा सिंहो देवदत्त इति. यत्राविज्ञातस् तत्र विधीयते. यथा अमी पिष्टपिण्डाः सिंहाः क्रियन्ताम् इति. इह चाविज्ञातो ऽस्य जुहोतेर् अग्निहोत्रवद्भावः. तस्मात् स विधीयते. मासम् अग्निहोत्रं जुहोतीति, अग्निहोत्रवज् जुहोतीति. कथं पुनर् असति वतिप्रत्यये [32]{*7।135*} वत्यर्थः शक्यो ऽवगन्तुम् इति. उच्यते, साहचर्यात्, अग्निहोत्रशब्दो ऽयं कर्मणा संबद्धः, तत्सहचरितदोहनादिधर्मवत्तां लक्षणया शक्नोति गमयितुम्. शक्नोति चेद् गमयितुम्, प्रदेष्टुम् अपि शक्नोति{*7।136*}. एवम् अनत्रेणापि वतिम्, वत्यर्थः शक्यो ऽवगन्तुम् इति.
नोतेस्:
*{7।133: अद् म्स् 2.3.24}*
*{7।134: व्ग्ल्. ताण्ड्. ब्र्. 25.4.1}*
*{7।135: ए2: 5,403; ए6: 3,13}*
*{7।136: ए2: अपि शक्ष्यति}*
अपूर्वे वापि भागित्वात्

7.3.3

वापीति विपर्यासेन प्रयुक्ते. अपि वेत्य् अर्थः. अपि वापूर्वे एते उभे अपि कर्मणी स्याताम्, न कौण्डपायिनाम् अयनीयो जुहोतिर् नैयमिकपूर्वः, साधारणं च नामधेयम् उभयोः. कुतः. भागित्वात्. अयम् अपि जुहोतिर् भागी एतस्य नामधेयस्य.
यथैव तत्राग्निहोत्रं जुहोतीति समुच्चारणम्, एवम् इहापि, तत्र तुल्ये समुच्चारणे तस्यैवैतन् नामधेयम्, नास्येत्य् अत्र विशेषहेतुर् नास्ति. तस्माद् उभयोः साधारणं नामेति, नास्ति धर्मप्रदेशः.
नैतद् युक्तम्. कुतः.
नाम्नस् त्व् औत्पत्तिकत्वात्

7.3.4

औत्पत्तिको हि नामिनाम्नोः सम्बन्धः. यन् नाम यस्मिन्न् अर्थ औत्पत्तिकेन संबन्धेन प्रसिद्धम्, तस्मिन्न् एव सदा विज्ञेयम्, नान्यत्र च. तथाव्यवस्थायां शब्दार्थे विश्वासो न स्यात्. उक्तम्, अन्यायश् चानेकार्थत्वम् इति. यदा च नोभयार्थः, तदा नैयमिकं तावद् आह. तत्सादृश्यविधानार्थं चेतरत्रापि प्रयोग उपपद्यत इति नास्तीतराभिधानत्वे हेतुः. तस्माद् विधिप्रदेशः स्यात्.
[33]{*7।137*}
नोतेस्:
*{7।137: ए2: 5,404; ए6: 3,14}*
प्रत्यक्षाद् गुणसंयोगात् क्रियाभिधानं स्यात् तदभावे ऽप्रसिद्धं स्यात्

7.3.5

नैयमिके ऽग्निहोत्रे प्रत्यक्षो गुणसंयोगः. प्रत्यक्षविहिता धर्माः सन्ति. इत्थं दोग्धीत्थं श्रपयति, चतुर् उन्नयति{*7।138*}, खादिर्य् अग्निहोत्रसमिद् भवति{*7।139*}, इत्थं जुहोति, एवं प्रत्यक्षाद्{*7।140*} गुणसंयोगात्, नैयमिकस्य तन् नामधेयम् इह प्रयुज्यमानम्, दोहनादि क्रियाभिधानं स्यात्, धर्मप्रदेशकम् इत्य् अर्थः. अस्य पुनर् जुहोतेर् न केचिद् धर्माः सन्ति. तदभावे तेषां धर्माणाम् अभावे, अप्रसिद्धं स्यात्, न प्रज्ञायेत, किम् अर्थम् अयम् अग्निहोत्रशब्द इह प्रयुक्त इति.
एवं वा. प्रत्यक्षो गुणासंयोगो, नैयमिकस्य द्रव्यदेवतासंयोगः. दध्ना जुहोति{*7।141*}, पयसा जुहोति{*7।142*}, अग्नये च प्रजापतये च सायं जुहोति{*7।143*} इति. एतस्मात् प्रत्यक्षाद् गुणसंयोगात् क्रियाभिधानं स्यात्. कर्मनामधेयम्, इत्थंरूपो जुहोतिर् अग्निहोत्राख्य इति. अथेतरजुहोतेः रूपं नास्ति. तदभावे ऽप्रसिद्धं स्यात्, न ज्ञायेत्, कीदृशं तदग्निहोत्रम् इति.
ननु मासो ऽस्य रूपं भविष्यति. न, मासः कर्माङ्गम्, कर्तृधर्मः सः. अपि च, अग्निहोत्रं तु मासे विधीयते, न मासेनाग्निहोत्रं रूप्यते. तस्मान् नैयमिकस्यैतन् नामधेयम्, इतरत्र तद्वद् अतिदेश इति.
किम् एष एवोत्सर्गः, सर्वं कर्मनाम, अन्यत्र श्रूयमाणं धर्माणां ग्राहकम् इति. एवं खलु प्राप्तम्. एवं प्राप्त इदम् आरभ्यते,
[34]{*7।144*}
नोतेस्:
*{7।138: तैत्. ब्र्. 2.1.5.7}*
*{7।139: भरद्वाज श्स्. 1.5.2}*
*{7।140: ए2: जुहोति, एतस्मिन् काले जुहोतीत्य् एवं प्रत्यक्षाद्}*
*{7।141: मैत्. स्. 4.7.7}*
*{7।142: तैत्. स्. 5.4.9}*
*{7।143: मैत्. स्. 1.8.7}*
*{7।144: ए2: 5,405; ए6: 3,22}*
अपि वा सत्रकर्मणि गुणार्थैषा श्रुतिः स्यात्

7.3.6

गवामयने श्रूयते, वैश्वानरो ज्योतिष्टोमः, प्रायणीयम् अहर् भवति{*7।145*} इति. अस्ति तु द्वादशाहे प्रथमम् अहः प्रायणीयम् नाम, प्रायणीयो ऽतिरात्र{*7।146*} इति. तयोर् नानात्वं तेनैव न्यायेन सिद्धम्, प्रकरणान्तरे प्रयोजनान्यत्वम्{*7।147*} इति.
तत्रायं प्रायणीयशब्दः परत्रापि श्रूयमाणो न धर्माणां ग्राहकः, किं तर्हि. गुणार्थैषा श्रुतिः. कथम्. लक्षणया नामधेयं धर्माणां ग्राहकम् उक्तम्. असति च श्रुत्यर्थे लक्षणार्थो ग्राह्यः. इह तु श्रुत्यर्थ एव संभवति. गुणार्थ एष{*7।148*} शब्दः. गुणेन क्रियायोगेन. तस्मिन् कर्मणि श्रुत्यैव प्रयुज्यते. प्रयन्त्य् अनेनेति प्रायणीयम्, प्रवर्तते{*7।149*} ऽनेन सत्रम् इति. वाक्यशेषश् चास्यैतम् एवार्थम् आह, ज्योतिर् एव पुरस्ताद् दधाति{*7।150*} इति. येन ज्योतिः प्रायणीयं भवति, तेन ज्योतिः पुरस्तात् क्रियत इत्य् अर्थः, ज्योतिर् एव पुरस्ताद् दधातीति. तस्मान् नायम् अतिदेशः.
नोतेस्:
*{7।145: ऋव् 3.26.1}*
*{7।146: ताण्ड्. ब्र्. 4.2.1}*
*{7।147: प्रकरणान्तरे प्रयोजनान्यत्वम्, म्स् 2.3.24}*
*{7।148: ए2: एव}*
*{7।149: ए2: प्रवर्तन्ते}*
*{7।150: तैत्. स्. 7.4.6}*
विश्वजिति सर्वपृष्ठे तत्पूर्वकत्वाज् ज्यौतिष्टोमिकानि पृष्ठान्य् अस्ति च पृष्ठशब्दः

7.3.7

विश्वजित् सर्वपृष्ठो भवति{*7।151*} इति श्रूयते. तत्र विचार्यते, किम् अयम् अनुवादः, विधिर् इति{*7।152*}. किं प्राप्तम्. अनुवाद इति. कुतः. यो ह्य् असर्वपृष्ठः, तस्य सर्वपृष्ठता विधेया. यस् तु सर्वपृष्ठ एव, तस्य तया किं विहितया. अयं च [35]{*7।153*} सर्वपृष्ठ एव. कथम्. तत्पूर्वकत्वाज् ज्योतिष्टोमपूर्वकत्वात्{*7।154*}. ज्यौतिष्टोमिकानि स्तोत्राण्य् अत्र प्राप्यन्ते. तेषु माहेन्द्रस्तोत्रादीनि चत्वारि सन्ति. तानि सर्वाण्य् अस्य, तैर् अयं सर्वपृष्ठो भवति. ननु न तानि पृष्ठानि. उच्यते, अस्ति च पृष्ठशब्दः. तेष्व् अस्ति पृष्ठशब्दः, सप्तदशानि पृष्ठानीति. तस्माद् अनुवादः.
नोतेस्:
*{7।151: तैत्. स्. 7.2.5}*
*{7।152: ए2: विधिर् वेति}*
*{7।153: ए2: 5,406; ए6: 3,23}*
*{7।154: ए1 हत् ज्योतिष्टोमपूर्वकत्वात् इन् क्लम्मेर्न्}*
षडहाद् वा, तत्र हि चोदनाः

7.3.8

नायम् अनुवादः. किं तर्हि. विधिः. अनुवादो ऽप्रवृत्तिविशेषकरो ऽर्थकः{*7।155*} स्यात्. अपि च ज्योतिष्टोमे न पृष्ठबहुत्वम् अस्ति, यस्यायम् अनुवादः स्यात्. षडहे तु तद् अस्ति. तत्र हि चोदनाः, पृष्ठानां रथन्तरं पृष्ठं भवति{*7।156*} इत्येवमाद्याः. तस्मात् षाडहिकानाम् अतिदेशको{*7।157*} विधिर् इति.
नोतेस्:
*{7।155: ए2: ऽनर्थकः}*
*{7।156: तैत्. ब्र्. 1.2.2.3}*
*{7।157: ए2: आतिदेशिको}*
लिङ्गाच् च

7.3.9

लिङ्गं चैतम् अर्थं दर्शयति. पवमाने रथन्तरं करोत्य् आर्भावे बृहत्, मध्य इतराणि, वैरूपं होतुः साम, वैराजं मैत्रावरुणस्य, रैवतं ब्राह्मणाच् छंसिनः, शाक्वरमच् छावाकस्येति विनिवेशपरे वाक्ये षाडहिकानि पृष्ठानि{*7।158*} दर्शयति.
नोतेस्:
*{7।158: तैत्. ब्र्. 1.2.2.3}*
उत्पन्नाधिकारो ज्योतिष्टोमः

7.3.10

अथ यद् उक्तम्, अस्ति च पृष्ठशब्द इति. तत्र ब्रूमः, न तु एष औत्पत्तिकः पृष्ठशब्दः, उत्पन्नानां स्तोत्राणाम् असाव् अधिकारः, यान्य् एतानि पृष्ठानीति. ज्ञाते च तेषां पृष्ठत्वे तद् उपपद्यते. न च तत्र ज्ञातं. कथं तर्हि अयम् अनुवादः. [36]{*7।159*}
लिङ्गसमवायात्. एकं तत्र पृष्ठं{*7।160*} माहेन्द्रस्तोत्रम् इति. षाडहिकानां पुनः पृष्ठत्वं ज्ञातम्. कथम्. तत्र हि चोदनेत्य् उक्तम्. तेषां वादे, श्रौतः पृष्ठशब्दस्यार्थः परिगृहीतो भवति. इतरथा लाक्षणिकः. तस्मात् षाडहिकानां प्रदेश इति.
नोतेस्:
*{7।159: ए2: 5,407; ए6: 3,36}*
*{7।160: ए2 ओम्. पृष्ठं}*
द्वयोर् विधिर् इति चेत्

7.3.11

इति चेत् पश्यसि, षाडहिकानां पृष्ठानां विधिर् इति. नैतद् युक्तम्. किं कारणम्. द्विकर एवं सर्वपृष्ठशब्दो ऽभ्युपगम्यते{*7।161*}, पृष्ठानि च विदधाति. तेषां च सर्वत्वम्. अस्तु, को दोषः. असंभव इत्य् आह. यदि पृष्ठशब्दः पृष्ठानि विदधाति, सर्वशब्देन न शक्यते विशेषयितुम्. अथानुवदति, तथा शक्यते. पृष्ठानि त्व् अविहितानि भवन्ति. तेष्व् असत्सु कस्य इदं सर्वत्वं विधीयते. उभयक्रियायाश् चासंभवः.
अथात्र बृहद्रथन्तरयोर् विकल्पेन प्राप्तयोः सामस्त्यं केवलं विधीयते, सर्वपृष्ठो भवति{*7।162*} इति. उभे अपि बृहद्रथन्तरे भवतः{*7।163*}, नैकम् इति. ततो ऽयं दोषो न भवति. तस्माद् द्वयोर् अधिकारः.
नोतेस्:
*{7।161: ए2: ऽभ्युपगतो भवति}*
*{7।162: ए1 हत् सर्वपृष्ठो भवति इन् क्लम्मेर्न्}*
*{7।163: तैत्. स्. 3.7.1}*
न व्यर्थत्वात् सर्वशब्दस्य

