भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसासूत्र (टीका सहित) · अध्याय 6.8

6.8.1

वाशब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति, पञ्चपञ्चाशतो द्वादशरात्रा इति. अहान्य् एव त्रिवृच् छब्देनाख्यायन्ते. तस्माद् अहःसु संवत्सरशब्द इति. अथवा, वाशब्दः पक्षान्तरं{*6।406*} व्यावर्तयति, न पञ्चपञ्चाशातो मासाः. किं तर्हि दिवसाः. द्वादशाहे त्रिवृदहः प्रकृतम्. तत्र संवत्सरशब्दो दृश्यते. आदित्यो वा सर्व ऋतवः, स यदैवोदित्यथ{*6।407*} वसन्तः, यदा संगवो ऽथ ग्रीष्मः, यदा मध्यंदिनो ऽथ वर्षा, यदापराह्नो ऽथ शरत्, यदास्तमेत्य् अथ हेमन्तशिशिराव् इति, सर्वान् ऋतून् अहनि संपादयति. सर्वे चर्तवः संवत्सरः. तस्माद् आहः [761]{*6।408*} संवत्सरशब्देनोच्यते. अपि च पञ्चपञ्चाशतस् त्रिवृत इति त्रिवृतां पञ्चपञ्चाशत्त्वम्. न च द्वादशरात्रस् त्रिवृत्, एकं हि द्वादशाहे त्रिवृदहः, न तत्र त्रिवृत् संख्याया द्वादशरात्रेण मुख्यया वृत्त्या सामानाधिकरण्यम्. त्रिवृदहः संबन्धलक्षणया स्यात्. अभिसंख्यं त्रिवृदहः, तेन श्रुत्यैव सामानाधिकरण्यम्, श्रुतिश् च लक्षणाया ज्यायसी. तस्मात् पञ्चपञ्चाशद् अहानि संवत्सरः स्याद् इति.
[762]{*6।409*}
नोतेस्:
*{6।406: ए2 (व्.ल्.): पक्षं}*
*{6।407: ए1; ए2,6: यदैवोदेत्यथ}*
*{6।408: ए2: 5,355; ए6: 2,209}*
*{6।409: ए2: 5,357; ए6: 2,210}*
इष्टिपूर्वत्वाद् अक्रतुशेषो होमः संस्कृतेष्व् अग्निषु स्याद् अपूर्वो अप्य् आधानस्य सर्वशेषत्वात्

6.8.2

इह चतुर्होतृष्व् आम्नायते, प्रजाकामं चतुर्होत्रा याजयेच् चतुर्गृहीतम् आज्यं गृहीत्वा चतुर्होतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयात्, तदुत्तरेणार्धम्{*6।410*} इति. तत्र संदेहः. किं पवमानेष्टिसंस्कृतेषु अग्निष्व् एवमादयः, उत असंस्कृतेष्व् अपि{*6।411*}. तथा पक्षान्तराश्रयणम् अपि वक्ष्यमानं विचारयिष्यते. किं तावत् प्राप्तम्. संस्कृतेष्व् अग्निष्व् एवंजातीयको ऽक्रतुशेषो ऽपि होमः स्यात्. यद्य् अप्य् अपूर्वा दर्विहोमा न कुतश्चिद् धर्मान् आकाङ्क्षन्ति, तथाप्य् आहवनीयादयो होमादीन् आकाङ्क्षन्ति{*6।412*}, यद् आहवनीये जुहोति, तेन सो ऽस्याभीष्टः प्रीतो भवतीत्येवमादिभिः श्रुतिभिः. एवम् इष्टिपूर्वत्वात् सर्वहोमानाम्, संस्कृताग्निवृत्तित्वम्{*6।413*} एवंजातीयकानाम् इति.
नोतेस्:
*{6।410: ए1 (व्.ल्.): उत्तरेणार्धम्}*
*{6।411: ए1,6; ए2: इति}*
*{6।412: ए1 (व्.ल्.): होमादीनाकाङ्क्ष्यन्ते}*
*{6।413: ए1 (व्.ल्.): संस्कृताग्निनिर्वर्त्यत्वम्}*
इष्टित्वेन तु संस्तवश् चतुर्होतॄन् असंस्कृतेषु दर्शयति

6.8.3

तुशब्दात् पक्षो विपरिवर्तते. चतुर्होतृहोमा असंस्कृतेष्व् अग्निषु भवेयुः. तथा हि दर्शयति, एषा वानाहिताग्ने[763]र्{*6।414*} इष्टिर् यच् चतुर्होतार इति, अनाहिताग्नेर् इष्टयो न विद्यन्ते. ये त्व् एते चतुर्होताराः, तस्यैषैवेष्टिर् इति, अनाहिताग्नेर् एवंजातीयकान् होमान् दर्शयति. तस्माद् असंस्कृतेषु भवेयुः.
ननु लिङ्गम् असाधकम्, प्राप्तिर् वक्तव्येति. तद् उच्यते,
नोतेस्:
*{6।414: ए2: 5,357; ए6: 2,210}*
उपदेशस् त्व् अपूर्वत्वात्

6.8.4

एवं तर्हि, अक्रतुशेषाणां विधिर् एषा{*6।415*} भविष्यति, एषा अनाहिताग्नेः{*6।416*} क्रियेति. एवम् अर्थवद्वचनं भविष्यति. वादमात्रम् अनर्थकं भवति, अस्य चास्ति विधिसामर्थ्यम्. तस्माद् विधिर् असंस्कृतेष्व् इति.
नोतेस्:
*{6।415: ए1,6; ए2: एष; ए2 (व्.ल्.): एव}*
*{6।416: ए1,6; ए2: एषा वानाहिताग्नेर्}*
स सर्वेषाम् अविशेषात्

6.8.5

आह, एतद् गृह्यते विधिर् इति. यत् तु, अक्रतुशेषाणाम् इति, तन् न, सर्वेषां क्रतुशेषाणाम् अक्रतुशेषाणां च चतुर्होतृहोमानाम्. कुतः. अविशेषात्, न क्रतुशेषाणाम् एवायं धर्म{*6।417*} उच्यते, नाक्रतुशेषाणाम् इति. तस्मात्{*6।418*} सर्वेषाम्.
नोतेस्:
*{6।417: ए1,6,ए2 (व्.ल्.); ए2: अविशेषात्. चतुर्होतॄणाम् अयं धर्म}*
*{6।418: ए1,6; ए2: न विशेषः क्रतुशेषाणाम् अक्रतुशेषाणां चेति. तस्मात्}*
अपि वा क्रत्वभावाद् अनाहिताग्नेर् अशेषभूतनिर्देशः

6.8.6

अपि वेति पक्षव्यावृत्तिः. अक्रतुशेषाणाम् एवायं धर्मो न क्रतुशेषाणाम्. कुतः. अनाहिताग्नेः क्रत्वभावात्. न ह्य् अनाहिताग्नेः क्रतवः सन्ति. न च क्रत्वङ्गं केवलं प्रयुज्यमानं कस्मैचित् प्रयोजनाय स्यात्. न चास्यान्यत् फलं प्रकल्प्येत{*6।419*}, प्रमाणाभावात्. वचनस्य ह्य् अन्यद् अपि प्रयोजनम् अस्ति. न चानेन वचनेन शक्यते ऽनाहिताग्नेः क्रतुः कल्पयितुम्. तस्माद् अक्रतुशेषाणाम् अयं धर्म इति.
[764]{*6।420*}
नोतेस्:
*{6।419: ए2 (व्.ल्.): चास्मात् फलं कल्प्येत}*
*{6।420: ए2: 5,358; ए6: 2,211}*
जपो वानग्निसंयोगात्

6.8.7

वाशब्दात् पक्षो विपरिवर्तते. नासंस्कृतेष्व् अग्निष्व् एवंजातीयका होम्ःआः स्युः. कुतः. आधानस्य सर्वशेषत्वात्{*6।421*}. ननु वचनम् इदम्, एषा अनाहिताग्नेर्{*6।422*} इष्टिर् इति. नेति ब्रूमः, जपार्थवद एष भविष्यति. ये जपरूपास् तेषाम् अर्थवादः{*6।423*}, न सर्वेषां चतुर्होतॄणाम्, एवं यदाहवनीये जोहोतीत्येवमादीनां वचनानाम् अर्थवत्ता भविष्यति.
नोतेस्:
*{6।421: ए2 (व्.ल्.): सर्वशेषत्वाद् एव}*
*{6।422: ए1,6; ए2: वानाहिताग्नेर्}*
*{6।423: ए2 (व्.ल्.): ये जपस् तेषाम् अयम् अनुवादः}*
इष्टित्वेन तु संस्तुते होमः स्याद् अनारभ्याग्निसंयोगाद् इतरेषाम् अवाच्यत्वात्

6.8.8

यद् उक्तम्, एषा वानाहितताग्नेः क्रिया इष्टितुल्येति जपानाम् एष वाद इति. तन् न, नैषा{*6।424*}
वचनव्यक्तिः. यैषानाहिताग्नेः क्रिया, सेष्टितुल्येति. किं कारणम्. सादृश्यमात्रानुवादो ऽनर्थकः स्यात्. इतरस्मिन् पक्षे विधिर् अर्थवान्. येयम् इष्टिः, एषानाहिताग्नेर् इति, तदिष्टिसंस्तवाद् धोमानाम् एव वादः. कथम्. इष्टिर् यागः, स एवासेचनाधिको होमः. यद् उक्तम्, सर्वहोमार्थ आहवनीय इति. तन् न, चतुर्होतॄन् एवाधिकृत्योच्यते. किं त्व् अविशेषेण होमान्. स चतुर्होतृष्व् असंभवाद् अन्येषु भविष्यति. चतुर्होतृषु चानाहिताग्नेर् उच्यमानेष्व् आहवनीयो नाङ्गम् इति.
नोतेस्:
*{6।424: ए1,6; ए2: न. कथम्. नैषा}*
उभयोः पिटृयज्ञवत्

6.8.9

नैतद् अस्ति, अनाहिताग्नेर् एव चतुर्होतार इति. उभयोः स्युः, पित्र्यज्ञवत्, यथा पितृयज्ञ आहिताग्नेर् अनाहिताग्नेश् च, [765]{*6।425*} एवं चतुर्होतारो ऽपि. कथम् अवगम्यते. वर्णितम् एतत्. यदानुवादपक्षः, तदाहिताग्नेः, यदा विधिपक्षः, तदानाहिताग्नेः. उभयथा वचनव्यक्तिः प्रतीयते. न च प्रतीयमानो ऽर्थः शक्यते ऽपह्नोतुम्. तस्माद् उभयोश् चतुर्होतार इति.
नोतेस्:
*{6।425: ए2: 5,359; ए2: 2,211}*
निर्देशो वानाहिताग्नेर् अनारभ्याग्निसंयोगात्

6.8.10

न चैतद् अस्ति, उभयोश्{*6।426*} चतुर्होतारो भवेयुर् इति. कथम्. एष ह्य् अनाहिताग्निनिर्देशः. एषा वेष्टिर् अनाहिताग्नेर् इति वचनेनाधिकृतः, नाहिताग्निः, निर्देशसामर्थ्यात्. अर्थवादे चोपक्षीणं तत्रैव न विरुध्यत इति. यदाहवनीये जुहोतीति वचनं न चतुर्होतॄन् एवाधिकृत्योच्यत इत्य् उक्तम्. तस्माद् अनाहिताग्नेर् एवंजातीयका होमाः.
नोतेस्:
*{6।426: ए1,6; ए2: अस्ति, पितृयज्ञवद् उभयोश्}*
पितृयज्ञे संयुक्तस्य पुनर्वचनम्

6.8.11

अथ यद् उक्तम्, पितृयज्ञवद् इति, युक्तं पितृयज्ञे. तत्राहिताग्निसंयुक्तस्य पुनर् एतद्वचनं भवति, अप्य् अनाहिताग्निना कार्य इति. एतद्वचनम् अनाहिताग्नेर् अपीत्य् अनाहिताग्नाव् अन्वाहार्यकं करोति{*6।427*}, इह तथा नास्ति वचनम्. नियोगत एको निर्देशः, एषा वानाहिताग्नेर् इति. नात्रापिशब्दो ऽस्ति. तस्मात् पितृयज्ञेनातुल्यम् एतत्.
नोतेस्:
*{6।427: ए1,6,ए2 (व्.ल्.); ए2: अनाहिताग्निनान्वाचयं करोति}*
उपनयन्न् आदधीत होमसंयोगात्

6.8.12

इदम् आमनन्ति, उपनयंस् तिसृभिर् जुहुयाद् इति. तत्र [766]{*6।428*} संदेहः. किम् अयं होम आधानसंस्कृतेष्व् अग्निषु, उतासंस्कृतेष्व् इति. किं प्राप्तम्. उअपनयन्न् आदधीतेति. कुतः{*6।429*}. होमसंयोगाद् आहवनीयस्य, यद् आहवनीये जुहोति, तेन सो ऽस्याभीष्टः प्रीतो भवतीति. तस्माद् आधानोत्तरकाला एते होमा इति स्थितिः{*6।430*}.
नोतेस्:
*{6।428: ए2: 5,360; ए2: 2,212}*
*{6।429: ए1,6; ए2: आदधीतेति. संस्कृतेष्व् इति. कुतः}*
*{6।430: ए2 ओम्. स्थितिः}*
स्थपतीष्टिवल् लौकिके वा विद्याकर्मानुपूर्वत्वात्

6.8.13

न चैतद् अस्ति, आधायैवंजातीयकं होतव्यम् इति. किं तर्हि. लौकिक एव प्रवर्तेतेति. कुतः. विद्याकर्मानुपूर्वत्वात्. विद्याग्रहणार्था इमे होमाः. विद्यावतश् चाधानेनाधिकारः{*6।431*}, सामर्थ्यात्. अत आधानोत्तरकालता नैषाम् अवकल्पते, यथा स्थपतीष्ट्याम्.
नोतेस्:
*{6।431: ए1,6,ए2 (व्.ल्.); ए2: चाधानाधिकारः}*
आधानं च भार्यासंयुक्तम्

6.8.14

आधानं च भार्यासंयुक्तं श्रूयते. विद्याग्रहणोत्तरकालश् च दारसंग्रहः. तस्माद् अपि नावकल्पते पूर्वकालताधानस्य.
अकर्म चोर्ध्वम् आधानात् तत्समवायो हि कर्मभिः

6.8.16

तत्राह, या पूर्वम् आधानाद् दारक्रिया, सा कर्मार्था भविष्यति, वचनाच् चोर्ध्वम् आधानात्, अपत्यार्था. द्वयोर् अपि कालयोः, पिण्डपितृयज्ञवन् नैष दोषो भविष्यतीति. अत्रोच्यते, अकर्म च दारक्रिया, याधानोत्तरकाले{*6।432*}. कुतः. आहवनीयादिसमवायो हि कर्मभिर् भवति, स्वार्थण् च [767]{*6।433*} अग्नय आधातव्या इति नियमः. तस्माद् उभयस्मिन्न् अपि काले दारसंग्रह इत्य् एतत् नास्ति.
नोतेस्:
*{6।432: ए1,6; ए2: दारक्रियाया आधानोत्तरकाले}*
*{6।433: ए2: 5,361; ए6: 2,213}*
श्राद्धवद् इतित् चेत्

6.8.17

नैवम्, श्रुतिविप्रतिषेधो हि भवति, एवं क्रियमाणे दारकर्मणि विद्याग्रहणोत्तरकालं श्रूयमाणम्, पूर्वं क्रियत इति विप्रतिषिद्धम्. अर्थाद् अन्यद् एवेदम् इति चेत्. न, अर्थप्राप्तस्यैव कालनियम एषः. उपनयनं च कर्मार्थम्. तद् द्वितीयस्यां विप्रतिषिध्येत.
सर्वार्थत्वाच् च पुत्रार्थो न प्रयोजयेत्

6.8.18

अथोच्यते, प्रागाधानाच् च, कर्मार्थैव, ऊर्ध्वं चापत्यार्थैवास्य भविष्यति. तेनैवं सत्य् अस्य न किंचिद् विरोत्स्यत इति. उच्यते, नैतद् एवम्. स्वार्था हि सा, न केवलम् अपत्यार्थताम् एष्यति. तद् उक्तम्, फलोत्साहाविशेषाद् इति. तस्माद् अपि न द्विर् दारसंग्रहः. अपि चैवं स्मर्यते, धर्मे चार्थे च कामे च नातिचरितव्येति. एवं सत्य् अतिचरिता स्यात्. अतो न{*6।434*} द्विर् दारसंग्रहः. एकैव भार्या कर्मार्थापत्यार्था च. तस्याश् च विद्याग्रहणोत्तरकालता. अतो नाधानसंस्कृतेष्व् एते होमा इति.
[768]{*6।435*}
नोतेस्:
*{6।434: ए1,6; 2: अतो ऽपि न}*
*{6।435: ए2: 5,361; ए6: 2,213}*
सोमपानात् तु प्रापणं द्वितीयस्य तस्माद् उपयच्छेत्{*6।436*}

6.8.19

गृह्यत एतत्, प्रागुपनयनान् नास्ति पत्नीति. यद् उक्तम् एकैव पत्नीति. तन् न मृष्यते, यथैव स्मृतिः, धर्मे चार्थे च कामे च नातिचरितव्येति. धर्मप्रजासंपन्ने दारे नान्यां कुर्वीतेति च. एवम् इदम् अपि स्मर्यत एव, अन्यतरापाये ऽन्यां कुर्वीतेति. तस्माद् यस्य न धर्मसंपन्ना, न प्रजासंपन्ना वा पत्नी, सो ऽन्यां कुर्वीतेति. सोमपानाद् इति चार्थवादं व्यपदिशति स्म. सोमपो न द्वितीयां जायाम् अभ्यषूयत इति द्वितीयाम् अपि जायां दर्शयति.
नोतेस्:
*{6।436: ए1 (व्.ल्.): उपयच्छेत}*
पितृयज्ञे तु दर्शनात् प्रागाधानात् प्रतीयेत

6.8.20

अथ कथं पितृयज्ञस्य द्वौ कालाव् इति. उच्यते, वचनं हि तत्र दृश्यते. अप्यनाहिताग्निना कार्य् इति. तस्मात् प्रागाधानात् पितृयज्ञ इति.
स्थपतीष्टिः प्रयाजवद् अग्न्याधेयं प्रयोजयेत् तादर्थ्याच् चापवृज्येत

6.8.21

अस्ति स्थपतीष्टिः, एतया निषादस्थपितं याजयेतेति. तत्र संदेहः. किम् आधानसंस्कृतेष्व् अग्निषु स्यात्, उत लौकिकेष्व् इति. किं प्राप्तम्. संस्कृतेष्व् इति. कथम्. [769]{*6।437*} यदाहवनीये जुहोतीत्येवमादिवचनात्. ननु शूद्रस्याहवनीयाभावान् नास्ति तस्य श्रुतिर् इति. उच्यते, सा ह्य् आहवनीयं प्रयोजयेत्, यथा प्रयाजान् अश्रुतान् प्रयोजयति. एवं चोदकसामर्थ्याद् इति. तादर्थ्याच् चापवृज्येत. स्थपतीष्ट्यर्थं चाहिता अग्नयः. तस्याम् अपवृक्तायाम्{*6।438*} अपवृज्येरन्. धारणं हि तेषां दृष्टकार्यम् आम्नातम्, अतिक्रान्ते कार्ये न स्याद् इति.
नोतेस्:
*{6।437: ए2: 5,363; ए6: 2,214}*
*{6।438: ए1,6; ए2: अप्रवृक्तायाम्}*
अपि वा लौकिके ऽग्नौ स्याद् आधानस्यासर्वशेषत्वात्

6.8.22

अपि वेति पक्षव्यावृत्तिः. लौकिकेष्व् अग्निषु स्यान् न संस्कृतेषु. कुतः. आधानस्यासर्वशेषत्वात्. सर्वकर्मशेषभूता अग्नयः, तदङ्गम् आधानम्, न कर्माङ्गम्. श्रुत्यादीनाम् अभावान् न कर्मप्रयुक्ताधानस्य, वाक्यसामर्थ्याच् चाग्निप्रयुक्तत्वम्. यच् च दर्शपूर्णमासप्रयुक्तम्, तच् चोदकेन प्राप्यते, न द्रव्यप्रयुक्तम्. तस्माल् लौकिकेष्व् अग्निषु स्थपतीष्टिर् इति.
अवकीर्णिपशुश् च तद्वद् आधानस्याप्राप्तकालत्वात्

6.8.23

अस्त्य् अवकीर्णिपशुः, ब्रह्मचार्यवकीर्णी नैरृतं गर्दभम् आलभेतेति. तत्र संदेहः. किं तदर्थम् आधानं कर्तव्यम्, उत लौकिकेष्व् अग्निषु तद् वर्तेतेति. अवकीर्णिपशुश् च [770]{*6।439*} तद्वद् इत्य् अधिकरणातिदेशः. पूर्वस्याधिकरणस्य यः पूर्वः पक्षः{*6।440*}, सो ऽत्र पूर्वः पक्षः. यः सिद्धान्तः, स सिद्धान्तः. सर्वार्थम् आधानम्, तस्माद् आहिताग्निष्व् इति पूर्वः पक्षः. आधानस्याप्राप्तकालत्वाद् इति सिद्धान्तः. अप्राप्तो ऽयम् आधानस्य काल इत्य् एतद् उक्तम्. तस्माद् इदम् अपि कर्म लौकिकेष्व् इति.
नोतेस्:
*{6।439: ए2: 5,364; ए6: 2,215}*
*{6।440: ए1,6; ए2: पूर्वपक्षः}*
उदगयनपूर्वपक्षाहः पुण्याहेषु दैवानि स्मृतिरूपान्यार्थदर्शनात्

6.8.24

दैवानि कर्माण्य् उदाहरणम् उपनयनप्रभृतीनि. तत्र संदेहः. किम् अनियते काले दैवानि कर्तव्यानि, उतोदगयनपूर्वपक्षाहः पुण्याहेष्व् इति. अनियत इति प्राप्ते, उदगयनादिष्व् इत्य् उच्यते. कुतः. एवं स्मरन्ति, तेषु कालेषु दैवानीति. रूपार्थवादश् च. एतद् वै{*6।441*} देवानां रूपम्, यद् उदगयनम्, पूर्वपक्षो ऽह इति{*6।442*}. न च वयं देवादीनां रूपम् विद्मः. अथ त्व् एषु कालेषु दैवानि क्रियन्ते, तत एतेन{*6।443*} संबन्धेन रूपवचनम् अवकल्पते. अन्यार्थं च वाक्यम् एतद् दर्शयति, पूर्वाह्नो वै देवानाम्, मध्यंदिनो मनुष्याणाम्, अपराह्नः पितॄणाम् इति. तस्माद् एतेषु कालेषु दैवानि स्युर् इति.
नोतेस्:
*{6।441: ए1 (व्.ल्.): एतद् वा}*
*{6।442: ए1,6,ए2 (व्.ल्.); ए2: पूर्वपक्षाहर् इति}*
*{6।443: ए1,6; ए2: तद् एतेन}*
अहनि च कर्मसाकल्यम्

6.8.25

अहनि च विशेषः, सकलं कर्माहन्य् एव शक्यते कर्तुम् इति, न रात्रौ करिष्यति.
[771]{*6।444*}
नोतेस्:
*{6।444: ए2: 5,365; ए6: 2,215}*
इतरेषु तु पित्राणि{*6।445*}

6.8.26

श्राद्धादीन्य् अपरपक्षे ऽपराह्ने च, स्मृतिरूपान्यार्थदर्शनात्.
नोतेस्:
*{6।445: ए1; ए2,6: पित्र्याणि}*
याञ्चाक्रयणम् अविद्यमाने लोकवत्

6.8.27

इदं समाम्नायते ज्योतिष्टोमे, द्वादश रात्रीर् दीक्षितो भृतिं वन्वीतेति. तथा सोमं क्रीणातीति. तत्र संदेहः. किं यस्य न विद्यते भृतिः, तेन वनितव्या, यस्य च न विद्यते सोमः, तेन क्रेतव्यः, उतोभथापि{*6।446*} सति चासति च. किं प्राप्तम्. याञ्चाक्रयणम् अविद्यमाने भृतिधने सोमे च स्यात्. कस्मात्. द्रव्यसद्भावार्थं{*6।447*} याञ्चाक्रयणम्, तद्{*6।448*} विद्यमाने ऽनर्थकम्. अनर्थकं चोक्तम् अपि न कर्तव्यम्. तस्माद् अविद्यमाने भवेत्, लोकवत्. यथा{*6।449*} यस्य लोके नास्ति द्रव्यम्, स याचते क्रीणाति च. एवम् इहापि द्रष्टव्यम्.
नोतेस्:
*{6।446: ए1,6; ए2: उतोभयथापि; ए2 (व्.ल्.): उतोभयम् अपि}*
*{6।447: ए1,6,ए2 (व्.ल्.); ए2: द्रव्यसंभवार्थं}*
*{6।448: ए1,6; ए2: याञ्चाक्रयणम् अर्थवद् भविष्यति. तद्}*
*{6।449: ए1,6; ए2: तथा}*
नियतं वार्थवत्त्वात् स्यात्

6.8.28

नियतं वा याञ्चाक्रयणम्, तद् विद्यमाने ऽविद्यमाने च द्रव्ये स्यात्. एवं याञ्चाक्रयणम् अर्थवद् भवति{*6।450*}. ज्योतिष्टोमप्रयुक्तं हि तच् छ्रूयते, न द्रव्यप्रयुक्तम्. तच् च नित्यं ज्योतिष्टोमस्य. नैवं वचनं भवति, यदा द्रव्यं नास्ति, तदा कर्तव्यम् इति. [772]{*6।451*} ज्योतिष्टोमस्य च नित्यम् अङ्गम् उक्तम्, द्रव्याभावो निमित्तम् उक्तम् इति परिकल्प्येत, कल्पनायां शब्दो बाध्येत. अतो याञ्चाक्रयणसंस्कृतं द्रव्यम् इहोपयोक्तव्यम्, अन्यथा वैगुण्यं भवति. तस्मात् सति चासति च द्रव्ये याञ्चाक्रयणम् अनुष्टातव्यम् इति. अथ यद् उक्तम्, लोकवद् इति. लोके कर्म अर्थलक्षणं भवति, न शब्दलक्षणम्, यथार्थः, तथा क्रियते. न, यथा शब्दः. वेदे तु शब्देनैवार्थो ऽवगम्यते, तथैवानुष्ठेयम् इति. तस्माद् विद्यमाने ऽपि कर्तव्यम्.
नोतेस्:
*{6।450: ए2 (व्.ल्.): भविष्यति}*
*{6।451: ए2: 5,366; ए2: 2,216}*
तथा भक्षप्रैषाच् छादनसंज्ञप्तहोमद्वेषम्

6.8.29

ज्योतिष्टोमे श्रूयते, पयो व्रतं ब्राह्मणस्य यवागू राजन्यस्य, आमिक्षा वैश्यस्येति. तथा दर्शपूर्णमासयोः प्रैषः, प्रोक्षणीर् आसादय, इध्मं बहिर् उपसादय स्रुचः संमृड्ढि{*6।452*} पत्नीं संनह्याज्येनोदेहीति. तथा वाजपेये श्रूयते, दर्भमयं वासो भवतीति. पशौ संज्ञप्तहोमः, यत् पशुर् मायुम् अकृतोरो{*6।453*} वा पद्भिर् आहत अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्वं हस इति. तथा, यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इति वचनम्. एतान्य् उदाहरणवचनानि.
तेषु संदेहः. किं यस्यापरं भोजनं न विद्यते, स पयो व्रतयेत्, यवागूम् आमिक्षां वा, उत{*6।454*} विद्यमाने ऽपीति. तथा यो प्रेषितः प्रैषार्थं न प्रतिपद्यते, स प्रेषितव्यः, उत प्रतिपद्यमानो ऽपीति. तथा, यस्य सूत्रमयं वासो नास्ति, स दर्भमयं परिदधीत, उत विद्यमाने ऽपीति. तथा, यस्य पशुर् मायुम् कुर्यात्, उरो वा पादौ वा हन्यात्{*6।455*}, स एतेन मन्त्रेण जुहुयात्, उतान्यो ऽपीति. तथा, यो द्वेष्टि किंचित्, [773]{*6।456*} अन्येन च द्विष्यते, स एव मन्त्रं ब्रूयात्, यो ऽस्मान् द्वेष्टीति, उताद्विषन्न् अद्विष्यमाणश् चापीति.
तत्राधिकरणातिदेशो ऽयम्. तत्र यः पूर्वस्मिन्न् अधिकरणे पूर्वः पक्षः, स इह पूर्वः पक्षः. यस् तत्र सिद्धान्तः, स इह सिद्धान्तः. अविद्यमाने कुर्याद् इति पूर्वः पक्षः. नियतं वार्थवत्त्वाद्{*6।457*} इत्य् उत्तरः. स एवात्र न्यायः, यः पूर्वत्र{*6।458*}.
नोतेस्:
*{6।452: ए1,6; ए2: स्रुवं च स्रूवश् च संमृड्ढि}*
*{6।453: ए1,6; ए2: अकुतोरो}*
*{6।454: ए1,6; ए2: व्रतयेत्, स प्रेषितव्यः, उत}*
*{6।455: ए1,6,ए2 (व्.ल्.); ए2: वा पाद्भिर् हन्यात्}*
*{6।456: ए2: 5,367; ए6: 2,217}*
*{6।457: म्स् 6.8.27}*
*{6।458: व्ग्ल्. श्भ् अद् म्स् 6.8.8}*
अनर्थकं त्व् अनित्यं स्यात्

6.8.30

ज्योतिष्टोमे श्रूयते, मध्यंदिने ऽपररात्रे वा{*6।459*} व्रतं व्रतयतीति. तत्र संदेहः. किं नियतम् अपररात्रे व्रतम्, उतानियतम् इति. किं प्राप्तम्. नियतं चार्थवत्त्वात्{*6।460*} स्याद् इति. एवं प्राप्ते ब्रूमः, अनर्थकं त्व् अनित्यं स्यात्. यदैवम् मन्येत, अस्मिन् काले व्रतं मे जरिष्यतीति, तदा व्रतयेत्. यदा तु खलु मन्येत, न सम्यग् जरिष्यतीति, तदा तद्व्रतं क्रियमाणम् अनर्थकं स्यात्. यदि ह्य् अजीर्णेन यजमानो म्रियेत, तदा तन्त्रलोपः, तन्त्रलोपे च सर्वलोपः. तस्माद्{*6।461*} अनियतं{*6।462*} तस्मिन् काले व्रतं व्रतयितव्यम् इति.
नोतेस्:
*{6।459: ए1,6; ए2: च}*
*{6।460: ए1,6; ए2: वार्थवत्त्वात्}*
*{6।461: ए1,2,ए2 (व्.ल्.); ए2: तदा सर्वतन्त्रलोपः स्यात्. तस्माद्}*
*{6।462: ए1,6; ए2: न नियतं}*
पशुचोदनायाम् अनियमो ऽविशेषात्

6.8.31

ज्योतिष्टोमे पशुर् अग्नीषोमीयः, यो{*6।463*} दीक्षितो यद् अग्नीषोमीयं पशुम् आलभत इति. तत्र संदेहः. किं यः कश्चित् पशुर् आ[774]{*6।464*}लम्भीयः, उत छाग इति. वक्ष्यमाणेनाभिप्रायेण भवति संशयः. नन्व् एकेषाम् आम्नायते, अजो ऽग्नीषोमीय इति. सर्वशाखाप्रत्ययं चैकं कर्मेति. अत्रोच्यते, प्रतिशाखं भिन्नानि कर्माणीति कृत्वा चिन्ता. किं तावत् प्राप्तम्. पशुचोदनायाम् अनियमः. उत्सर्गे कर्तव्ये द्रव्यं शक्यत उत्स्रष्टुम्, न पशुत्वम्. द्रव्यं हि साधकम्. अतो ऽत्र द्रव्यम् अन्त्रेणोत्सर्गो न संभवतीति द्रव्यम् उपादीयते. तस्मिन्न् उपादीयमाने ऽनियमः, यत्किंचिद् उत्स्रष्टव्यम् इति. कुत एतत्. अविशेषात्. न हि पशुत्वसंबद्धेषु कश्चिद् विशेष उपलभ्यते. तस्माद् यः कश्चित् पशुर् इति.
नोतेस्:
*{6।463: ए1,6,ए2 (व्.ल्.); ए2: ज्योतिष्टोमे श्रूयते, यो}*
*{6।464: ए2: 5,368; ए6: 2,217}*
छागो वा मन्त्रवर्णात्

6.8.32

वाशब्दः पक्षं व्यावर्तयति. नैतद् अस्ति. यत्र क्वचन द्रव्ये पशुत्वम् उपादेयम् इति. अस्त्य् उत्स्रष्टव्यस्य नियमकारणं मन्त्रवर्णः. अग्नये छागस्य वयाया{*6।465*} मेदसो ऽनुब्रूहीति, छागप्रकाशनसमर्थो मन्त्रवर्णः समाम्नायते. यदि छागो नोपादेयः, ततस् तत्प्रकाशनसमर्थस्योपादानम् अनर्थवत्. तेनावगम्यते, छागम् अधिकृत्योत्सर्गं विदधातीति. मान्त्रवर्णिको द्रव्यनियमविधिर् इति.
नोतेस्:
*{6।465: ए1; ए2: मन्त्रवर्णः. छागस्य वपाया; ए6: मन्त्रवर्णः. अग्नये छागस्य वपाया}*
न, चोदनाविरोधात्

6.8.33

नैतद् एवम्. न शक्नोति मन्त्रवर्णश् चोदनायां प्रत्यर्थिन्यां द्रव्यं नियन्तुम्. यत्र हि द्रव्यस्य प्रकाशकं न श्रूयते, तत्राप्रकाशितम् एव तत् कर्तव्यम् इति. तस्मान् न मन्त्रवर्णात् प्रकाश्यनियमविधिः कल्प्यते, एवम् अत्र प्रकाश्यं प्रकाशयितव्यम् इति. [775]{*6।466*} अत्र पुनः शब्देनावगम्यते, पशुत्वेन प्रकाशयितव्यम् इति. तस्मान् न मन्त्रवर्णस् तत्सद्भावे समर्थः. मन्त्रवर्णाद् धि कल्प्या प्रयोगवचनश्रुतिः{*6।467*}. इह कॢप्ता प्रयोगवचनेनोपसंहर्तव्या. अन्य एव पशुशब्दस्यार्थः पशुत्वम्. अन्यो मन्त्रवर्णेन नियम्यते छागः. तस्मान् न मन्त्रवर्णश् चोदनाविरोधेन नियन्तुम् अर्हतीति.
नोतेस्:
*{6।466: ए2: 5,369; ए6: 2,218}*
*{6।467: ए1,6,ए2 (व्.ल्.); ए2: प्रयोगवचने श्रुतिः}*
आर्षेयवद् इति चेत्

6.8.34

इति चेत् पश्यसि, न पशुत्वम् अन्येभ्यः पशुभ्य आच्छेतव्यम् इति. यथा, आर्षेयं वृणीते, त्रीन् वृणीत इति, सामान्यश्रुतिस् त्रिष्व् एवावतिष्ठत इति. त्रित्वं विशेषो{*6।468*} विवक्षितो नान्ये विवक्षिता इति. एवम् इहापि पशुत्वम्, छागं प्रकल्पयितुम् विवक्षितम्, नान्यान् विशेषान् इति.
नोतेस्:
*{6।468: ए1,6; ए2: त्रित्वविशेषो}*
न, तत्र ह्य् अचोदितत्वात्

6.8.35

नैतद् एवम्. तत्र ह्य् अचोदितं द्रव्यम् उत्स्रष्टव्यम्, मन्त्रवर्णे. वरणे पुनश् चोदितम्. तत्र त्रित्वसंख्यासंबन्धस्य वरणे चोदितत्वात्, नान्या संख्या क्रियते. आर्षेयशब्दाद् अपि नानार्षेयम्. त्रिशब्दस्य हि तत्सामर्थ्यम्, येनार्षेयशब्दो विशिष्टसंख्याविषयो नियम्यते. इह न मन्त्रस्य सामर्थ्यम्. तस्माद् अनियम इति.
नियमो वैकार्यं ह्य् अर्थभेदाद् भेदः पृथक्त्वेनाभिधानात्

6.8.36

नियमो वा. ऐकार्थ्यं हि पशुछागशब्दयोः, सामान्यं पशुर् इति, छागादयो विशेषा उच्यन्ते. कथम्. तैः सामानाधिकरण्यात्, पशुश् छागः, पशुर् उष्ट्रः, पशुर् मेषः, पशुर् उस्र इति. एवं सति न मन्त्रवर्णः पशुशब्देन विरुध्यते. तेन छागो [776]{*6।469*} ऽप्य् आलब्धव्यश् चोदितः. मन्त्रवर्ण उपादीयमाने, इदम् अवगम्यते. छागं विवक्षित्वायं पशुशब्द उच्चरित इति, नान्यान् विशेषान् इति. छागोपकरणम् अस्योपदंशितम्. यद् उपदंशने पशुशब्दश् छागाभिप्राय इति गम्यते, यथा युगवरत्र उपदंशिते{*6।470*}, ईषाचक्रादिसंनिधाने चेद्{*6।471*} अक्षमानयेत्य्{*6।472*} उच्यते{*6।473*}, तदा, यानाक्षम् अधिकृत्य ब्रूत इति गम्यते, न तु विदेवनाक्षम् इति. यदि ह्य् अर्थभेदो भवेत् पशुछागशब्दयोः, पृथक्त्वेनाभिधानम्, ततो भेदः स्यात्, न छाग एव नियम्येत. अविहितश् छागार्थ इत्य् अश्वोपादानम्. अपि च छागपक्षे तं मन्त्रवर्णः प्रकाशयेत्. छागार्थाभिधाने पुनः पशुशब्दस्य, छागप्राप्ताव् अन्येषाम् अप्राप्तिर् इत्य् अन्यस्मिन् प्राप्ते लिङ्गेन नियमः क्रियत इति.
नोतेस्:
*{6।469: ए2: 5,370; ए6: 2,219}*
*{6।470: ए1,6,ए2 (व्.ल्.); ए2: युगवरत्रोपदंशिते}*
*{6।471: ए1,6; ए2: च}*
*{6।472: ए1,2; ए6: अक्षमानयत्य्}*
*{6।473: ए1,6; ए2: उक्ते}*
अनियमो वार्थान्तरत्वाद् अन्यत्वं व्यतिरेकशब्दभेदाभ्याम्

6.8.37

अनियमो वा. यः कश्चित् पशुर् उपादेयः, अर्थान्तरत्वात्. अर्थान्तरं पशुत्वम्, अर्थान्तरं छागत्वम्, अर्थयोर् अत्र सामानाधिकरण्यम्, न शब्दयोः. कथं पुनर् अर्थान्तरं गम्यते. व्यतिरेकाच् छब्दभेदाच् च, व्यतिरेको{*6।474*} हि भवति, कश्चित् पशुर् न छागः. तथा छागः पशुर् इति शब्दभेदः. शब्दभेदाद् एवार्थभेदो न्याय्यः. एकस्मिन् वाक्ये समवायात्, पशुं छागम् आनयेति. इतरथा, अन्यतरेण कृतार्थत्वाद् अन्यतरो वाक्ये न समवेयात्, समवैति च. तस्माद् अन्यत् पशुत्वम्, अन्यच् छागत्वम्. तस्माद् अनियमः, यः कश्चित् पशुर् उपादेय इति{*6।475*}.
तत्रोत्सूत्रिका{*6।476*} पक्षव्यावृत्तिः, अन्यत्वे ऽपि सति नियम एव. [777]{*6।477*} कुतः. मन्त्रस्य प्रयोगवचनेन गृहीतत्वात्. मन्त्रसाधनं हि कर्मेति गम्यते. यदि छागम् उपादास्यामहे, सगुणं कर्म शक्षामः{*6।478*} कर्तुम्, मन्त्रम् उपाददानाः, मन्त्रस्यापाक्षिकत्वात्. अथान्यम् उपादास्यामहे, मन्त्रस्य विषयाभावान् मन्त्रम् अपजहतो न सगुणं कर्म निर्वर्तयेम, अतो{*6।479*} न च श्रुतिं बाधामहे, अन्यस्मिन् पशुशब्दो वर्तत इति. न चान्यम्{*6।480*} उपादास्यामहे, वैगुण्याद् बिभ्यतः. तस्माच् छाग एवोपादातव्य इति.
नन्व् अश्वम् उपाददाना{*6।481*} नैव मन्त्रवर्णम् अपहास्यामः. स एवाश्वश् छागो भविष्यति. यश् छिन्नगमनो ऽश्वः, स छागः, छिदेर् गमेश् च च्छागशब्दः प्रसिद्धः{*6।482*}.
नोतेस्:
*{6।474: ए2 (व्.ल्.): व्यतिरिक्तो}*
*{6।475: ए2 ल्äßत् हिएर् म्स् 6.8.37 fओल्गेन्, दिए zäह्लुन्ग् वेर्स्छिएब्त् सिछ् गेगेन्üबेर् ए1।6 देम्नछ् उम् एइने नुम्मेर्. म्स् 6.8.37 (नछ् ए2): न वा प्रयोगसमवायित्वात्}*
*{6।476: ए1 (व्.ल्.): मन्त्रोत्सूत्रिका}*
*{6।477: ए2: 5,371; ए6: 2,219}*
*{6।478: ए1; ए2,6: शक्ष्यामः}*
*{6।479: ए1 (व्.ल्.): तेन; ए1 (व्.ल्.): एवं}*
*{6।480: ए1,6; ए2: वान्यम्}*
*{6।481: ए1,6; ए2: अश्वम् अप्य् उपाददाना}*
*{6।482: ए2 ओम्. प्रसिद्धः}*
रूपाल् लिङ्गाच् च

6.8.38

{*6।483*}
क्वचिन्{*6।484*} मुष्करा भविश्यन्तीति श्रूयते. यद्य् अन्तरेण वचनम्, अमुष्करास् तदेदम् उपपद्यते. तस्माच् छिन्नगमनो ऽश्वो ऽपि छाग इति कर्माख्या भविष्यति{*6।485*}. अत्रोच्यते:
नोतेस्:
*{6।483: ए2: 6.8.38}*
*{6।484: ए1 (व्.ल्.): लिङ्गं च क्वचिन्}*
*{6।485: ए1,6,ए2 (व्.ल्.); ए2: भविष्यतीति}*
छागे न कर्माख्या रूपलिङ्गाभ्याम्

6.8.39

{*6।486*}
छागे कर्माख्या रूपलिङ्गाभ्यां नावकल्पते. न हि छागशब्दश् छिन्नगमनवचनः, समुदायो ह्य् असौ पृथग् अर्थान्तरे प्रसिद्धः, नासाव् अवयवप्रसिद्ध्या बाधितव्यः. तस्मान् नाश्वश् छागः.
नोतेस्:
*{6।486: ए1,6; ए2: 6.8.39}*
रूपान्यत्वान् न जातिशब्दः स्यात्

6.8.40

{*6।487*}
इदम् अन्यपदोत्तरं{*6।488*} सूत्रम्. अथ कस्मान् न वयोवचनो [778]{*6।489*} भवति वयोवचना ह्य् एते शब्दाः, छागश् छागलो वत्स इति. तेनाश्वो ऽपि वयोवचनो भविष्यतीति. उच्यते, नैतद् एवम्, सत्यं वयोवचनः. अजापतिगतं{*6।490*} तु वयो वदितुम् शक्नोति, यथा शोण इति वर्णवचनो ऽश्वजातिगतं वर्णं वदति, नान्यम्. तस्माद् रूपान्यत्वान् न वयोमात्रवचनः, किं तु जातिशब्दः स्यात्. जात्याश्रयं वयो वदेत्. अतश् छाग एव नियम्यते.
नोतेस्:
*{6।487: ए2,6: 6.8.40}*
*{6।488: ए1,6,ए2 (व्.ल्.); ए2: पदोत्तरं}*
*{6।489: ए2: 5,372; ए6: 2,220}*
*{6।490: ए1,6,ए2 (व्.ल्.); ए2: अजजातिगतं}*
विकारो नोत्पत्तिकत्वात्{*6।491*}
{*6।492*}
इदम् अपि पदोत्तरम्. इहाश्वादीनां विकारश् छागशब्दः. किंचिद् अत्राश्वादीनाम् उच्चार्यते, न{*6।493*} किंचिद् अन्यद् एव. तस्माद् आश्वो ऽपि छाग इति. न, उत्पत्तिकत्वात्{*6।494*}. औत्पत्तिको हि नामिनाम्नोः संबन्ध इत्य् उक्तम्{*6।495*}, नाख्याविकारः संभवतीति. तस्मान् नाश्वश् छागः. अतश् छाग एवोपादात्वय इति.
नोतेस्:
*{6।491: ए1; ए2,6: नौत्पत्तिकत्वात्}*
*{6।492: ए2: 6.8.41; ए1 (व्.ल्.): विकार इति चेत्

6.8.41

, नोत्पत्तिकत्वात्
}*
*{6।493: ए2 ओम्. न}*
*{6।494: ए1; ए2,6: औत्पत्तिकत्वात्}*
*{6।495: व्ग्ल्. म्स् 1.1.5 उन्द् श्भ् अद् 1.1.5}*
स नैमित्तिकः पशोर् गुणस्याचोदितत्वात्

6.8.42

{*6।496*}
पदोत्तरम् एवेदं सूत्रम्. अथ कस्मान् न छिद्रनिमित्तश् छागशब्दो भवति. एवं श्रूयते, शुषिरो{*6।497*} वा एतर्हि पशुः. यर्हि वपाम् उत्खदन्तीति{*6।498*}. नेत्य् उच्यते, छिद्रत्वस्य गुणस्य पशोर् अचोदितत्वात्. अव्यङ्गं पशुम् आलभेतेति हि चोद्यते. तस्माद् अच्छिद्रः पशुः. न चावयवप्रसिद्ध्या समुदायप्रसिद्धिर् बाध्यत इत्य् उक्तम् एव. तस्माच् छाग एवोपादेयो नाश्वादय इति.
[779]{*6।499*}
नोतेस्:
*{6।496: ए2: 6.8.42}*
*{6।497: ए1,6; ए2: सुषिरो}*
*{6।498: ए1,6; ए2: उत्खदतीति}*
*{6।499: ए2: 5,373; ए6: 2,221}*
जातेर् वा तत्प्रायवचनार्थवत्त्वाभ्याम्

मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc