मीमांसासूत्र (टीका सहित) · अध्याय 6.6
अहर्गणे यदा भवति कस्मिंश्चिद् अहन्य् उद्गातुर् अपच्छेदः, तदा संदेहः. किं कृत्स्नो ऽहर्गण आवर्तते, उत तद् एवाहर् इति. किं प्राप्तम्. कृत्स्नो ऽहर्गणः. कुतः. अपरैर् अहोभिर् विना, तदा{*6।259*} विगुणं{*6।260*} भवति, तस्माद् गण{*6।261*} एवावर्तेतेति. एवं प्राप्ते ब्रूमः, यस्मिन्न् अपच्छेदः, तद् एवावर्तेत. कुतः. कर्मपृथक्त्वात्, पृथग् एतानि कर्माणि, नान्यद् अहर् अन्यस्य गुणभूतम्, इष्ट्वेति च यागं परिसमाप्येति गम्यते, न साङ्गम् इति. यान्य् अहरन्तराणि साहाय्येनोपकरिष्यन्ति, विद्यन्त एव तानि. अतः{*6।262*} साहाय्यं करिष्यन्तीति. तस्मात् तद् एवावर्तेत.
नोतेस्:
*{6।259: ए2: असौ; ए2 (व्.ल्.), ए1,6: तदा}*
*{6।260: ए1,6; ए2: विगुणो}*
*{6।261: ए1,6; ए2: अहर्गण}*
*{6।262: ए2 (व्.ल्.) ततः}*
[726]{*6।263*}
नोतेस्:
*{6।263: ए2: 5,325; ए6: 2,187}*
संनिपाते ऽवैगुण्यात् प्रकृतिवत् तुल्यकल्पा यजेरन्
सत्राण्य् उदाहरणम्, सप्तदशावराः सत्रम् आसीरन्, य एवं विद्वांसः सत्रम् आसते य एवं विद्वांसः सत्रम् उपयन्तीति. तत्र संदेहः. किं समानकल्पानाम् भिन्नकल्पानां च सहाधिकार उत समानकल्पानाम् एवेति. के पुनः समानकल्पाः. राजन्यात्रिबध्र्यश्ववसिष्ठवैन्यशुनकानां कण्वकश्यपसंकृतीनां नाराशंसो द्वितीयः प्रयाजः, तनूनपाद् इतरेषाम्. एवं केचिन् नाराशंसकल्पाः, केचित् तनूनपात्कल्पाः. तत्र किं तावत् प्राप्तम्. संनिपाते बहूनां यजमानानां य एव तुल्यकल्पाः{*6।264*}, त एव सह सत्रम् आसीरन्. कुतः. अवैगुण्यात्, इतरथा यस्य कल्पो नोपसंह्रियेत, तस्य वैगुण्यं स्यात्. यथा प्रकृताव् एव विना साद्गुण्येन, फलाभाव एवम् इहापीति.
नोतेस्:
*{6।264: ए1,6; ए2: तुल्याः}*
वचनाद् वा शिरोवत् स्यात्
वाशब्दात् पक्षो विपरिवर्तते. न चैतद् अस्ति, भिन्नकल्पानाम् अनधिकार इति, ते ऽप्य् अधिक्रियेरन्. कुतः. अविशेषेण{*6।265*} सर्वेषां यजमानानां प्राप्तिः. न च भिन्नकल्पानां प्रतिषेधः. ननु वैगुण्यं भिन्नकल्पानाम्. अत्रोच्यते, [727]{*6।266*} वचनात्, सामान्यवचनेन भिन्नकल्पा अपि गृहीताः. तत्र शिरोवद् भाधः स्यात्, यथा, पुरुषशीर्षम् उपदधातीति{*6।267*} वचनसामर्थ्याच् छवशिरसां स्पर्शनं स्मृतिविप्रतिषिद्धम् अपि क्रियते, एवम् इहापि. अथवा, आशिरवत्, यथा, ऋतपेये घृतव्रतो भवतीति वचनाद् व्रतदुहि निवृत्तायाम् अन्यामाशिरे गां कल्पयन्ति. एवम् एतद् अपि वचनाद् भविष्यति.
नोतेस्:
*{6।265: ए1,6; ए2: कुतः. अविशेषात्. अविशेषेण}*
*{6।266: ए2: 5,326; ए6: 2,187}*
*{6।267: तैत्.स्. 5.2.9.2}*
न वानारभ्यवादत्वात्
नैतद् अस्ति, यद् उक्तम्, भिन्नकल्पानाम् अप्य् अधिकार इति, समानकल्पा एवाधिक्रियेरन्. कुतः. अवैगुण्यात्. अथ यद् उक्तम्, वचनाद् वैगुण्येनापि{*6।268*} सेत्स्यतीति. तन् न, अनारभ्यवादत्वात्, तद् धि वचनात् प्रकल्प्यते, यस्मिन्न् अकल्प्यमाने वचनम् अनर्थकं भवति. यदि ह्य् आरभ्य भिन्नकल्पान्, एतद् उच्येत, ततो वचनम् अनर्थकं भवतीति भिन्नकल्पानाम् अपि सत्रम् अभ्युपगम्येत, न त्व् आरभ्य भिन्नकल्पान् एतद् उच्यते. समानकल्पेष्व् अर्थवत्तास्य वचनस्य भविष्यति. तस्मान् न भिन्नकल्पानाम् अधिकार इति.
नोतेस्:
*{6।268: ए2 (व्.ल्.): वैगुण्ये ऽपि}*
स्याद् वा यज्ञार्थत्वाद् औदुम्बरीवत्
स्याद् वा भिन्नकल्पानाम् अधिकारः. कुतः. यज्ञार्थत्वात् कल्पस्य. वसिष्ठादीनां नाराशंसकल्पो यज्ञस्य साधकः. स च यज्ञः सर्वेषां साधारणः, परकल्पेनापि सिद्धः सिद्धो{*6।269*} भवति. यथा, यजमानेन संमायौदुम्बरीं{*6।270*} परिवासयन्तीति यस्य कस्यचित् परिमाणेन सिद्धो यज्ञो ऽन्येषाम् अपि सिद्धो भवति. उच्यते, ननु प्रयाजस्य वाक्येन पुरुषसंबन्धः. स च प्रकरणप्राप्तां यागार्थतां बाधिष्यत इति. नेति ब्रूमः. फलं [728]{*6।271*} हि तदा कल्पयितव्यम्. नन्व् इतरथाप्य् अदृष्टम् अवश्यं कल्पनीयम्. तत्रोच्यते, सत्यं कल्पनीयम्. प्रमाणेन तु प्रयोगवचनैकवाक्येन, द्वितीये तु पक्षे कल्पयित्वा शब्दम्, तेनैकवाक्यता स्यात्. अथोच्येत, क्वचित् समाम्नातेन सहैकवाक्यता भविष्यति. तथाप्य् अप्रकृतेन व्यवहितेन च कल्प्यमाना प्रकृतकल्पनाया गुरुतरा स्यात्.
नोतेस्:
*{6।269: ए2 (व्.ल्.): सिद्ध्ये}*
*{6।270: ए1,6,ए2 (व्.ल्.); ए2: संमिताम् औदुम्बरीं}*
*{6।271: ए2: 5,327; ए6: 2,188}*
न, तत्प्रधानत्वात्
नैतद् एवम्, तत्प्रधानत्वात्. पुरुषार्थो ह्य् एष कल्पः. कथम्. वसिष्ठादीनां{*6।272*} नाराशंसो यज्ञाङ्गम् इति. यच् च यस्य यज्ञाङ्गम्, तेन सह फलदं कर्म तस्य भवति. तेनैवम् अभिसंबन्धः क्रियते, वसिष्ठानां{*6।273*} नाराशंसेन सहितं कर्म फलदं भवतीति.
नोतेस्:
*{6।272: ए1,6; ए2: वासिष्ठादीनां}*
*{6।273: ए1,6; ए2: वासिष्ठानां}*
औदुम्बर्याः परार्थत्वात् कपालवत्
अथ यद् उपवर्णितम्, यथौदुम्बरी तथेहेति. पारार्थ्यम्{*6।274*} औदुम्बर्याः, यजमानो गुणत्वेन श्रूयते. ननु तत्रापि प्रयोगवचनः पुरुषप्राधान्यं कुर्यात्. नैष दोषः, एकेनापि यजमानेन संमिता चेयं सर्वेषां यजमानसंमिता भवति. न त्व् इहैकस्य संगृहीते{*6।275*} सर्वेषां संगृहीतः. तस्माद्{*6।276*} औदुम्बर्याः पारार्थ्यम्, कपालवत्, यथा, पुरोडाशकपालेन तुषा उपवपन्तीति{*6।277*} परार्थकपालेन तुषा उपवप्तव्या इत्य् उपादीयते, एवम् एतद् अपीति.
नोतेस्:
*{6।274: ए2: परार्थत्वाद्; ए2 (व्.ल्.), ए1,6: पारार्थ्यम्}*
*{6।275: ए1,6; ए2: इहैकस्य कल्पे संगृहीते}*
*{6।276: ए1,6; ए2: संगृहीतो भवति. तस्माद्}*
*{6।277: ए1,6; ए2: तुषान् उपवपतीति}*
अन्येनापीति चेत्
एवं चेद् भवान् पश्यति, यजमानेन संमानम्, तत् प्रयो[729]{*6।278*}जनं स्वेनान्येन{*6।279*} वा यजमानेनेति. तथा प्रयोगान्तरे यो यजमानस् तेनापि संमानं प्राप्नोति.
नोतेस्:
*{6।278: ए2: 5,328; ए6: 2,189}*
*{6।279: ए1,6; ए2: न स्वेनान्येन; ए2 (व्.ल्.): तत्स्वेनान्येन}*
नैकत्वात् तस्य चानधिकाराच् छब्दस्य चाविभक्तत्वात्
अत्रोच्यते, न प्रयोगान्तरस्य यजमानः प्रसज्यते. न तु यजमानशब्दे कश्चिद् विशेषः, यतो यजमानशब्दाद् व्यवस्था स्यात्. किं तर्हि. एकत्वस्य विवक्षितत्वात्, न द्वाभ्यां याजमानानि कर्तव्यानीति नान्य आनीयते. आह, अन्य एव तर्हि सर्वयाजमानेषु भवतु. नैवम्, कामिनं ह्य् अधिकृत्य, साङ्गस्य यागस्य वचनम्. यजमानशब्दश् चाविभक्त इहौदुम्बर्याः संमाने. तस्मान् नान्यो भविष्यति.
संनिपातात् तु निमित्तविघातः स्याद् बृहद्रथन्तरवद् विभक्तशिष्टत्वाद् वसिष्ठनिर्वर्त्ये
तुशब्दः पक्षं व्यावर्तयति. बहुषु यजमानेषु संनिपातान् निमित्तविघातः स्यात्. कुतः. विभक्तिशिष्टत्वात्, वसिष्ठनिर्वर्त्ये प्रयोगे नाराशंसो नैमित्तिकः. अन्यस्मिंस् तनूनपान् नैमित्तिकः. यत्रेदानीम् उभये कर्तारः समहायेन, तत्र निर्वृत्तिर् न केवलेन. तस्मान् न केवलः कर्ता. न चेद् वासिष्ठः केवलः कर्ता, तस्मात् तन्निमित्तं तत्र न कर्तव्यम्, न चेतरनिमित्तम्, उभयोर् अप्य् अन्योन्येन विघातः, बृहद्रथन्तरवत्, तद् यथा, बृहद्रथन्तरं पृष्ठं भवतीति न बृहद्साधनकम्, न रथन्तरसाधनकम् इति, नैव तत्र बृहन् निमित्तं भवति, न रथन्तरं वा. एवम् इहापीति.
[730]{*6।280*}
नोतेस्:
*{6।280: ए2: 5,329; ए6: 2,189}*
अपि वा कृत्स्नसंयोगाद् अविघातः प्रतीयेत{*6।281*} स्वामित्वेनाभिसंबन्धात्
अपि वेति पक्षं व्यावर्तयति. कृत्स्नं प्रति केवलस्य कर्तृत्वेन संयोगो भवति, तस्माद् अविघातः नैमित्तिकानाम्. कथं पुनः कार्त्स्न्येन कर्तव्यत्वम्{*6।282*}. स्वामित्वेनाभिसंबन्धात्, कर्म प्रति स्वामित्वेन केवलानां वसिष्ठादीनाम् अभिसंबन्धो भवति, कर्म पुरुषाणम् उपकारकम्, तद् ध्य् एकैकस्य शक्नोति फलं निर्वर्तयितुम्. तस्माद् एकैकः कृत्स्नस्य कर्तेति तन् नैमित्तिकं सर्वं प्राप्नोति. यथा तुण्डमात्रे दीयताम् इति. यद्य् अपि सा तुण्डडपित्थयोर् माता, तथापि तस्यै दीयते. कार्त्स्नेन हि तस्य सा माता भवति. न हि व्यासज्यते मातृत्वम्. तद्वद् इहापि द्रष्टव्यम्. तस्माद् असमानकल्पानाम् अनधिकारः.
नोतेस्:
*{6।281: ए1; ए2,6: प्रतीयते}*
*{6।282: ए1,6; ए2: कर्तृत्वम्}*
साम्नोः कर्मवृद्ध्यैकदेशेन संयोगे गुणत्वेनाभिसंबन्धस् तस्मात् तत्र विघातः स्यात्
अथ यद् उक्तम्, बृहद्रथन्तरवद् इति, तत् परिहरणीयम्. बृहद्रथन्तरयोः साम्नोर् नैमित्तिककर्मवृद्ध्यैकदेशेन संयोगो भवति. तत्र ह्य् उभयोः साधकत्वम् नैकस्य. स्तोत्रैकदेशेन तु तत्र साम्नोः संबन्धः, न कृत्स्नेन स्तोत्रेण. गुणत्वेन हि तत्र साम श्रूयते, स्तोत्रं प्राधान्येन. तस्मात् तत्र विघातः स्यात्.
वचनात् तु द्विसंयोगस् तस्माद् एकस्य पाणित्वम्
इदं समामनन्ति, एतेन राजपुरोहितौ सायुज्यकामौ [731]{*6।283*} यजेयाताम् इति. तत्र संदेहः. किं राज्ञो द्वौ पुरोहितौ यजेयाताम्, उत राजा च पुरोहितश् चेति. किं प्राप्तम्. राज्ञो द्वौ पुरोहिताव् इति. कुतः. पुरोहितशब्दात् परं द्विवचनं श्रूयते, तच्छब्दवाच्यस्य द्वित्वं शक्नोति वदितुम्. पुरोहितश् च तच्छब्दवाच्यः श्रुत्या, न राजा. पुरोहितवचनः पुरोहितशब्दः. लक्षणया युगपद् अधिकरणवचनतायां हि तद् भवति. नन्व् एकस्य द्वौ पुरोहितौ न स्तः. पुरोहितं वृणीत इति ह्य् उपादीयमानस्य विवक्षितम् एकत्वम् इति. उच्यते, वचनाद् एतद् भविष्यति. किं हि वचनं न कल्पयेत्. एतेनैव कारणेन द्वौ भविष्यतः, यथा वचनेनाञ्जलिना जुहोतीत्य् एकस्यैव द्वौ पाणी भवतः, यद्य् अपि सव्यो प्राप्तस्{*6।284*} तथापीति.
नोतेस्:
*{6।283: ए2: 5,330; ए6: 2,190}*
*{6।284: ए1; ए2,6: सव्यो ऽप्राप्तस्}*
अर्थाभावात् तु नैवं स्यात्
तुशब्दात् पक्षो विपरिवर्तते{*6।285*}. नैवं स्यात्, द्वौ पुरोहिताव् इति. कुतः. अर्थाभावात्, नैवायम् अर्थो ऽस्ति, द्वौ पुरोहिताव् इति. एकस्य राज्ञ एक एव पुरोहित उपादेयत्वेन हि श्रूयते, पुरोहितं करोतीति, एकत्वं विवक्षितम्. ननु वचनाद् इत्य् उक्तम्. उच्यते, न तु वचनाद् एतच् छक्यम्, संस्कारनिमित्तत्वात् पुरोहितशब्दस्य. क्रियमाणो ऽपि न पुरोहितः स्यात्.
नोतेस्:
*{6।285: ए2 (व्.ल्.): व्यावर्त्यते}*
अर्थानं च विभक्तत्वान् न तच्छ्रुतेन संबन्धः
अर्थानां च विभक्तत्वं श्रूयते, तेजःसंस्तवो ब्राह्मणस्य, वीर्यसंस्तवो राजन्यस्य. ताभ्यां वर्णाभ्यां तेन तेन फलेन संबन्धो ऽनूद्यते. तस्माद् अपि न द्वौ पुरोहिताव् इति{*6।286*}.
[732]{*6।287*}
नोतेस्:
*{6।286: ए1,6; ए2: पुरोहिताव् एकस्य राज्ञ इति}*
*{6।287: ए2: 5,331; ए6: 2,191}*
पाणेः प्रत्यङ्गभावाद् असंबन्धः प्रतीयेत
अथ यद् उक्तम्, एतस्माद् एव कारणाद् एकस्यैव पुरुषस्य द्वौ पाणी भवत इति. युक्तं तत्र, पाणेः प्रत्यङ्गभूतत्वात्, अञ्जलिं प्रत्यङ्गभूतो{*6।288*} दक्षिणस्य पाणेः स्वयः पाणिः. तेन विनाञ्जलिर् एव न भवति. न हि द्वाभ्यां दक्षिणाभ्याम् अञ्जलिर् इत्य् उच्यते. तस्माद् राजा च पुरोहितश् च स्यात्. ननु तत्र राजपुरोहितश् च राजपुरोहितश् च राजपुरोहितौ यजेयाताम् इति. उच्यते, न तौ सायुज्यकामौ भवतः. स राजा पुरोहितेन सहैककार्यो भवति, न तु पुरोहितः पुरोहितेन. उभाव् अपि तौ हि राजानम् अभिचरन्तौ पुरोहिताव् इत्य् उच्येते, न हि ताव्{*6।289*} इच्छन्तौ, संस्कारशब्दो हि पुरोहित इति. ननु लक्षणा भवति भवत्पक्षे. उच्यते, श्रुत्यभावे लक्षणयापि व्यवहारो भवति, यथा, अग्नौ तिष्ठति, अवटे तिष्ठतीति. तस्माद् राजा च पुरोहितश् च राजपुरोहिताव् इति.
नोतेस्:
*{6।288: ए1,6; ए1 (व्.ल्.): अञ्जलौ प्रत्यङ्गभूतौ; ए2: अञ्जलौ प्रत्यङ्गभूतो}*
*{6।289: ए1,6; ए1 (व्.ल्.),ए2: तम्}*
सत्राणि सर्ववर्णानां अविशेषात्
इह सत्राण्य् उदाहरणम्. य एवं विद्वांसः सत्रम् आसते, य एवं विद्वांसः सत्रम् उपयन्तीति. तत्र संदेहः. किं सत्राणि त्रयाणाम् अपि वर्णानाम्, उत ब्राह्मणानाम् एवेति. किं प्राप्तम्. सत्राणि सर्ववर्णानां भवेयुर् इति. [733]{*6।290*} कस्मात्. अविशेषात्, न हि कश्चिद् विशेष आश्रीयते. अमीषां वर्णानां सत्राणि भवन्ति, अमीषां नेति. तस्मात् त्रयाणाम् अपि वर्णानाम् अधिकार इति.
नोतेस्:
*{6।290: ए2: 5,331; ए6: 2,191}*
लिङ्गदर्शनाच् च
इतश् च पश्यामः, त्रयाणां सत्राणीति. कुतः. लिङ्गदर्शनात्. किं लिङ्गं भवति. एवम् आह, बार्हद्गिरं ब्राह्मणस्य ब्रह्मसाम कुर्यात्, पार्थुरश्यं{*6।291*} राजन्यस्य रायोवाजीयं वैश्यस्येति द्वादशाहे भवति वचनं ब्राह्मसामविधानपरम्, तस्मिन् राजन्यवैश्यानां दर्शनं भवति. तस्माद् अपि सर्ववर्णानाम् अधिकार इति.
नोतेस्:
*{6।291: ए1; ए2,6: पार्थुरश्मं}*
ब्राह्मणानां वेतरयोर्{*6।292*} आर्त्विज्याभावात्
वाशब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति, त्रयाणाम् अपि वर्णानाम् इति{*6।293*}. किं तर्हि. ब्राह्मणानाम् एव स्यात्. कुतः. इतरयोर् आर्त्विज्याभावात्. इतरयोर् हि वर्णयो राजन्यवैश्ययोर् आर्त्विज्यं प्रतिषिद्धम्. स्वयम् एवार्त्विज्येन च विना विगुणत्वम्. तस्माद् ब्राह्मणानाम् एव स्यात्.
नोतेस्:
*{6।292: ए1,6; ए2: चेतरयोर्}*
*{6।293: ए1,6; ए2: वर्णानाम् अधिकार इति}*
वचनाद् इति चेत्
इति चेत् पश्यसि, राजन्यवैश्ययोर् वैगुण्यम् आपद्यत इति. वचनाद् यजमानाः सन्त ऋत्विजो भविष्यन्ति, ये यजमानास् त ऋत्विज इति. के पुनर् यजमानाः. ये तत्र फलं{*6।294*} कामयमानाः सत्रकर्मणि प्रवृत्तास् ते राजन्या अपि वैश्या अपि. तेषाम् ऋत्विक्कर्म विधीयते. तत्रैतत् स्यात्, येषाम् आर्त्विज्यं शक्यं कर्तुम्, तेषाम् एव तद् ब्राह्मणानाम्{*6।295*}. प्रतिषिद्धं [734]{*6।296*} हि राजन्यवैश्यानाम्, न तेषाम् इदम् आर्त्विज्यविधानम् इति. नैतद् एवम्, यथैव ब्राह्मणानां यजमानानाम् अप्राप्तं वचनविधानाद् भवति, एवम् अब्राह्मणानां अपि यजमानानां वचनप्रामाण्याद् एव भवितुम् अर्हतीति. तस्माद् आर्त्विज्यसंस्कृता राजन्यवैश्या अपि सत्रम् आसीरन्न् इति.
नोतेस्:
*{6।294: ए1,6; ए2: सत्रफलं}*
*{6।295: ए1,6; ए2: ब्राह्मणानां शक्यम्}*
*{6।296: ए2: 5,333; ए6: 2,192}*
न स्वामित्वं हि विधीयते
नैतद् एवम्. स्वामित्वम् अनेन वचनेन विधीयते, एवंकामाः सत्रम् आसीरन्न् इति विधीयते, नार्त्विज्यम्. अथ ये यजमानास् त ऋत्विज इत्य् अनेन वचनेन विहितम् आर्त्विज्यम् इति. उच्यते, तद् अपि न. कथम्. नात्रैषा वचनव्यक्तिः. ये यजमाना इत्य् उद्देशपदम्{*6।297*}, ऋत्विज इति विधेयपदम्. तथा हि सति, आर्त्विज्यम् अङ्गं यजमानसंस्कारकं विधीयेत, न यजमाना आर्त्विज्यस्याङ्गम्. तत्र प्राकृतार्थता नैषाम् आर्त्विज्यानां स्यात्, संस्कारश् चादृष्टः कल्प्येत. स च यजमानविषय इति, पुनर् अदृष्टम्. तस्मान् न यजमानानां सताम् आर्त्विज्याः पदार्था विधीयन्ते. किं तर्हि. आर्त्विजानां पदार्थानाम् अनन्यकर्तृकता. एषा च वचनव्यक्तिः, ऋत्विज इत्य् उद्देशपदम्. त इति विधीयते, ये यजमानास् त एवर्त्विजो भवन्ति, नान्य इति, आर्त्विजेषु पदार्थेषु यजमानाः कर्तारो विधीयन्ते, प्रत्याम्नानात्. अन्ये निवर्तन्ते. एवं सति प्राकृतप्रयोजना एवार्त्विजाह् पदार्थाः. न यजमानसंस्कारो ऽदृष्टो विधीयत इति. यजमानकर्तृकल्पनायाम् अप्य् एषाम् अदृष्टम् इति यदि कल्प्येत. तत्र ब्रूमः, इतरस्मिन्न् अपि पक्षे यजमानविषयः सो ऽदृष्टः संस्कार इति [735]{*6।298*} अवश्यं कल्पनीयम्. यश् चोभयोः पक्षयोर् दोषो न तम् एकश् चोद्यो भवति.
नोतेस्:
*{6।297: ए1,6; ए2: उद्देश्यपदम्}*
*{6।298: ए2: 5,334; ए6: 2,193}*
गार्हपते{*6।299*} वा स्याताम् अविप्रतिषेधात्
गार्हपते{*6।300*} पदार्थे राजन्यवैश्यौ भविष्यतः, न च, तत्रार्त्विजप्रयोजनम्. तस्माद् अविप्रतिषेधस् तेषाम् इति.
नोतेस्:
*{6।299: ए2 (व्.ल्.): गार्हपत्ये}*
*{6।300: ए2 (व्.ल्.): गार्हपत्ये}*
न वा कल्पविरोधात्
न चैतद् अस्ति, गार्हपते वा पदार्थे राजन्यवैश्याव् इति. कल्पविरोधो हि स्यात्, यजमानचमसः सोममय एकेषाम्, फलमयचमस{*6।301*} एकेषाम्. तथा, ब्रह्मसाम बार्हद्गिरं ब्राह्मणानाम्, पार्थुरश्मं राजन्यानाम्, रायोवाजीयं वैश्यानाम्. तस्माद् गार्हपते निवेश इत्य् एतद् अपि नास्ति.
नोतेस्:
*{6।301: ए1,6; ए2: फलचमसमय}*
स्वामित्वाद् इतरेषाम् अहीने लिङ्गदर्शनम्
अथ यद् उक्तम्, लिङ्गदर्शनाद् इति. तत् परिहर्तव्यम्. अत्रोच्यते, अहीनम् एव सत्रशब्देन वक्ष्यति, यतः स्वामित्वम् ऋत्विजां विधीयते. अत ऋत्विजां स्वामित्वाद् राजन्यवैश्यानां सत्रं नावकल्पत इति. तस्माद् अहीने लिङ्गदर्शनम्.
वासिष्ठानां वा ब्रह्मत्वनियमात्
एतत् समधिगतं ब्राह्मणानाम् एव सत्रम्, न राजन्यवैश्यानाम् [736]{*6।302*} इति. अथेदानीम् इदं संदिग्धम्, किं सर्वेषां ब्राह्मणानाम्, उत वासिष्ठानां स, उत भृगुशुनकवसिष्ठान् वर्जयित्वान्येषाम् इति. किं प्राप्तम्. सर्वेषाम् अविशेषात्. न हि कश्चिद् विशेष आश्रीयते ऽमीषां ब्राह्मणानां सत्रम् अमीषां नेति. तस्मात् सर्वेषाम् इति.
एवं प्राप्ते ब्रूमः, वासिष्ठानां ब्रह्मत्वस्य नियमात्, वासिष्ठानां सत्रं स्यात्, नान्येषाम्. कुतः. ब्रह्मत्वस्य नियमो भवति, वासिष्ठो ब्रह्मा भवतीति, अतो वासिष्ठानाम्, तत् समानकल्पानां च सत्रं स्याद् इति.
नोतेस्:
*{6।302: ए2: 5,334; ए6: 2,193}*
सर्वेषां वा प्रतिप्रसवात्
सर्वेषां वा सत्रं स्यात्, अविशेषात्. ननु वासिष्ठो ब्रह्मेत्य् उच्यते. नेत्य् आह. पुनः प्रतिसूयते, य एव कश्चन स्तोमभागम् अधीयीत स एव ब्रह्मा भवेद् इति. वासिष्ठोपदेश इदानीं किम् अर्थ इति चेत्. स्तोमभागप्रशंसार्थः, स्तोमभागान् अधीयानो ऽवासिष्ठो ऽपि वासिष्ठकार्यं समर्थः कर्तुम् इति.
विश्वामित्रस्य हौत्रनियमाद् भृगुशुनकवसिष्ठानाम् अनधिकारः
भृग्वादीनाम् अनधिकारः स्यात्. कुतः. वैश्वामित्रस्य हौत्रं नियम्यते, विश्वामित्रो होता भवतीति. तस्माद् वैश्वामित्राणाम्, तैश् च समानकल्पानाम् अधिकार इति.
[737]{*6।303*}
नोतेस्:
*{6।303: ए2: 5,335; ए6: 2,194}*
विहारस्य प्रभुत्वाद् अनग्नीनाम् अपि स्यात्
सत्राण्य् एवोदाहरणम्, य एवं विद्वांसः सत्रम् आसते, य एवं विद्वांसः सत्रम् उपयन्तीति. तेषु संदेहः. किं साग्नीनाम् अन्ग्नीनां च तानि भवन्ति, उत साग्नीनाम् एवेति. किं प्राप्तम्. साग्नीनाम् अनग्नीनां च. कुतः. विहारस्य प्रभुत्वात्. प्रभवति हि परकीयो ऽपि विहारः सर्वेषाम् उपकर्तुम्. कर्तव्यो{*6।304*} हि तेन सिध्यतीति, स यदीयेन तदीयेन वा सिद्धिम् उपैति. तस्माद् अनग्नीनाम् अपि भवितुम् अर्हतीति.
नोतेस्:
*{6।304: ए1,6,ए2 (व्.ल्.); ए2: क्रत्वर्थो}*
सारस्वते च दर्शनात्
सारस्वते च सत्रे भवति दर्शनम्. पररथैर् वा एते स्वर्गं लोकं यन्ति, ये ऽनाहिताग्नयः सत्रम् आसत इति. अनाहिताग्नीनां सत्रं दर्शयति. तस्माद् अपि सर्वेषाम्.
प्रायश्चित्तविधानाच् च
प्रायश्चित्तं विधीयते, अग्नये विविचये ऽष्टाकपालं पुरोडाशं निर्वपेत्, यस्याहिताग्नेर् अन्यैर् अग्निभिर् अग्नयः संसृज्येरन्न् इति, संसर्गे ऽग्नीनां प्रायश्चित्तं दर्शयति. स एवं स्याद् अनाहितैः, नान्यथा. तस्माद् अप्य् अनग्नीनां सत्राणीति.
साग्नीनां वेष्टिपूर्वत्वात्
साग्नीनां वा सत्राणि, नानग्नीनाम्. कस्मात्. इष्टिपूर्वत्वात्, इष्टिपूर्वत्वं सोमानाम् आम्नातम्, दर्शपूर्णमासाव् इष्ट्वा सोमेन यजेतेति ज्योतिष्टोमस्येष्टिपूर्वत्वम्. तच् चो[738]{*6।305*}दकपरम्परया सत्राणि प्रति प्राप्तम्. तस्माद् अनग्नीनां तानि भवेयुर् इति.
नोतेस्:
*{6।305: ए2: 5,336; ए6: 2,195}*
स्वार्थेन च प्रयुक्तत्वात्
स्वार्थेन चाग्नयः प्रयुक्ताः. कथम्. उपग्रहविशेषात्, उपग्रहविशेषो हि भवति, अग्नीन् आदधीतेति. तस्माद् अन्यस्याग्निभिर् अन्यस्य न सिद्धिः, यद्य् अपि क्रत्वर्था अग्नय इति.
संनिवापं च दर्शयति
सावित्राणि होष्यन्तः संनिवपेरन्न् इति, तेनापि साग्नयः सत्राण्य् उपासत इति गम्यते. एवं लिङ्गपरिहाराव् अशिष्टे ऽधिकरणे ऽन्यच् चिन्त्यते.
जुह्वादीनाम् अप्रयुक्तत्वात् संदेहे यथाकामी प्रतीयेत
किं जुह्वादीनि पात्राणि कस्यचिद् एव यजमानस्य, उपादाय प्रयोगः कर्तव्यः, उतान्यानि साधारणानि कर्तव्यानि. किं{*6।306*} प्राप्तम्. यस्य{*6।307*} कस्यचिद् एव यजमानस्योपादाय प्रयोगः कर्तव्यः. कुतः. न हि स्वं पात्रं यजमानः प्रयुङ्क्ते. स्वेन पात्रेण प्रयोगः कर्तव्य इति. तस्मात् परकीयपात्रैर् अन्ये यजेरन्न् इति.
नोतेस्:
*{6।306: ए1,6; ए2: कर्तव्यानीति. अस्मिन् संशये, उच्यते. किं}*
*{6।307: ए1,6; ए2: प्राप्तम् जुह्वादिषु यथाकामी भवेत्. यस्य}*
अपि वान्यानि पात्राणि साधारणानि कुर्वीरन् विप्रतिषेधाच् छास्त्रकृतत्वात्
अपि वेति पक्षव्यावृत्तिः. नैतद् एवम्, अन्यानि हि पात्राणि साधारणानि कर्तव्यानि. कस्मात्. विप्रतिषेधात्, विप्रतिषेधो भवति{*6।308*}. कदाचित् तानि पात्राण्य् उपात्तानि भवेयुः. अथ मरणं कस्यचिद् यजमानस्यापद्येत, तत्र विप्रतिषेधः स्यात्, आहिताग्निम् अग्निभिर् दहन्ति यज्ञपात्रैश् चेति, यदि तं तैर् दहेयुः, इतरेषां यज्ञो विरुध्येत. अथ तैर् यज्ञं समापयेयुर्{*6।309*} इतरस्य शरीरसंस्काराः परिलुप्येरन्{*6।310*}, अन्येषु पुनः साधारणेषूपादीयमानेषु न किंचिद् अपि विरुध्येत. तस्मात् तथा कार्यम्{*6।311*} इति.
नोतेस्:
*{6।308: ए1,6; ए2: विप्रतिषेधो हि भवति}*
*{6।309: ए1 (व्.ल्.): तं पक्षं समवर्धेयुर्}*
*{6।310: ए2: शरीरसंस्कारः परिलुप्येत; ए2 (व्.ल्.), ए1,6: शरीरसंस्काराः परिलुप्येरन्}*
*{6।311: ए1 (व्.ल्.): न तथा कार्यम्}*
प्रायश्चित्तम् आपदि स्यात्
अथेदानीं पूर्वोक्तस्य लिङ्गस्य परिहार उच्यते. प्रायश्चित्तम् अस्मत्पक्षे परिकल्पिष्यते. कथम्. अरण्ये कान्तारे गच्छतां स्थितानां वा दस्युभयात् श्वापदभयाद् वा त्रासे जाते दावाग्निना वा संसृज्येरन्, मिथो वा स विषयः प्रायश्चित्तस्य भविष्यतीति.
[740]{*6।312*}
नोतेस्:
*{6।312: ए2: 5,337; ए6: 2,196}*
पुरुषकल्पेन वा विकृतौ कर्तृनियमः स्याद् यज्ञस्य तद्गुणत्वाद् अभावाद् इतरान् प्रत्येकस्मिन्न् अधिकारः स्यात्
अधरकल्पा{*6।313*} उदाहरणम्, आग्रयणेष्टिः पशुर् इत्येवंलक्षणकानि कर्माणि, येषु सप्तदश सामिधेन्यः, तेषु संदेहः. किं त्रयाणाम् अपि वर्णानाम् एभिः कर्मभिर् अधिकारः, उत वैश्यस्यैवेति. किं प्राप्तम्. एतस्यां विकृतौ पुरुषकल्पेन कर्ता नियम्येत. कुतः. यज्ञो{*6।314*} ऽयम् अध्वरकल्पादिः, एतत् संख्यागुणकः. इयं च संख्या वैश्यस्योक्ता, तेन{*6।315*} वैश्य एव एतत् कर्म कृत्स्नं कर्तुं समर्थः. सप्तदशगुणकम् एतत् कर्म, तच् च साप्तदश्यम् अवैश्येन क्रियमाणम् असाधु. इतरान् प्रति हि तन् न चोद्यते. तेन यजेतेत्य् असामर्थ्याद् ब्राह्मणक्षत्रियान् नाधिकरिष्यतीति.
नोतेस्:
*{6।313: ए1,6; ए2: अध्वरकल्पा}*
*{6।314: ए1,6; ए2: कुतः. यज्ञस्य तद्गुणत्वात्. यज्ञो}*
*{6।315: ए1,6; ए2: वैश्यस्योक्ता, सप्तदशानुब्रूयाद् वैश्यस्येति. तेन}*
लिङ्गाच् चेज्याविशेषवत्
लिङ्गं च भवति, यथा वैश्यस्य साप्तदश्यम् इति, सप्तदशो वैश्य{*6।316*} इति. तेन वैश्यस्य{*6।317*} साप्तदश्यम्. अतो वैश्यस्यैवंजातीयकानि कर्माणि, यथेज्याविशेषो वैश्यस्य भवति, वैश्यो वैश्यस्तोमेन यजेतेति, वैश्यसंबन्धात्. एवं साप्तदश्यं तस्यैवेति.
नोतेस्:
*{6।316: ए1,6; ए2: सप्तदशो वै वैश्य}*
*{6।317: ए1,6,ए2 (व्.ल्.); ए2: नावैश्यस्य}*
न वा संयोगपृथक्त्वाद् गुणस्येज्याप्रधानत्वाद् असंयुक्ता हि चोदना
न चैतद् अस्ति. पृथग् एतौ संयोगौ, एकं वाक्यं सप्तदश वैश्यस्य [741]{*6।318*} अनुब्रूयाद् इति. वाक्यान्तरम् अध्वरकल्पादिषु सप्तदशानुब्रूयाद् इति, स च गुण इज्याप्रधानो भवति, नेज्या गुणार्था. किम् अतः. यद्य् एवं यत्रेज्या, तत्र तद्गुणेन भवितव्यम्. न यत्र गुणः, तत्रेज्यया, वैश्यस्य गुणानुरोधेनेज्यापि. त्रयाणां वर्णानाम् इज्या. सा तत्र गुणम् आकाङ्क्षतीति{*6।319*}. अपि चेज्यागुणभूतस्यापरा चोदना{*6।320*}, न सा वैश्यसंयुक्ता. सा त्व् अवैश्यकं गुणं प्रत्याययति. प्रथमं सवैश्यकम् इति चेत्. न, वैश्यस्य प्रधानत्वात्. प्रधानभूतस् तत्र वैश्यः श्रूयते. तस्मात् सर्वाधिकारः.
नोतेस्:
*{6।318: ए2: 5,338; ए6: 2,196}*
*{6।319: ए1,6,ए2 (व्.ल्.); ए2: आकर्षतीति}*
*{6।320: ए2 (व्.ल्.): अपि च या गुणस्यापरा चोदना}*
इज्यायां तद्गुणत्वाद् विशेषेण नियम्येत
मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0