7.3.12

नैवम् एतत्. कुतः. व्यर्थत्वात् सर्वशब्दस्य. एवं सति सर्वशब्दो व्यर्थो भवत्य् अर्थशून्यः{*7।164*}. अयं हि बहुविषयो द्वयोर् न युज्यते. षाडहिकानां तु विधाने नैष दोषः. ननु च तत्रापि द्विकरः शब्दो भविष्यति. उच्यते, न भविष्यति. सर्वत्वं केवलं पृष्ठानां विधास्यति{*7।165*}, न पृष्ठानि. ननूक्तम्, पृष्ठेष्व् असत्सु कस्येदं स्र्वत्वं विधीयत इति. उच्यते, पृष्ठानां सर्वत्वं हि विहितम्, तत् संपादयितव्यम्. न च पृष्ठान्य् अकुर्वता, तत् संपादयितुं शक्यते. तत्रार्थात् पृष्ठानि करिष्यति. एवं न [37]{*7।166*} द्व्यर्थः शब्दो भविष्यति. सर्वशब्दश् च समर्थितः. तस्मात् षाडहिकानाम् अतिदेश इति.
नोतेस्:
*{7।164: ए1 हत् अर्थशून्यः इन् क्लम्मेर्न्}*
*{7।165: ए2: विधारयति}*
*{7।166: ए2: 5,408; ए6: 3,24}*
तथावभृथः सोमात्

7.3.13

वरुणप्रघासेषु श्रूयते, वारुण्या निष्कासेन तुषैश् चावभृथं यन्ति{*7।167*} इति. तत्र संदेहः, किं दार्शपूर्णमासिके ऽपां व्युत्सेके तुषनिष्कासं विधीयते, उत सौमिकाद् अवभृथाद् धर्मातिदेश इति. किं युक्तम्. दार्शपूर्णमासिके गुणविधिः. एवं सन्निहितप्रत्ययो ऽनुगृह्यते. सन्निहितो ह्य् असौ चोदकेन प्रापितः. ननु नासाव् अवभृथः. उच्यते, अस्ति तत्रावभृथशब्द इति. एष वै दर्शपूर्णमासयोर् अवभृथ{*7।168*} इति. एवं प्राप्त इदम् आह, तथावभृथः सोमात्, यथा षडहात् पृष्ठानाम् अतिदेशः. एवं सौमिकाद् अवभृथाद् इह धर्मातिदेशः. कुतः. अभिहितो न्यायः, उक्तं क्रियाभिधानं तच्छ्रुताव् अन्यत्र विधिप्रदेशः स्याद्{*7।169*} इति.
नोतेस्:
*{7।167: तैत्. ब्र्. 1.6.5.5; मैत्.स्. 4.5.9}*
*{7।168: तैत्. स्. 7.2.10}*
*{7।169: म्स् 7.3.1}*
प्रकृतेर् इति चेत्

7.3.14

अथ यद् उक्तम्, दार्शपौर्णमासिके ऽवभृथे गुणविधिर् भवत्व् इति, तस्य कः परिहार इत्य् आभाषान्तं सूत्रम्.
न भक्तित्वात्

7.3.15

नैतद् युक्तम्. कुतः. यतो नास्ति दर्शपूर्णमासयोर् अवभृथः. ननु, एष वै दर्शपूर्णमासयोर् अवभृथ{*7।170*} इति श्रूयते. [38]{*7।171*} सत्यं श्रूयते, न त्व् एवम् अवभृथत्वम् अस्य भवति. कथम्. उच्यते, एष वै दर्शपूर्णमासयोर् अवभृथ इत्य् एतस्य वाक्यस्य द्वयी वचनव्यक्तिः. निर्ज्ञातावभृथत्वस्य पदार्थस्य वा दर्शपूर्णमाससंबन्ध{*7।172*} उच्यते, यथा देवदत्तो यज्ञदत्तस्य पुत्र इति निर्ज्ञातपुत्रत्वस्य देवदत्तस्य यज्ञदत्तसंबन्धः उच्यते. निर्ज्ञातसंबन्धस्य वानिर्ज्ञातावभृथत्वस्यावभृथत्वम्, यथा, अयम् आम्रो यज्ञदत्तस्य पुत्र इति, निर्ज्ञातयज्ञदत्तसंबन्धस्याम्रस्य पुत्रत्वम् उच्यते. तद् अस्यापां व्युत्सेकस्य दर्शपूर्णमानसंबन्धः प्रकरणान् निर्ज्ञातः, नावभृथत्वम्. अतो ऽस्यावभृथत्वम् उच्यते. न चायम् अवभृथः.
नन्व् अयम् अप्य् अवभृथो भवतु. नैतद् युक्तम्. अन्यायो ह्य् अनेकार्थत्वम्. कथं तर्हि शब्दप्रयोगः. सादृश्यात्. किं सादृश्यम्. अप्सु संबन्धः. स एष भक्त्या प्रशंसावादो ऽपां व्युत्सेकस्य, अवभृथ इवायम् इति, यथाम्रे पुत्रवादः. तस्मान् नास्ति दर्शपूर्णमासयोर् अवभृथः. अतो नात्र गुणविधिः.
नोतेस्:
*{7।170: तैत्. स्. 7.2.10}*
*{7।171: ए2: 5,409; ए6: 3,25}*
*{7।172: ए2: निर्ज्ञातावभृथत्वस्य वा पदार्थस्य दर्शपूर्णमाससंबन्ध}*
लिङ्गदर्शनाच् च

7.3.16

लिङ्गं चैतम् अर्थं दर्शयति. किं लिङ्गं भवति. एवम् आह, नायुर्दां जुहोति, न साम गायति, न वा गमनमन्त्रं जपति{*7।173*} इति. सौमिकावभृथधर्माणां प्रतिषेधं ब्रूवंस् तद्धर्मप्राप्तिं दर्शयति. तस्मात् सौमिकाद् अवभृथाद् धर्मप्रदेश इति.
[39]{*7।174*}
नोतेस्:
*{7।173: आपस्त्.श्स् 8.7.17}*
*{7।174: ए2: 5,410; ए6: 3,25}*
द्रव्यादेशे तद्द्रव्यः श्रुतिसंयोगात् पुरोडाशस् त्व् अनादेशे तत्प्रकृतित्वात्

7.3.17

वारुणप्राघासिको ऽवभृथः, सौमिकाद् अवभृथाद् धर्माणां ग्राहक इत्य् युक्तम्. तत्रेदं चिन्त्यते, किं पुरोडाशद्रव्यको ऽसौ, उत तुषनिष्कासद्रव्यक इति. किं प्राप्तम्. पुरोडाशद्रव्यक इति. कुतः. नाम्ना पुरोडाशः प्राप्यते. ननु प्रत्यक्षश्रुतं तुषनिष्कासम्. सत्यं प्रत्यक्षश्रुतम्, न तु शक्यते विधातुम्. अवभृथो ऽत्र विधीयते, अवभृथं यन्तीति. यदि तुषनिष्कासम् अपरं विधीयेत, ततो वाक्यं भिद्येत. अवभृथं यन्ति, तच् च तुषनिष्कासेनेति. तुषनिष्कासश्रवणम् इदानीं किम् अर्थम्. अनर्थकम्, संबन्धाभावात्.
एवं प्राप्ते ब्रूमः, द्रव्यादेशे तद्द्रव्यः. द्रव्यादेश एतस्मिन्, तुषनिष्कासेनावभृतं यन्तीति. तद्द्रव्यः स्यात्, तुषनिष्कासद्रव्यः. कुतः. श्रुतिसंयोगात्, तुषनिष्कासं प्रत्यक्षश्रुतम्, पुरोडाशस् त्व् आनुमानिकः, अतिदेशेन प्राप्यते.
ननु पुरोडाशो ऽपि प्रत्यक्षश्रुतो नाम्ना. यद्य् अपि प्रत्यक्षश्रुतः, सामान्येन तु प्राप्यते, तुषनिष्कासं तु विशेषेण. बाध्यते च सामान्यं विशेषेण. अपि च लक्षणया पुरोडाशो गम्यते, श्रुत्या तुषनिष्कासम्. श्रुतिलक्षणयोश् च श्रुतिर् न्याय्या. तस्मात् तुषनिष्कासद्रव्यक इति. अथ यद् उक्तम्, न संबध्यते ऽवभृथेन तुषनिष्कासम्, वाक्यभेदप्रसङ्गाद् इति. तत्र ब्रूमः, यद्य् अवभृथं विहाय तुषनिष्कासं विधीयते, ततो वाक्यभेदः स्यात्. तुषनिष्कासद्रव्यको ऽपूर्वो ऽवभृथश् चोद्यते. तथा सगुणकर्मविधानम् अविरुद्धम्. अविधीयमाने च तुषनिष्कासे तद्ग्रहणम् अनर्थकम् एव स्यात्. तस्मात् तुषनिष्कासद्रव्यकः. पुरोडाशस् त्व् अनादेशे [40]{*7।175*} तत्प्रकृतित्वात्. यद्य् अत्र प्रत्यक्षश्रुतं न द्रव्यं स्यात्, ततः पुरोडाशस् तुषप्रकृतित्वात् स्यात्. अत्र तु प्रत्यक्षश्रुतं तुषनिष्कासम्, तस्मान् न पुरोडाशः.
आतिथ्ये श्रूयते, वैष्णवो नवकपालो भवति{*7।176*} इति. तथा राजसूये, पूर्वस्मिंस् त्रिसंयुक्ते वैष्ण्वस् त्रिकपाल इति. तत्र विचारः, यो ऽयं त्रिसंयुक्ते वैष्णवस् त्रिकपाल इति वैष्णवशब्दः, अयम् आतिथ्यधर्माणां ग्राहकः, नेति. किं युक्तम्. ग्राहक इति. कुतः. विहितधर्मके कर्मणि दृष्टः शब्दो ऽन्यस्मिन्न् अविहिते{*7।177*} श्रूयमाणो ग्राहक{*7।178*} इत्य् उक्तम्, उक्तं क्रियाभिधानम्{*7।179*} इति{*7।180*}. तत्रायम् अपि विहितधर्मक आतिथ्ये दृष्टः. इदानीम् अविहितधर्मके त्रिसंयुक्ते दृश्यते. तस्माद् धर्माणां ग्राहक इति. एवं प्राप्ते ब्रूमः,
नोतेस्:
*{7।175: ए2: 5,410; ए6: 3,40}*
*{7।176: तैत्. स्. 6.2.1}*
*{7।177: ए2: अविहितधर्मके}*
*{7।178: ए2: धर्माणां ग्राहक}*
*{7।179: उक्तं क्रियाभिधानम्, व्ग्ल्. म्स् 7.3.1}*
*{7।180: ए2: इत्य् अत्र}*
गुणविधिस् तु न गृह्णीयात् समत्वात्

7.3.18

गुणविधिर् अयम्. आतिथ्यस्य गुणं विष्णुदेवतासंयोगं विदधाति. स एष धर्मान् ग्रहीतुं न शक्नोति. कुतः. समत्वात्. समो ह्य् अयम् आतिथ्ये त्रिसंयुक्ते च. यथा तत्र विष्णुं देवतां{*7।181*} विदधाति, एवम् अत्रापि. श्रुत्यर्थासंभवाच् च लक्षणया धर्माणां ग्राहकः कल्प्यते. इह च प्रत्यक्षश्रुत्यर्थ एव संभवति देवताविधिः. तस्मान् नायं ग्राहक इति.
नोतेस्:
*{7।181: ए2,6: विष्णुदेवतां}*
निर्मन्थ्यादिषु चैवम्

7.3.19

पशाव् अग्नीषोमीये धर्मवान् निर्मन्थ्यो ऽग्निर् आम्नातः. साध्या [41]{*7।182*} वै देवा{*7।183*} इत्य् आरभ्याग्नौ श्रूयते, निर्मन्थ्येनेष्टकाः पचन्तीति. तथा, दर्शपूर्णमासयोर् बर्हिराज्ये धर्मवती{*7।184*}. पशौ श्रूयते, बर्हिषा यूपावटम् अवस्तृणातीति, आज्येन यूपम् अनक्ति{*7।185*} इति. तत्र संदेहः. किं निर्मन्थ्यादयः शब्दाः धर्माणां ग्राहकाः, नेति. तत्राधिकरणातिदेशः क्रियते. निर्मन्थ्यादिषु चैवम्, यथा वैष्णवशब्दे. अत्राप्य् अयं यौगिको निर्मन्थ्यशब्दः सद्योनिर्मथितम् अग्निम् आह. तथा बर्हिर् आज्यम् इति द्रव्यशब्दौ. ते त्रयो ऽपि स्वार्थं विधाय कृतार्था भवन्ति, धर्मान् ग्रहीतुं न शक्नुवन्ति. तस्मान् न ग्राहकाः.
चातुर्मास्येषु श्रूयते, द्वयोः प्रणयन्ति, तस्माद् द्वाभ्याम् एति{*7।186*} इति. अस्ति तु सोमे प्रणयनं धर्मवत्, तथा दर्शपूर्णमासयोर् अधर्मकम्. तत्र संदेहः. किं सौमिकम् एतत् प्रणयम्, उत दार्शपौर्णमासिकम् इति. तत्र सूत्रेणैवोपक्रमः.
नोतेस्:
*{7।182: ए2: 5,411; ए6: 3,27}*
*{7।183: मैत्. स्. 3.9.5 (15)}*
*{7।184: तैत्. ब्र्. 3.7.5.10}*
*{7।185: तैत्. स्. 6.3.3}*
*{7।186: श्प्ब्र्. 11.5.3.2,5,8}*
प्रणयनं तु सौमिकम् अवाच्यं{*7।187*} हीतरत्

7.3.20

सौमिकम् एतत् प्रणयनम्. किं कारणम्. अवाच्यं हीतरद् दार्शपौर्णमासिकम्{*7।188*}, चोदकेन प्राप्तत्वात्. कथं पुनर् अयं प्रणयतिशब्दः, प्रणयनमात्रवचनः सन् सौमिकं प्रणयनविशेषं शक्नोति वक्तुम्. लक्षणयेति ब्रूमः, तीर्थशबवत्, तद् यथा, तीर्थशब्दः, तीर्थमात्रवचनः सन् तीर्थविशेषं धर्मसाधनं कदाचिद् ब्रूते, तीर्थयात्रां गत इति. [42]{*7।189*}
नोतेस्:
*{7।187: ए2: सौमिकं तु प्रणयनम् अवाच्यं}*
*{7।188: ए1 हत् दार्शपौर्णमासिकम् इन् क्लम्मेर्न्}*
*{7।189: ए2: 5,412; ए6: 3,28}*
उत्तरवेदिप्रतिषेधश् च तद्वत्

7.3.21

न वैश्वदेव उत्तरवेदिम् उपवयन्ति न सुनासीरीय{*7।190*} इति, प्राप्तिपूर्वको हि प्रतिषेधो भवति. सौमिके च प्रणयन उत्तरवेदिर् न दार्शपौर्णमासिके.
नोतेस्:
*{7।190: ए2: शुनासीरीय}*
प्राकृतं वानामत्वात्

7.3.22

प्राकृतं वैतत्{*7।191*} प्रणयनम्, दार्शपौर्णमासिकं. कुतः. अनामत्वत्. प्रणयनशब्दः सौमिकस्य प्रणयनस्य न नामधेयम्. नैतत् तस्य वाचकम् इत्य् अर्थः. यद्य् अयं तस्य वाचकः स्यात्, ततस् तद् इह ब्रूयत्. इदं तु पदार्थनामधेयम्, पदार्थस्य प्राङ्नयनस्य वाचकम्. यस्य वाचकं तद् इह शक्नोत्य् अग्नेः प्राचीनं नयनं वक्तुम्. तच् चेहास्त्य् एव. तस्मात् तस्य वाचकः. एवं{*7।192*} सन्निहितप्रत्यो न बाधितो भवति.
अथ यद् उक्तम्, तीर्थशबवद् भविष्यतीति. अत्र ब्रूमः, तीर्थशब्दो ऽपि तीर्थमात्रम् एव ब्रूते. तीर्थयात्रां गत इति त्व् उक्त्वा कानिचित् तीर्थान्य् अनुक्रान्तानि. यतो ऽसौ तद्विशिष्टार्थो विज्ञायते. यत्र तु केवलः प्रयुज्यते, तत्र तीर्थमात्रम् एव ब्रूते. यथा, तीर्थे स्नाति, तीर्थम् एव हि समानानां भवतीति. अपि च संभवति श्रुत्यर्थे, लक्षणार्थो ऽग्राह्यः. संभवति चात्र श्रुत्यर्थः. तस्मान् न लक्षणार्थो ग्राह्य इति.
नोतेस्:
*{7।191: ए2: चैतत्}*
*{7।192: ए2: एव}*
परिसङ्ख्यार्थं श्रवणं गुणार्थम् अर्थवादो वा

7.3.23

तत्राह, यद् उक्तम् अवाच्यं हीतरद्{*7।193*} इति, तस्य कः [43]{*7।194*} परिहारः. उच्यते, परिसङ्ख्यार्थं वा स्यात्. द्वयोः प्रणयन्ति, न चतुर्ष्व् इति. गुणार्थम् अर्थवादार्थं वा. तस्माद् द्वाभ्याम् एतीति. तत्र परिसङ्ख्यायां तावत् त्रयो दोषाः. गुणो ऽपि न कश्चिद् विधीयते, परिशेषाद् अर्थवादार्थम्. नन्व् अर्थवादो ऽपि निष्प्रयोजनः, प्रणयनस्य प्राप्तत्वात्. अर्थवादस्य प्रयोजनम्, उत्तरस्मिन्न् अधिकरणे वक्ष्यामः, मध्यमयोर् वा गत्यर्थवादाद् इति.
नोतेस्:
*{7।193: म्स् 7.3.19}*
*{7।194: ए2: 5,415; ए6: 3,28}*
प्रथमोत्तमयोः प्रणयनम् उत्तरवेदिप्रतिषेधात्

7.3.24

द्वयोः प्रणयन्तीति श्रूयते. तत्र संदेहः. कतरयोर् द्वयोर् इति. अनियमे प्राप्ते, उच्यते, प्रथमोत्तमयोः प्रणयनम्. कुतः. उत्तरवेदिप्रतिषेधात्. तत्रोत्तरवेदिः प्रतिषिध्यते, न वैश्वदेव उत्तरवेदिम् उपवयन्तीति, न सुनासीरीय{*7।195*} इति. अस्मिन् प्रणयने उत्तरवेद्याम् अग्निनिधानं विहितम्. अतो यत्र प्रणयनम्, तत्रोत्तरवेदिप्राप्तिः. प्राप्तौ च सत्यां प्रतिषेधः, प्रथमोत्तरयोश् चासौ. तस्मात् तयोः प्रणयनम् इति.
नोतेस्:
*{7।195: ए2: शुनासीरीय}*
मध्यमयोर् वा गत्यर्थवादात्

7.3.25

मध्यमयोर् वा पर्वणोः प्रणयनम्. कुतः. गत्यर्थवादात्. गत्यर्थवादेनैतद् द्वयोः प्रणयनम् उच्यते. तस्माद् द्वाभ्याम् एतीति. ऊरुसंस्तुते वैते{*7।196*} पर्वणी, ऊरु वैतौ यज्ञस्य, यद् वरुणप्रघासाश् च{*7।197*} साकमेधाश् च{*7।198*} इति. ऊरु च गमनसाधने, तत्रैवं स्तुतिसंबन्धो विज्ञायते. ऊरु यज्ञस्य, वरुणप्रघासाश् च साक[44]{*7।199*}मेधाश् चेति, तयोर् द्वयोः प्रणयन्ति. तस्माद् द्वाभ्याम् ऊरुभ्यां यज्ञः समाप्तिं यान्ति. प्रणयनेन हि तौ बलवन्तौ भवतः, अङ्गभूयस्त्वाद् इति. एतत् तदर्थवादस्य प्रयोजनम्.
अथ यद् उक्तम्, उत्तरवेदिप्रतिषेधाद् इति. तत्र ब्रूमः,
नोतेस्:
*{7।196: ए2: चैते}*
*{7।197: ए2 ओम्. च}*
*{7।198: श्प्ब्र्. 11.5.2.3,5}*
*{7।199: ए2: 5,416; ए6: 3,29}*
औत्तरवेदिको नारभ्यवादप्रतिषेधः{*7।200*}

7.3.26

अनारभ्य किंचित् पर्वविशेषम्, चातुर्मास्येषूत्तरवेदिर् आम्नाता, उपात्र वपन्ति{*7।201*} इति. तस्यानारभ्यविधेर् अयं प्रतिषेधः.
ननु वरुणप्रघासानां गुणवाक्यप्राप्ताव् एवायं तेषाम् एव, अत्रेति वादः स्यात्. नैतद् एवम्, प्रकरणाच् चातुर्मास्यानाम् एव. यदि वरुणप्रघासानां वादः स्यात्, तत्र प्रतिषेधे त्रीण्य् अपि पर्वाण्य् उत्कीर्तयेत्. अथोच्येत, द्वयोः पर्वणोर् वादो भवत्व् इति. अत्र ब्रूमः, न द्वयोः पर्वणोः प्रकरणम्, चातुर्भास्यानां वा प्रकरणम्{*7।202*}, वरुणप्रघासानां वा. वरुणप्रघासानां द्वयोः प्रकरणे पर्वणोर् उत्कीर्तनं प्रतिषेधे न स्यात्. तस्माच् चातुर्मास्यानाम् एव वादः.
ननु एवम् अप्य् अर्थवादेनैतज् ज्ञातम्, मध्यमयोः प्रणयनम् इति. किम् अर्थं प्राप्तस्य प्रणयनस्य पुनःश्रवणम् इति. अत्र प्रयोजनं नोक्तम्. असति प्रयोजने ऽन्यस्मिन् परिसङ्ख्यार्थम् एव भवति. तत्र दोषा उक्ताः. तस्माद् गुणार्थम् एवैतच् छ्रवणम्.
ननु नास्ति कश्चिद् गुणः. उच्यते, गुणः श्रूयते, उत्तरवेद्याम् अग्निनिधानम्. तस्मात् तदर्था पुनः श्रुतिः.
[45]{*7।203*}
नोतेस्:
*{7।200: ए2,6: ऽनारभ्यवादप्रतिषेधः}*
*{7।201: मैत्र्. स्. 1.10.13}*
*{7।202: ए2 ओम्. चातुर्भास्यानां वा प्रकरणम्}*
*{7।203: ए2: 5,416; ए6: 3,30}*
स्वरसामैककपालामिक्षं च लिङ्गदर्शनात्

7.3.27

गवामयने श्रूयते, अभितो दिवाकीर्त्यम् अहस्त्रयः स्वरसामानो भवन्ति{*7।204*} इति. तेषां विशेषधर्मा आम्नाताः, यथा, सप्तदशा भवन्ति{*7।205*}, सन्तततयातिग्राह्या गृह्यन्त{*7।206*} इत्येवमादयः. पुनर् अन्यत्र श्रूयते, पृष्ठ्यः षडहो द्वौ स्वरसामानाव् इति. तथा वैश्वदेवे श्रूयते, द्यावापृथिव्य एककपाल इति. तत्राम्नाता विशेषधर्माः, सर्वहुतं जुहोत्य्{*7।207*} अपर्यावर्तयञ् जुहोति{*7।208*} इति. पुनर् अपरत्र, काय एककपाल इति. तत्रैव श्रूयते, वैश्वदेव्याभिक्षेति. तत्रापि विशेषधर्माः केचिद् आम्नाताः. पुनर् अन्यत्र, मैत्रावरुण्य् आमिक्षेति. तत्र संदेहः. किं स्वरसामशब्दो ऽन्यत्र श्रूयमाणो गवामयनिकेभ्यः स्वरसामभ्यो धर्माणां ग्राहकः, उत नेति. एवम् एककपालामिक्षाशब्दाव् अपि. तत्र गुणविधिस् तु न गृह्णीयात् समत्वाद्{*7।209*} इत्य् अग्रहणे प्राप्ते. इदम् उच्यते, स्वरसामैककपालामिक्षं च धर्माणां ग्राहकम्. किं कारणम्. लिङ्गदर्शनात्. लिङ्गं तत्र तादृशं दृश्यते. येन ज्ञायते, सर्व एते धर्माणां ग्राहका इति. स्वरसामसु तावत् पृष्ठ्यः षडहो द्वौ स्वरसमानाव्{*7।210*} इत्य् उक्त्वाह. तत्र यत् तृतीयं सप्तदशम् अहस् तत् त्रयस्त्रिंशस्य स्थानम् अभिपर्याहरन्ति, स उत्तराणां स्तोमानाम् अव्यवायाय, त्रयाणां च सप्तदशानाम् अनूचीनतायाइ{*7।211*} [46]{*7।212*} इति. यद्य् एतौ स्वरसामानौ, गवामायनिकानां धर्माणां ग्राहकौ, तत्रैताव् अपि सप्तदशौ. तथात्र त्रयः सप्तदशा अनूचीना भवन्ति. तत्रैतद् वचनं युज्यते, त्रयाणां सप्तदशानाम् अनूचीनताया इति.
तथाग्रयणे, द्याव् आपृथिव्यम् एककपालं विधायाह, यत् सर्वहुतं करोति, सा त्व् एका परिचक्षा, हुतो हुतः{*7।213*} पर्यावर्तते, सा द्वितीया. आज्यस्यैव द्याव् आपृथिव्यौ यजेत{*7।214*} इति, आज्यविधिपरे वाक्ये सर्वहोमम् अपर्यावृत्तिं च वैश्वदेविकौ धर्मौ प्राप्तौ दर्शयति.
तथा मैत्रावरुण्याम् आमिक्षायाम्, न वाजिनेन प्रचरन्ति{*7।215*} इति वाजिनेज्यां वैश्वदेविकं धर्मं प्रतिषेधंस् ततो धर्मप्राप्तिं दर्शयति. एतेभ्यो लिङ्गेभ्यो एतज् ज्ञायते, यथास्वं धर्माणां ग्राहका इति. प्रतिपत्त्यर्थकर्म वाजिनेज्यां स्विष्टकृत्तुल्यां मत्वैतद् उक्तम्. आह, लिङ्गम् अपदिष्टम्, कुतः प्राप्तिर् इति. उच्यते, लक्षणया प्राप्तिर्, लिङ्गात् तु लक्षणापरिग्रहः.
नोतेस्:
*{7।204: तैत्. स्. 7.3.10}*
*{7।205: ताण्ड्. ब्र्. 4.5.5; तैत्. ब्र्. 1.2.2.1}*
*{7।206: तैत्. ब्र्. 1.2.2.3,4}*
*{7।207: मैत्. स्. 1.10.7}*
*{7।208: आपस्त्.श्.स्. 6.30.1}*
*{7।209: म्स् 7.3.17}*
*{7।210: ए2,6: स्वरसामानाव्}*
*{7।211: ताण्ड्. ब्र्. 4.5.14}*
*{7।212: ए2: 5,417; ए6: 3,30}*
*{7।213: ए2: ऽहुतः}*
*{7।214: श्प्ब्र्. 2.4.3.9}*
*{7।215: तैत्. स्. 1.8.19}*
चोदनासामान्याद् वा

7.3.28

स्वरसामत्वसामायात्, एककपालत्वसामान्यात्, आमिक्षासामान्याद् वा. यस्य लिङ्गम् अर्थसंयोगाद्{*7।216*} इत्य् अनेन प्राप्तिर् इति.
क्वचिच् छ्रूयते, वासो ददाति{*7।217*}, अनो ददातीति. तत्र विचार्यते, किम्, वाससः, अनसश् च क्रिया प्राप्यते, उत नेति. तत्राह, एवं तावन् नः परीक्ष्यम्. किम् कर्मनिमित्ताव् एतौ [47]{*7।218*} शब्दौ, उताकृतिनिमित्ताव् इति. यदि कर्मनिमित्तौ, ततः प्राप्यते. अथाकृतिनिमित्तौ, ततो नेति. किं तावत् प्राप्तम्. कर्मनिमित्ताव् इति. कुतः. कर्मागमे तद्दर्शनात्. यदा तस्मिन् द्रव्ये दारुणि सूत्रे वा दारुकारेण तन्तुवायेन वा कर्म कृतं भवति, तदैतौ शब्दौ प्रवर्तेते, न प्राक्. अतो विज्ञायते, कर्मनिमित्ताव् इति. यदा कर्मनिमित्तौ, तद् एतद् आरभ्यते,
नोतेस्:
*{7।216: म्स् 8.1.2}*
*{7।217: तैत्. ब्र्. 1.1.6.11}*
*{7।218: ए2: 5,418; ए6: 3,31}*
कर्मजे कर्म यूपवत्

7.3.29

कर्मज एतस्मिन् वास, आदौ द्रव्ये श्रूयंआणे, कर्म प्राप्यते. कथम्. यूपवत्, यथा यूपशब्दो जोषणादिक्रियानिमित्तः, स यत्र श्रूयते, तत्र जोषणाद्याः क्रियाः प्राप्यन्ते, एवम् इहापीति.
रूपं वाशेषभूतत्वात्

7.3.30

अत्रोच्यते, नैतौ कर्मनिमित्तौ. किं कारणम्. ये नैमित्तिकाः शब्दाः, ते निमित्तम् उपलभ्य प्रयुज्यन्ते, यथा दण्डी छत्रीति. इमौ त्व् अनुपलभ्य क्रियाम्, आकृतिमात्रे प्रयुज्येते. तस्मान् नैतौ क्रियानिमित्ताव् इति. अत्रोच्यते{*7।219*}, आकृत्या क्रियाम् अनुमाय ततः शब्दं प्रयुङ्क्त इति. अत्र ब्रूमः, प्रत्यक्षां निमित्ततां{*7।220*} गम्यमानाम् उत्सृज्य, अदृष्टायां क्रियायां निमित्तत्वकल्पनायां हेतुर् नास्तीति. यत् तूक्तम्, क्रियोत्तरकालं प्रवृत्तिदर्शनाद् इति. अत्र ब्रूमः, प्राक् क्रियाया आकृतिर् अनभिव्यक्ता, सा क्रिययाभिव्यज्यते, यतः क्रियोत्तरकालं शब्दप्रयोगः. तस्माद् आकृतिनिमित्तौ. यदैवम्{*7।221*}, तदा सिद्धं रूपं देयम्. कुतः. अशेषभूतत्वात्, नात्र क्रिया [48]{*7।222*} शेषभूता, क्रियावाचिनः शब्दस्याभावात्. यूपे तु प्रत्यक्षविहिता जोषणाद्याः क्रियाः. तस्माद् यूपवद् इत्य् अतुल्योपन्यासः.
नोतेस्:
*{7।219: ए2: अथोच्येत}*
*{7।220: ए2: अकृतिनिमित्ततां}*
*{7।221: ए2: यद् एवं}*
*{7।222: ए2: 5,419; ए6: 3,31}*
विशये लौकिकः स्यात् सर्वार्थत्वात्

7.3.31

गर्गत्रिरात्र आज्यदोहानि सामानि प्रकृत्य श्रूयते, अग्निम् उपनिधाय स्तुवत{*7।223*} इति. तत्र{*7।224*} विशयः, किं लौकिको ऽग्निर् उपनिधेयः{*7।225*}, उत वैदिक इति. किं प्राप्तम्. वैदिक इति. कुतः. सर्वकर्मार्थ उत्पन्नो ऽसौ. यान्य् अहं कर्माणि करिष्ये यैश् चास्म्य् अधिकृत इति, अतो वैदिक उपनिधेय इति. एवं प्राप्ते उच्यते, विशये लौकिकः स्यात् सर्वार्थत्वात्. एतस्मिन् विशये लौकिकं वैदिकम् इति, लौकिकः स्यात्.
अथ यद् उक्तम्{*7।226*}, वैदिकं सर्वकर्मार्थम् उत्पन्नम्, तस्मात् तदुपनिधेयम् इति. अत्र ब्रूमः,
नोतेस्:
*{7।223: ताण्ड्. ब्र्. 21.2.9}*
*{7।224: ए2,6: अत्र}*
*{7।225: ए2: उपविधेयः}*
*{7।226: ए2: लौकिकः स्यात्. कुतः सर्वार्थत्वात्. लौकिकः सर्वार्थः. न तस्य कार्यं किंचिन् निर्दिष्टम्. अतो यद् यद् अग्निना कर्तव्यं दृष्टम् अदृष्टं वा तत् तद् उपादीयमानम् अविरुद्धम्. तस्माल् लौकिकः स्यात्. अथ यद् उक्तम्}*
न वैदिकम् अर्थनिर्देशात्

7.3.32

न वैदिकम् अग्निद्रव्यं शास्त्रेणोत्पादितम्. तस्य शास्त्रेणैव कार्यं निर्दिष्टम्, यदाहवनीये जुहोतीतीय् आरभ्य. तस्मिन् सर्वार्थे कल्प्यमाने निर्देशो ऽनर्थकः स्यात्. तस्माल् लौकिको ऽग्निर् उपनिधेयः. सर्वार्थत्वं चैषां स्वे स्वे कार्ये वर्तमानानां भविष्यति. एवम् उभयम् अविरुद्धम्, सर्वार्थत्वं निर्देशश् चेति.
अथ धैष्णा अग्नयः कस्मान् नोपनिधीयन्ते. अत्रोच्यते,
तथोत्पत्तिर् इतरेषां समत्वात्

7.3.33

इतरेषाम् अप्य् अग्नीनां धैष्ण्यानां तथोत्पत्तिः, न सर्वार्थ [49]{*7।227*} इत्य् अर्थः. कुतः. समत्वात्. एते ऽपीतरैर् अग्निभिः समाः. एतेषाम् अपि निर्दिष्टं कार्यं, प्राग् आसीनो धिष्ण्यान् आघारयति{*7।228*} इति. अतस् ते नोपनिधेया इति.
नोतेस्:
*{7।227: ए2: 5,420; ए6: 3,32}*
*{7।228: तैत्. स्. 6.3.1}*
संस्कृतं स्यात् तच्छब्दत्वात्

7.3.34

एकादशिन्यां श्रूय्ते, उपशयो यूपो भवतीति. तत्र संदेहः. किम् एतद् उपशयद्रव्यं संस्कृतम्, जोषणादयः संस्कारा अत्र कर्तव्याः, उत नेति. किं युक्तम्. संस्कृतं स्यत्. कर्तव्या अत्र जोषणादयः संस्काराः. कुतः. तच्छब्दत्वात्. अयं यूपशब्दः संस्कारनिमित्तः. स एषो ऽसत्सु संस्कारेषु नोपपद्यते. तस्मात् ते कार्या इति.
भक्त्या वायज्ञशेषत्वाद् गुणानाम् अभिधानत्वात्

7.3.35

न वा कर्तव्याः. कुतः. अयज्ञशेषत्वाद्. एते संस्कारा अस्मिन् काष्ठे क्रियन्ते. एतेन द्वारेण यजतिना संभत्स्यन्ते. इत्थं संस्कृते काष्ठे नियुक्तेन पशुना यजिः क्रियमाणो ऽपूर्वं निर्वर्तयति{*7।229*}. अस्मिंश् चोपशये न पशुर् नियुज्यते, तत्र कृताः संस्कारा अनर्थकाः स्युः.
ननु वचनसामर्थ्याद् अदृष्टार्था भविष्यन्ति. उच्यते, नात्र वचनम्, यूपः कर्तव्य इति. वर्तमानापदेशो ऽयम्.
ननु वर्तमानापदेशो ऽपि न घटते, संस्काराणाम् अभावे. उच्यते, भक्त्या भविष्यति. यथा, यज[50]{*7।230*}मानो वै यूप इति. आह, तत्र सादृश्यात्. इह पुनः कथम् इति. उच्यते, गुणानाम् अभिधानत्वात्. यूपगुणानां यूपसंस्काराणाम्{*7।231*} अभिधानत्वाद् यूपसंस्काराः. तत्र केचिद् अर्थप्राप्ताश् छेदनादयस् तूष्णींकृताः सन्ति. तैर् अयम् अभिधीयते, यूप इत्य् अयूपः सन्. यथा स्नाता कन्यानलंकृता मालागुणेनाप्य् अलंकृतेति. एवम् एकदेशेनापि संस्काराणां संस्कृत इति स्तुत्याभिधीयते.
अग्नौ श्रूयते, पृष्ठैर् उपतिष्ठन्त{*7।232*} इति. तत्र चिन्त्यते, किं पृष्ठधर्माः कर्तव्याः, उत नेति. के पुनस् ते. सामान्यधर्मा हिंकारादयः, विशेषधर्माः, रथन्तरे प्रस्तूयमाने पृथिवीं मनसा ध्यायेद् बृहति समुद्रम् इत्येवमादयः. किं तावत् प्राप्तम्. तत आह, एतत् तावन् नः परीक्ष्यम्. किम् अयं प्ष्ठशब्दः कर्मणो वाचकः, उत द्रव्यस्येति.
ननु सिद्धम् एतत् कर्मनामधेयं पृष्ठशब्द इति, यस्मिन् गुणोपदेशः प्रधानतो ऽभिसंबन्ध इत्य् अत्र. तास्व् एव चोदनास्व् एतद् उक्तम्, सप्तदशानि पृष्ठानि, वैरूपं पृष्ठं{*7।233*} वैराजं पृष्ठम्{*7।234*} इति. इदानीम्, पृष्ठैर् उपतिष्ठन्त{*7।235*} इत्य् अस्यां चिन्त्यते. किं पुनर् अत्र युक्तम्. तत आह,
नोतेस्:
*{7।229: ए2: निर्वर्तयतीति}*
*{7।230: ए2: 5,421; ए6: 3,33}*
*{7।231: ए1 हत् यूपसंस्काराणाम् इन् क्लम्मेर्न्}*
*{7।232: तैत्. स्. 5.5.8; औछ् श्भ् अद् म्स् 7.3.35, 36}*
*{7।233: व्ग्ल्. ताण्ड्. ब्र्. 14.9.7 वैरूपपृष्ठम्}*
*{7।234: व्ग्ल्. ताण्ड्. ब्र्. 12.10.10: वैराजः पृष्ठः}*
*{7।235: ए2: उपतिष्ठत}*
कर्मणः पृष्ठशब्दः स्यात् तथाभूतोपदेशात्

7.3.36

कर्मणः पृष्ठशब्दः{*7।236*} स्यात्. कुतः. तथाभूतोपदेशात्. [51]{*7।237*} तथाभूतः{*7।238*} सन्न्{*7।239*} उपदेशः, यत्रायं पृष्ठशब्दः कर्मनामाधिगतः{*7।240*}. तथाभूतो ऽयम् अपि. किम् अस्य तथात्वम्. पृष्ठशब्दसामान्यम्. पृष्ठशब्दस् तत्र कर्मवचनो ऽधिगतः. स एवायम्. तस्माद् इहापि तद्वचन एवावगन्तव्यः विशेषाभावात्. यद्य् अन्यार्थः{*7।241*} कल्प्यते, एकः शब्दो ऽनेकार्थः स्यात्. तत्र को दोषः. शब्द उच्चरिते संशयः स्यात्, नार्थप्रत्ययः. तत्र व्यवहारो न सिध्येत्. व्यवहारार्थश् च शब्दप्रयोगः. कारणान्तरं च प्रकरणाद्यपेक्ष्यम्. एकार्थत्वे तु निरपेक्षो ऽर्थप्रत्ययः. तस्माद् अनेकार्थत्वम् अन्याय्यम्. तस्मात् कर्मनाम पृष्ठशब्दः. यदा कर्मनाम, तदा यदि तावत् तानि कर्माणीहोपदिश्यन्ते, तत्रोत्पत्तिर् एषाम् अनर्थिका. अथ मा भूद् एष दोष इत्य् एतद् उपस्थानं तत्र विज्ञायते. तत इदं प्रकरणं बाध्येत. तस्मात् सादृश्यविधिर् अयम्. पृष्ठेर् उपतिष्ठन्ते{*7।242*}, पृष्ठसदृशैः कर्मभिर् उपतिष्ठन्त{*7।243*} इति, तत्सादृश्यं च धर्मैर् भवति. तस्मात् कर्तव्या धर्मा इति.
नोतेस्:
*{7।236: ए2: कर्मणो वाचकः पृष्ठशब्दः}*
*{7।237: ए2: 5,422; ए6: 3,33}*
*{7।238: ए2: यथाभूतः}*
*{7।239: ए2: स}*
*{7।240: हिएर्zउ उन्द् zउम् fओल्गेन्देन् व्ग्ल्. अद् म्स् 1.4.3}*
*{7।241: ए2: यद्य् अत्रान्यार्थः}*
*{7।242: ए2: उपतिष्ठते}*
*{7।243: ए2: उपतिष्ठत}*
अभिधानोपदेशाद् वा विप्रतिषेधाद् द्रव्येषु पृष्ठशब्दः स्यात्

मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc