मीमांसासूत्र (टीका सहित) · अध्याय 7.1
{*6।500*}
वाशब्दो ऽवधारणायाम्. यस्माद् अवयवप्रसिद्ध्या समुदायप्रसिद्धिर् न बाध्यते. तस्माज् जातेर् एव छागशब्दो वाचकः. एवं समुदायस्यार्थवत्तानुगृहीता भविष्यतीति तत्प्रायवचनम्{*6।501*} उपपद्यते. विश्वेषां देवानाम् उस्राणां छागानां मेषाणां वपानां मेदसो ऽनुब्रूहीति जातिप्राये वचनम् उपपद्यते. प्रायेणापि हि नियमः क्रियते, यथा, अग्र्यप्राये लिखितं दृष्ट्वाग्न्यो ऽयम् इति बुद्धिर् भवति. तस्माच् छाग एवोपादातव्य इति. कृत्वाचिन्तायां प्रयोजनं न वक्तव्यम्.
नोतेस्:
*{6।500: ए2: 6.8.43}*
*{6।501: ए1,6,ए2 (व्.ल्.); ए2: भविष्यति. तस्मात् तत्प्रायवचनम्}*
============================================================================
अध्याय 7:
[1]
श्रुतिप्रमाणत्वाच् छेषाणां मुख्यभेदे यथाधिकारं भावः स्यात्
पूर्वेणाध्यायषट्केन प्रत्यक्षविहितधर्मणां कर्मणां दर्शपूर्णमासादीनाम् इतिकर्तव्यता चिन्तिता. उत्तरेणेदानीम् अविहितेतिकर्तव्यताकेष्व् ऐन्द्राग्नादिषु चिन्तयितुम् इष्यते. तत्र यदि दर्शपूर्णमासादीनां प्रकरणे ये विहिता धर्माः, ते सर्वकर्मसु विहिता भवन्ति, ततस् तैर् एव धर्मैर् ऐन्द्राग्नादयो ऽपि धर्मवन्त उक्ताः, तथा कर्तव्याश् चेति. नार्थ उत्तरेण षट्केन. अथ ये यस्य प्रकरण उच्यन्ते, ते तत्रैवोक्ता भवन्ति, ततो ऽधर्मकाण्य् ऐन्द्राग्नीदीनि. तेषु{*7।1*} चिन्ता भवति, किम् एषां धर्माः सन्ति, उत नेति. यदा च सन्ति, तदा के कियन्तो वा कथं चानुष्टातव्या इति. तद् अर्थम् उत्तरः षट्कः प्रवर्तनीयः{*7।2*}.
तत्र सप्तमेन तावत् सन्ति धर्मा इत्य् उच्यते. अष्टमेन चेमे ऽस्येति. इत्थं प्रयोक्तव्या इति नवमेन. दशम् ऐकादशद्वादशैर् एतावन्तः प्रयोक्तव्याः, नातो ऽधिका इति.
तत्रेदं विचार्यते, किं यजिप्रयुक्ता एते धर्माः, कथं यजिर् गुणवान् स्याद् इत्य् एवम् अर्थम् आम्नायन्ते, आहोस्विद् अपूर्वप्रयुक्ताः. कथम् अपूर्वं स्याद् इति. यदि यजिप्रयुक्ताः, [2]{*7।3*} ततः सर्वार्थाः. अथापूर्वप्रयुक्ताः, ततो यथाप्रकरणं व्यवतिष्ठन्ते. किं पुनर् अत्र युक्तम्. अपूर्वप्रयुक्ता इति. अपूर्वं हि फलवत्. अफलो यजिः. फलवति च प्रयासो विधीयमानो ऽर्थवान् भवति. तस्माद् अपूर्वप्रयुक्ता धर्माः{*7।4*}. अतः परमाचार्यस्य सूत्रोपन्यासः, श्रुतिप्रमाणत्वाच् छेषाणां मुख्यभेदे यथाधिकारं भावः स्याद् इति. मुख्यान्य् अपूर्वाणि. तानि हि फलवत्त्वात् प्रधानानि, प्रधाने च मुख्यशब्दः. तेषां भेद उक्तः शब्दान्तरादिभिर् हेतुभिः. तस्मिन् मुख्यभेदे सति यथाधिकारं भावः स्यात्, शेषाणाम्. ये यस्यापूर्वस्याधिकारे प्रकरणे{*7।5*} शिष्यन्ते, ते तस्यैव भवेयुः. श्रुतिप्रमाणत्वाद् अयम् अस्यापूर्वस्य शेषः, अयम् अस्येत्य् अत्र श्रुतिर् एव प्रमाणं क्रमते. न प्रत्यक्षादीनाम् अन्यतमत्. श्रुत्या च ये यस्य प्रकरणे श्रूयन्ते, ते तस्यैव भवितुम् अर्हन्ति. न चान्यस्योक्तो ऽर्थो ऽन्यस्य भवति. न हि यद् देवदत्तस्य ग्रामाच् छादनादिकम्, तद् यज्ञदत्तस्य भवति. तस्माद् यथाप्रकरणं व्यवस्था धर्माणाम्.
नोतेस्:
*{7।1: ए2: ऐन्द्राग्नीदीनीति तेषु}*
*{7।2: ए2 ओम्. प्रवर्तनीयः}*
*{7।3: ए2: 5,375, ए6: 3,1}*
*{7।4: ए2: धर्मा इति}*
*{7।5: ए1 हत् प्रकरणे इन् क्लम्मेर्न्}*
उत्पत्त्यर्थाविभागाद् वा सत्ववदैकधर्म्यं{*7।6*} स्यात्
अथ वा, नैतद् एवम्, यथाप्रकरणं धर्माणां व्यवस्था इति. किं तर्हि. ऐकधर्म्यं स्याद् इति, समानधर्मता. सर्वे धर्माः सर्वार्थाः. कुतः. उत्पत्त्यर्थाविभागात्. उत्पत्तिर् इति यजिं ब्रूमः, अपूर्वस्योत्पादनात्. अर्थ इत्य् अपूर्वं ब्रूमः, यजिप्रयोजनत्वात्. तयोर् अविभागः. सर्वाण्य् अपूर्वाणि यजिमन्ति. यजिसंयोगेन धर्माः शिष्यन्ते, यजेतेत्य् उक्त्वोक्ताः. ते यजौ न संभवन्ति, तस्याफलत्वात्. [3]{*7।7*} तत्रासंभवन्तस् तत्संबद्धेष्व् अपूर्वेषु विज्ञायन्ते. स च यजिसंबन्धः सर्वेषाम् अपूर्वाणां तुल्यः. तस्मात् सर्वार्था भवन्ति, सत्वधर्मवत्{*7।8*}. यथा सत्वधर्माः{*7।9*}, गौर् न पदा प्रष्टव्य{*7।10*} इति गोत्वसंबन्धेन श्रूयमाणास् तत्रासंभवन्तस् तत्संबद्धेषु पिण्डेषु विज्ञायन्ते, तस्य च गोत्वसंबन्धस्याविशेषात् सर्वगवीषु शुक्लनीलकपिलकपोतिकासु भवन्ति. एवम् इहापि.
उच्यते, विषम उपन्यासः. तत्र गोसामान्यसंबन्धेन धर्मा विधीयन्ते. गौर् न पदा प्रष्टव्य{*7।11*} इति. इह पुनर् यजिविशेषसंबन्धेन धर्मा विधीयन्ते. दर्शपूर्णमासाभ्यां यजेतेति{*7।12*}, ज्योतिष्टोमेन यजेतेति. विशिष्टयजिसंबद्ध एवापूर्वे भवितुम् अर्हन्ति, न सर्वत्रेति. तत्र ब्रूमः, दर्शपूर्णमासाभ्यां यजेतेत्थम् इति{*7।13*}. यदि यजिर् विधीयेत, न धर्मैः संबध्येत. न हि द्वयोर् विधीयमानयोः परस्परेण संबन्धो भवति. अनुवादश् च सन्न् अविशेषात् सर्वयागानुवादः. तस्मात् सर्वथा धर्माः.
ननु दर्शपूर्णमासशब्दो विशेषको भविष्यति. न दर्शपूर्णमासशब्दः शक्नोति यागं विशेष्टुम्. अयं हि विधिर् वा स्याद् अनुवादो वा. यदानुवादः, तदा धर्मसंबन्धार्थः. स च धर्मसंबन्धो यागानुवादेनैव तयोः सिद्धः.
ननु निवृत्तिकरो भविष्यति, दर्शपूर्णमासाव् एवेत्थं कुर्यान् नान्यान् इति. नैवं शक्यम्. यत् कारणम्, न तस्यान्यनिवृत्तिः अर्थः. ननु परिसंख्यया करिष्यति. नात्र परिसंख्या युज्यते. यद्य् अन्येन वाक्येन यागमात्रे धर्मप्रसङ्गः कृतः{*7।14*} स्यात्, तत एतत् पुनर्वचनं परिसंख्यां कुर्यात्. अथ पुनर् असति प्रसङ्गे ऽनेनैव प्रसङ्गो ऽनेनैव निवृत्तिर्{*7।15*} इत्य् अतिभार एकस्यैव वाक्यस्य भवति.
[4]{*7।16*} एवं तर्हि, नात्र यजेतेति शब्दो धर्मविधिभिः संबध्यते, यजेतेत्थम् इति. केन तर्हि. दर्शपूर्णमासशब्देन. प्रत्यक्षो हि तेनास्य संयोगः, दर्शपूर्णमासाभ्यां यजेतेति, परोक्षो धर्मविधिभिः. कस् तदा वाक्यार्थः. दर्शपूर्णमासौ कुर्याद् इति. नैवं शक्यम्. एवं सति धर्मा असंबद्धाः पारिप्लवा भवन्ति. कथं कृत्वा. येयम् आख्यातिकी विभक्तिः यजेतेति, सा दर्शपूर्णमासयोः कर्तव्यतां विदधाति. तत्र कथं यागमात्रेण यागविशेषेण वा धर्मसंबन्धः स्यात्. विधायिका विभक्तिर् नास्तीत्य् असंबद्धा धर्मा भवन्ति.
नैष दोषः. न वयं वाक्येन धर्माणां संबन्धं करिष्यामः. केन तर्हि. प्रकरणेन. कथम्. कर्तव्यतायां चोदितायाम् इतिकर्तव्यताकाङ्क्षा भवति, कथं कुर्याद् इति. प्रकरणेन धर्माः संबध्यन्त इत्थं कुर्याद् इति. नैवं शक्यम्. यदा हि दर्शपूर्णमासौ कर्तव्यतया चोद्यते{*7।17*}, तदेतिकर्तव्यताकाङ्क्षैव नास्ति. प्रज्ञातेतिकर्त्यव्यतत्वात्{*7।18*} तयोः. असत्यां चेतिकर्तव्यताकाङ्क्षायां प्रकरणम् एव नास्ति. एवं ह्य् उक्तम्, असंयुक्तं प्रकरणाद् इतिकर्तव्यतार्थित्वाद्{*7।19*} इति.
एवं तर्हि, नैवात्र यागे धर्मा विधीयन्ते. नापि दर्शपूर्णमासयोः कर्तव्यतोच्यते. किं तर्हि. दर्शपूर्णमासाभ्यां यजेतेति पदद्वयेन विशिष्टं यागम् अनूद्यात्र धर्मा विधीयन्ते, दर्शपूर्णमासाभ्यां यजेतेत्थम् इति. एवम् अपि दर्शपूर्णमासाभ्याम् इत्य् अनुवादो न युज्यते. तृतीयार्थस्यासिद्धत्वात्. पूर्वान् अनुवादो भवति, अपूर्वश् च तृतीयार्थः. सो ऽवश्यं विधातव्यः. तस्मिंश् च विधीयमाने ऽन्यद् एवासंबद्धम् आपद्यते, दर्शपूर्णमासौ यजेः करणम् इति. तस्मात् स एव प्रथमः पक्षो ऽस्तु, यागानुवादेन धर्माणां विधिर् इति.
ननु तत्रापि दर्शपूर्णमासाभ्याम् इत्य् एतन् न संबध्यते.
[5]{*7।20*} ननु संभन्त्स्यते. कालवचनः सन् प्रायिको नित्यानुवादो भविष्यति. प्रायेण यागानां दर्शपूर्णमासकालत्वात्. तृतीया च कालस्यार्थकृतं गुणभावम् आलोच्योपपद्यते. तथा चेत् सर्वे धर्माः सर्वार्थाः भवन्ति.
नोतेस्:
*{7।6: ए2,6: सत्त्ववदैकधर्म्यं}*
*{7।7: ए2: 5,377; ए6: 3,2}*
*{7।8: ए2,6: सत्त्वधर्मवत्}*
*{7।9: ए2,6: सत्त्वधर्माः}*
*{7।10: ए2,6: स्प्रष्टव्य}*
*{7।11: ए2,6: स्प्रष्टव्य}*
*{7।12: ए2 ओम्. इति}*
*{7।13: ए2 उन्द् ए6 लेसेन्: दर्शपूर्णमासाभ्यां यजेतेत्य् अत्र न शक्यन्ते यागविशेषे धर्मा विधातुम्. किं कारणम्. यदा यजौ धर्मा विधीयन्ते तदा यजिर् अनूद्यते. यजेतेत्थम् इति}*
*{7।14: ए2: कुतः}*
*{7।15: ए2: प्रसङ्गेन निवृत्तिर्}*
*{7।16: ए2: 5,379; ए6: 3,3}*
*{7।17: ए2: चोद्येते}*
*{7।18: ए2: प्रज्ञातेतिकर्त्यव्यतात्वात्}*
*{7।19: म्स् 3.3.11}*
*{7।20: ए2: 5,380; ए6: 3,3}*
चोदनाशेषभावाद् वा तद्भेदाद् व्यवतिष्ठेरन्न् उत्पत्तेर् गुणभूतत्वात्
कर्मचोदनायाः शेषभूतो धर्मसमाम्नाय एकदेशभूत इत्य् अर्थः{*7।21*}, दर्शपूर्णमासाभ्यां यजेत, अनयाग्न्यवाधानादिकयेतिकर्तव्यतयेति. तस्यां चोदनायां यजेर् गुणभावः श्रूयते, दर्शपूर्णमासशब्दो यजिवचनः{*7।22*}. करणभावो ऽत्र यजेः श्रूयते. दर्शपूर्णमासाख्येन यागसमुदायेनान्यत् कुर्याद् इति. यत् ततो ऽन्यत्, तत्कर्तव्यतया चोद्यते, न यजिः. अपूर्वं च तत्.
ननु फलम् अत्र वाक्ये श्रूयते, स्वर्गकामो यतेत{*7।23*} इति. तत्कर्तव्यं स्यात्. सत्यं श्रूयते, न तु तद्यजिना क्रियते. विनष्टे यजौ तद् भवति. अपूर्वं तु तेन क्रियते. तस्मात् तस्य कर्तव्यता उच्यते. यस्य कर्तव्यता, तद् इतिकर्तव्यतया संबध्यते. तस्माद् अपूर्वार्था धर्माः. तेषां चापूर्वाणां भेदः{*7।24*}. अतस् तद्भेदाद् यथाप्रकरणं व्यवतिष्ठन्ते धर्मा इति.
अथैतस्मिन् पक्षे कथं दर्शपूर्णमासशब्देन यागो विशेष्यते. उच्यते, नैवात्र यागो विशिष्यते. किं तर्हि. अपूर्वभावनैवोभयपदविशिष्टोच्यते{*7।25*}. यथारुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति{*7।26*} इति. विषम उपन्यासः. तत्र ह्य् अन्यद् द्रव्यम्, अन्यो गुणः. तेन तत्रोभयविशेषणत्वं युज्यते{*7।27*}. इह पुनर् यागः एव तौ दर्शपूर्णमासौ. तेनेहोभयविशेषणत्वं{*7।28*} [6]{*7।29*} न युज्यते. उच्यते, इहापि यजेतेति सामान्यम्, दर्शपूर्णमासाव् इति विशेषः, अन्यच् च सामान्यम् अन्यो विशेषः.
एवम् अपि श्रुत्या सामान्येन{*7।30*} भावना, वाक्याद् विशेषेण{*7।31*}. न चैतद् युगपद् भवतीति. एवं तर्हि, नैवात्र श्रुत्यर्थे परिगृह्यते. किं तर्हि. वाक्यार्थः. किं कारणम्. श्रुत्यर्थे परिगृह्यमाणे दर्शपूर्णमासशब्दो ऽनर्थको भवति. यजतिश् चानुवादः. यजत्य् आत्मकत्वाद् दर्शपूर्णमासयोः. यजतिसामानाधिकरण्याच् च दर्शपूर्णमासशब्दस्य.
नोतेस्:
*{7।21: ए1 हत् एकदेशभूत इत्य् अर्थः इन् क्लम्मेर्न्}*
*{7।22: ए2: श्रूयते, दर्शपूर्णमासाभ्याम् इति. दर्शपूर्णमासशब्दो हि यजिवचनः}*
*{7।23: ताण्ड्. बृ. 16.15.5}*
*{7।24: ए2: भेद उक्तः}*
*{7।25: ए2: अपूर्वभावनैवोभयपदाविशिष्टोच्यते}*
*{7।26: तैत्. स्. 6.1.6}*
*{7।27: ए2: तत्रोभयविशेयणत्वं युज्यते}*
*{7।28: ए2: तेनेहोभयपदविशेषणत्वं}*
*{7।29: ए2: 5,381; ए6: 3,4}*
*{7।30: ए2: सामान्यस्य}*
*{7।31: ए2: विशेषस्य}*
सत्वे{*7।32*} लक्षणसंयोगात् सार्वत्रिकं प्रतीयेत
यत् तु सत्ववद्{*7।33*} इति. अत्र गवाकृतौ धर्मः श्रूयते. आकृतेः पदार्थत्वात्. न च तत्र संभवति. अतो ऽसाव् आकृतिः सहचारिपिण्डलक्षणार्था विज्ञायते, यथा गङ्गायां गाव{*7।34*} इति. तच् च साहचर्यम्, सर्वपिण्डानाम् अविशिष्टम् इति, सर्वपिण्डेषु विहितं भवति. तस्मात् तत् सार्वत्रिकं प्रतीयेत. इह तु यजेर् गुणभवेन श्रवणान् नैव यजौ धर्माः श्रूयन्ते. किं{*7।35*} तर्हि. अपूर्व इत्य्. एवम् अपदिष्टो हेतुः. तस्माद् अनुपन्यासः सत्ववद्{*7।36*} इति.
नोतेस्:
*{7।32: ए2,6: सत्त्वे}*
*{7।33: ए2,6: सत्त्ववद्}*
*{7।34: ए2: घोष}*
*{7।35: ए2: क्व}*
*{7।36: ए2,6: सत्त्ववद्}*
अविभागात् तु नैवं स्यात्
अथ तुशब्दः पक्षव्यावृत्तौ. नैतद् एवम्, अपूर्वप्रयुक्ता धर्मा [7]{*7।37*} इति. यजिप्रयुक्ता एव. कुतः. अविभागात्. यजिनाविभागो धर्माणाम्, प्रत्यक्षं केचिद् द्रव्ये श्रूयन्ते, केचिद् देवतायाम्, केचिन् मन्त्रेषु. एष च यजिः, यद् द्रव्यं देवताम् उद्दिश्य मन्त्रेण त्यज्यते. स एष प्रत्यक्षो यजिना संबन्धो धर्माणाम्. अपूर्वेण त्व् आनुमानिकः. फले ऽपि यजेः प्रत्यक्षश्रुतो गुणभावः, स्वर्गकामो यजेतेति. आनुमानिको ऽपूर्वेण. अनुमानाच् च प्रत्यक्षं बलीयः. तस्माद् यज्यर्थाः धर्माः.
ननु यजिर् भङ्गित्वात् कालान्तरे फलं दातुम् असमर्थः. तत्र कृता धर्मा असमर्था एव भवतीत्य् उक्तम्. अत्र स्थितस्य न्यायस्याक्षेपेण प्रत्यवस्थानं क्रियते. तैलपानवद् एतद् भविष्यति. यथा तैलपानं घृतपानं वा भङ्गित्वे ऽपि सति कालान्तरे मेधास्मृतिबलपुष्ट्यादीनि फलानि करोति. एवं यजिर् अपि करिष्यति, किं नो ऽदृष्टाश्रुतेनापूर्वेण कल्पितेनेति.
नोतेस्:
*{7।37: ए2: 5,383; ए6: 3,5}*
द्व्यर्थत्वं च विप्रतिषिद्धम्
एवं च सति सर्वे धर्माः सर्वार्था भवन्ति. तथा चैन्द्राग्नादिषु प्रयाजादयः सन्ति. तत्र सौर्ये कर्मणि प्रयाजानां दर्शनम् उपपद्यते. प्रयाजे प्रयाजे कृष्णलं जुहोति{*7।38*} इति. इतरथा प्रयाजाश् च विधातव्याः. प्रयाजेषु च कृष्णलहोमः. तथा च द्व्यर्थं तत् स्यात्{*7।39*}. द्व्यर्थत्वं च विप्रतिषिद्धम्. तस्माद् यजिप्रयुक्ता धर्मा इति.
नोतेस्:
*{7।38: तैत्. स्. 2.3.2}*
*{7।39: ए2: तस्यात्}*
उत्पत्तौ विध्यभावाद् वा चोदनायां प्रवृत्तिः स्यात् ततश् च कर्मभेदः स्यात्
नैतद् एवम्, यजिप्रयुक्ता धर्मा इति. चोदनायां प्रवृत्तिः [8]{*7।40*} स्यात्. चोदनेत्य् अपूर्वं ब्रूमः, चोदनार्थत्वाद् अपूर्वार्थत्वाद् अपूर्वप्रयुक्ता धर्माः. फलवत्त्वाद् इत्य् उक्तो हेतुः. यत् तु प्रयक्षो यजिसंबन्धो धर्माणाम् इति. अत्र ब्रूमः, उत्पत्तौ विध्यभावात्. उत्पत्तिर् इति यजिं ब्रूमः. उत्पत्तौ यजौ नास्ति विधिः. यज्यर्था धर्मा इति. केवलं यजौ श्रूयन्ते, क्रियन्ते च. नैतावता तदर्था भवन्ति. यथा वाससि रागः श्रूयते, वासो रञ्जयतीति, वाससि च क्रियते. न चासौ तदर्थः. स्त्र्यर्थः पुरुषार्थो वा भवति. एवम् इहापि यजौ श्रूयमाणाः क्रियमाणाश् चापूर्वार्था भवेयुर् अर्थवत्त्वाय. ततश् च कर्मभेदः स्यात्. यतो ऽपूर्वार्था इति. यत् तु यजेः प्रत्यक्षम्{*7।41*}, फले गुणभाव इति. न कृत्वापूर्वं{*7।42*} भवतीति, प्राणालिको विज्ञायते. प्रणाड्यापि च येन क्रियते, तत् कारणं भवति. यथा गोमयैः पचति, तुषपक्वा भवन्तीति. यत् तु, तैलपानवद् यजितः फलं भवतीति. अत्र ब्रूमः, तैलपानस्यापि न कालान्तरे फलं भवति. धातुसाम्यं तस्य फलम्. तच् च तत्कालम् एव. यच् च फलं बलपुष्ट्यादि, तत् सम्यग् आहारपरिणामाद् भवति. तस्माद् विषम उपन्यासः.
नोतेस्:
*{7।40: ए2: 5,384; ए6: 3,5}*
*{7।41: ए2: प्रत्यक्षः}*
*{7।42: ए2: स नाकृत्वापूर्वं}*
यदि वाप्य् अभिधानवत् सामान्यात् सर्वधर्मः स्यात्
यद्य् अप्य् अपूर्वं प्रयोजकं धर्माणाम्, तथापि सर्वधर्मः स्यात्, स स पदार्थः, अभिधानवत् सामान्यात्. अभिधानं तावद् एतेषां समानम्. अपूर्वम् इत्य् अभिधानवद् धर्मेणाप्य् अस्य समानेन भवितव्यम्, वाहीकवत्. यथा वाहीको ऽतिथिर् आगतः, यवान्नम् अस्मै प्रक्रियताम् इत्य् उक्ते, यो यो वाहीकस् तस्य तस्य यवान्नं क्रियते. यथा वा, अक्ष्यामये मुद्गौदनो भोक्तव्यः, उदरामये पयः [9]{*7।43*} पातव्यम् इति. सर्वत्र च ह्य् अक्ष्यामये मुद्गौदनो भुज्यते, उदरामये ऽपि पयः पीयते. एवम् इहाप्य् एकस्यापूर्वस्य ये धर्माः श्रुतास् ते सर्वापूर्वाणां भवितुम् अर्हन्ति.
अपि च, अरुणपराशरा नाम शाखिनः. तेषां परिचरेषु स्मृतिरूपं ब्राह्मणं भवति. ये दर्शपूर्णमासयोर् धर्माः, ते सर्वेष्टीनाम् अग्नीषोमीयस्य चेत्य् आरभ्य, यावत् सर्वाः प्रकृतिविकृतयो ऽनुक्तान्ता इति. तच् चानुक्रमणम् एतम् एव न्यायं सूचयति. तस्माद् अपूर्वप्रयुक्तत्वे ऽपि सर्वे धर्माः सर्वार्था इति.
नोतेस्:
*{7।43: ए2: 5,385; ए6: 3,6}*
अर्थस्य त्व् अविभक्तत्वात् तथा स्याद् अभिधानेषु पूर्ववत्त्वात् प्रयोगस्य कर्मणः शब्दभाव्यत्वाद् विभागाच् छेषाणाम् अप्रवृत्तिः स्यात्
उपवर्णनापरिहारस् तावद् उच्यते. यद् उक्तम्, वाहीकवद् इति, अत्र ब्रूमः, अर्थस्य त्व् अविभक्तत्वात्, तथा स्याद् अभिधानेषु. अर्थो वाहीकत्वम्, तद्देशसंबन्धः, सो ऽविभक्तः. सर्ववाहीकेष्व् अनुगत इत्य् अर्थः. तन्निमित्तश् च प्रीतिविशेषो न पुरुषनिमित्तः. कथं ज्ञायते. पूर्ववत्त्वात् प्रयोगस्य. पूर्ववान् अत्र प्रयोगः, बहुशो वाहीकाश् चावाहीकाश् च भोजिताः. तत्रान्वयव्यतिरेकाभ्यां ज्ञतम् एतत्, देशनिमित्तेयं यवान्न् अप्रियता, न पुरुषनिमित्तता. तस्मात् तथा स्याद् वाहीकादिष्व् अभिधानेषु. अथेह कर्मणः शब्दभाव्यत्वम्. नान्यतः{*7।44*} शक्यम् एतज् ज्ञातुम्. कस्यापूर्वस्य{*7।45*} धर्मा इति. शब्देन च व्यवस्थिता विज्ञाता धर्माः. अपूर्वाणां च विभागः, अतः शेषाणाम् अन्यत्र विहितानाम् अन्यत्राप्रवृत्तिः स्यात्.
[10]{*7।46*}
नोतेस्:
*{7।44: ए2: शब्दभाव्यत्वान् नान्यतः}*
*{7।45: ए2: ज्ञातुम्, के कस्यापूर्वस्य}*
*{7।46: ए2: 5,386; ए6: 3,7}*
स्मृतिर् इति चेत्
अथ यद् उक्तम्, स्मृतिर् इति. तस्य कः परिहारः.
न, पूर्ववत्त्वात्
पूर्ववती हीयं स्मृतिः. चोदकं धर्मग्राहकं वक्यति, विध्यन्तो वा प्रकृतिवद् इति. तेन प्रापितानां धर्माणाम् अयम् अनुवादः. एतन् न्यायपूर्विका, नाप्राप्तानां विधायिका. यत् कारणं व्यवस्था धर्माणाम् एतेन न्यायेन भवति.
अर्थस्य शब्दभाव्यत्वात् प्रकरणनिबन्धनाच् छब्दाद् एवान्यत्र भावः स्यात्
इदं निगमनसूत्रम्. निगमनं च प्रतिज्ञाया हेतोश् च पुनर्वचनम्. तद् इदम् उच्यते, यस्माद् एवम्, तस्माद् अर्थस्याग्न्यन्वाधानादेः शब्दभाव्यत्वात्, प्रतिप्रकरणं च निबन्धनाच् छब्दाद् एवान्यत्र भावः स्यात्. यथा गन्धर्वाप्सरसो वा, एतम् उन्मादयन्ति, य उन्माद्यत्य् एता वै गन्धर्वाप्सरसो यद्राष्ट्रभृतम्. तस्मै स्वाहा ताभ्यः स्वाहेति जुहोतीत्य् अग्निप्रकरणे उत्पन्नानां राष्ट्रभृताम् उद्वाहे उपदेशः. एतेषां राष्ट्रभृतो जुहोत्य् अभ्यातानां जुहोतीति. अस्त्य् एतस्मिन् वचने यथाधिकारं व्यवतिष्ठेरन् धर्मा इति. एवं च सत्य् अधर्मकाण्य् ऐन्द्राग्नादीणि. तदर्थम् उत्तरो ऽध्यायषट्कः प्रारब्धव्य इति.
तत्र सप्तम् एन तावद् ऐन्द्राग्नादीनां कर्मणां धर्माः सन्तीत्य् उच्यते. ते चातिदेशेनेति. अतिदेशो नाम ये परत्र विहिता धर्मास् तम् अतीत्यान्यत्र तेषां देशः. यथा देवदत्तस्य भोजनविधिं कृत्वा, शालिसूपमांसापूपैर् देवदत्तो भोजयितव्य [11]{*7।47*} इति. तम् एव विधिं यज्ञदत्ते ऽतिदिशति, देवदत्तवद् यज्ञदत्तो भोजयितव्य इति. श्लोकम् अपि उदाहरन्ति,
प्रकृतात् कर्मणो यस्मात् तत्समानेषु कर्मसु।
धर्मप्रदेशो येन स्यात् सो ऽतिदेश इति स्थितिः॥ इति.
स च नाम्ना वचनेन वा. तत्र नाम त्रिविधम् अतिदेशकम्, कर्मनाम्, संस्कारनाम्, यौगिकम् इति. वचनं पुनर् द्विविधम्, प्रत्यक्षश्रुतम्, आनुमानिकं च. तयोर् आनुमानिकम् उपरिष्टाद् वक्ष्यते. प्रत्यक्षश्रुतं त्व् इदानीम् एव चिन्त्यते.
अस्तीषुनाम् ऐकाहः, अपरः श्येनः. तौ द्वाव् अप्य् आभिचारिकौ. तत्रेषौ कांश्चिद् धर्मान् विधायाह, समानम् इतरच् छ्येनेनेति. एतच् चिन्त्यते. किम् अयम् अनुवादः, विधिर् इति. यदि विधिः, ततो ऽतिदेशः. श्येनधमान् इषाव् अतिदिशति. अथानुवादः, ततो नेति. तत्र किं प्राप्तम्. तत् सूत्रेणैवोपक्रम्यते,
नोतेस्:
*{7।47: ए2: 5,386; ए6: 3,8}*
समाने पूर्ववत्त्वाद् उत्पन्नाधिकारः स्यात्
समानम् इतरच् छ्येनेनेति. अत्रोत्पन्नाधिकारः स्यात्. अनुवाद इत्य् अर्थः. कुतः. पूर्ववत्त्वात्. अयम् इषुः पूर्ववान्, ज्योतिष्टोमपूर्वकः. ज्यौतिष्टोमिको ऽत्र विध्यन्त इत्य् अर्थः{*7।48*}. अत्र चोदकेनोत्पन्ना ज्यौतिष्टोमिका धर्माः सन्ति. श्येनो ऽपि ज्योतिष्टोमपूर्वकः. तत्रापि ते सन्ति. ये इषौ श्येने [12]{*7।49*} च समाना भन्ति, तान् अधिकृत्यायं वादो युज्यते. तस्माद् उत्पन्नाधिकारत्वाद् अनुवादः.
किं चेतरद् इति चाभावे नोपपद्यते. इतरशब्दश् चासन्निहिते ऽनुपपन्नः, सन्निहित एव भवति. यथा, इतर आधारो{*7।50*} दीयताम्. इतरः कम्बलो दीयताम् इति सन्निहितो दीयते, न प्रावारमात्रं कम्बलमात्रं वा. ज्यौतिष्टोमिकाश् च सन्निहिताः. तस्मात् तेषां वादः. तेषां चेदम् अनुवादः.{*7।51*} विहिता हि ते चोदकेनेति.
नोतेस्:
*{7।48: षड्वि. ब्र्. 4.3}*
*{7।49: ए2: 5,387; ए6: 3,8}*
*{7।50: ए2: प्रावारो}*
*{7।51: ए2 ओम्. तेषां चेदम् अनुवादः}*
श्येनस्येति चेत्
इति चेत् पश्यसि, ज्यौतिष्टोमिकानाम् अनुवाद इति. नैवम्. श्येनस्य वैशेषिकाणां लोहितोष्णीषादीनां धर्माणां विधिः{*7।52*}. कुतः. श्येनग्रहणसामर्थ्यात्. एवं श्येनग्रहणम् अर्थवत् भविष्यति, धर्मान् विशेषयत्. इतरथानर्थकं स्यात्. सर्वेषां ह्य् एकाहाहीनसत्राणां ते समानाः. तत्र यावद् उक्तं स्यात्, समानम् इतरद् इति, तावद् एव समानम् इतरच् छ्येनेनेति.
नोतेस्:
*{7।52: व्ग्ल्. षड्वि. ब्र्. 4.2.22}*
नासन्निधानात्
नायं श्येनवैशेषिकाणां वादो युज्यते. कस्मात्. असन्निधानात्. अयम् इतरशब्दः सन्निहिते भवति, न च श्येनशब्देन वैशेषिका इषौ सन्निहिताः{*7।53*}. यत् तु श्येनशब्दो वैशेषिको भवतीति, विधिपक्षे ऽवैशेषिकत्वं दोषः स्यात्. अनुवादपक्षे तु नैव कश्चिद् विधीयते, किं विशेष्यति. ज्यौतिष्टोमिकास् तु सर्वसाधारणाः सन्तः श्येनस्यापि भवन्तीत्य् अनुवादो युज्यते. तस्माज् ज्यौतिष्टोमिकानाम् एवानुवादः.
[13]{*7।54*}
नोतेस्:
*{7।53: ए2: इषौ धर्माः संनिहिताः}*
*{7।54: ए2: 5,388; ए6: 3,9}*
अपि वा यद्य् अपूर्वत्वाद् इतरद् अधिकार्थे ज्यौतिष्टोमिकाद् विधेस् तद्वाचकं समानं स्यात्
अपि वेति पक्षान्तरपरिग्रहे. विधिर् अयं श्येनवैशेषिकाणाम्, ज्यौतिष्टोमिकानाम्{*7।55*} अनुवादः. कुतः. अपूर्वत्वात्. एवम् अपूर्वम् अर्थं विधास्यति. तथा प्रवृत्तिविशेषकरो भविष्यति. अनुवादः सन्न् अप्रवृत्तिविशेषकरो ऽनर्थकः स्यात्. नन्व् इतरशब्दो ऽयं सन्निहिते भ्वति. उच्यते, इतरद् अधिकार्थे, समानम् इतरत्, समानम् अधिकम् इत्य् अर्थः.
ननु सन्निहितवचनो ऽयं नाधिकार्थ इति{*7।56*}. उच्यते, न केवलम् अयं सन्निहितवचन एव. पूर्वोक्तसदृशम् असन्निहितम् अपि ब्रूते. अवशिष्टं च. यदा हि वस्त्राण्य् अनुक्रम्येतरशब्दः प्रयुज्यते, देवदत्ताय कम्बलो दीयताम्, विष्णुमित्राय कौशेयम्, यज्ञदत्ताय क्षौमम्, इतरच् चैत्रायेति, तदा वस्त्रम् एव प्रदीयते, न हिरण्यं रजतं वा. इह ज्यौतिष्टोमिकेभ्यो ऽधिकान् धर्मान्{*7।57*} अनुक्रम्येतरशब्दः प्रयुक्तः. तेनात्राप्य् अधिकान् एव वक्तुम् अर्हति. तथाधिकवचनो भ्वति.
अथ ज्यौतिष्टोमिकान् ब्रूते, तथा सन्निहितवचनः. तत्रावश्यम् अन्यतरद् धेयम्. यद्य् अधिकार्थतां हित्वा सन्निहितार्थताश्रीयते, अनुवादमात्रम् अनर्थकं भवति. श्येनशब्दश् चाविवक्षितार्थः. अथ सन्निहितार्थतां हित्वाधिकार्थता गृह्यते, न कश्चिद् दोषो भवति. तस्मात् सूत्रकार आह, इतरद् अधिकार्थ इति. अतो ज्यौतिष्टोमिकाद् विधेर् अधिकाः श्येनवैशेषिका ये, त इहातिदिश्यन्ते. तद्वाचकं [14]{*7।58*} समानं स्यात्. समानशब्दः स्याद् इत्य् अर्थः. भवति श्येनशब्दश् च विवक्षितः.
चातुर्मास्यानां वैश्वदेव आग्नेयादीनि{*7।59*} हवींषि सार्थवादवाक्यैर् विहितानि. धर्माश् च तेषाम् उक्ताः. वरुणप्रघासेषु केवलानि हवींष्य् आम्नाय, यद् वैश्वदेविकानां ब्राह्मणम्, तत् तेषाम् अतिदिश्यते, एतद् ब्राह्मणान्य् एव पञ्च हवींषि, यद् ब्राह्मणानीतराणि{*7।60*} इति. तत्र{*7।61*} किम् अर्थवादमात्रस्यायम् अतिदेशः, उत सार्थवादकस्य सविधिकस्य काण्डस्येति{*7।62*}. कथं पुनर् अर्थवादमात्रस्यातिदेशो भवति. यथा पम्पाकुलायप्रतिमाश् च वृक्षा इति. के पुनर् विधयः, के अर्थवादाः. त्रेधा सन्नद्धं बर्हिर् भवति{*7।63*}, त्रेधा सन्नद्ध इध्मः{*7।64*}, नव प्रयाजा नव अनुयाजा इत्येवमादयो विधयः. वार्तघ्नानि वैतानि हवींषीत्य् अर्थवादाः. तत्रेदम् उच्यते,
नोतेस्:
*{7।55: ए2: न ज्यौतिष्टोमिकानाम्}*
*{7।56: ए2: नाधिकार्थवचन इति}*
*{7।57: ए2: ऽधिकान् लोहितोष्णादीन् धर्मान्}*
*{7।58: ए2: 5,389; ए6: 3,10}*
*{7।59: ए2: वैश्वदेवे पुण्याग्नेयादीनि}*
*{7।60: तैत्. ब्र्. 1.6.7.5}*
*{7।61: ए2 ओम्. तत्र}*
*{7।62: ए2: सविधिकस्य कृत्स्नस्य काण्डस्येति}*
*{7।63: तैत्. ब्र्. 1.6.3.1}*
*{7।64: मैत्. स्. 1.10.7}*
पञ्चसंचरेष्व् अर्थवादातिदेशः सन्निधानात्
पञ्चतानि हवींषि सर्वपर्वसु संचरन्तीति पञ्चसंचराणीत्य् उच्यन्ते. तेषु पञ्चसंचरेष्व् अर्थवादमात्रस्यातिदेश इति. कुतः. सन्निधानाद् धविषां सन्निहिता अर्थवादाः. विधिभिर्{*7।65*} एकवाक्यसंबद्धत्वात्, न धर्मविधयः. किम् अतः. अत एतद् भवति, यत् पूर्वेषां ब्राह्मणम् इति व्यपदेशो युज्यते. [15]{*7।66*} तद् धि तेषां ब्राह्मणम्, येन विधीयन्ते. को ऽन्यो हविषां ब्राह्मणस्य च संबन्धो ऽन्यत्र विधेयविधायकभावात्. अर्थवादैश् चैतानि विधीयन्ते, न धर्मविधिभिः. धर्मविधिभिस् तु यानि विधीयन्ते, न तानि हवींषि. तस्माद् अर्थवादानाम् अतिदेशो न धर्मविधीनाम्.
अपि च वरुणप्रघासेष्व् अपि केचिद् वैश्वदेविका धर्मा विधीयन्ते. यथा, अग्निं मथ्नन्ति प्रसुवो भवन्तीति. तेषाम् अतिदेशेन विहितानां पुनर् आम्नानम् अनर्थकं स्यात्, यदि विधयो ऽतिदिश्येरन्. तस्माद् अर्थवादातिदेश इति.
नोतेस्:
*{7।65: ए2: हविर् विधिभिर्}*
*{7।66: ए2: 5,390; ए6: 3,10}*
सर्वस्य वैकशब्द्यात्
नैतद् एवम्, अर्थवादमात्रस्यातिदेश इति. सविधिकस्य सार्थवादकस्य काण्डस्यातिदेश{*7।67*} इति. कुतः. ऐकशब्द्यात्. समानशब्दत्वाद् इत्य् अर्थः. समानो ऽयं ब्राह्मणम् इति शब्दो विधीनाम् अर्थवादानां च. स यथार्थवादान् गृह्णाति, एवं{*7।68*} विधीन् अपि गृह्णाति चेत्, तान् अप्य् अतिदिशति. यत् तु विधीनां हविर्भिः संबन्धो नास्तीति. विधेयविधायकसंबन्धो नास्ति, उपकारलक्षणः संबन्धो भविष्यति. क उपकारः. यस् एषाम् अङ्गानि विदधाति. अस्ति चेत् संबन्धः, ब्राह्मणशब्दश्रुत्या सर्वातिदेशो न्याय्य इति.
नोतेस्:
*{7।67: ए2: सार्थवादकस्य कृत्स्नस्य काण्डस्यातिदेश}*
*{7।68: ए2: एव}*
लिङ्गदर्शनाच् च
लिङ्गं च विधीनाम् अतिदेशं दर्शयति. किं लिङ्गम्. वरुणप्रघासेषु त्रिंशदाहुतयो वाजिनो{*7।69*} यजन्त्य् आहुतीनां संपत्त्यै त्रिंशत्त्वाय{*7।70*} इति वरुणप्रघासे{*7।71*} त्रिंशतम् आहुतीर् दर्शयति. यदि विधयो नातिदिश्येरन्, ता न स्युः. तस्माद् अतिदिश्यन्ते.
[16]{*7।72*}
नोतेस्:
*{7।69: ए2: वरुणप्रघासेषु श्रूयते, त्रिंशदाहुतयो हूयेरन्. वाजिनो}*
*{7।70: काठक स्. 36.2}*
*{7।71: ए2,6: वरुणप्रघासेषु}*
*{7।72: ए2: 5,391; ए6: 3,11}*
विहिताम्नानान् नेति चेत्
विहिताम्नानाद् इति यद् उक्तम्, तस्य कः परिहारः. आभाषान्तं{*7।73*} सूत्रम्{*7।74*}.
नोतेस्:
*{7।73: ए2: परिहार इति, आभाषान्तं}*
*{7।74: ए1 हत् आभाषान्तं सूत्रम् इन् क्लम्मेर्न्}*
नेतरार्थत्वात्
अत्रोच्यते, विध्यतिदेशे ऽपि सति नाग्निमन्थनादीनाम् आम्नानम् अनर्थकम्. इतरस्य हविषो ऽर्थेन भविष्यति, दक्षिणवैहारिकस्य मारुत्याः{*7।75*}. तस्मान् नैतज् ज्ञापकम्, विधीनाम् अनतिदेशस्य भविष्यति.
नोतेस्:
*{7।75: तैत्. ब्र्. 1.6.5.1}*
एककपालैन्द्राग्नौ च तद्वत्
वैश्वदेवे एककपाल आम्नातः, द्यावापृथिवीय एककपाल इति, वरुणप्रघासेष्व् अपि काय एककपाल इति. तत्रापरः, ऐन्द्राग्नो द्वादशकपालो मारुत्यामिक्षा{*7।76*} इति. तथा साकमेधेष्व् अप्य् एककपालैन्द्राग्नाव् आम्नातौ, ऐन्द्राग्न एकादशकपाल इन्द्राय वृत्रघ्ने चरुः वैश्वकर्मण एककपाल इति. तत्रेदम् आम्नातम्. एतद् ब्राह्मण ऐन्द्राग्नः, एतद् ब्राह्मण एककपालः{*7।77*}, यद् ब्राह्मण इतर इतरश् चेति. तत्रेदम् उच्यते, एककपालैन्द्राग्नौ च तद्वत्, यद्वत् पञ्चसंचराणि. अत्रापि सविधिकस्य सार्थवादकस्य काण्डस्यातिदेशः. तेनैव न्यायेनेति. प्राप्तिसूत्रम् एतद् उत्तरचिन्तार्थम्.
[17]{*7।78*}
नोतेस्:
*{7।76: मैत्. स्. 1.10.1}*
*{7।77: तैत्. ब्र्. 1.6.7.5}*
*{7।78: ए2: 5,392; ए6: 3,11}*
एककपालानां वैश्वदेविकः प्रकृतिर् आग्रयणे सर्वहोमापरिवृत्तिदर्शनाद् अवभृथे च सकृद् द्व्यवदानस्य वचनात्
मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0