भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसासूत्र (टीका सहित) · अध्याय 6.7

6.7.1

अथ यद् उक्तम्, वैश्यस्तोमे यथा, तथेहापीति. युक्तं तत्र, इज्या वैश्यस्य श्रूयते. तत्र वाचनिकेनैव विशेषेण नियम्येत. तस्मात् तत्रादोष इति.
[742]{*6।321*}
नोतेस्:
*{6।321: ए2: 5,339; ए6: 2,197}*
स्वदाने सर्वम् अविशेषात्

6.7.2

इदम् आमनन्ति विश्वजिति, सर्वस्वं ददातीति. तत्र संदेहः, किं यावत् किंचित् स्वशब्देनोच्यते, यथा माता पितेत्येवमाद्य् अपि सर्वं{*6।322*} देयम्, उत यत्र प्रभुत्वयोगेन स्वशब्दस् तद् एव देयम् इति. किं प्राप्तम्. अविशेषात्, माता पितेत्येवमाद्य् अपि दातव्यम्. ननु दानम् इत्य् उच्यते स्वत्वनिवृत्तिः, परस्वत्वापादनं च. तत्र पित्रादीनाम् अशक्यं स्वत्वं निवर्तयितुम्. न हि कथंचित् पिता न पिता भवति. उच्यते, सत्यं नासौ न पिता भवति. शक्यते तु परविधेयः कर्तुम्, परस्वत्वापादनं च दानम्. अर्थाच्{*6।323*} च स्वत्वत्यागः. तस्मात् सर्वं देयम् इति.
नोतेस्:
*{6।322: ए1,6,ए2 (व्.ल्.); ए2: अपि तत् सर्वं}*
*{6।323: ए1,6,ए2 (व्.ल्.); ए2: दानं ददातेर् अर्थः. अर्थाच्}*
यस्य वा प्रभुः स्याद् इतरस्याशक्यत्वात्

6.7.3

वाशब्देन पक्षो विपरिवर्तते. यस्य प्रभुत्वयोगेन स्वत्वम्, तद् एव देयं नेतरत्. कस्मात्. प्रभुत्वयोगिनः शक्यत्वात्, इतरस्य चाशक्यत्वात्. न हि पित्रादीनां शक्यते स्वत्वं परित्यक्तुम्.
ननु चोक्तं परविधेयीकरणं तस्य शक्यम् इति. उच्यते, प्रभुत्वयोगिनः स्वस्यात्र दीयमानस्य सर्वत्वम् उच्यते. नाप्रभुत्वयोगिनः स्वस्य दानम्, न चैतन् न्याय्यम्, यत् पित्रादीनां परिचारकत्वम्. यस्य चैतन् न्याय्यम् अपि भवेत्, स दद्याद् अपि. [743]{*6।324*} अत्राह, ननु यत्र स्वशब्दो वर्तते, तद् देयम् इत्य् उक्ते पित्रादयो दातव्या गम्यन्ते. तस्मात् तान् प्रति प्रभुत्वाय स्मृतिं बाधित्वापि यतितव्यम् इति.
अत्रोच्यते, स्वशब्दो ऽयम् आत्मीयधनज्ञातीनां प्रत्येकं वाचको न समुदायस्य. तत्रात्मीये सर्वतायां कृतायां कृते शास्त्रार्थे, नाशक्येषु ज्ञातिषु{*6।325*} सर्वता कल्पनीया, नापि स्मृतिर् बाधितव्या. अपि च गवादीनाम् आत्मीयानां चोदकेन प्राप्तौ सत्याम् अवश्यम् आत्मीयगता सर्वतोपदेया. तस्यां चोपात्तायां कृतः शास्तार्थ इति ज्ञातीनाम् उपादाने न किंचित् कारणम् अस्ति, तस्मान् न पित्रादयो{*6।326*} देयाः. तस्माद् यत्रैव प्रभुत्वयोगेन स्वत्वम्, तद् एव देयम् इति.
नोतेस्:
*{6।324: ए2: 5,340; ए6: 2,198}*
*{6।325: ए2 (व्.ल्.): नाशक्यज्ञातिषु}*
*{6।326: ए2 (व्.ल्.): मातापित्रादयो}*
न भूमिः स्यात् सर्वान् प्रत्यविशिष्टत्वात्

6.7.4

अत्रैव सर्वदाने संशयः, किं भूमिर् देया, नेति. का पुनर् भूमिर् अत्राभिप्रेता. यद् एतन् मृदारब्धं द्रव्यानत्रं पृथिवीगोलकम्, न{*6।327*} क्षेत्रमात्रं मृत्तिका वा. तत्र किं प्राप्तम्. अविशेषाद् देया. प्रभुत्वसंबन्धेन हि तत्र स्वशब्दो वर्तते, शक्यते च मानसेन व्यापारेण स्वस्य स्वता{*6।328*} निवर्तयितुम् इति. एवं प्राप्ते ब्रूमः, न भूमिर् देयेति. कुतः. क्षेत्राणाम् ईशितारो मनुष्या दृश्यन्ते, न कृत्स्नस्य पृथिवीगोलकस्येति.
आह, य इदानीं सार्वभौमः, स तर्हि दास्यति. सो ऽपि नेति ब्रूमः. कुतः. यावता भोगेन{*6।329*} सार्वभौमो भूमेर् ईष्टे, तावतान्यो ऽपि. न तत्र कश्चिद् विशेषः, सार्वभौमत्वे ऽस्य{*6।330*} त्व् एतद् अधिकम्, यद् असौ पृथिव्यां संभूतानां व्रीह्यादीनां रक्षणेन [744]{*6।331*} निर्विष्टस्य कस्यचिद् भागस्येष्टे, न भूमेः. तन्निर्विष्टाश् च ये मनुष्याः, तैर् अन्यत् सर्वप्राणिनां धारणविक्रमणादि{*6।332*} यद् भूमिकृतम्, तत्रेशित्वं प्रति न कश्चिद् विशेषः. तस्मान् न भूमिर् देया.
नोतेस्:
*{6।327: ए1,6,ए2 (व्.ल्.); ए2: पृथिवीगोलकं नाम, न}*
*{6।328: ए1,6,ए2 (व्.ल्.); ए2: स्वस्वतं}*
*{6।329: ए1,6,ए2 (व्.ल्.); ए2: भूमिभोगेन}*
*{6।330: ए1,6; ए2: सार्वभौमम् अस्य}*
*{6।331: ए2: 5,341; ए6: 2,199}*
*{6।332: ए1,6,ए2 (व्.ल्.); ए2: धारणं चक्रमणादि}*
अकार्यत्वाच् च ततः पुनर् विशेषः स्यात्

6.7.5

विश्वजित्य् एव संदेहः. किम् अश्वादयो देयाः, नेति. किं प्राप्तम्. सर्वस्य विहितत्वात्, देया अश्वा इति. एवं प्राप्ते ब्रूमः, यस्य च दानम् अकार्यम्, तच् च न देयम्, यथाश्वानाम्. तेषां हि दानम् अकार्यम्. एष हि विशेषो ऽश्वानाम्, अन्येभ्यो द्रव्येभ्यः, यद् एषां दानं प्रतिषिध्यते, न केसरिणो ददाति नोभयतोदतः प्रतिगृह्णातीति विश्वजित्य् एव समाम्नायते. तस्मान् नाश्वा देया इति.
नित्यत्वाच् चानित्यैर् नास्ति संबन्धः

6.7.6

विश्वजित्य् एव संदेहः सर्वस्वं ददातीति, किम् अर्जयित्वोपकरणानि यावन्ति मनुष्यस्य, यावन्ति च शक्नोत्य् उपार्जयितुम्, सर्वाणि तानि दद्यात् कृतभाण्डादीनि{*6।333*}, उत यान्य् एवास्य विद्यन्ते, तानि सर्वाणि देयानि, नाविद्यमानानि कर्तव्यानीति. कुतः संशयः. उभयथा वचनव्यक्तेः संभवात्, [745]{*6।334*} यदि वैवं वचनं व्यज्यते, यानि सर्वाणि स्वानि, कानि तानि, यानि पुरुषस्योपकारकाणि शयनादीनि, तानि सर्वाणि दद्याद् इति विधीयते. यद् वा यानि स्वानि पुरुषस्य दाने शक्यानि, तानि सर्वाणीति सर्वत्वं विधीयते. यदि दानं विधीयते, ततो ऽप्राप्तदानानां कृतभाण्डकानाम् अपि दानम्. अथ सर्वता{*6।335*} विधीयते, ततो विद्यमानानाम् एव.
किं तावत् प्राप्तम्. कृतभाण्डकानि देयानीति, तथा दानविधाने श्रुतिर् अनुगृह्यते, इतरथा वाक्यम्. तयोश् च श्रुतिर् बलीयसी. तस्मात् कृतभाण्डकानि देयानीति.
एवं प्राप्ते ब्रूमः, नित्यत्वाच् चानित्यैर् नास्ति संबन्धः, चशब्दो ऽन्वादेशे. नाश्वा दातव्या इत्य् उक्तम्, कृतभाण्डकानि च न देयानीति. नित्यं हि विश्वजिति दानं चोदकेन प्राप्तम् अनूद्यते. अनित्यानि च कृतभाण्डकानि{*6।336*}, न शक्यानि सर्वाणि विश्वजिति क्रियमाण उपसंहर्तुम्. तत्र कृतभाण्डकानां स्यात्, न{*6।337*} नित्यम्, नित्यवच् च तच् चोदकेन विधीयते, न निमित्तसंयोगेन. तस्माद् अवश्यम् एतद् अभ्युपगन्तव्यम्, साकल्प्यं देयानां प्राप्तानां विधीयत इति, श्रुत्यसंभवे च वाक्यार्थो गृहीतव्य एव भवति, तस्मान् न कृतभाण्डकानि दातव्यानि.
नोतेस्:
*{6।333: ए1,6,ए2 (व्.ल्.); ए2: कृतभाण्डकानि}*
*{6।334: ए2: 5,341; ए6: 2,199}*
*{6।335: ए1,6; ए2: सर्वतो}*
*{6।336: ए1,6,ए2 (व्.ल्.); ए2: कृतभाण्डकानीति}*
*{6।337: ए1,6; ए2: विश्वजिति दानं प्रतीक्षेत. नैमित्तिकं तस्मान् न}*
शूद्रश् च धर्मशास्त्रत्वात्

6.7.7

विश्वजित्य् एव संदिह्यते, किं परिचारकः शूद्रो देयः, नेति. किं प्राप्तम्. सर्वस्य स्वस्य{*6।338*} विहितत्वाद् देय इति. [746]{*6।339*} एवं प्राप्ते ब्रूमः, शूद्रश् च न देय इत्य् अन्वादेशः. कुतः. धर्मशास्त्रत्वात्, धर्मशासनोपनतत्वात्{*6।340*} तस्य. एवम् असौ तस्मै त्रैवर्णिकायोपनत इदं शुश्रूषमाणो धर्मेण संभन्त्स्यत इति. सो ऽन्यस्मै दीयमाणो नेच्छेद् अपि. न चानिच्छतस् तस्य स प्रभवति, न च बलात् स्वीकर्तव्यः. यस् त्व् अन्यायेन स्वीकुर्यात्, स दद्याद् अपि. धर्मोपनतमात्रेण तु न शक्यो दातुम्.
नोतेस्:
*{6।338: ए2 (व्.ल्.): सर्वस्वस्य}*
*{6।339: ए2: 5,342; ए6: 2,199}*
*{6।340: ए2 (व्.ल्.): धर्मशासेनोपनतत्वात्}*
दक्षिणाकाले यत् स्वं तत् प्रतीयेत तद् दानसंयोगात्

6.7.8

विश्वजित्य् एव संदेहः. किं प्राग् दक्षिणाकालात्, विद्यमानं नियोगतो दक्षिणाकाले निधातव्यम्{*6।341*}, ऊर्ध्वं च दक्षिणाकालाद् भविष्यद् अनागतम् अपि दक्षिणाकाले देयम्, उत यद् एव दक्षिणाकाले विद्यते, तद् एव देयम् इति. किं प्राप्तम्. यस्यापि प्राग् ऊर्ध्वं च स्वता, तद् अपि देयम्, स्वमात्रस्य दानविधानत्. एवं प्राप्ते ब्रूमः, दक्षिणाकाले यत् स्वं विद्यते, तद् एव देयम्, न यत् प्राग् ऊर्ध्वम् च. कुतः. स्वस्यात्र दानम् अनूद्य साकल्यं विधीयते. तच् च दानं दक्षिणाकाले प्राप्तत्वात् तस्मिन्न् एव काले ऽनूद्यते. तस्माद् दक्षिणाकाल एव विद्यमानं देयम् इति.
[747]{*6।342*}
नोतेस्:
*{6।341: ए1,6; ए2: दक्षिणाकाले दातुं विधातव्यम्}*
*{6।342: ए2: 5,343; ए6: 2,200}*
अशेषत्वात् तदन्तः{*6।343*} स्यात् कर्मणो द्रव्यसिद्धित्वात्{*6।344*}

6.7.9

तस्मिन्न् एव विश्वजिति संदेहः. किं दक्षिणाकाल एव विश्वजिद्{*6।345*} उत्स्रष्टव्यः, उत न सर्वं{*6।346*} दातव्यम्, परिसमापनीय इति. किं प्राप्तम्. उत्स्रष्टव्य इति. कुतः. अशेषत्वात्. कथम् अशेषता. विश्वजिति सर्वस्वं ददातीति, न च शक्यम् अन्तरेण द्रव्यम्, परिसमापयितुम्. तस्मात् तदन्तः स्यात्.
नोतेस्:
*{6।343: ए1,6; ए2: अशेषत्वाद् अन्तः}*
*{6।344: ए2 (व्.ल्.): द्रव्यसिद्धत्वात्}*
*{6।345: ए1,6; ए2: एव सर्वस्वं दत्त्वा विश्वजिद्}*
*{6।346: ए1,6,ए2 (व्.ल्.); ए2: सर्वस्यं}*
अपि वा शेषकर्म स्यात् क्रतोः प्रत्यक्षशिष्टत्वात्

6.7.10

अपि वेति पक्षव्यावृत्तिः. शेषकर्म स्यात्, न सर्वस्वं दक्षिणाकाले देयम्, यावता तत्कर्म परिसमाप्यते, तावच् छेषयितव्यम्. कुतः. क्रतोः प्रत्यक्षशिष्टत्वात्. क्रतोः परिसमाप्तिः प्रत्यक्षशिष्टा, विश्वजिता यजेतेति विश्वजितम् उपक्रम्य, परिसमापयेद् इत्य् अर्थः. परिसमापयता यच् छक्यते दातुम्, तावत् सर्वम् इत्य् अर्थः. तस्मान् न तदन्तम् उत्स्रष्टव्यम् इति.
तथा चान्यार्थदर्शनम्

6.7.11

एवं च कृत्वान्यार्थदर्शनम् उपपद्यते, अवभृथाद् उदेत्य वत्सत्वचमाच् छादयतीति शेषे सत्य् अवकल्पते.
अशेषं तु समञ्जसादानेन शेषकर्म स्यात्

6.7.12

तुशब्दः पक्षं व्यावर्तयति. एतत् समञ्जसाभूतम्, यद् अशेषं [748]{*6।347*} प्रतीयत इति, एवं सर्वस्वं ददातीइत् शब्द उपपन्नो भवतीति. यत् तु प्रत्यक्षा समाप्तिर् इति. तत्र ब्रूमः, आदानेन शेषकर्म भविष्यतीति. उच्यते,
नोतेस्:
*{6।347: ए2: 5,344; ए6: 2,201}*
नादानस्य नित्यत्वात्

6.7.13

आदानं त्व् अनुइत्यम्, नित्यं च शेषकर्म. न हि तयोः संबन्धो ऽवकल्पते. तस्माच् छेषयितव्यं किंचिद् इति.
दीक्षासु तु विनिर्देशाद् अक्रत्वर्थेन संयोगस् तस्माद् अविरोधः स्यात्

6.7.14

तुशब्दः पक्षं व्यावर्तयति. नैतद् अस्ति, किंचिच् छेषयितव्यम् इति. दीक्षासु तु विनिर्देशो भवति, प्रकृताव् एव ज्योतिष्टोमे. स इह चोदकेन प्राप्तः, इदं क्रत्वर्थम्{*6।348*}, इदं भक्ष्यार्थम्, इदम् आनमनायेति. तद् इह यद् आनमनाय दातव्यम्, तस्यायं विकारः सर्वता नाम. कुत एतत्. यतः स्वं ददातीत्य् अनूद्यते, सर्वतैव{*6।349*} विधीयते. तेन नादातव्यस्य दानं विधीयते, न च भक्ष्यार्थं{*6।350*} क्रत्वर्थं च दातव्यम्. तस्माद् अविरोधो भविष्यतीति.
नोतेस्:
*{6।348: ए2 (व्.ल्.): इदं मे क्रत्वर्थम्}*
*{6।349: ए2 (व्.ल्.): सर्वता}*
*{6।350: ए1,6; ए2: भक्षार्थं; ए2 (व्.ल्.): मुक्त्यर्थं}*
अहर्गणे च तद्धर्मा स्यत् सर्वेषाम् अविशेषात्

6.7.15

अस्त्य् अहर्गणो ऽष्टरात्रः, अथैतस्याष्टरात्रस्य विश्वजिद् अभिजिताव् एकाहाव् अभितः, उभयतो ज्योतिर् मध्ये षडहः, पशुकामो ह्य् एतेन यजेतेति. तत्र संदेहः. किम् अहर्गणस्थस्यापि सर्वस्वम् एव दक्षिणा{*6।351*} स्यात्, आहो{*6।352*} द्वादशं शतम् इति. किं प्राप्तम्. सर्वस्वम्. कुतः. सर्वेषां विश्वजिताम् अविशेषात्. य एव प्रकृतौ विश्वजितो धर्मः, स एव चास्य चोदकेन भविष्यति. तस्मात् सर्वस्वं देयम् इति.
नोतेस्:
*{6।351: ए1,6; ए2: दक्षिणाः}*
*{6।352: ए1,6; ए2: आहोस्वित्}*
द्वादशशतं वा प्रकृतिवत्

6.7.16

द्वादशशातं वा देयम् इति. प्रकृतिवत् कर्तव्यम्. ज्योतिष्टोमश् च प्रकृतिः. तत्र धर्मा विहिताः, न विश्वजिति कृत्स्नाः प्रतीयन्ते. तस्माद् द्वादशशतम् अत्र देयम् इति.
अतद्गुणत्वात् तु नैवं स्यात्

6.7.17

तुशब्दः पक्षं व्यावर्तयति. नैवं भवितुम् अर्हति. कुतः. नैव{*6।353*} यतो विश्वजितो गुणो द्वादशशतम्. नामधेयेन ह्य् अत्र धर्मग्रहणम्. तस्माद् विश्वजितो भविष्यति{*6।354*}, न ज्योतिष्टोमाद् इति.
नोतेस्:
*{6।353: ए1,6; ए2: नैष}*
*{6।354: ए1,6,ए2 (व्.ल्.); ए2: ग्रहीष्यति}*
लिङ्गदर्शनाच् च

6.7.18

लिङ्गं खल्व् अपि दर्शयति. किं लिङ्गं भवतीति. एवम् आह, हीयते वा एष पशुभिर् यो विश्वजिति सर्वं{*6।355*} न ददातीति नियतं सर्वस्वदानं दर्शयत्य् अहर्गणे.
[750]{*6।356*}
नोतेस्:
*{6।355: ए1,6,ए2 (व्.ल्.); ए2: सर्वस्वं}*
*{6।356: ए2: 5,346; ए6: 2,202}*
विकारः सन्न् उभयतो ऽविशेषात्

6.7.19

विश्वजिति सर्वस्वं ददातीति. तत्रैषो ऽर्थः सांशयिकः, किं यस्य द्वादशशतम् अधिकम्, ऊनं वा विद्यते, तस्यापि विश्वजिताधिकारः{*6।357*}, उत यस्य सकलम् अधिकं वा तस्यैवेति. किं प्राप्तम्. विकारः सन्न् उभयतो ऽविशेषात्. न विशेषः कश्चिद् आश्रीयते. यस्य द्वादशशतम् अधिकम्, ऊनं वास्तीति. तस्मात् सर्वस्य विश्वजिताधिकार{*6।358*} इति.
नोतेस्:
*{6।357: ए1,6,ए2 (व्.ल्.); ए2: विश्वजित्य् अधिकारः}*
*{6।358: ए1,6,ए2 (व्.ल्.); ए2: विश्वजित्य् अधिकार}*
अधिकं वा प्रतिप्रसवात्

6.7.20

न चैतद् अस्ति, सर्वस्य विश्वजिताधिकार{*6।359*} इति. कस्य तर्हि. यस्य द्वादशशतम् अस्ति, अधिकं वेति. कुतः. प्रतिप्रसवात्. प्रतिप्रसवो हि ज्योतिष्टोमे सर्वस्वस्योच्यते. द्वादशशतं विधायाह, एतावता वाव ऋत्विज आनेया अपि वा सर्वस्वेनेति. यदि एतावता नेच्छेयुः, सर्वस्वेनाप्य् आनमयितव्या इति. तद् यदि द्वादशेन शतेन नेच्छन्ति{*6।360*}, नेच्छन्तितरां ततो न्यूनेन. तस्माद् द्वादशशतं ज्योतिष्टोमे. यद् वा सर्वस्वम्, तद् इहोभयम् अपि प्राप्तम्. तत्रैकः पक्षो नियम्यते, सर्वस्वं देयम् इति. स एष न विधिः, प्राप्तत्वात्. अनियतप्राप्तस् तु नियम्यते. स चेन् नियम्यते, यादृशस् तत्र, तादृश एवेह. तत्र च द्वादशशतम् अधिकं वा सर्वस्वम्. इहापि तद्वद् एव. तस्मान् न न्यूनधनस्याधिकार इति.
नोतेस्:
*{6।359: ए1,6,ए2 (व्.ल्.); ए2: विश्वजित्य् अधिकार}*
*{6।360: ए2 ओम्. नेच्छन्ति}*
अनुग्रहाच् च पादवत्

6.7.21

चशब्देनान्वाचयः. इतश् चाधिकं सर्वस्वम्, अधिके हि [751]{*6।361*} दीयमाने तदन्तर्गतत्वाद् द्वादशशतम् अपि दत्तं भवति, पादवत्, यथा, कार्षापणे दीयमाने पादो ऽपि दत्तो भवति, एवम् इहापीति.
नोतेस्:
*{6।361: ए2: 5,346; ए6: 2,203}*
अपरिमिते शिष्टस्य संख्याप्रतिषेधस् तच् छ्रुतित्वात्

6.7.22

आधाने श्रूयते, एका देया, षड् देयाः, द्वादश देयाः, चतुर्विंशतिर् देयाः, शतं देयम्, सहस्रं देयम्, अपरिमितं देयम् इति. तत्र संदेहः. किं यत् परिमितम् एका देयेत्येवमादि, तन् न दातव्यम् इति प्रतिषेधो विधीयते, उतापरिमितं नाम किंचित्, तस्य दानं विधीयत इति. किं प्राप्तम्. अपरिमिते श्रूयमाने ब्रूमः, शिष्टस्यैकादेः संख्येयस्य या संख्या, सा प्रतिषिध्यते. कुतः. तच्छ्रुतित्वात्, परिमितशब्दश्रवणाद् गणितम् अवगम्यते. तच् चैकादिकम्, तस्य नशब्देन प्रतिषेधः क्रियते. तत्र श्रुतो ऽर्थः कृतो भवति, इतरथापरिमितशब्दे प्रसिद्धिस् त्यज्येत. लक्षणया बहुत्वम् अस्यार्थः कल्प्येत. तस्मात् अप्रिमितस्य प्रतिषेध इति.
कल्पान्तरं वा तुल्यवत् प्रसंख्यानात्

6.7.23

कल्पान्तरं वा स्यात्. अपरो दानकल्पो विधीयते, यथैका देयेति दानविधिकल्पः. एवम् एषो ऽपि दानविधिकल्प एव स्यात्. तेन{*6।362*} हि पूर्वेण, तुल्यम् एवेदं प्रसंख्यायते. कास्य पूर्वेण तुल्यता. प्रतिज्ञातस्यार्थस्यावगमिका [752]{*6।363*} श्रुतिर् अस्तीति. पूर्वत्र हि देयशब्दश्रुत्या दानं विधीयत इति, इहापि देयशदश्रुतिः. सा श्रूयमाणा{*6।364*} शक्नोति दानं विधातुम्. प्रतिषेधे हि विधीयमाने वाक्यस्य{*6।365*} व्यापारः. तच् च दुर्बलं श्रुतिं प्रति{*6।366*}. तस्मात् कल्पान्तरम्. यच् चापरिमितशब्दे प्रसिद्धिर् बाध्यत इति, समुदायप्रसिद्धिर् अवयवप्रसिद्धेर् बाधिकैव समधिगता.
ननु नात्र प्रसिद्धिः, लक्षणेयम्. यद् बहु, तन् न शक्यं परिमातुम्. तस्माद् अपरिमितत्वेन लक्ष्यते बहुत्वम् इति. तच् च न, अनेकस्मिन्न् अशक्यपरिमाणे सति बहुषु रूढः. अपरिमितम् अस्य धनम्, बह्व् इति गम्यते. यथा, कुशलः, प्रवीण इति. बहुषु कुशानां लातुर्गुणेषु सत्सु निपुणतायाम् एव कुशलशब्दो रोहाद् रूढिशब्द{*6।367*} एव भवति. बहुषु च वीणाव् आदस्य गुणेषु सत्सु निपुण एव प्रवीणशब्दो वर्तमानो रूढ इत्य् उच्यते. तस्मात् सत्य् अपि लक्षणात्वे श्रुतिसामर्थ्याद् रोहतिशब्दः. तस्मात् समुदायप्रसिद्ध्यापरिमितशब्दे ऽवयवप्रसिद्धिर् बाध्यते, अश्वकर्णशब्दवत्. अतः कल्पानतरम् इति.
नोतेस्:
*{6।362: ए1,6; ए2: स्यात्, तुल्यवत् प्रसंख्यानात्. तेन}*
*{6।363: ए2: 5,347; ए6: 2,203}*
*{6।364: ए2 (व्.ल्.): श्रवणेन}*
*{6।365: ए1,6,ए2 (व्.ल्.); ए2: वाक्यं}*
*{6।366: ए2 (व्.ल्.): श्रुतेः}*
*{6।367: ए1,6; ए2: कुशलशब्दप्रयोगाद् रूढिशब्द}*
अनियमो ऽविशेषात्

6.7.24

अपरिमिते कल्पानतरम् इति समधिगतम्. अथेदानीं संदिह्यते{*6।368*}. किं सहस्राद् ऊनम् अपरिमितम्, उत सहस्राद् अधिकम् इति. किं तावत् प्राप्तम्. अनियमो ऽविशेषात्. न कश्चिद् इह बहुत्वे विशेष{*6।369*} आस्रीयते, सहस्राद् ऊनम् अधिकं वेति. अनाश्रीयमाणे यथाकृतं तथा साधु{*6।370*}. तस्माद् अनियमः.
[753]{*6।371*}
नोतेस्:
*{6।368: ए1,6; ए2: अथेदानीम् इदं संदिह्यते}*
*{6।369: ए2 (व्.ल्.): कश्चिद् अत्र बहुत्वविशेष}*
*{6।370: ए2 (व्.ल्.): यथाकामं स्यात्, यथाकृतं साधु}*
*{6।371: ए2: 5,348; ए6: 2,204}*
अधिकं वा स्याद् बह्वर्थत्वाद् इतरेषां{*6।372*} संनिधानात्

6.7.25

वेति पक्षव्यावृत्तिः. नैतद् अस्ति, अधिकम् ऊनं वा सहस्राद् इति. किं तर्हि. अधिकम् एवेति. कुतः. बह्वर्थत्वाद् अपरिमितशब्दस्य, बहुषु हीमं शब्दम् उपचरन्तीत्य् एतद् उक्तम्. बहुत्वं चापेक्षिकम्, किंचिद् अपेक्ष्य ततो ऽधिकं बह्व् इत्य् उच्यते. असत्याम् अपेक्षायाम् अप्ररिपूर्णम् एतत्, यथा, पुत्र इति किंचिद् अपेक्ष्य भवति, नान्यथा. तत्र प्रकृतं संनिहितं चापेक्ष्य निर्णयः, सहस्रं च संनिहितम्. तस्मात् ततो ऽधिकम् अपरिमितम् इति.
नोतेस्:
*{6।372: ए2 (व्.ल्.): इतरैर्}*
अर्थवादश् च तद्वत्

6.7.26

कथम् एवम्. तत्रोत्कृष्टं वै अपरिमितम् इति तदूनतां सहस्रस्य दर्शयति.
परकृतिपुराकल्पं च मनुष्यधर्मः स्याद् अर्थाय ह्य् अनुकीर्तनम्

6.7.27

इह परकृतयः पुराकल्पाश् चोदाहरणम्. यथा, इति ह स्माह बकुर्वाष्णिर् माषान् मे पचत, न वा एतेषां हविर् गृह्णन्तीति. पुराकल्पः, उल्मुकैर् ह स्म पूर्वे समाजमुस्तान् ह असुरा रक्षांसि निर्जघ्नुर् इत्येवमादयः. तेषु संदेहः. किम् एते मनुष्यधर्मा विधयः, उत तद्गोत्राणाम्. अथवा [754]{*6।373*} अर्थवादा इति. किं तावत् प्राप्तम्. मनुष्यधमा विधय इति. कुतः. अर्थाय प्रयोजनायानुकीर्तनम् एतद् भवति. कर्तृमनुष्यसंबन्धकीर्तनेन क्रिया प्रशस्ता भवति. प्रशस्तं च प्रतिपाद्यम्. स एष विधिर् एव, अनेन प्रकारेण. अतः परैर् अपि मनुष्यैः कर्तव्य इति गम्यते.
नोतेस्:
*{6।373: ए2: 5,349; ए6: 2,205}*
तद् उक्ते च प्रतिषेधात्

6.7.28

एवंजातीयकस्य विधेः प्रतिषेधो भवति, तद् उ{*6।374*} तथा न कुर्याद् इति, प्रसक्तस्य च प्रतिषेधो न्याय्यः. तस्माद् अपि विधय इति.
नोतेस्:
*{6।374: ए2 ओम्. उ}*
निर्देशाद् वा तद्धर्मः स्यात् पञ्चावत्तवत्

6.7.29

मनुष्यधर्मो ऽयं विधिर् एवंजातीयक इति गृह्यते. तत्र तु विशिष्टगोत्राणां निर्देशात् तेषाम् एव धर्म इति गम्यते. स्तुत्या ह्य् अयं कर्तव्य इति ज्ञायते, स च विशिष्टगोत्राणां श्रूयते, तस्मात् तद्गोत्राणाम् एव कर्तव्यः, पञ्चावत्तवत्, यथा, पञ्चावत्तं जमदग्नीनाम्{*6।375*} इति तद्गोत्राणाम् एव भवति, एवम् इहापीति.
नोतेस्:
*{6।375: ए1,6,ए2 (व्.ल्.); ए2: जामदग्नीनाम्}*
विधौ तु वेदसंयोगाद् उपदेशः स्यात्

6.7.30

तुशब्दाद् एषो ऽपि पक्षो व्यावर्तते{*6।376*}. विधाव् एतेषाम् उपदेशः स्यात्. विधौ वेदेन स्तुतिनिर्देशः कृतः, न विध्याश्रये पुरुषे. पुरुषग्रहणं विधिप्रशंसार्थम्. विधिर् इति क्रियामाह. एतस्याः [755]{*6।377*} क्रियाया भावो यस्माद् अनेन पुरुषेण क्रियते, तस्मात् साधुर् इति. न त्व् अत्र पुरुषः क्रियासंबन्धेन निर्दिश्यते, किं तु स्तोतव्यत्वेन. कुत एतत्. स्तुतिपदस्यान्यस्याभावात्. अपि च क्रियानिर्देशे श्रुत्या विधानम्, क्रियापुरुषसंबन्धनिर्देशे वाक्येन, अतश् च{*6।378*} दुर्बलम्. तस्मात् पुरुषमात्रस्य विधानं प्राप्नोति, न तद्गोत्राणाम् इति.
नोतेस्:
*{6।376: ए1,6,ए2 (व्.ल्.); ए2: व्यावर्त्यते}*
*{6।377: ए2: 5,350; ए6: 2,205}*
*{6।378: ए1,6,ए2 (व्.ल्.); ए2: तच् च}*
अर्थवादो वा विधिशेषत्वात् तस्मान्{*6।379*} नित्यानुवादः स्यात्

6.7.31

एषो ऽपि पक्षो वाशब्दाद् विनिवृत्तः{*6।380*}. नायं तद्गोत्राणां विधिः. न मनुष्यमात्रस्य वा विधिः, विधिर् एव वेति, अयम् अर्थवादस्{*6।381*} तु. कुतः. विधिशेषत्वात्, अन्यं त्व् अत्र विधिम् आमनन्ति, परकृत्युदाहरणे तावत्, तस्माद् आरण्यम् एवाश्नीयाद् इति, पुराकल्पोदाहरणे, गृहपतेर् एवाग्रिषु निर्मथ्य निर्वपेरन्न् इति. न च द्वयोर् विध्योर् एकवाक्यभावो ऽस्ति. विधिना हि संबध्यमानयोः परकृतिपुराकल्पवचनयोर् अन्या वचनव्यक्तिः. अन्या तु स्तुत्यर्थप्रवृत्तयोः. न चोभयं यौगपद्येन संभवति. तस्माद् अर्थवाद इति.
नोतेस्:
*{6।379: ए1 (व्.ल्.): तस्मिन्}*
*{6।380: ए2 (व्.ल्.): निर्वर्तते}*
*{6।381: ए1,6,ए2 (व्.ल्.); ए2: वेति. अर्थवादस्}*
सहस्रसंवत्सरं तदायुषाम् असंभावान् मनुष्येषु

6.7.32

अस्ति सहस्रसंवत्सरम्, पञ्चपञ्चाशतस्{*6।382*} त्रिवृतः संवत्सराः, पञ्चपञ्चाशतः पञ्चदशाः, पञ्चपञ्चाशतः सप्तदशाः, पञ्चपञ्चाशत एकविंशा विश्वसृजामयनं सहस्रसंवत्सरम् इति. तत्र [756]{*6।383*} संदेहः. किं ये सहस्रायुषस् तेषाम् अनेन अधिकारः, उत मनुष्याणाम् इति. यदापि मनुष्याणाम्, तदापि बहवो विकल्पा वक्ष्यमानाः{*6।384*}, अथवा दिवसेषु संवत्सरशब्द इति. किं प्राप्तम्. सहस्रायुषां भवितुम् अर्हति. कुतः. असंभवान् मनुष्येषु, न मनुष्याणाम् एतावद् आयुर् विद्यते, गन्धर्वादयस् त्व् एतावद् आयुष इति भवति स्मृतिः. उपचारो ऽन्यार्थदर्शनं च. प्रजापतिं वै प्रजाः सृजमानं पाप्मा मृत्युर् अभिजघान, स तपो ऽतप्यत सहस्रसंवत्सरान् पाप्मानं विजिहासन्न् इति. विस्पष्टं चेदं सहस्रसंवत्सरम्. तस्मान् न मनुष्याणाम् इति.
नोतेस्:
*{6।382: ए1,6; ए2: सहस्रसंवत्सरम् सत्रं विश्वसृजामयनम्, पञ्चपञ्चाशतस्}*
*{6।383: ए2: 5,350; ए6: 2,206}*
*{6।384: ए1 हत् यदापि मनुष्याणाम्, तदापि बहवो विकल्पा वक्ष्यमानाः इन् क्लम्मेर्न्}*
अपि वा तदधिकारान् मनुष्यधर्मः स्यात्

6.7.33

अपि वेति पक्षव्यावृत्तिः. न गन्धर्वादीनाम्, मनुष्याणाम् एवाधिकार इति. कुतः. तदधिकारात्, मनुष्याधिकारं शास्त्रं समधिगतम् इति. ते हि शक्नुवन्ति कार्त्स्न्येन यथोदितं विधिम् उपसंहर्तुम् इति. आह, ननु नैतावद् आयुषो मनुष्याः. उच्यते, रसायनैर् आयुर् दीर्घं प्राप्स्यन्तीति.
नासामर्थ्यात्

6.7.34

न रसायनानाम् एतत्{*6।385*} सामर्थ्यं दृष्टम्, येन सहस्रसंवत्सरं जीवेयुः. एतानि ह्य् अग्नेर् वर्धकानि, बलीपलितस्य नाशकानि{*6।386*}, स्वरवर्णप्रसादकानि, मेघाजननानि. नैतावद् आयुषो दातॄणि दृश्यन्ते. ननु स्वरवर्णप्रसादादिदर्शनाद् एव ज्योग्जीवनम्{*6।387*} अप्य् अनुमास्यते. नेति ब्रूमः. कुतः. शतायुर् वै पुरुष [757]{*6।388*} इत्य् अनुवादः. स{*6।389*} एवं ज्योग्जीवे{*6।390*} नावकल्पते. अत्रोच्यते, शतान्य् आयुर् अस्येति विग्रहीष्यामः. नैवं संख्याशब्दानां समास इष्यते. न च गमकानि भवन्ति, द्विवचनबहुवचनान्तानाम् असमास इति चाभियुक्तवचनात्.
नोतेस्:
*{6।385: ए1,6,ए2 (व्.ल्.); ए2: एतावत्}*
*{6।386: ए2 (व्.ल्.): बलीपलितनाशकानि}*
*{6।387: ए1: ज्योग्जीवनं चिरकालं जीवनम् (ग्लोस्से एइनेर् ह्स्)}*
*{6।388: ए2: 5,351; ए6: 2,207}*
*{6।389: ए2 ओम्. स}*
*{6।390: ए1,6; ए2: ज्योग्जीवेन}*
संबन्धादर्शनात्

6.7.35

न ह्य् एतावद् आयुषा रसायनानां संबन्धो दृष्टपूर्वः, न च संबन्धादर्शने ऽनुमानम् अस्ति. ननु सामान्यतोदृष्टं भविष्यति. दृश्यन्ते तावद् अल्पस्य स्थिरभावस्य कारकाणि. एवम् अभ्यस्यमानानि वीर्यवत्तमानि स्थिरशरीरताम् उत्पादयिष्यन्ति. शतायुः पुरुष इति सत्य् अपि वचने, अधिकं जीवनं दृश्यत एवेति. अत्रोच्यते, नायम् एकान्तः, कदाचिद्याम् च यावन्तीं च शरीरस्थिरताम् उत्पादयेयुः, न प्राग् अप्य् अदृष्टकालाम्, यथा प्रक्रामन्तो ऽभ्यासात् प्रक्रमाणां वृद्धेर् यां च यावन्तीं च मात्रां प्राप्नुवन्ति, न त्व् अभ्यस्यन्तः पुरुषायुषेणापि योजनमात्रं प्रक्रमेयुः. एवम् इहापि संबन्धाभावात् सहस्रायुष्ट्वं प्राप्नुयुर् न वेति संदिग्धम्. संदिग्धं चेत्, सामान्यतोदृष्टं न प्रमाणम्, न चादृष्टो ऽर्थः प्रमाणम् अन्त्रेण शक्यो ऽभ्युपगन्तुम्. तस्माद् असंशयं नैतावद् आयुषः सन्तीति पुरुषवचनेनोक्तम्. कथं तर्हीति.
स कुलकल्पः स्याद् इति कार्ष्णाजिनिर् एकस्मिन्न् असंभवात्

6.7.36

स मनुष्याधिकारपक्षे कुलकल्पो भविष्यतीत्य् एवं कार्ष्णाजिनिर् आचार्यो मन्यते स्म. कुतः. एकस्मिन्न् असंभवात्, पुरुषाणाम् इदम् अनुशासनम्, न चैतद् एकः शक्नोति पारयितुम्. यथा शक्यते, तथा पारयितव्यम् इति गम्यमाने, बहवः शक्नुवन्तः प्रवर्तेरन्. अन्ये ऽपि तत्कुलीना अन्येनारब्धं समापयेयुर् इति.
अपि वा कृत्स्नसंयोगाद् एकस्यैव प्रयोगः स्यात्

6.7.37

शास्त्रफलं हि प्रयोक्तरि{*6।391*} समधिगतं{*6।392*}, यश् च कार्त्स्न्येन विधिं उपसंहर्तुं समर्थः. स एवाधिक्रियत इति. तस्मान् न कुलकल्पो ऽवकल्प्यते. कथं तर्हि. संप्रदायमात्रेण धर्म इत्य् अध्यवसीयते. एवं श्रूयते, स्वाध्यायो ऽध्येतव्य इति. एवं तर्ह्य् एतद् अध्यवसेयम्, वचनप्रामाण्याद् एतत् कर्म कुर्वताम् आयुर् वर्द्धत इति. तच् च न, प्रमाणाभावात्. न ह्य् एतस्मिन्न् अर्थे वाक्यम् अन्यद् वा प्रमाणम् अस्ति. नन्व् अर्थापत्तिः, अन्यथानर्थक्यं भविष्यतीति. उच्यते, नानर्थक्यम्, अध्ययनाद् एव ह्य् अदृष्टं भविष्यति. तथा हि सामान्येनादृष्टं कल्पयितुम् लघीयः, न तु कर्मणायुर् वर्धत इति विशेषादृष्टकल्पना. अथवानर्थक्यम् एवाभ्युपगम्येत, नायुक्ति फलं कल्प्यम्{*6।393*}. अथोच्येत, अर्धतृतीयानि शतानि दीक्षिष्यन्ते, चतुभिर् वर्षैः समाप्यन्त{*6।394*} इति. एवम् अपि नियतपरिमाणं हीयेत{*6।395*}, चतुर्विंशतिपरमाः सप्तदशावराः सत्रम् आसीरन्न् इति. वचनस्य त्व् आनर्थक्यपरिहाराय परिमाणं हापयिष्यत इति चेत्. तद् अयुक्तम्, अध्ययनात् फलम् अस्ति. तस्मान् नैषा कल्पनेति.
कथं तर्हि. एवम्,
[759]{*6।396*}
नोतेस्:
*{6।391: ए2: प्रयोक्तरीति}*
*{6।392: व्ग्ल्. म्स् 3.7.18 ff}*
*{6।393: ए1,6; ए2: फलकल्पनम्}*
*{6।394: ए1,6; ए2: समाप्यत}*
*{6।395: ए1; ए2,6: हीयते}*
*{6।396: ए2: 5,354; ए6: 2,208}*
विप्रतिषेधात् तु गुण्यन्यतरः{*6।397*} स्याद् इति लावुकायनः

6.7.38

अन्यतरो ऽत्र गौणः शब्दः स्यात्. यदि वासंवत्सरे संवत्सरशब्दः, यदि वा पञ्चपञ्चाशत इति शब्दो गौण इति. कुत एतत्. विप्रतिषेधात्, विप्रतिषेधो हि भवति, उभयस्मिन् विहिते. कथम्. वाक्यं हि भिद्येत. यदि पञ्चपञ्चाशतस् त्रिवृतः, न संवत्सराः. अथ संवत्सरास् त्रिवृतः, न पञ्चपञ्चाशतः. तस्माद् विरोधाद् अन्यतरद् वचनं गौणम् इति लावुकायन आचार्यो मन्यते स्म. आचार्यग्रहणं पूजार्थम्, नात्मनः प्रतिषेधार्थम्{*6।398*}.
नोतेस्:
*{6।397: ए1 (व्.ल्.): गुणाद् अन्यतरः}*
*{6।398: ए1,6; ए2: नात्मीयमतप्रतिषेधार्थम्}*
संवत्सरो विचालित्वात्

6.7.39

एतद् उक्तम्, अन्यतरद् गौणम्{*6।399*} इति. तद् अवधारयित्वयम्. तद् उच्यते, संवत्सरवचनं गौणम् इति. कुतः. विचालित्वात्, विचाली हि संवत्सरशब्दः सावनो ऽपि गणितदिवसकः, शीतोष्णवर्षालक्षणो ऽपि, चान्द्रमसो ऽपि. स एवंलक्षणको ऽनुवादः शक्यते कल्पयितुम्. पञ्चपञ्चाशत इत्य् अयं तु व्यक्तपरिमाणस्यार्थस्य{*6।400*} वाचकः, एकेनाप्य् ऊने न भवति.
नोतेस्:
*{6।399: ए1,6; ए2: अन्यतरद् वचनं गौणम्}*
*{6।400: ए1 (व्.ल्.): उक्तपरिमाणस्यार्थस्य}*
सा प्रकृतिः स्याद् अधिकारात्

6.7.40

गवामयने मासाः प्रकृताः, मासेषु च संवत्सरशब्द उक्तः, यो वै मासः संवत्सर इति. तस्मात् पञ्चपञ्चाशतो मासा इति. नन्व् एतस्मिन् पक्षे सहस्रसंवत्सरशब्दो नावकल्पते. उच्यते, नामधेयम् एतत् सहस्रसंवत्सरशब्द [760]{*6।401*} इति, न गुणविधिः. नामधेयं च न विधीयते, अविधीयमानं च येन केनचिद् गुणेनावकल्प्यते{*6।402*}.
नैषो ऽपि पक्षो युज्यते, अत्रापि हि स एव दोषः, न तावज् जीवनम् अस्ति, यावतैतद् अवकल्प्येत{*6।403*} दाराग्निकालसोमपूर्वत्वापेक्षयेति. तेनैतस्मिंश् च क्रियमाणे ऽपरिसमाप्त एवायुः{*6।404*} पर्युपयुक्तं स्यात्. तथा चाध्ययनाद् एवादृष्टं कल्प्येत. एवं तर्हि, द्वादशाहः प्रकृतिर् इति पञ्चपञ्चाशतो द्वादशाहा भविष्यन्तीति. तथा च दृश्यते द्वादश वै रात्रयः संवत्सरस्य प्रतिमा इति. तत्र स दोषो न भविष्यति. नैवम्, तत्र संवत्सरशब्दस्य साक्षात् प्रतिमाशब्देन संयोगात्{*6।405*}. अपि च, पञ्चपञ्चाशतस् त्रिवृत इत्य् उक्तम्, त्रिवृच् छब्दश् च द्वादशाहे दिवसे दृष्टः, न द्वादशरात्रे. तस्मान् नैवम्.
नोतेस्:
*{6।401: ए2: 5,354; ए2: 2,208}*
*{6।402: ए1,6; ए2: गुणेनावकल्पिष्यते}*
*{6।403: ए1,2 (व्.ल्.): अवरुध्येत}*
*{6।404: ए1,6; ए2: एवास्यायुः}*
*{6।405: ए1 (व्.ल्.): न ह्य् अत्र संवत्सरशब्दः साक्षात्, प्रतिमाशब्देन संयोगात्; नैवम्, न ह्य् अत्र रात्रिशब्दः संवत्सरशब्दस्यापेक्ष्यः प्रतिमाशब्देन संयोगात्}*
अहानि वाभिसंख्यत्वात्

मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc