भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसासूत्र (टीका सहित) · अध्याय 6.5

6.5.1

यथा पूर्वः पक्षः, तथा सति, सांन्याय्ये सत्य् असति च शाखा [700]{*6।157*} विद्यत इत्य् उपवेषो सति चासति{*6।158*} च स्यात्. यथा तु सिद्धान्तः, तथा सांन्याय्यपक्षे शाखा सती हि प्रतिपाद्यत इति. तत्रैवोपवेषो नान्यत्रेति.
[701]{*6।159*}
नोतेस्:
*{6।157: ए2: 5,300; ए6: 2,171}*
*{6।158: ए2 ओम्. च}*
*{6।159: ए2: 5,300; ए6: 2,171}*
अभ्युदये कालापराधाद् इज्याचोदना स्यात् यथा पञ्चशरावे

6.5.2

इदम् आमनन्ति, वि वा एनं प्रजया पशुभिर् अर्धयति, वर्धयत्य् अस्य भ्रातृव्यम्, यस्य हविर् निरुप्तं पुरस्ताच् चन्द्रमा अभ्युदेति{*6।160*} त्रेधा{*6।161*} तण्डुलान् विभजेत्, ये मध्यमाः स्युः, तान् अग्नये दात्रे पुरोडाशम् अष्टाकपालं निर्वपेत्, ये स्थविष्ठास् तान् इन्द्राय प्रदात्रे दधंश् चरुम्, ये क्षोदिष्टाः, तान् विष्णवे शिपिविष्टाय शृते चरुम्{*6।162*} इति. तत्र संदेहः. किं कालापराधे यागान्तरम् इदं चोद्यते, उत तेष्व् एव प्रकृतेषु कर्मसु निमित्ते देवतापनयन इति.
किं प्राप्तम्. अभ्युदये, यः कालापराधः, तत्रेज्याचोदना स्यात्. कथम्. पुरोडाशम् अग्नये दात्रे मध्यमान् कुर्वते{*6।163*}, ये स्थविष्ठास् तान् इन्द्राय प्रदात्रे दधनि चरुं कुर्यात्, क्षोदिष्ठान् विष्णवे शिपिविष्टायेति, यजतिस्{*6।164*} तु फलभोक्तृसंयोगाद्{*6।165*} इति विधानं{*6।166*} गम्यते. यथा पञ्चशरावे द्रव्यदेवतासंबन्धेन कर्मान्तरं गम्यते, यथा पशुकामेष्ट्याम्, यः पशुकामः स्यात्, सो ऽमावास्यायाम् इष्ट्वा वत्सान् अपाकुर्यात्, ये स्थविष्ठाः, तान् अग्नये सनिमते ऽष्टाकपालं निर्वपेत्, ये मध्यमाः, तान् विष्णवे शिपिविष्टाय शृते चरुं ये ऽणिष्ठाः, तान् इन्द्राय प्रदात्रे दधंश् चरुम् इति. एवम् इहापीति. अपि च न प्रकृते द्रव्ये देवता [702]{*6।167*} श्रूय्ते, शृते चरुम् इति हि तत्र भवति वचनम्. न चाभ्युदयकाले श्रपणं कृतम् अस्ति, तस्मात् कर्मान्तरम्.
नोतेस्:
*{6।160: ए1,6; ए2: अभ्युदियात्}*
*{6।161: ए1,6; ए2: स त्रेधा}*
*{6।162: तैत्.स्. 2.5.5.2}*
*{6।163: ए1,6; ए2: कुर्यात्}*
*{6।164: ए1,6; ए2: शिपिविष्टाय शृते चरुम् इति. यजतिस्}*
*{6।165: ए1,6; ए2: द्रव्यफलभोक्तृसंयोगाद्}*
*{6।166: ए1,6; ए2: यागविधानं}*
*{6।167: ए2: 5,301; ए6: 2,171}*
अपनयो वा विद्यमानत्वात्

6.5.3

देवतापनयो वा. कुतः. विद्यमानत्वात्, विद्यन्ते हि कर्माणि प्रकृतानि, तेषु विद्यमानेषु पुनर् देवतासंबन्धो हविषो नोपपद्यते. यस्यानुपपत्त्या यागः कल्प्येत. तस्मान् न यागान्तरम्, तेष्व् एव हविःषु देवतान्तराणि विधीयन्ते.
तद्रूपत्वाच् च शब्दानाम्

6.5.4

देवतापनयसरूपाश् चामी शब्दा भवन्ति, ये मध्यमाः, तेषां देवतान्तरं विधीयते. तत्र द्रव्यं प्राप्तम्, अप्राप्ता देवता विधीयते. कथं पुनर् देवताविधानार्थे नानेकगुण्विधानदोषो जायेतेति. उच्यते, नैवात्रानेको गुणो विधीयते कस्मिंश्चिद् वाक्ये. तण्डुलान्{*6।168*} विभजेद् इत्य् अत्र तावद् विभागमात्रं विधीयते. अन्यत् सर्वम् अनूद्यते, तस्माद् अदोषः. ये मध्यमाः, तेषाम् अग्निर् देवता विधीयते, अन्यत् पुरोडाशाद्य् अनूद्यते. ये स्थविष्ठाः, तेषां दधिसहितानाम् इन्द्रो देवतास्मिन् वाक्ये विधीयते. तत्रार्थप्राप्ते{*6।169*} श्रपणे सति चरुता, सह सप्तम्यर्थेनार्थप्राप्तेनैवास्मिन् वाक्ये ऽनूद्यते. ये क्षोदिष्ठाः, तेषां शृतसहितानां विष्णुः शिपिविष्टो देवता विधीयते, अन्यत् सर्वम् अनूद्यते. तस्माद् अदोषः.
नोतेस्:
*{6।168: ए1,6; ए2: त्रेधा तण्डुलान्}*
*{6।169: ए1,6; ए2: तत्रार्धप्राप्ता}*
आतञ्चनाभ्यासस्य दर्शनात्

6.5.5

आतञ्चनाभ्यासं च दर्शयति. कथम्. एवं श्रूयते, यदि [703]{*6।170*} बिभीयाद् अभिमोदेष्यतीति महारात्रे हवींषि निर्वपेत्. फलीकृतैस् तण्डुलैर् उपासीत, अर्धं दधि हविर् आतञ्चनार्थं निदध्यात्, अर्धं न. यद्य् अभ्युदियाद् अनेनातच्य{*6।171*} प्रचरेत्, यद्य् उ न{*6।172*}, ब्राह्मणं{*6।173*} भोजयेद् इति. यदि कर्मान्तरम्, उपादेयत्वेन तदा तण्डुला दधि शृतं च. तस्माल् लौकिकान्य् उपादेयानि, न ह्य् एष तदा प्रकृतानां व्यापारः, तत्राविनष्टे दधनि, अपरेद्युर् आमावास्ये क्रियमाणे विद्यते दधीति नातञ्चनम् आवर्तेत. तस्याम् एवाभ्युदितेष्टौ दधि विद्यत इति नातञ्चनं स्यात्. अथ निमित्ते देवतापनयः, ततस् तस्मिन् दधनि चरुः कृत इति, पुनर् आमावास्ये दोहे आतञ्चनेन कार्यम्, एवम् आतञ्चनाभ्यासस्य दर्शनं देवताविधाने युज्यत इति.
नोतेस्:
*{6।170: ए2: 5,303; ए6: 2,172}*
*{6।171: ए1,6; ए2: अभ्युदि. यात् तेनातञ्च्य}*
*{6।172: ए2: यदि न}*
*{6।173: ए1,6; ए2: प्रातरेतेन ब्राह्मणं}*
अपूर्वत्वाद् विधानं स्यात्

6.5.6

अथ यद् उक्तम्, यथा पशुकामेष्ट्यां कर्मान्तरम्, यः पशुकामः स्यात्, सो ऽमावास्याम् इष्ट्वा वत्सान् अपाकुर्याद् इति. तत् परिहर्तव्यम्. तत्रोच्यते, युक्तं यत् तत्र कर्मान्तरविधानम्. कुतः. अपूर्वत्वात्, न तत्र कश्चित् पूर्वप्राप्तो यागो विद्यते, सो ऽमावास्याम् इष्ट्वेति हि परिसमाप्ते तस्मिन्न् इदम् आरभ्यते. तत्र द्रव्यदेवतासंयुक्तो निर्वपतिशब्दो नान्तरेणोत्सर्गम्, द्रव्यदेवतयोः संबन्धो विद्यत{*6।174*} इति यजतिं गमयति. न त्व् इहैवम्, इह हि यागः प्रकृतो गम्यते, तस्मिन्न् एव विद्यमानस्य द्रव्यस्य देवतासंबन्धमात्रं विधीयत इति न दोषो भवति.
नोतेस्:
*{6।174: ए1,6,ए2 (व्.ल्.); ए2: घटत}*
पयोदोषात् पञ्चशरावे ऽदुष्टं हीतरत्

6.5.7

अथ यद् उपवर्णितम्, यथा पञ्चशरावे कर्मान्तरं विधीयते, [704]{*6।175*} एवम् इहापीति, तत् परिहर्तव्यम् इति. अत्रोच्यते, युक्तं पञ्चशरावे कर्मान्तरम्. दुष्टं हि तत्र द्रव्यम्, यस्य देवता विधीयते. तत्रावश्यं द्रव्यम् उपादेयत्वेन चोदयितव्यम्, तस्मिन्न् उपादीयमाने देवतान्तरे चापूर्वः संबन्धो विधीयते, तद् यागान्तरं भवतीति. इतरद् इह द्रव्यम् अदुष्टम्, तद् अनूद्य, प्रकृते यागे देवता विधीयत इत्य् उक्तम्, तस्माद् अदोष इति.
नोतेस्:
*{6।175: ए2: 5,304; ए6: 2,173}*
सांन्याय्ये ऽपि तथेति चेत्

6.5.8

एवं चेत् पश्यसि, सांन्याय्ये ऽपि दोषः. तद् अपि ह्य् अभ्युदये तत्कालापभ्रंशाद् दुष्टम् इति.
न तस्यादुष्टत्वाद् अविशिष्टं हि कारणम्

6.5.9

नैतद् एवम्, पञ्चशरावे हि दुष्टं द्रव्यम्, इह तादृशम् एवावतिष्थते. ननु कालापभ्रंशेन दुष्टम्. न दुष्यति, अविशिष्टं हि कारणम्. अभ्युदये प्रायश्चित्तविधानं दुष्टे ऽप्य् उपपद्यते, कालापराधे ऽदुष्टे{*6।176*} ऽपि तत्. अकाले ह्य् अभिप्रवृत्तस्य शक्यते देवताविधानम्, न तु विनष्टस्य.
नोतेस्:
*{6।176: ए1,6,ए2 (व्.ल्.); ए2: कालापराधेनादुष्टे}*
लक्षणार्था शृतश्रुतिः

6.5.10

अथ यद् उक्तम्, न प्रकृते द्रव्ये देवता श्रूयते, शृते चरुम् इति तत्र भवति वचनम्, न चाभ्युदयकाले श्रपणं कृतम् अस्तीति, तत् परिहर्तव्यम्. अत्रोच्यते, लक्षणार्थेयं शृतश्रुतिः, धर्मलक्षणार्था{*6।177*} शृते, शृतसहचरितधर्मक इति.
[705]{*6।178*}
नोतेस्:
*{6।177: ए1 हत् धर्मलक्षणार्था इन् क्लम्मेर्न्}*
*{6।178: ए2: 5,305; ए6: 2,174}*
उपांशुयाजे ऽवचनाद् यथाप्रकृति

6.5.11

तस्मिन्न् एवाभ्युदये संशयः. किम् उपांशुयागे ऽपि देवतापनयो भवेन् नेति. किं प्राप्तम्. उपांशुयाजो यथाप्रकृति स्यात्. कस्मात्. अवचनात्, यथामीषु वचनम्, मध्यमानाम् अग्नये दात्रे पुरोडाशाः{*6।179*} स्थविष्ठानाम् इन्द्राय प्रदात्रे दधनि चरुः, क्षोदिष्ठानां विष्णवे शिपिविष्टाय शृते चरु इति. नैतद् उपांशुयाजे ऽस्ति. तस्मात् स यथादेवतं स्यात्.
नोतेस्:
*{6।179: ए1,6; ए2: पुरोडाशः}*
अपनयो वा प्रवृत्त्या यथेतरेषाम्

6.5.12

वाशब्दः पक्षं व्यावर्तयति. उपांशुयाजस्यापनयः. केन कारणेन. प्रवृत्त्या, अकाले तन्त्रप्रवृत्तिर् देवतापनयस्य कारणम्. कुत्ः. न ह्य् अत्राभ्युदये सति तण्डुला विभागार्थम् उपादीयन्ते. किं तर्हि. अभ्युदितस्य हविषो विभाग उच्यते, अभ्युदयेनापराह्नस्येति{*6।180*}. कथम् अवगम्यते. यस्याभ्युदियाद् इत्यविशेषश्रवणात्, सर्वस्यैव ह्य् अपराधेनाभ्युदेति, अपराधश् चाकाले तन्त्रप्रवृत्तिः. एवं च सति न तद् धविस् तण्डुलैः शक्यं विशेष्टुम्. तस्माद् उपांशुयागस्यापि{*6।181*} विभागः. त्रेधा तण्डुलान् विभजेद् इति ह्य् अनेन वाक्येन देवतापनयः क्रियते, विधिर् ह्य् अत्र विभजेद् इति. विभागं कुर्याद् इत्य् अर्थः{*6।182*}. कथम् इति. विभागे विशेषपराण्य् उत्तराणि वाक्यानि. इदम् इदं च द्रव्यम् अस्यै देवतायै, इदम् इदं चास्या इति. यस्य द्रव्यस्य विशेषविभागो नास्ति, तस्यापि विभजेद् इति सामान्यविभागः. तस्माद् यथैवेतरेषां विभागः, एवम् उपांशुयाजस्यापीति. अथवा, उपांशुयाजद्रव्यात् [706]{*6।183*} पूर्वेण वाक्येनापनीता देवता. न तद् अपरेण वाक्येन देवतान्तरे{*6।184*} संयोजितम्. तस्मात् प्रहीणम् एव तत्.
नोतेस्:
*{6।180: ए1; ए2: अभ्युदयेनापराद्धस्येति; ए6: अभ्युदयेनापराह्णस्येति}*
*{6।181: ए1,6; ए2: उपांशुयाजस्यापि}*
*{6।182: ए1 हत् विभागं कुर्याद् इत्य् अर्थः इन् क्लम्मेर्न्}*
*{6।183: ए2: 5,306; ए6: 2,174}*
*{6।184: ए1,6; ए2: देवतान्तरेण}*
निरुप्ते स्यात् तत्संयोगात्

6.5.13

अस्मिन्न् एवोदाहरणे संशयः. किं यदि निरुप्ते ऽभ्युदयो ऽवगम्यते, तदाभ्युदितेष्टिः, उतानिरुप्ते ऽपीति. किं प्राप्तम्. निरुप्ते ऽवगते ऽभ्युदितेष्टिः स्यात्. कुतः. तत्संयोगात्, निर्वापसंयोगो हि भवति, यस्य हविर् निरुप्तम् इति. तस्माद् अनिरुप्ते नैतद् विधानम् इति.
प्रवृत्ते वा प्रापणान् निमित्तस्य

6.5.14

वाशब्दः पक्षं व्यावर्तयति. अकाले तन्त्रप्रवृत्तिमात्रे स्याद् एतद् विधानम्. प्राप्तं हि तावत्य् एव निमित्तम्, यस्य हविर् अभ्युदेतीति हविर् ग्रहणं लक्षणत्वेन. यस्य हविर् अभ्युदेतीति हविर् लक्षित उदयो निमित्तम्, प्रवृत्तं हविर् लक्षयति, नोदासीनम्. तस्मात्, हविर् अभ्युदेतीत्य् उच्यमाने प्रवृत्तं हविर् अभ्युदेतीति गम्यते. न हि तन् निरुप्तम् इत्य् एतेन शक्यं विशेषयितुम्. भिद्येत हि तदा वाक्यम्. यस्य हविर् निरुप्तम्, नानिरुप्तम्{*6।185*} इत्य् एवम् अपेक्ष्यंआणे हविर् अभ्युदेतीति न शक्यते विधातुम्. तस्माद् अनिरुप्ते ऽपीष्टिर् इति.
नोतेस्:
*{6।185: ए1,6,ए2 (व्.ल्.); ए2 ओम्. नानिरुप्तम्}*
[707]{*6।186*}
नोतेस्:
*{6।186: ए2: 5,307; ए6: 2,175}*
लक्षणमात्रम् इतरम्

6.5.15

अथ यद् उक्तम्, निरुप्तसंयोगो भवति, यस्य हविर् निरुप्तम् इति, लक्षणमात्रम् एतन् निरुप्तम् इति. कस्मिंश्चित् पदार्थे तस्य प्रवृत्त इत्य् अर्थः.
तथा चान्यार्थदर्शनम्

6.5.16

अन्यार्थो ऽपि चैतम् अर्थं दर्शयति, स यद्य् अगृहीतं हविर् अभ्युदियात्, प्रज्ञातम् एव. तदैषा व्रतचर्या, यत् पूर्वेद्युर् दुग्धं दधि हविर् आतञ्चनं तत् कुर्वन्ति, प्रतिमुञ्चन्ति वत्सान्, तान् एव तत् पुनर् अपाकुर्वन्ति, तान् अपराह्णे पर्णशाखयापाकरोति. तद् यथैवादेः प्रज्ञातम् आमावास्यं हविर् एवम् एव तद् यद्य् उ व्रतचर्यां वा नोदाशंसेत, गृहीतं वा हविर् अभ्युदियाद् इतरथा तर्हि कुर्यात्, एतान् एव तण्डुलान् सकृत्फलीकृतान्{*6।187*} इति, अगृहीते हविष्य् अन्यं विधिं ब्रुवन् गृहीते ऽप्य् अनिरुप्ते वाभ्युदये प्रायश्चित्तं दर्शयति.
नोतेस्:
*{6।187: ए1,6; ए2: सुफलीकृतान्}*
अनिरुप्ते ऽभ्युदिते प्राकृतीभ्यो निर्वपेद् इत्य् आश्मरथ्यस् तण्डुलभूतेष्व् अपनयात्

6.5.17

प्रवृत्तमात्रं निमित्तम् इति स्थितम्. नैमित्तिकस् तु देवतापनयो देवतान्तरसंयोगश् च, किं निर्वापोत्तरकालं तण्डुलावस्थे हविषि कर्तव्यो निर्वापस् तु प्राकृतीभ्य एव स्यात्, ज्ञाते ऽभ्युदये, उत वैकृतीभ्य एवेति संशयः. किं तावत् प्राप्तम्. [708]{*6।188*} अनिरुप्ते ऽभ्युदिते प्राकृतीभ्यो निर्वपेद् इत्य् आश्मरथ्य आचार्यो मन्यते स्म. कुतः. तण्डुलभूतेष्व् अपनयात्. तण्डुलभूतेष्व् अपनयः श्रूयते, यस्य हविर् निरुप्तं पुरस्ताच् चन्द्रमा अभ्युदेति त्रेधा तण्डुलान् विभजेद् इत्य् अभ्युदयावगमाद् अनन्तरं तण्डुलविभागम् आह. सो ऽतण्डुलभूतेषु नावकल्पते. तस्माद् अनिरुप्ते तण्डुलाभावाद् अनपनीता देवताः प्राकृत्य इति प्राकृतीभ्य एव निर्वपेद् इति.
नोतेस्:
*{6।188: ए2: 5,308; ए6: 2,175}*
व्यूर्ध्वभाग्भ्यस् त्व् आलेखनस् तत्कारित्वाद् देवतापनयस्य

6.5.18

तुशब्दः पक्षं व्यावर्तयति. व्यूर्ध्वं या भजन्ते कर्म, ताभ्यो निर्वपेद् इत्य् आलेखन आचार्यो मन्यते स्म. कुतः. तत्कारित्वाद् देवतापनयस्य, यस्माद् अकाले तन्त्रप्रवृत्तिकारितो देवतापनयः, तस्माद् अपनीता देवतेति व्यूर्ध्वभाग्भ्यो निर्वप्तव्याः.
विनिरुप्ते न मुष्टीनाम् अपनयस् तद्गुणत्वात्

6.5.19

अथ प्रारब्धे चतुर्मुष्टिर्निर्वापे ऽपरिसमाप्ते भवति संशयः, यन् निरुप्तं तन् निरुप्तम् एव, अवशिष्टं किं प्राकृतीभ्यो निर्वप्तव्यम्, किं वैकृतीभ्यः, उत तूष्णीम् एवेति. किं प्राप्तम्. विनिरुप्ते सामिनिरुप्त इत्य् अर्थः{*6।189*}. न तत्र देवतापनयः स्यात्. कुतः. तद्गुणत्वात्, निर्वापस्य गुणो देवता, न मुष्टीनाम्, [709]{*6।190*} स च निर्वापस् तद् देवताकः. कुतः. चतुःसंख्यापूरणार्थत्वाद् अभ्यासमात्रं कर्तव्यम्. तच् चाभ्यासमात्रं पुनः क्रियते, पूर्वम् एव कृते तस्मिन् निर्वापे न देवतापनीता. स एवायं पुनः क्रियते, पुनर् अपि क्रियमानस्यानपनीतैव देवता भवितुम् अर्हतीति प्राकृतीभ्य एव निर्वप्तव्यम्. न चोत्तरो मुष्टिः पृथक् पदार्थः, येन देवतापनयो भवेत्. कृतस्य निर्वापस्य संख्यापूरणम् एतत् क्रियते. तस्माद् अनपनय इति.
नोतेस्:
*{6।189: ए1 हत् सामिनिरुप्त इत्य् अर्थः इन् क्लम्मेर्न्}*
*{6।190: ए2: 5,309; ए6: 2,176}*
अप्राकृतेन हि संयोगस् तत्स्थानीयत्वात्

6.5.20

न प्राकृतीभ्यो निर्वप्तव्यम्. काभ्यस् तर्हि. वैकृतीभ्यः. कुतः. अप्राकृतेन देवताविशेषेण संयोगः श्रूयते, नाधिकृतेन, त्रेधा तण्डुलान् विभजेद् इति प्राकृतीभ्य आच्छिद्य वैकृतीभ्यो निर्वप्तव्यो विधीयते, ता इदानीं तत्स्थानीयाः.
तस्माद् विनिरुप्ते निवृत्ता देवता अन्याः, अन्याश् चोपजाताः. तस्माद् वैकृतीनां संयोगेन निर्वापशेषः कर्तव्य इति.
अभावाच् चेतरस्य स्यात्

6.5.21

अभावाद् इतरस्यार्धस्य देवतासंयुक्तस्य, न निर्वापो भवति देवतासंयुक्तः. यदि निर्वापो ऽर्धं{*6।191*} अन्यदेवत्यो ऽर्धो ऽप्य् अन्यस्यै देवतायै, नैव निर्वाप इतरदेवताको वेतरदेवताको वा{*6।192*}. तस्मात् तूष्णीम् एव निर्वप्तव्यम्, अवश्यम् अन्यतरत्र संकल्पभेदो भवति.
[710]{*6।193*}
नोतेस्:
*{6।191: ए2: निर्वापे ऽर्धो}*
*{6।192: ए1,6; ए2: इतरदेवताकः प्राकृत इतरदेवताको वा}*
*{6।193: ए2: 5,310; ए6: 2,177}*
सांनाय्यसंयोगान् नासंनयतः स्यात्

6.5.22

अभ्युहितेष्टिर्{*6।194*} एवोदाहरणम्. तत्र श्रूयते, दधनि चरुं, शृते चरुम् इति. तत्र संदेहः. किं संनयतो भवत्य् अभ्युदये प्रायश्चित्तम्, उताविशेषेणेति. किं प्राप्तम्. संनयतो ऽभ्युदये प्रायश्चित्तम्. कुतः. सांनाय्यसंयोगात्, संन्याय्यसंयोगो हि भवति, शृते चरुम्, दधनि चरुम् इति, शृताद्यभावात्, नासंनयतो भवितुम् अर्हति, वैगुण्यं हि तथा स्यात्.
नोतेस्:
*{6।194: ए1; ए2,6: अभ्युदितेष्टिर्}*
औषधसंयोगाद् वोभयोः

6.5.23

वाशब्दः पक्षं व्यावर्तयति. उभयोर् अपि स्यात्, न केवलस्य संनयतः, औषधसंयोगात्{*6।195*}, ये मध्यमा ये स्थविष्ठा ये क्षोदिष्ठा इति भवत्य् औषधसंयोगः, स च शक्यो ऽसंनयतापीति. तस्मान् नासति कारणे ऽसंनयतो निवर्तेत. उभयोर्{*6।196*} अपि पक्षयोः प्रायश्चित्तम् इति.
नोतेस्:
*{6।195: ए1,6; ए2: संनयतः. कुतः. औषधसंयोगात्}*
*{6।196: ए1,6; ए2: अत उभयोर्}*
वैगुण्यान् नेति चेत्

6.5.25

इति यद् उक्तम्, असंनयतो दध्नः शृतस्य चाभावात् तदधिकरणता नास्ति. तस्माद् वैगुण्यं तस्मिन् पक्ष इति, तत् परिहर्तव्यम् इति.
नातत्संस्कारत्वात्।76.5.24॥
नैतद् एवम्. न हि दध्यधिकरण चरोः श्रपणे श्रूयते. किं तु यथा स्थविष्ठा इन्द्राय प्रदात्रे, एवं दध्य् अपि देवतासंबन्धार्थं [711]{*6।197*} विधीयते, न चरुसंबन्धार्थम् इति. भिद्येत हि तथा वाक्यम्, स्थविष्ठा देवतायै, दधनि च ते कर्तव्या इति. सप्तमीसंयोगस् तु प्राप्ते ऽर्थे ऽनुवादः. तस्माद् अविवक्षितं तेषां साहित्यम्, लक्षणत्वेन हि ते श्रूयन्त इति, न हि पयो दधि च नास्तीति स्थविष्ठानां न देवतापनयो भवति. असंनयतो ऽप्य् अर्थाद् अप्सु श्रपयिष्यत इति.
नोतेस्:
*{6।197: ए2: 5,311; ए6: 2,177}*
साम्युत्थाने विश्वजित्क्रीते विभागसंयोगात्

6.5.26

इदम् आमनन्ति, यदि सत्राय दीक्षिता अथ{*6।198*} साम्युत् तिष्ठेरन्, सोमम् अपभज्य विश्वजिता अतिरात्रेण सर्वस्तोमेन सर्वपृष्ठेन सर्ववेदसदक्षिणेन यजेरन्न् इति. तत्र संदेहः. किं क्रीतराजकस्योत्थाने विश्वजित्, उत प्रवृत्तमात्रस्येति. किं प्राप्तम्. साम्युत्थाने विश्वजित् क्रीते स्यात्. कुतः. विभागसंयोगात्, सोमम् अपभज्य विश्वजिता यजेरन्न् इति. ये ह्य् अक्रीते राजन्य् उत्तिष्टन्ति, तेषां सोमविभागाभावाद् वैगुण्यं स्यात्. तस्मात् क्रीतराजका उत्तिष्ठन्तो विश्वजितं कुर्युः.
नोतेस्:
*{6।198: ए2: दीक्षितानां; ए2 (व्.ल्.), ए1,6: दीक्षिता अथ}*
प्रवृत्ते वा प्रापणान् निमित्तस्य

6.5.27

वाशब्दः पक्षं व्यावर्तयति. प्रवृत्तमात्रस्योत्थाने स्यात्. कुतः. प्रापणान् निमित्तस्य, साम्युत्थानं निमित्तं विश्वजितः, [712]{*6।199*} तच् च प्राप्तम्, न च तच् छक्यं विशेषयितुम्, क्रीते सोमे{*6।200*} साम्युत्थानम् इति.
नोतेस्:
*{6।199: ए2: 5,312; ए6: 2,312}*
*{6।200: ए1,6; ए2: क्रीते यदि}*
आदेशार्थेतरा श्रुतिः

6.5.28

अथ यद् उक्तम्, अक्रीते राजन्य् उत्तिष्ठन्तो विभागाभावाद् विगुणं कुर्युर् इति. तत् प्रतिहर्तव्यम्. अत्रोचयते, न विभागो विधीयते. भिद्येत हि तथा वाक्यम्. साम्युत्थाने विश्वजिता यजेरन्, सोमस्य त्व् अपभागं{*6।201*} कृत्वेति. तेनापभज्येत्य् अनुवादः. कथम् प्राप्तिर् इति चेत्. अर्थाद् उत्तिष्ठतां विभागो भवति धनस्य. सो ऽयं सर्वद्रव्याणां विभागः सोमविभागेन लक्ष्यते, सोमं विभज्यान्यानि च द्रव्याणीत्य् आदेशार्थेतरा श्रुतिर् भवति. तस्मात् क्रीते चाक्रीते च राजन्य् उत्तिष्ठतां विश्वजिद् इति.
नोतेस्:
*{6।201: ए1,6; ए2: विभागं}*
दीक्षापरिमाणे यथाकाम्यविशेषात्

6.5.29

ज्योतिष्टोमं प्रकृत्य श्रूयते, एका दीक्षा, तिस्र उपसदः, पञ्चमीं प्रसुत{*6।202*} इति. तिस्रो दीक्षाः, द्वादश दीक्षा इति बहूनि दीक्षापरिमाणान्य् आम्नातानि. तेषु संदेहः. किम् अनियमः, यद् वा तद् वा परिमाणम् उपादेयम्, उत द्वादश दीक्षा इति. किं प्राप्तम्. दीक्षापरिमाणे यथाकामी स्यात्. नास्ति नियमः. कुतः. अविशेषात्, न कश्चन [713]{*6।203*} विशेष उपादीयते. तस्माद् यत्किंचित् परिमाणम् उपादेयम् इति.
नोतेस्:
*{6।202: ए1,6; ए2: पञ्चमी प्रसृत}*
*{6।203: ए2: 5,314; ए6: 2,179}*
द्वादशाहस् तु लिङ्गात् स्यात्

6.5.30

द्वादशाह एव परिमाणम् उपादीयेत. कुतः. लिङ्गात् सामर्थ्याद् इत्य् अर्थः{*6।204*}. किं सामर्थ्यम्. द्वादश रात्रीर् दीक्षितो भृतिं वन्वीतेति{*6।205*} नित्यवद् आम्नायते, न पाक्षिकम्. तद् एव नित्यं कुर्वन्, न शक्नोत्य् अन्यत् परिमाणम् उपादातुम्. तस्माद् द्वादशाह एव परिमाणं नियम्येत, अन्यानि परिमाणानि विकृतौ भविष्यतीति नैषाम् आनर्थक्यम् इति.
नोतेस्:
*{6।204: ए1 हत् सामर्थ्याद् इत्य् अर्थः इन् क्लम्मेर्न्}*
*{6।205: ए1,6; ए2: न्वतीवेति(?)}*
पौर्णमास्याम् अनियमो ऽविशेषात्

6.5.31

गवामयने श्रूयते, पुरस्तात् पौर्णमास्याश् चतुरहे दीक्षेरन्न् इति. तत्र संदेहः. कस्याः पौर्णमास्या इति. किं प्राप्तम्. पौर्णमास्याम् अनियम इति. कुतः. अविशेषात्, नात्र कश्चिद् विशेषवचनः शब्द उपादीयते.
आनन्तर्यात् तु चैत्री स्यात्

6.5.32

तुशब्दः पक्षं व्यावर्तयति. नैतत्, अनियम इति, चैत्री, पौर्णमासी तु भवेत्. कुतः. आनन्तर्यात्, पौर्णमासीम् उक्त्वानन्तरं वाक्यशेषे चैत्री संकीर्त्यते, पुरसात् पौर्णमास्याश् चतुरहे दीक्षेरन्. ऋतुमुखं वैषा पौर्णमासी संवत्स[714]{*6।206*}रस्य, या चैत्री पौर्णमासीति. अत्र संदिग्धेषु वाक्यशेषाद्{*6।207*} इति चैत्री नियम्येत.
नोतेस्:
*{6।206: ए2: 5,315; ए6: 2,179}*
*{6।207: म्स् 1.4.29}*
माघी वैकाष्टकाश्रुतेः

6.5.33

वाशब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति चैत्रीति. किं तर्हि. माघीति. कुतः. एकाष्टकाश्रुतेः, क्रये ह्य् एकाष्टकाश्रुतिर् भवति. तेषाम् एकाष्टकायां क्रयः संपद्यत इति. तस्मान् माघ्याः पुरस्ताच् चतुरहे दीक्षितस्यैकाष्टकायां क्रयः शक्यते कर्तुम्, न चैत्याः. तद् एतत् सामर्थ्यं नाम लिङ्गम्, तत् वाक्यस्य बाधकं भवति. तस्मान् माघी पौर्णमासीति.
अन्या अपीति चेत्

6.5.34

इति चेत् पश्यसि, माघी पौर्णमासी, एवम् एकाष्टकायां क्रयः संपत्स्यत इति. तन् न, असर्वा अष्टम्य{*6।208*} एकाष्टकाः, द्वादशैकाष्टका इति, तेन न दोषः.
नोतेस्:
*{6।208: ए1,6; ए2: सर्वा अप्य् अष्टम्य}*
न भक्तित्वाद् एषा हि लोके

6.5.35

नैतद् एवम्, भाक्तो ह्य् अन्यास्व् अष्टमीष्व् एकाष्टकाशब्दः. एषा हि मुख्या, या माघ्यां वृत्तायाम्{*6।209*}, मुख्यगौणयोश् च मुख्ये संप्रत्ययः. तस्मान् माघ्य् एव पौर्णमासीति.
नोतेस्:
*{6।209: ए1,6; ए2: वृत्ता}*
दीक्षापराधे चानुग्रहात्

6.5.36

एकाष्टकायां दीक्षेरन्, एषा वै संवत्सरस्य पत्नी, यद् एकाष्टका{*6।210*}, इत्य् उक्त्वा पुनः, चतुरहे पुरस्तात् पौर्णमास्या दीक्षां विधाय, तेषाम् एकाष्टकायां क्रयः संपद्यते, तेनैकाष्टकां [715]{*6।211*} न छंवट् कुर्वन्तीति, दीक्षातः प्रच्युताम् एकाष्टकां क्रयेण तु गृह्णन् माघ्याः पौर्णमास्या अधिकारं दर्शयति. अस्यां च माघ्याम् अष्टम्याम् अभीज्यमानायां भवति मन्त्रः,
यां जनाः प्रतिनन्दन्ति रात्रीं धेनुम् इवायतीम्।
संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली॥
इत्य्{*6।212*} अष्टकायै सुराधसे स्वाहेति, यासौ माघ्य् अष्टमी, ताम् एकाष्टकां दर्शयति.
नोतेस्:
*{6।210: तैत्.स्. 7.4.8.2}*
*{6।211: ए2: 5,316; ए6: 2,180}*
*{6।212: ए2 ओम्. इति}*
उत्थाने चानुप्ररोहात्

6.5.37

उत्थाने चानुप्ररोहं दर्शयति. तान् उत्तिष्ठत औषधयो वनस्पतयो ऽनुत्तिष्ठन्तीति{*6।213*}, वसन्त उत्थानं दर्शयति. तस्मिन्न् ओषधयो वनस्पतयश् चोत्तिष्ठन्ति. तस्माद् अपि सा नियम्यते.
नोतेस्:
*{6।213: तैत्.स्. 7.4.8.3}*
अस्यां च सर्वलिङ्गानि

6.5.38

आर्तं वा एते संवत्सरस्याभिदीक्षन्ते, य एकाष्टकायां दीक्षन्त{*6।214*} इति. आर्ता यस्मिन् काले भवन्ति, स आर्तः कालः. शीतेन चार्ता भवन्ति. तस्मान् माघ्य् अष्टम्य् एकाष्टकेति. तथा, व्यस्तं वा एते संवत्सरस्याभिदीक्षन्ते, य एकाष्टकायां दीक्षन्त इति. अयनपरिवृत्तिर् व्यस्तशब्देनोच्यते. तथा, अपो नाभिनन्दन्तो ऽवभृथम् अभ्यवयन्तीति चैत्र्यां दीक्षिता अभिनन्दन्तो ऽभ्यवेयुः. तस्माद् अपि माघी पौर्णमासीति.
[716]{*6।215*}
नोतेस्:
*{6।214: तैत्.स्. 7.4.8.1}*
*{6।215: ए2: 5,316; ए2: 2,180}*
दीक्षाकालस्य शिष्टत्वाद् अतिक्रमे नियतानाम् अनुत्कर्षः प्राप्तकालत्वात्

6.5.39

इदं श्रूयते, तस्माद् दीक्षितो न ददाति, न पचति, न जुहोतीति, ज्योतिष्टोमे समामनन्ति. यदि{*6।216*} तु दैवान् मानुषाद् वा प्रतिबलाद् दीक्षिताकाल उत्कृष्यते, तत्र संदेहः. किं दानहोमपाकानाम् उत्कर्षः, उत नेति. किं प्राप्तम्. अनुत्कर्षः, नियता हि दानहोमपाकाः, यावज् जीवम्, अग्निहोत्रं जुहोतीत्येवमादिभिः श्रुतिभिस् तेषाम् अपवादः, येष्व् अहःसु साङ्गो ज्योतिष्टोमो विहितः, तावन्त्य् अहानि मुक्त्वान्येष्व् अहःसु कर्तव्याः. ज्योतिष्टोमविधानकालात् परतो ऽप्रतिषिद्धाः. तस्मात् कर्तव्याः, प्राप्तो हि तेषां काल इति.
नोतेस्:
*{6।216: ए1,6; ए2: समामनन्ति, तिष्टो दीक्षा इत्येवमादि. यदि}*
उत्कर्षो वा दीक्षितत्वाद् अविशिष्टं हि कारणम्

6.5.40

वाशब्दात् पक्षो विपरिवर्तते. यद् उक्तम्, नैषम् उत्कर्ष इति, नैतद् एवम्. उत्कृष्टव्याः{*6।217*}. कुतः. दीक्षितत्वात्, दीक्षितस्य ते प्रतिषिद्धाः, न दीक्षितो यस्मिन् काले. लक्षणा हि एवं स्यात्, यथा तु वयं ब्रूमः, तथा श्रुतिः कारणम्. प्राक् चावभृथात्, अयं दीक्षित एव. अविशिष्टं हि कारणम्, यद् एव ज्योतिष्टोमविधानकाले, तद् एवातिक्रान्ते ऽपि. उभयत्र हि दीक्षितत्वं हि कारणम्. तस्मात् तेषाम् उत्कर्ष इति.
[717]{*6।218*}
नोतेस्:
*{6।217: ए2: उत्क्रष्टव्याः}*
*{6।218: ए2: 5,317; ए6: 2,181}*
तत्र प्रतिहोमो न विद्यते, यथा पूर्वेषाम्

6.5.41

तत्रोत्कृष्यमाणे ज्योतिष्टोमे{*6।219*}, अकृतेषु होमेषु किं परिसंख्याय होमाः कर्तव्याः, उत नेति. किं प्राप्तम्. परिसंख्याय होमाः क्रियेरन्. किं कारणम्. अवश्यकर्तव्यतया हि ते विहिता होमाः. अतिपन्ना अपि कर्तव्या एव. तथा ह्य् एषाम् अवश्यकर्तव्यता अनुगृहीता भविष्यति. प्रधानमात्रं तु नियतम्, नात्र कालानुरोधः कर्तव्यः, नदीवेगस्थानीयत्वात्. यद्य् अप्य् अतिक्रान्ताः कालाः, अतिक्रान्तानां परिसंख्याय प्रधानमात्राणि कर्तव्यानि, यथावश्यकर्तव्यं भुक्तिभृतकदानादि, यद् अतिक्रान्तं भवति, तत् परिसंख्याय क्रियते, एवम् इदम् अपीति.
एवं प्राप्ते ब्रूमः, तत्र प्रतिहोमो न विद्यते, यथा पूर्वेषाम्, कर्तव्यम् अकृत्वा कुर्यात्, नाकर्तव्यम्. अकर्तव्याश् चैते, प्रतिषिद्धत्वात्, यथा पूर्वेषाम् असति कालातिक्रमे ऽकृतानां न प्रतिहोमः, एवम् एषाम् अपीति.
नोतेस्:
*{6।219: ए1 (व्.ल्.) ज्योतिष्टोमकाले}*
कालप्राधान्याच् च

6.5.42

कालप्राधान्यं च भवति, निमित्तत्वेन तस्य श्रुतत्वात्. तदभावे विहितम् एव न भवति. प्रधानमात्रं यद्य् अपि नियम्येत, तथापि निमित्ते काले. स च नदीवेगस्थानीयः काले ऽतिक्रान्तः, अतो न प्रतिहोमः कर्तव्य इति.
[718]{*6।220*}
नोतेस्:
*{6।220: ए2: 5,318; ए6: 2,182}*
प्रतिषेधाच् चोर्ध्वम् अवभृथाद् एष्टेः{*6।221*}

6.5.43

ऊर्ध्वम् अवभृथाद् आ उदवसानीयाया इष्टेर् ये होमाः, तेष्व् अतिपन्नेषु दैवेन मानुषेण वा प्रतिबलेन भवति संशयः. किं प्रतिहोमः कर्तव्यः, उत नेति. किं प्राप्तम्. कर्तव्य इति, उन्मुक्तदीक्षो हि स तदा भवति, दीक्षाणाम् उन्मोचनार्थो ह्य् अवभृथः. तस्मात् कर्तव्याः, ते न कृता इति.
एवं प्राप्ते ब्रूमः, ऊर्ध्वम् अवभृथात्, आ उदवसानीयाया इष्टेः, अतिपन्नानां न प्रतिहोमः स्यात्. कुतः. प्रतिषेधात्, प्रतिषेधो हि भवति, एतया पुनराधेयसस्मितयेष्ट्याग्निहोत्रं{*6।222*} होतव्यम् इति, प्राग् उदवसानीयायाः, होमस्य प्रतिषेधः. यावद् उदवसानीयोत्कृष्यते, तावत् प्रतिषेधः. एवं श्रुतिः, इतरथा लक्षणा स्यात्. तस्माद् अकर्तव्याः, ते न कृता इति, न स्यात् प्रतिहोम इति.
नोतेस्:
*{6।221: ए6 (?); ए2,6: इष्टेः}*
*{6।222: ए1,6; ए2: आधेयसंमितयेष्ट्वाग्निहोत्रं}*
प्रतिहोमश् चेत् सायम् अग्निहोत्रप्रभृतीनि हूयेरन्

6.5.44

एतेष्व् एवोदाहरणेषु भवति संशयः. किं प्रतिहोमे सायम् अग्निहोत्रप्रभृतीन्य् आरभ्येरन्{*6।223*}, उत प्रातरग्निहोत्रप्रभृतीनीति. ननु नास्त्य् एव प्रतिहोम इति स्थितम्. उच्यते, अस्तीति कृत्वा चिन्तयामः. कृत्वा चिन्तेयम्, अन्येषु सदृशन्यायेषूदाहरणेष्व् अस्याः प्रयोजनम् अस्ति [719]{*6।224*} इति चिन्त्यते. किं प्राप्तम्. अनियमः, अर्थकृतत्वात्. एवं प्राप्ते ब्रूमः, यदि प्रतिहोमः क्रियते, सायम् अग्निहोत्रप्रभृतीनि हूयेरन्. कुतः{*6।225*}. सायम् अग्निहोत्राद् आरभ्यातिपन्नानि, तेनैवानुपूर्वेण प्रतिहोतव्यानीति.
नोतेस्:
*{6।223: ए1 (व्.ल्.) हूयेरन्}*
*{6।224: ए2: 5,319; ए2: 2,182}*
*{6।225: ए2 ओम्. सायम् अग्निहोत्रप्रभृतीनि हूयेरन्. कुतः}*
प्रातस् तु षोडशिनि

6.5.45

षोडशिसंस्थे सोमो ऽतिपन्नेषु{*6।226*} होमेषु संदेहः, किं सायम् अग्निहोत्रेणेति, उत प्रातर् इति{*6।227*}. किं प्राप्तम्. सायम् अग्निहोत्रेणेति पूर्वस्मिन्न् अधिकरण उक्तम्, उत्सर्गेण सर्वत्रैवम् इति प्राप्तम्. तथा प्राप्त उच्यते, प्रातस् तु षोडशिनि, षोडशिसंस्थे प्रातरग्निहोत्रादीन्य् अतिपन्नानीति प्रातरग्निहोत्राद् एव समारभ्यानीति.
नोतेस्:
*{6।226: ए1,6; ए2: ज्योतिष्टोमे ऽतिपन्नेषु}*
*{6।227: ए2: अग्निहोत्रेण प्रतिहोतव्यम् उत प्रातर् अग्निहोत्रेणेति}*
प्रायश्चित्तम् अधिकारे सर्वत्र दोषसामान्यात्

6.5.46

दर्शपूर्णमासयोः श्रूयते, भिन्ने जुहोति स्कन्ने जुहोतीति. तत्र किं दर्शपूर्णमासयोर् एवैतत्, भिन्ने स्कन्ने च प्रायश्चित्तम् उत यत्र भिद्यते स्कन्दति चेति. किं प्राप्तम्. [720]{*6।228*} प्रकरणे यत् प्रायश्चित्तम् एवंजातीय्कं किंचिद् उत्पन्नम्, तत् सर्वत्र यत्र यत्र भिद्यते स्कन्दति वा, तत्र तत्र स्यात्. कस्मात्. दोषसामान्यात्, समानं निमित्तं स्कन्दनं भेदनं वा. स एवात्र दोष इत्य् अभिप्रेतम्. प्रकरणाद् दर्शपूर्णमासयोः प्रायश्चित्तम्, वाक्याद् अन्यत्रापि, प्रकरणाच् च वाक्यं बलीयः. तस्मात् सर्वत्र स्कन्ने भिन्ने च प्रायश्चित्तम् इति.
नोतेस्:
*{6।228: ए2: 5,319; ए6: 2,183}*
प्रकरणे वा शब्दहेतुत्वात्

6.5.47

प्रकरण एव भिन्ने स्कन्ने वा प्रायश्चित्तम्. कुतः. शब्दहेतुत्वात्, तेन प्राकृतेनार्थेन सहैकवाक्यता, एषां होमानाम्. ततो होमवतो यागस्य प्रत्यायने प्रकृतो यजेतेति शब्दो हेतुः. एवं चेत् तदुपकारेणार्थवान् भविष्यतीति, इतरथा विना वाक्येन, फलं कल्पयितव्यं स्यात्. तस्मात् वाक्यं फलाभावेनैव बाधितम् इति कृत्वा प्रकरणम् अनुगृहीतव्यम् इति.
अतद्विकारश् च

6.5.48

न च, अतद्विकारो ऽग्निहोत्रं ज्योतिष्टोमो वा. न दर्शपूर्णमासविकारः. यदि तद्विकारो भवेत्, तत्रापि स्कन्ने भिन्ने वा प्रायश्चित्तं स्याद् इति.
व्यापन्नस्याप्सु गतौ यद् अभोज्यम् आर्याणां तत् प्रतीयेत

6.5.49

व्यापन्नम् अप्सु प्रहरतीति श्रूयते. किं व्यापन्नम् इत्य् उच्यत इति तद् अभिधीयते, व्यापन्नम्, दूषितं येन कार्येन [721]{*6।229*} क्रियते. किं तत्. यद् अभोज्यम् आर्याणाम्, केशकीटाव् अपन्नम्{*6।230*} अन्येन वोपघातेनोपहतम्, तद् व्यापन्नम् इति.
नोतेस्:
*{6।229: ए2: 5,320; ए6: 2,183}*
*{6।230: ए1,6; ए2: अभिधीयते, केशकीटाव् अपन्नम्, अन्येन वोपघातेनोपहतम्, तद्व्यापभोज्यम् आर्याणाम्, शेशकीटाव् अपन्नम्}*
विभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते

6.5.50

प्रस्तोत्रुद्गात्रोर्{*6।231*} उद्गातृप्रतिहर्तोर् वा यत्रापच्छेदः{*6।232*}. किं तत्र प्रायश्चित्तं स्यात्, नेति भवति संशयः. किं तावत् प्राप्तम्. प्रायश्चित्तं यौगपद्ये न विद्यते. कुतः. विभागश्रुतेः, विभक्ते ऽपच्छेदे प्रायश्चित्तम् आमनन्ति. अपच्छेदश् चायं विभागः, स उभाभ्यां साध्यते, इह चैकेन साध्यमाने श्रूयते प्रायश्चित्तम्, उद्गात्रा प्रतिहर्त्रा वा. न च यद् अपरेण सह क्रियते, तत् केवलेन कृतं भवति. यदि हि केवलेन कृतं स्यात्, तेन कृतम्{*6।233*}, अपरः किं कुर्यात्. तस्मान् न युगपद् अपच्छिन्नयोः प्रायश्चित्तम् इति.
नोतेस्:
*{6।231: ए1,6; ए2: ज्योतिष्टोमे प्रस्तोत्रुद्गात्रोर्}*
*{6।232: ए1,6; ए2: यत्र युगपद् अपच्छेदः}*
*{6।233: ए1,6; ए2: कृते}*
स्याद् वा प्राप्तनिमित्तत्वात् कालमात्रम् एकम्

6.5.51

स्याद् वा प्रायश्चित्तं यौगपद्ये ऽपि. प्राप्तं हि निमित्तम् अपच्छेद उद्गातुः प्रतिहतश्{*6।234*} च. यत्र हि द्वयोर् अपच्छेदः, तत्र द्वाव् अप्य् अपच्छिन्नौ, एको ऽप्य् अपरो ऽपि. संयुक्तस्य हि पृथग्भावो ऽपच्छेदः, स चोभयस्थो ऽपि. एकेनापि तत्रापच्छेदः क्रियते ऽनपेक्ष्यापरम्, अपरेणापि. कालमात्रं तु तत्रैकम्, न च [722]{*6।235*} कालैक्याद् अपच्छेदयोर् ऐक्यं भवति. तस्मात् प्रायश्चित्तं युगपद् अपच्छेदे ऽपि.
नोतेस्:
*{6।234: ए1; ए2,6: प्रतिहर्तुश्}*
*{6।235: ए2: 5,321; ए6: 2,184}*
तत्र विप्रतिषेधाद् विकल्पः स्यात्

6.5.52

यद्य् उद्गातृप्रतिहर्त्रोः युगपद् अपच्छेदो भवति, तत्र संदेहः. किम् अदाक्षिण्यम्, सर्वस्वं वा विकल्पः{*6।236*}, उत समुच्चय इति. किं प्राप्तम्. तत्र विप्रतिषेधाद् विकल्पः स्यात्. विरुद्धौ ह्य् एतौ कल्पौ, सर्वस्वम् अदाक्षिण्यं च. तस्माद् विकल्पो भवितुम् अर्हति.
नोतेस्:
*{6।236: ए1,6; ए2: वेति भवति विकल्पः}*
प्रयोगान्तरे वोभयानुग्रहः स्यात्

6.5.53

वाशब्दः पक्षं व्यावर्तयति. न चैतद् अस्ति, विकल्प इति, उभयोर् विधानात्. सर्वाङ्गोपसंहारी प्रयोगवचन एवम् उपपद्यते. विकल्पे हि पक्षे बाधः, तस्मात् समुच्चयः. अथ यद् उक्तम्, विरोधाद् विकल्प इति. उच्यते, प्रयोगान्तरे वोभयानुग्रहः स्यात्, तेन पुनर् यजेतेत्य् उच्यते. द्विस् तस्य प्रयोगः. तत्रैकस्मिन् प्रयोगे, एकः कल्पः. अन्यस्मिन्न् अपरो भविष्यति. एवम् अविरोधः, तस्माद् उभयं प्रायश्चित्तम् इति.
न चैकसंयोगात्

6.5.54

न चैतद् एवम्. कुतः. एकसंयोगात्, स एव यागः पुनः क्रियेत. यद्य् अन्यतरेण विना वैगुण्यम् इत्य् अवधार्येत, सर्वस्वे क्रियमाणे ऽदक्षिण्याभावाद् विगुणः स्यात्. नान्यस्मिन् प्रयोगे क्रियमाणे ऽन्यः प्रयोगो ऽनुगृह्यते, न चादाक्षिण्यस्य [723]{*6।237*} सर्वस्वदानस्य च प्राधान्यम्, गुणवता प्रयोगेण कर्म संबन्धयितव्यम्. तस्माद् विकल्पः.
नोतेस्:
*{6।237: ए2: 5,321; ए6: 2,185}*
पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत्

6.5.55

यत्रानुपूर्वेण भवत्य् अपच्छेदः, तत्र किं पूर्वनिमित्तं प्रायश्चित्तम्, उतोत्तरनिमित्तम् इति भवति संशयः. किं प्राप्तम्. पूर्वस्य बलीयस्त्वम्, पूर्वापच्छेदे यन् नैमित्तिकं प्राप्तम्, तस्मिन् सति तद्विरुद्धं न शक्यं कर्तुम्. न चाशक्यम् उपदेशार्हं भवति, पूर्वविज्ञानं प्राप्तम् इति न संशयः. तस्मात् तदविरोधेनान्यत् कार्यं न विरुद्धम्. क्व तर्हि तत् स्यात्. यत्र केवलं निमित्तम्. तस्मात् पूर्वविज्ञानं बलवत्.
एवं प्राप्ते ब्रूमः, पौर्वापर्ये पूर्वदौर्बल्यं स्यात्. कुतः. आख्यातेन हि यो ऽर्थः कर्तव्य इत्य् उच्यते, तत्रैतद् अनुबुद्धं यथा शक्येत, तथेति. तत् पूर्वविज्ञानबाधेन{*6।238*} शक्यते, नान्यथा. तेन पूर्वविज्ञानं बाधित्वेदं कर्तव्यम् इति भवति शब्दार्थः.
ननु पूर्वविज्ञान इदं उपपद्यते, यद् अन्यद् विरोधकं विज्ञानं भविष्यति, तन् मिथ्येति. अभूतं हि तन् न{*6।239*} शक्यम् आश्रयितुम्, इदं नाम तद् इति. न च, अप्रतिषिद्धे तस्मिन् न पूर्वविज्ञानं संभवति. तस्माद् अप्रतिषिद्धं भविष्यत्{*6।240*}, यदा तु तद् भवति, तदा पूर्वविज्ञानं बाधमानम् एवोत्पद्यते. तद् इदानीं बाधितं न शक्नोत्य् उत्तरं बाधितुम् इति, प्रकृतिवत्. यद् धि प्राकृतं वैकृतेन बाध्यते, तत्राप्य् एतद् एव कारणम्. नाबाधित्वा पूर्वविज्ञानं वैकृतं संभवतीति, प्राकृतं च पूर्वम्, यतो विकृतौ तद् अपेक्षा.
प्रत्यक्षत्वाद् वैकृतम् आनुमानिकं प्राकृतं बाधत इति [724]{*6।241*} चेत्. प्रत्यक्षत्वे ऽपि सति नैव बाधेत, यदि यथावर्णितो ऽयम् आख्यातार्थो न भवेत्. सति पूर्वविज्ञाने ऽशक्यत्वात् प्राकृतं{*6।242*} बाधेतैव. तस्मात् परबलीयस्त्वं न्याय्यम् एवेति.
नोतेस्:
*{6।238: ए2 (व्.ल्.): पूर्वविज्ञानं बाधित्वा}*
*{6।239: ए1,6; ए2: तत्र}*
*{6।240: ए1,6; ए2: भविष्यति}*
*{6।241: ए2: 5,323; ए6: 2,184}*
*{6।242: ए1,6; ए2: ऽशक्यत्वात् प्रत्यक्षं प्राकृतं}*
यद्य् उद्गाता जघन्यः स्यात् पुनर्यज्ञे सर्ववेदसं दद्याद् यथेतरस्मिन्

6.5.56

यदा प्रतिहर्तुः पूर्वम् अपच्छेदः तत उद्गातुः, तत्रादक्षिणेनेष्ट्वा{*6।243*} पुनर् यष्टव्यम्. तत्र संदेहः. पुनर् यागे किं द्वादशशतं दातव्यम् उत सर्वस्वम् इति. किं प्राप्तम्. द्वादशशतम्. कुतः. एवं ह्य् आम्नायते, तत्र तद् दद्यात्, यत् पूर्वस्मिन् दास्यन्{*6।244*} स्यात्{*6।245*}. पूर्वस्मिंश् च प्रयोगे ज्योतिष्टोमदक्षिणैव प्राप्ता. तस्माद् द्वादशशतम् इति.
एवं प्राप्ते ब्रूमः, तत्र पुनर्यज्ञे सर्वं{*6।246*} दद्यात्, यथेतरस्मिन् पूर्वस्मिन्न् अहनि सर्वस्वम्{*6।247*}. कथं तत्र सर्वस्वम् इति चेत्{*6।248*}. प्रतिहर्तुर् अपच्छेदात्. प्रतिहर्तर्य् अपच्छिन्ने द्वादशशतं बाधित्वा सर्वस्वं दास्यन्{*6।249*} भवति.
ननु पूर्वस्मिन्न् अहनि द्वादशशतम् अप्य् असौ दास्यन्न् आसीत्. सत्यम्, सर्वस्वदानेन त उभयं{*6।250*} प्रदत्तं भवति. तस्मात् तद् देयं. नन्व् अर्वाग् अपि द्वादशशतात् सर्वस्वम्. नैतद् एवम्, अधिकृते{*6।251*} द्वादशशते सर्वस्वम् अप्य् अधिकं भवति. अपि च पूर्वस्मिन्न् अहनि नैव द्वादशशतं दास्यन्{*6।252*} भवतीति{*6।253*}. एतावद् दास्यन्न्{*6।254*} इत्य् उच्यते, यस्योत्तरकाले तावद् दानं{*6।255*} भवति. न च, पूर्वस्मिन्न् अहनि द्वादशशतं दीयते, तस्मान् न तद् दास्यन्न्{*6।256*} इत्य् अवगम्यते, मिथ्याबुद्धिः सा, तत्त्वेन व्यवहारः.
[725]{*6।257*} ननु च सर्वस्वम् अपि प्रतिषिद्धं भवति, तद् अप्य् असौ न दास्यन्न् इति, साप्य् अस्य मिथ्याबुद्धिः. नेत्य् आह, साभ्यासस्य ज्योतिष्टोमस्य प्रयोगः. तत्र प्रथमप्रयोगे ऽदाक्षिण्यविरोधात् सर्वस्वं बाध्यते. द्वितीयप्रयोगे तद्दानं चोद्यते. तत्र विरोधो नास्ति, तस्यैव यज्ञस्य स एव प्रयोगः. प्रतिहर्ता च तस्मिन्न् अपच्छिन्न इति द्वादशशतं बाधित्वा सर्वस्वम् एव दास्यन्{*6।258*} भवति. तस्मात् सर्वस्वं तत्र देयम् इति.
नोतेस्:
*{6।243: ए1,6; ए2: तत्रादाक्षिण्येनेष्ट्वा}*
*{6।244: ए1,6; ए2: दास्यं}*
*{6।245: ए1,6; ए2: स्याद् इति}*
*{6।246: ए1,6; ए2: सर्वस्वं}*
*{6।247: ए1 हत् पूर्वस्मिन्न् अहनि सर्वस्वम् इन् क्लम्मेर्न्}*
*{6।248: ए1,6; ए2: चेन् न}*
*{6।249: ए1,6; ए2: दास्यं}*
*{6।250: ए1,6; ए2: तूभयं}*
*{6।251: ए1,6; ए2: अङ्गीकृते}*
*{6।252: ए1,6; ए2: दास्यं}*
*{6।253: ए2 ओम्. इति}*
*{6।254: ए2: एतावद् धि दास्यम्}*
*{6।255: ए2: दास्यं; ए2 (व्.ल्.), ए1,6: दानं}*
*{6।256: ए1,6; ए2: दास्यम्}*
*{6।257: ए2: 5,324; ए6: 2,186}*
*{6।258: ए1,6; ए2: दास्यं}*
अहर्गणे यस्मिन्न् अपच्छेदस् तद् आवर्तेत कर्मपृथक्त्वात्

मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc