भाषा

ENहिગુ
ग्रंथ पाठ

मीमांसासूत्र (टीका सहित) · अध्याय 1.2

1.2.1

अथ कथम् अवगम्यते नायम् उन्मत्तबालवाक्यसदृश इति. तथा [38]{*1।394*} हि पश्यामः - वनस्पतयः सत्रम् आसत, सर्पाः सत्रम् आसत इति. यथा - जरद् गवो गायति मत्तकानि, कथं नाम जरद् गवो गायेत. कथं वा वनस्पतयः सर्पा वा सत्रम् आसीरन्न् इति. उच्यते - विनियुक्तं हि दृश्यते, परस्परेण संबन्धार्थम्. कथम्. ज्योतिष्टोम इत्य् अभिधाय कर्तव्य इत्य् उच्यते. केनेत्य् आकाङ्क्षिते सोमेनेति. किम् अर्थम् इति, स्वर्गायेति. कथम् इति. इत्थम्, (अनयेति कर्तव्यतया){*1।395*} इति. एवम् अवगच्छन्तः, पदार्थैर् एभिः संस्कृतं पिण्डितं वाक्यार्थं कथम् उन्मत्तबालवाक्यसदृशम् इति वक्ष्यामः.
नन्व् अनुपपन्नम् इदं दृश्यते - वनस्पतयः सत्रम् आसत इत्येवमादि. नानुपपन्नम्. न, अनेन अग्निहोत्रं जुहुयात् स्वर्गकाम इत्य् एवमादयो ऽनुपपन्नाः स्युः. अपि च वनस्पतयः सत्रम् आसत इत्येवमादयो ऽपि नानुपपन्नाः, स्तुतयो ह्य् एताः सत्रस्य, वनस्पतयो नामाचेतना इदं सत्रम् उपासितवन्तः, किं पुनर् वृद्धांसो ब्राह्मणाः. तद् यथा लोके - सन्ध्यायां मृगा अपि न चरन्ति, किं पुनर् विद्वांसो ब्राह्मणा इति. अपि चाविगीतः सुहृदुपदेशः सुप्रतिष्ठितः कथम् इवाशङ्केतोन्मत्तबालवाक्यसदृश इति. तस्माच् चोदनालक्षणो ऽर्थो धर्म इति सिद्धम्.
[39]{*1।396*}
नोतेस्:
*{1।394: ए2: 1,124; ए5: 1,405; ए6: 1,27}*
*{1।395: इन् ए2 गेक्लम्मेर्त्; ए5 ओम्}*
*{1।396: ए2: 2,1; ए5: 2,1; ए6: 1,28}*
आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानां तस्माद् अनित्यम् उच्यते

1.2.2

सो ऽरोदीद् यद् अरोदीत्, तद् रुद्रस्य रुद्रत्वम्{*1।397*}; प्रजापतिर् आत्मनो वपाम् उदखिदत्{*1।398*}. देवा वै देवयजनम् अध्यवसाय दिशो न प्राजानन्{*1।399*} इत्येवमादीनि समाम्नातारः समामनन्ति वाक्यानि. तानि किं कंचिद् धर्मं प्रमिमते उत नेति भवति विचारणा. तद् अभिधीयते - क्रिया कथम् अनुष्ठेयेति तां वदितुं{*1।400*} समाम्नातारो वाक्यानि समामनन्ति. तद् यानि वाक्यानि क्रियां नावगमयन्ति क्रियासंबद्धं वा किंचित्, एवम् एव भूतम् अर्थम् अन्वाचक्षते - रुदितवान् रुद्रः; वपाम् उच्चिखेद प्रजापतिः; देवा वै दिशो न प्रजज्ञिर इत्येवंजातीयकानि, तानि कं धर्मं प्रमिमीरन्. अथोच्येत - अध्याहारेण वा विपरिणामेन वा व्यवहितकल्पनया वा व्यवधारणकल्पनया वा गुणकल्पनया वा कश्चिद् अर्थः कल्पायिष्यत इति. स कल्प्यमानः कः कल्प्येत - रुद्रः किल रुरोद, अतो ऽन्येनापि रोदितव्यम्. उच्चिखेदात्मवपां{*1।401*} प्रजापतिः, अतो ऽन्यो ऽप्य् उत्खिदेद् आत्मनो वपाम्. देवा वै देवयजनकाले दिशो न प्रज्ञातवन्तः, अतो ऽन्यो ऽपि दिशो न प्रजानीयाद् इति, तच् चाशक्यम्, इष्टवियोगेनाभिघातेन वा यद् बाष्पनिर्मोचनम्, तद् रोदनम् इत्य् उच्यते, न च, तद् इच्छातो भवति. न च कश्चि[40]{*1।402*}द् आत्मनो वपाम् उत्खिद्य ताम् अग्नौ प्रहृत्य तत उत्थितेन तूपरेण पशुणा यष्टुं शक्नुयात्. न च{*1।403*}, देवयजनाध्यवसानकाले केचिद् दिशो मुह्येयुः. अत एषाम् आनर्थक्यम्. तस्माद् एवंजातीयकानि वाक्यान्य् अनित्यानीत्य् उच्यन्ते, (यद्य् अपि च नित्यानि, तथापि न नित्यम् अर्थं कुर्वन्ति){*1।404*} इति. स एष वाक्यैकदेशस्याक्षेपः, न कृत्स्नस्य वाक्यस्य. नन्व् एकदेशाद् विना साकाङ्क्षः पदसमूहो न पर्याप्तः स्वस्मै प्रयोजनाय, अत आक्षिप्त एवेति. नैवम्, भवति हि कश्चित् पदसमूहः, यो ऽर्थवादेभ्यो विनापि विदधाति कंचिद् अर्थम्, यानि पुनस् तैः सह संयुज्यार्थान्तरे वर्तन्ते, तान्य् एकदेशाक्षेपेणाक्षिप्यते.
नोतेस्:
*{1।397: तैत्.स्. 1.5.1}*
*{1।398: तैत्.स्. 2.1.1}*
*{1।399: तैत्.स्. 6.1.5}*
*{1।400: ए4: हि तां वेदितुं}*
*{1।401: ए2: उच्चिखेदात्मनो वपां}*
*{1।402: ए2: 2,3; ए4: 1,3; ए5: 2,8; ए6: 1,28}*
*{1।403: ए2: न तु}*
*{1।404: इन् ए1 गेक्लम्मेर्त्}*
शास्त्रदृष्टविरोधाच् च

1.2.3

स्तेनं मनः. अनृतवादिनी वाग् इत्येवंजातीयकानां धर्मं प्रत्य् अप्रामाण्यम्, भूतानुवादात्. विपरिणामादिभिर् अपि कल्प्यमाने स्तेयं मृषोद्यं च कर्तव्यम् इत्य् आपतति. तच् चाशक्यं स्तेयानृतवादप्रतिषेधम् अबाधमानेनानुष्ठातुम्. न च विकल्पः, वैषम्यात्. एकः कल्प्यो विधिः, एकः प्रत्यक्षः.
अथ दृष्टविरोधः. तस्माद् धूम एवाग्नेर् दिवा ददृशे नार्चिः. तस्माद् अर्चिर् एवाग्नेर् नक्तं ददृशे न धूम इति{*1।405*}. अस्माल् लोकाद् उत्क्रम्याग्निर् आदित्यं गतः, रात्राव् आदित्यस्तम् इत्य् एतद् उपपादयितुम् इदम्, उभयम् अपि दृष्टविरुद्धम् उच्यते. तस्मान् नैषावधारणा सिध्यतीति. अपरो दृष्टविरोधः - न चैतद् विद्मो वयं [41]{*1।406*} ब्राह्मणा वा स्मः, अब्राह्मणा वेत्य्{*1।407*}{*1।408*} अक्रियार्थत्वाद् अनर्थकम्. अथायम् अर्थः - नैवैतज् ज्ञायते किं वा ब्राह्मणा वयम् उताब्राह्मणा एवेति, प्रत्यक्षविरुद्धम् अप्रमाणम्. अपरः शास्त्रदृष्टेन विरोधः - को हि तद् वेद, यद् अमुष्मिंल् लोके ऽस्ति वा, न वेति{*1।409*}. यदि प्रश्नो ऽयम्, अक्रियार्थत्वाद् अनर्थकः. अथानवकॢप्तिः, शास्त्रदृष्टेन विरोधः. अतः प्रत्यक्षविरुद्धम् अप्रमाणम्.
नोतेस्:
*{1।405: तैत्.ब्र्. 2.1.2.10, व्ग्ल् दzउ श्भ् अद् म्स् 1.2.12}*
*{1।406: ए2: 2,5; ए4: 1,19; ए5: 2,13; ए6: 1,29}*
*{1।407: तैत्.ब्र्. 2.1.2, गोप्.ब्र्. 5.21, मैत्.स्. 1.4.11}*
*{1।408: ए2 ओम्. स्मः, अब्राह्मणा वा}*
*{1।409: तैत्.स्. 6.1.1; 6.2.2, व्ग्ल्. श्भ् अद् म्स् 1.2.14}*
तथा फलाभावात्

1.2.4

गर्गत्रिरात्रब्राह्मणं प्रकृत्योच्यते - शोभते ऽस्य मुखं य एवं वेद इति{*1।410*} यदि भूतानुवादः, अनर्थकः. अथाध्ययनफलानुवादः, ततो ऽसदनुवादः. कालान्तरे फलं भविष्यतीति चेत्. न ह्य् अत्र प्रमाणम् अस्ति. विधिः स्याद् इति चेत्. नैष विधिपरः, द्रव्यसंस्कारकर्मस्व् इति{*1।411*} चिन्तयिष्यत्य् एतद् उपरिष्टात्, किं फलविद्धिर् उतार्थवाद इति. इह तु किं भूतानुवादः, क्रियार्थो वेति{*1।412*}. आस्य प्रजायां वाजी जायते य एवं वेदेति चोदाहरणम्.
नोतेस्:
*{1।410: ता.ब्र्. 20.16.6}*
*{1।411: म्स् 4.3.1}*
*{1।412: ए2,4,6 हबेन् zउस्äत्zलिछ्: तेन न फलविधित्वान् निराकृतस्येहानर्थको ऽर्थवादविचार इति, दिएस् इन् ए1 औछ् अल्स् fन्, ए5 ओम्}*
अन्यानर्थक्यात्

1.2.5

पूर्णाहुत्या सर्वान् कामान् अवाप्नोति{*1।413*}. पशुबन्धयाजी सर्वांल् लोकान् अभिजयति. तरति मृत्युम्, तरति ब्रह्महत्यां यो ऽश्वमेधेन यजते, य उ चैनम् एवं वेदेति{*1।414*}. यदि भूतानुवादमात्रम् अनर्थकम्. अथ फलविधिः, इतरेषाम् आनर्थक्यम्. न हि, अकृत्वा पूर्णाहुतिम् अग्निहोत्रादयः क्रियन्ते. न [42]{*1।415*} चानिष्ट्वाग्नीषोमीयेण सोमेन यजन्ते. न चाधीत्याश्वमेधेन यजन्ते. तद् यथा, पथि जाते ऽर्के मधूत्सृज्य, तेनैव पथा मध्वर्थिनः पर्वतं न गच्छेयुः, तादृशं हि तत्. अपि चाहुः -
अर्के चेन् मधु विन्देत, किम् अर्थं पर्वतं व्रजेत्।
इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नम् आचरेत्॥ इति{*1।416*}.
नोतेस्:
*{1।413: तैत्.ब्र्. 3.8.10}*
*{1।414: च्f. तैत्.ब्र्. 5.3.12.2}*
*{1।415: ए2: 2,8; ए4: 1,32; ए5: 2,16; ए6: 1,29}*
*{1।416: qउएल्ले उन्बेकन्न्त्}*
अभागिप्रतिषेधाच् च

1.2.6

न पृथिव्याम् अग्निश् चेतव्यो नान्तरिक्षे न दिवीत्य्{*1।417*} अप्रतिषेधभागिनम् अर्थं प्रतिषेधन्ति. विज्ञायत एवैतत्, अन्तरिक्षे, दिवि चाग्निर् न चीयत इति. पृथिवीचयनप्रतिषेधार्थं च यद् वाक्यम्, भवेच् चयनप्रतिषेधार्थम् एव तत्. अथाप्रमाणम्, नैष विरोधो भवति. कथं तत् प्रमाणम्, यद् विध्यन्तरम् आकुलयेत्, स्वयं चाकुलं स्यात्. न चेतव्यम्, हिरण्यं निधाय चेतव्यम् इति.
नोतेस्:
*{1।417: तैत्.स्. 5.2.7.1}*
अनित्यसंयोगात्

1.2.7

अनित्यसंयोगश् च (वेदप्रामाण्ये सति){*1।418*} परं तु श्रुतिसामान्यमात्रम् इति{*1।419*} परिहृतः. इदानीं वेदैकदेशानाम् आक्षिप्तानां पुनर् उपोद्बलक उत्तिष्ठति, बबरः प्रावाहणिर् अकामयतेति{*1।420*}.
नोतेस्:
*{1।418: इन् ए2,5 गेक्लम्मेर्त्}*
*{1।419: च्f. म्स् 1.1.21}*
*{1।420: च्f. तैत्.स्. 7.1.10.2}*
विधिना त्व् एकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः

1.2.9

अथोच्येत - प्राक् स्तुतिपदेभ्यः, निराकाङ्क्षाणि विधायकानि, विधिस्वरूपत्वात्, स्तुतिपदानि तु प्रमादपाठ इति. तन् न एवम्{*1।428*}, अर्थावगमात्, तुल्यं च सांप्रदायिकम्, संप्रदायः (प्रयोजनं){*1।429*} येषां धर्माणां सर्वे ते विधिपदानाम् अर्थवादपदानां च तुल्याः. अध्यायानध्यायते{*1।430*}, गुरुमुखात् प्रतिपत्तिः, शिष्योपाध्यायता च सर्वस्मिन्न् एवंजातीयके, अविघ्नार्थे तुल्यम् आद्रियन्ते. स्मरणं च दृढम्. अतो न प्रमादपाठ इति.
[45]{*1।431*}
नोतेस्:
*{1।428: ए2,4,5,6 सेत्zएन् दण्ड ओदेर् कोम्म वोर् एवम्}*
*{1।429: इन् ए1,5 गेक्लम्मेर्त्}*
*{1।430: ए1,2,5,6; ए4: अध्यायानध्ययने (औछ् इन् ए1 अल्स् fन्., दोर्त् नोछ्: अध्यायानध्यायता)}*
*{1।431: ए2: 2,23; ए4: 1,92; ए5: 2,27; ए6: 1,31}*
अप्राप्ता चानुपपत्तिः, प्रयोगे हि विरोधः स्यात्, शब्दार्तस् त्व् अप्रयोगभूतः, तस्माद् उपपद्येत

1.2.10

अपि च यैषानुपपत्तिर् उक्ता शास्त्रदृष्टविरोधाद् इत्येवमाद्या{*1।432*}, सा सो ऽरोदीद् इत्येवमादिषु न प्राप्नोति. कुतः? प्रयोगे हि स्तेयादीनाम् उच्यमाने विरोधः स्यात्, शब्दार्थस् त्व् अप्रयोगभूतः, तस्माद् उपपद्येत - स्तेनं मनः, अनृतवादिनी वाग् इति.
नोतेस्:
*{1।432: च्f. म्स् 1.2.2 उन्द् श्भ् दzउ}*
गुणवादस् तु

1.2.11

यद् उक्तम् - विधेयस्य प्ररोचनार्था स्तुतिर् इति{*1।433*}. तद् इह कथम् अवकल्प्येत यत्रान्यद् विधेयम्, अन्यच् च स्तूयते. यथा - वेतसशाखयावकाभिश् चाग्निं विकर्षतीति{*1।434*} वेतसावके विधीयेते, आपश् च स्तूयन्ते - आपो वै शान्ता इति{*1।435*}. तद् उच्यते - गुणवादस् तु. गौण एष वादो भवति, यत् संबन्धिनि स्तोतव्ये संबन्ध्यन्तरं स्तूयते. अभिजनो ह्य् एष वेतसावकयोः. ततस् ते जाते. अभिजनसंस्तवेन चाभिजातः स्तुतो भवति. यथा - अश्मकाभिजनो देवदत्तो ऽश्माकेषु स्तूयमानेषु स्तुतम्{*1।436*} आत्मानं मन्यते. एवम् अत्रापि द्रष्टव्यम्.
अथ सो ऽरोदीद् इति कस्य विधेः शेषः. तस्माद् बर्हिषि रजतं न देयम् इत्य्{*1।437*} अस्य. कुतः? साकाङ्क्षत्वात् पदानाम्. सो ऽरोदीत्, यद् अरोदीत्, तद् रुद्रस्य रुद्रत्वम् इत्य्{*1।438*} अत्र स इति प्रकृतापेक्षः, तत्प्रत्ययात्. तस्य यद् अश्र्व् अशीर्यतेति तस्येति पूर्वप्रकृतापेक्ष एव. उपपत्तिश् चोपरितनस्य यो बर्हिषि रजतं दद्यात् पुरास्य संवत्सराद् गृहे रोदनं भवतीति{*1।439*}. अस्य हेतुत्वेनायं प्रतिनिर्दिश्यते - तस्माद् बर्हिषि रजतं न देयम् इति. एवं सर्वाणि साकाङ्क्षाणि. कथं विधेर्{*1।440*} उपकुर्वन्तीति. [46]{*1।441*} गुणवादेन. रोदनप्रभवं रजतं बर्हिषि ददतो रोदनम् आपद्यते. तत् प्रतिषेधस्य गुणः, यद् अरोदनम् इति. कथं पुनर् अरुदत्य् अरोदीद् इति भवति? कथं वानश्रुप्रभवे रजते ऽश्रुप्रभवम् इति वचनम्? पुरास्य संवत्सराद् असति रोदने, कथं रोदनं भवतीति? तद् उच्यते - गुणवादस् तु. गौणा एते शब्दाः. रुद्र इति रोदननिमित्तस्य शब्दस्य दर्शनाद् यद् अरोदीद् इत्य् उच्यते. वर्णसारूप्यान् निन्दन्न् अनश्रुप्रभवम् अप्य् अश्रुप्रभवम् इत्य् आह. निन्दन्न् एव च धनत्यागे दुखदर्शनात् पुरास्य संवत्सराद् गृहे रोदनं भवतीत्य् आह.
तथा - यः प्रजाकामः पशुकामो वा स्यात्, स एतं प्राजापत्यं तूपुरम् आलभेत इति{*1।442*}, आकाङ्क्षितत्वाद् अस्य विधेः शेषो ऽयम् - स आत्मनो वपाम् उदखिदद् इति{*1।443*}. कथं गुणवादः? इत्थं नाम - नासन् पशवः, यद् आत्मनो वपाम् उदखिदद् इति. एतच् च कर्मणः सामर्थ्यं यद् अग्नौ प्रहृतमात्रायां वपायाम् अजस् तूपुर उदगात्, इत्थं बहवः पशवो भवन्तीति. कथं पुनर् अनुत्खिन्नायां वपायां प्रजापतिर् आत्मनो वपाम् उदखिदद् इत्य् आह. उच्यते - असद् वृत्तान्तान्वाख्यानं स्तुत्यर्थेन प्रशंसाया गम्यमानत्वात्. इहान्वाख्याने वर्तमाने द्वयं निष्पद्यते{*1।444*} - यच् च वृत्तान्तज्ञानम्, यच् च कस्मिंश्चित् प्ररोचना द्वेषो वा. तत्र वृत्तान्तान्वाख्यानं न प्रवर्तकं न निवर्तकं चेति प्रयोजनाभावाद् अनर्थकम् इत्य् अविवक्षितम्. प्ररोचनया तु प्रवर्तते द्वेषान् निवर्तत इति तयोर् विवक्षा. वृत्तान्तान्वाख्याने ऽपि विधीयमाने आदिमता दोषो वेदस्य प्रसजेत. कथं पुनर् इदं निरालम्बनम् अन्वाख्यायत इति. उच्यते - नित्यः कश्चिद् अर्थः प्रजापतिः स्याद् वायुः, आकाशः, आदित्यो वा. स आत्मनो वपाम् उदखिदद् इति वृष्टिम्, वायुम्, रश्मिं वा. ताम् अग्नौ प्रागृह्णात्, वैद्युते, आर्चीसे, लौकिके वा. ततो ऽज इत्य् अन्नम्, बीजम्, विरुद् वा. तम् आलभ्य तम् उपयुज्य प्रजाः पशून् प्राप्नोतीति गौणाः शब्दाः.
आदित्यः प्रायणीयश् चरुर् आदित्य उदपनीयश् चरुर् इत्य्{*1।445*} अस्य विधेः शेषः - देवा वै देवयजनम् अध्यवसाय दिशो न प्राजानन्न् इति, आकाङ्क्षितत्वात्. सर्वव्यामोहानाम् आदित्यश् चरुर् नाशयिता, अपि दिङ्मोहस्येति स्तुतिः. कथम् असति दिङ्मोहे दिङ्मोहशब्द इति. उच्यते - अप्राकृतस्य बहोः कर्मसमूहस्योपस्थितत्वाद् गौणो मोहशब्दो ऽवधारणावकाशदानादिभिर् ज्ञापयतीति गौणता.
नोतेस्:
*{1।433: च्f. श्भ् अद् म्स् 1.2.7}*
*{1।434: तैत्.स्. 5.4.4}*
*{1।435: तैत्.स्.5.4.4}*
*{1।436: ए1: स्तूतम्, लिएस् मित् ए2,4,5,6: स्तुतम्}*
*{1।437: तैत्.स्. 1.5.1.2}*
*{1।438: एबेन्द}*
*{1।439: एबेन्द}*
*{1।440: ए1: विधर्, लिएस् मित् ए2,4,5,6: विधेर्}*
*{1।441: ए2: 2,25; ए4: 95; ए5: 2,30; ए6: 1,32}*
*{1।442: तैत्.स्. 2.1.1.4।5}*
*{1।443: तैत्.स्. 2.1.1.4}*
*{1।444: ए1: निष्यद्यते, लिएस् मित् ए2,4,5,6: निष्पद्यते; ए1 (fन्.): आपतति}*
*{1।445: तैत्.स्. 6.1.5.1}*
रूपात् प्रायात्

1.2.12

हिरण्यं हस्ते भवति, अथ गृह्णातीति{*1।446*} साकाङ्क्षत्वाद् अस्य विधेः शेषः - स्तेनं मनो ऽनृतवादिनी वाग् इति. निन्दावचनं हिरण्यस्तुत्यर्थेन यथा - किम् ऋषिणा, देवदत्त एव भोजयितव्यः. कथं पुनर् अस्तेनं मनो निन्दितुम् अपि स्तेनशब्देनोच्यते, वाचं चाननृतवादिनीम् अप्य् अनृतवादिनीति ब्रूयत्. गुणवादस् तु रूपात्. यथा - स्तेनाः प्रच्छन्नरूपाः, एवं च मन इति गौणः शब्दः. प्रायाच् चानृतवादिनी वाग् इति.
[48]{*1।447*}
नोतेस्:
*{1।446: च्f. मैत्.स्. 4.8.2.3}*
*{1।447: ए2: 2,28; ए4: 1,112; ए5: 2,32; ए6: 1,33}*
दूरभूयस्त्वात्

1.2.13

दृष्टविरोध{*1।448*} उदाहरणम् - तस्माद् भूम एवाग्नेर् दिवा ददृशे नार्चिः{*1।449*}. तस्माद् अर्चिर् एवाग्नेर् नक्तं ददृशे, न धूम इति अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहेति सायं जुहोति, सूर्यो ज्योतिर् ज्योतिः सूर्यः स्वाहेति{*1।450*} प्रातर् इति मिश्रलिङ्गमन्त्रयोर् विधानस्याकाङ्क्षितत्वाच् छेषः. उभयोर् देवतयोः संनिधाने होम इति स्तुतेर् उपपत्तिः. दूरभूयस्त्वाद् धूमस्याग्नेश् चादर्शने गौणः शब्दः.
नोतेस्:
*{1।448: ए1: इष्टविरोधे, लिएस् मित् ए2,4,5,6 (उन्द् ए1, स्.40।17, zउ म्स् 1.2.2): दृष्टविरोध}*
*{1।449: ए1, स्.40।17, तैत्.ब्र्. 2.1.2.10}*
*{1।450: वाज्.स्. 3.9}*
अपराधात्{*1।451*} कर्तुश् च पुत्रदर्शनम्

1.2.14

दृष्टविरोध एवोदाहरणम् - न चैतद् विद्म इति{*1।452*}. तत् प्रवरे प्रव्रियमाणे देवाः पितर इति ब्रूयाद् इत्य्{*1।453*} आकाङ्क्षितत्वाद् अस्य विधेः शेषः. अब्राह्मणो ऽपि ब्राह्मणः प्रवरानुमन्त्रणेन स्याद् इति स्तुतिः. दुर्ज्ञानत्वाद् अज्ञानवचनं गौणम्. स्त्र्यपराधेन कर्तुश् च पुत्रदर्शनेन. अप्रमता रक्षत तन्तुम् एनम् इत्यादिना दुर्ज्ञानम्.
नोतेस्:
*{1।451: ए1,6; ए2,4,5 (बेस्सेर्): स्त्र्यपराधात्; औछ् ए1 हत् दिएसे लेसर्त् इम् कोम्मेन्तर्}*
*{1।452: ए1, स्.40।21, उ.अ. मैत्.स्. 1.4.11}*
*{1।453: मैत्.स्. 1.4.11}*
आकालिकेप्सा

1.2.15

शास्त्रदृष्टविरोधे उदाहरणम् - को हि तद् वेदेति{*1।454*}, दिक्ष्वती काशान् करोतीति{*1।455*} साकाङ्क्षत्वाद् अस्य विधेः शेषः. प्रत्यक्षफलत्वेन स्तुतिः. अनन्वकॢप्तिवचनं विप्रकृष्टकालफलत्वाद् गौणम्.
नोतेस्:
*{1।454: ए1, स्.41।3, तैत्.स्. 6.1.1.1}*
*{1।455: एबेन्द}*
विद्याप्रशंसा

1.2.16

तथा फलाभावाद् इत्य्{*1।456*} अत्रोदाहृतम् - शोभते ऽस्य मुखम् इति{*1।457*}. गर्गत्रिरात्रविधेर् आकाङ्क्षितत्वाच् छेषः. [49]{*1।458*} वेदानुमन्त्रणस्य चास्य प्रजायां वाजी जायत इति शेषः. मुखशोभा वाजिमत्त्वं च गुणवचनत्वाद् गौणः शब्दः. शोभत इव शिष्यैर् उदीक्ष्यमाणम्. कुले संतताध्ययनश्रवणान् मेधावी जायत इति स प्रतिग्रहाद् अन्नं प्राप्नोतीति.
नोतेस्:
*{1।456: म्स् 1.2.3}*
*{1।457: ए1, स्.41।8, ता.ब्र्. 20.16.6}*
*{1।458: ए2: 2,30; ए4: 1,120; ए5: 2,33; ए6: 1,34}*
सर्वत्वम् आधिकारिकम्

1.2.17

अन्यानर्थक्यवाक्य उदाहरणम् - पूर्णाहुत्या सर्वान् कामान् अवाप्नोतीति{*1।459*}, पूर्णाहुतिं जुहोतीत्य् आकाङ्क्षितत्वाद् अस्य विधेः शेषः. य उ चैनम् एवं वेदेति, तरति मृत्युम् इत्य्{*1।460*} अस्याकाङ्क्षित्वाच् छेषः. फलवचनं स्तुतिः. सर्वकामफलस्य निमित्ते सर्वकामाव् आप्तिवचनं गौणम्. असर्वेषु सर्ववचनम् अधिकृतापेक्षम्.
नोतेस्:
*{1।459: ए1, स्.41।17, zउ म्स् 1.2.4, तैत्.ब्र्. 3.8.10}*
*{1।460: तैत्.स्. 5.3.12.2}*
फलस्य कर्मनिष्पत्तेस् तेषां लोकवत् परिमाणतः फलविशेषः स्यात्

1.2.18

अन्वारुह्य वचनम् इदं{*1।461*} यद्य् अपि विधिः, तथाप्य् अर्थवत्ता परिमाणतः सारतो वा फलविशेषात्.
नोतेस्:
*{1।461: ए1, स्.49।6: पूर्णाहुत्या सर्वान् कामान् अवाप्नोतीति}*
अन्त्ययोर् यथोक्तम्

1.2.19

अभागिप्रतिषेधाद् इत्यादाव् उदाहृतम् - न पृथिव्याम् अग्निश् चेतव्यो नान्तरिक्षे न दिवीति{*1।462*}, हिरण्यं निधाय चेतव्यम् इत्य्{*1।463*} आकाङ्क्षितत्वाद् अस्य विधेः शेषः. पृथिव्यादीनां निन्दा हिरण्यस्तुत्यर्था. असति प्रसङ्गे प्रतिषेधो नित्यानुवादः. यच् चानित्यदर्शनं बबरः प्रावाहणिर् अकामयत इति{*1।464*}. तत्परिहृतम्. अर्थवादाक्षेपेण पुनर् उत्थितम् इदानीम् अर्थवादप्रामाण्ये तेनैव परिहारेण परिहरिष्यत इति॥
[50]{*1।465*}
नोतेस्:
*{1।462: तैत्.स्. 5.2.7.1, zइतिएर्त् इन् श्भ् अद् म्स् 1.2.5}*
*{1।463: तैत्.स्. 5.2.7.3}*
*{1।464: च्f. म्स् 1.2.6, तैत्.स्. 7.1.10.2}*
*{1।465: ए2: 2,33; ए4: 1,129; ए5: 2,34; ए6: 1,35}*
विधिर् वा स्याद् अपूर्वत्वात्, वादमात्रं ह्य् अनर्थकम्

1.2.20

इह ये विधिवन् निगदा अर्थवादास् ते अर्थवादास् ते उदाहरणम् - औदुम्बरो यूपो भवत्य् ऊर्ग् वा उदुंबर ऊर्क् पशव ऊर्जैर् वास्मा ऊर्जं पशून् नाप्नोति ऊर्जो ऽवरुद्ध्या इति{*1।466*}. किम् अस्य विधिः कार्यम् उतास्यापि स्तुतिर् इति. किं तावत् प्राप्तम्? विधिर् वा स्याद् अपूर्वत्वात्, वादमात्रं ह्य् अनर्थकम्. विधिवन् निगदेष्व् एवंजातीयकेषु फलविधिः स्यात्, फलं ह्य् अवगम्यते, तथा ह्य् अपूर्वम् अर्थं विधास्यति. इतरथा स्तुतिवादमात्रम् अनर्थकं स्यात्. स्तुतश् चास्तुतश् च तावान् एव सो ऽर्थः. अपि च ऊर्जो ऽवरुद्ध्या इति प्रयोजनं श्रूयते. न च - प्रशस्तो ऽयम् अर्थ इति कश्चिच् छब्दो ऽस्ति. लक्षणया तु स्तुतिर् गम्यते. श्रुतिश् च लक्षणाया ज्यायसीति.
नोतेस्:
*{1।466: च्f. तैत्.स्. 2.1.1.6}*
लोकवद् इति चेत्

1.2.21

इति चेत् पश्यसि - स्तुतिर् अनर्थिका, न च शब्देनावगम्यत इति. लौकिकानि वाक्यानि भवन्तो विदां कुर्वन्तु. तद् यथा - इयं गौः क्रेतव्या देवदत्तीया, एषा हि बहुक्षीरा, स्त्र्यपत्या, अनष्टप्रजा चेति. क्रेतव्येत्य् अप्य् उक्ते गुणाभिधानात् प्रवर्तन्तेतरां क्रेतारः. बहुक्षीरेति च गुणाभिधानम् अवगम्यते. तद्वद् वेदे ऽपि भविष्यति.
न पूर्वत्वात्

1.2.22

नैतद् एवम्. लोके विदितपूर्वा अर्था उच्यन्ते बहुक्षीरादयः. तेषां विज्ञानम् एव न प्रयोजनम्. अतः प्रशंसा गम्यते. अविदितवादे न श्रद्दधीरन् पूर्ववचनाद् इव. विदितत्वाद् एव च प्ररोचयन्ते. वैदिकेषु पुनर् यदि विधिशब्देन न प्ररोचयन्ते न तराम् अर्थवादेन. जाताशङ्को हि विधिशब्दे स तदानीम्. अथ विधिशब्देन प्ररोचितः, किम् अर्थवादशब्देन. अपि च वेदे व्यक्तम् असंवादः. ऊर्जो ऽवरुद्ध्यै इत्य् अप्रसिद्धं वचनम्. ऊर्ग्वा उदुम्बर इति हेतुत्वं चाप्रसिद्धम्. यस्माद् ऊर्ग् उदुम्बरः, तस्मात् तन्मयो यूपः कर्तव्य इति. ऊर्ग् उदुम्बर इत्य् अनृतवचनाद् अन्यद् अस्यानृतम् इति परिकल्प्येत.
उक्तं तु वाक्यशेषत्वम्

1.2.23

उक्तम् अस्माभिर् वाक्यशेषत्वम् - विधिना त्व् एकवाक्यत्वाद् इति{*1।467*}. ननूक्तम् - फलवचनम् इह गम्यते न स्तुतिर् इति. यद् इह फलवचनम्, तद् औदुम्बरस्य यूपस्य. न च, अविहित औदुम्बरो यूपो ऽस्ति. तत्र फलवचनम् एवानर्थकम्. स्तुतिवचनः शब्दो नास्तीति चेत्. इह फलवचनेन फलवत्ता प्रतीयते फलवांश् च प्रशस्त इति, तत्र फलवत्तायाम् आनर्थक्यम् इति यो द्वितीयो ऽर्थः प्रशंसा नाम स गम्यते. लक्षणेति चेत्, न, लक्षणायाम् अप्य् अर्थवत्ता भवत्य् एव. लक्षणापि हि लौकिकी. ननूक्तम् असंवादो वेदे, न ह्य् ऊर्ग् उदुम्बर इति. गुण वादेन प्ररोचनार्थतां ब्रूमहे - गौणत्वात् संवादः. किं? सादृश्यम् - यथान्नं प्रीतेः साधनम्, एवम् इदम् अपि प्रीतिसाधनशक्तियुक्तं प्रशंसितुं{*1।468*} प्रशंसावाचिना शब्देनोच्यते{*1।469*}, शक्यते हि तत् पक्वफलसंबन्धाद् ऊर्ग् इति वक्तुम्.
[52]{*1।470*}
नोतेस्:
*{1।467: च्f. म्स् 1.2.7}*
*{1।468: ए1,5,6; ए2,4 ओम्. प्रशंसितुं}*
*{1।469: ए1,5; ए2,4,6 ए1 (fन्.): प्रीतिसाधनशब्देनोच्यते}*
*{1।470: ए2: 2,40; ए4: 1,151; ए5: 2,40; ए6: 1,36}*
विधिश् चानर्थकः क्वचित्, तस्मात् स्तुतिः प्रतीयेत, तत्सामान्याद् इतरेषु तथात्वम्

1.2.24

अप्सुयोनिर् वा अश्वः, अप्सुजो वेतस इति{*1।471*} अप्सुयोनिर् अश्वः कर्तव्य इति विधेर् अशक्यत्वाद् आनर्थक्यम्. तत्रावश्यं स्तुतिः कल्पयितव्या, शमयित्रीभिर् अद्भिर् अश्वस्यावकानां च संबन्धो यजमानस्य कष्टं शमयतीति. तत्सामान्याद् इतरेषु तथात्वम् - तथेति यावत्, तावत् तथात्वम् इति. किं तत् सामान्यम्. विध्यसंभवः स्तुतिसंभवश् च.
नोतेस्:
*{1।471: तैत्.स्. 5.3.12}*
प्रकरणे संभवन्न् अपकर्षो न कल्प्येत, विध्यानर्थक्यं हि तं प्रति

1.2.25

इतश् च पश्यामः स्तुतिर् इति. कुतः? इदं समामनन्ति - यो विदग्धः, स नैरृतः; यो ऽशृतः, स रौद्रः. यः शृतः, स दैवतः. तस्माद् अविदहता श्रपयितव्यः, स दैवतत्वायेति{*1।472*}. यदि स्तुतिर् दर्शपूर्णमासयोर् एव शृतः स्ताविष्यते. तथा संभवन्न् अपकर्षो न कल्प्येत. अपकृष्यते इत्य् अपकर्षः. विधिपक्षे तु यत्र नैरृतः, तत्र विदग्धता नीयेत. तथा सति प्रकरणं बाधितं भवेद्. दर्शपूर्णमासकर्म प्रति नैरृताभावाद् विदग्धानम् अनर्थकं स्यात्. तस्मात् स्तुतिर् एव.
नोतेस्:
*{1।472: तैत्.स्. 2.6.3}*
विधौ च वाक्यभेदः स्यात्

1.2.26

औदुम्बरो यूपो भवतीति विधाव् एतस्मिन्न् आश्रीयमाणे ऊर्जो ऽवरुद्ध्या इत्य्{*1।473*} एतस्मिंश् च वाक्यं भिद्येत. इत्थम् औदुम्बरो यूपः प्रशस्तः, स चोर्जो ऽविरुद्ध्या इति. तस्माद् विधिवन् निगदानाम् अपि स्तुतिर् एव कार्यम् अर्थवादानाम् इति.
[53]{*1।474*}
नोतेस्:
*{1।473: व्ग्ल्. तैत्.स्. 2.1.1.6}*
*{1।474: ए2: 2,42; ए4: 1,159; ए5: 2,44; ए6: 1,37}*
हेतुर् वा स्याद् अर्थवत्त्वोपपत्तिभ्याम्

1.2.27

अथ ये हेतुवन् निगदाः - सूर्पेण{*1।475*} जुहोति, तेन ह्य् अन्नं क्रियत इत्येवमादयः{*1।476*}. तेषु संदेहः - किं स्तुतिस् तेषां कार्यम् उत हेतुर् इति. किं प्राप्तम्. हेतुः स्याद् अन्नकरणं होमस्य.
नन्व् अप्रसिद्धे कार्यकारणभावे न हेतूपदेशः{*1।477*}. सत्यम् एवं लोके, विधायिष्यते तु वचनेन वेदे. सूर्पेण{*1।478*} होमे कर्तव्ये ऽन्नकरणं हेतुर् इत्य् उपदिश्यते. किं प्रयोजनम्. अन्यद् अपि दर्विपीठराद्य्{*1।479*} अन्नकरणं यत्, तेनापि नाम कथं होमः क्रियेतेति. कुतः. तस्याप्य् अन्नक्रियायाम् अर्थवत्ता, शक्यते च तेनाप्य् अन्नं कर्तुम्. एताद् धि क्रियत इत्य् उच्यते. न हि वर्तमानकालः कश्चिद् अस्ति यस्यायं प्रतिनिर्देशः. हेतौ च श्रुतिः शब्दः{*1।480*}, स्तुतौ लक्षणा. यदि च दर्विपीठरादि{*1।481*} न साक्षाद् अन्नं करोतीति, नान्नकरणम् इत्य् उच्यते. व्यर्थे तस्मिन् सूर्पस्तुतिर्{*1।482*} अनर्थिका स्यात्. सूर्पम्{*1।483*} अपि हि न साक्षाद् अन्नं करोतीति, तेन विनार्थेन सूर्पस्य{*1।484*} स्तुतिर् नोपपद्यते.
नोतेस्:
*{1।475: ए2,4,5,6 (रिछ्तिग्): शूर्पेण}*
*{1।476: तैत्.ब्र्. 1.6.5}*
*{1।477: ए1,5,6; ए2,4: हेत्वपदेशः}*
*{1।478: ए2,4,5,6: शूर्पेण}*
*{1।479: ए2,4: दर्विपिठरादि; ए5: दर्वीपीठरादि; ए6: दर्वीपिठरादि}*
*{1।480: ए2,4 ओम्. शब्दः}*
*{1।481: ए2,4: दर्विपिठरादि उ.ö.; व्ग्ल्. fन्. 377}*
*{1।482: ए2,4,5,6: शूर्पस्तुतिर्}*
*{1।483: ए2,4,5,6: शूर्पम् उ.ö}*
*{1।484: ए2।4: शूर्पस्य}*
स्तुतिस् तु, शब्दपूर्वत्वाद् अचोदना च तस्य

1.2.28

न त्व् एतद् अस्ति, शब्दपूर्वको ऽयम् अर्थः। अन्नकरणं हेतुर् इति, शब्दश् चान्नकरणं सूर्पहोमे हेतुर् इत्य् आह. न च दर्विपीठरहोमे, तेन शब्दपूर्वं सूर्पम्, न च दर्विपिठरादेश्{*1।485*} चोदना.
नोतेस्:
*{1।485: ए1 हत् हिएर् उन्द् नछ्fओल्गेन्द् कुर्zएस् इ wइए ए2,4}*
व्यर्थे स्तुतिर् अन्यायेति चेत्

1.2.29

इति पुनर् यद् उक्तम्, तत् परिहर्तव्यम्.
[54]{*1।486*}
नोतेस्:
*{1।486: ए2: 2,45; ए4: 1,171; ए5: 2,48; ए6: 1,37}*
अर्थस् तु विधिशेषत्वात्, यथा लोके

1.2.30

अस्मत्पक्षे ऽर्थो ऽस्ति. वाक्यशेषो हि स विधेस् तदा भवति. संवादश् च स्तुतिवचनत्वेन, यथा वयं सूर्पेणान्नं क्रियमाणं जानीमः, तथा सूर्पेणान्नं क्रियत इत्य् एव गम्यते. तदा चावर्तमानं स्तौतुं{*1।487*} वर्तमानम् इत्य् उपदिशति. त्वत्पक्ष एष दोषः, यस्य ते हेतुविधिः. विधौ हि न परः शब्दार्थः प्रतीयते. न च वर्तमानम् उपदिशन् वेदः शक्यम् अर्थं विदध्यात्. आस्मत्पक्षे तु एष परशब्दः परत्र वर्तते. यथा लोके बलवान् देवदत्तो यज्ञदत्तादीन् प्रसहत इति. प्रकृष्टबले ऽपि बलवच् छब्दो वर्तमानो न सिंहं शार्दूलं वापेक्ष्य प्रयुज्यते, ये देवदत्तात् तु निकृष्टबलाः, तानपेक्ष्य भवति. एवं तेन ह्य् अन्नं क्रियत इति प्रकृष्टान्नकरणेन संस्तवः सूर्पस्य{*1।488*}, निकृष्टान्य् अन्यान्य् अन्नाकरणान्य् अपेक्ष्य भविष्यति.
नोतेस्:
*{1।487: ए2,4,5,6: स्तोतुं}*
*{1।488: ए2: शूर्पपय (?)}*
यदि च हेतुर् अवतिष्ठेत निर्देशात्, सामान्याद् इति चेद् अव्यवस्था विधीनां स्यात्

1.2.31

यद्य् अपि च भवेद् अन्नकरणं हेतुर् दर्विपिठरप्रकाराणाम्, तथापि सूर्प एतावतिष्ठेत. शब्दाद् अन्नकरणं हेतुर् इति विज्ञायते. शदश् च सूर्पस्याह, न दर्वीपिठरादीनाम्. तद् धि निर्दिश्यते, यस्मात् सूर्पेणान्नं क्रियते, तस्मात् सूर्पेण जुहोतीति. यथा यस्माद् बलवद् उपध्मातो ऽग्निः, तेन मे गृहं दग्धम् इति, नानग्निर् अपि बलवद् उपध्मातो दहतीति गम्यते. अथ मतम् - येन येनान्नं क्रियते प्रणाड्या सूर्पाद् अन्येनापि, तेन तेनापि होमः क्रियत इति. अव्यवस्था विधीनां स्यात्, न केनचित् प्रणाड्यान्नं क्रियते. तत्र यावद् उक्तं स्याज् जुहोतीति, तावद् एवान्नकरणेन जुहोतीति. अस्मत्पक्षे पुनः सूर्पं स्तूयते - तेन ह्य् अन्नं क्रियत इति वृत्तान्तान्वाख्यानं न च वृत्तान्तज्ञापनाय, किं तर्हि प्ररोचनायैव. तस्माद् धेतुवन् निगदस्यापि स्तुतिर् एव कार्यम् इति.
तदर्थशास्त्रात्

1.2.32

{*1।489*}
अथेदानीं किम् विवक्षितवचना मन्त्राः, उताविवक्षितवचनाः. किम् अर्थप्रकाशनेन यागस्योपकुर्वन्ति, उतोच्चारणमात्रेणेति. यद्य् उच्चारणमात्रेण, तदा न नियोगतो{*1।490*} बर्हिर् देवसदनं दामीत्य्{*1।491*} एष बर्हिर्लवने विनियुज्येत. अभिधानेन चेत्, प्रकरणेन विज्ञाताङ्गभावो{*1।492*} नान्यत्रोपकर्तुं शक्नोतीत्य् अन्तरेणापि वचनम्, बर्हिर्लवन एव विनियुज्येतेति. तद् एवम् अवगच्छामः -उच्चारणमात्रेणैवोपकुर्वन्तीति. कुतः? तदर्थशास्त्रात्. यद् अभिधानसमर्थो मन्त्रः, तत्रैवैनं शास्त्रं निबध्नाति. उरुप्रथा उरु प्रथस्वेति{*1।493*} पुरोडाशं प्रथयतीति{*1।494*} वचनम् इदम् अनर्थकम्, यद्य् अर्थाभिधानेनोपकुर्वन्ति. अथोच्चारणमात्रेण, ततो वक्तव्यो विनियोगः, उक्तश् च. अतो नार्थाभिधानेन. यथा साक्षः पुरुषः परेण चेन् नीयते, नूनम् अक्षिभ्यां न पश्यतीति गम्यते.
नन्व् अर्थवादार्थं भविष्यतीति चेत्. न हि, येन विधीयते तस्य वाक्यशेषो ऽर्थवाद इत्य् उक्तम्. न च निरपेक्षेण विहिते ऽर्थवादेन किंचिद् अपि प्रयोजनं क्रियते. अतो नार्थवादार्थं वचनम्.
तथाभ्यादानसमर्था मन्त्रा{*1।495*} उदाहरणम्. लिङ्गाद् एवादाने प्राप्ता वचनेन विधीयन्ते, तां चतुर्भिर् आदत्त{*1।496*} इति. चतुःसंख्यार्थम् इति चेत्, न, समुच्चयशब्दाभावात्. [56]{*1।497*} तथा, इमाम् अगृभ्णन् रसनामृतस्येत्य्{*1।498*} अश्वाभिधानीम् आदत्त इत्य्{*1।499*} उदाहरणम्. रसनादाने{*1।500*} प्राप्तस्य{*1।501*} रसनादान{*1।502*} एव शास्त्रं विनियोजकम्. तद् विवक्षितार्थत्वे न घटेतेति.
ननु गर्दभरसनां{*1।503*} परिसंख्यास्यति. न शक्नोति परिसंख्यातम्{*1।504*}. परिसंचक्षाणो हि स्वार्थं च{*1।505*} जुह्यात्, परार्थं च कल्पेत, प्राप्तं च बाधेत. तस्मान् न विवक्षितवचना मन्त्राः. अतो न प्रमाणं बर्हिर्देवसदनं दामीत्य् अस्य रूपं बर्हिर्लवने विनियोगस्य.
नोतेस्:
*{1।489: ए2,4 zäह्लेन् म्स् 1.2.31-39 निछ्त् अल्स् एइगेने सूत्रस्, दरौस् एर्गिब्त् सिछ् एइने उन्तेर्स्छिएद्लिछे zäह्लुन्ग्}*
*{1।490: ए4: नियोगता}*
*{1।491: मैत्.स्. 1.1.2}*
*{1।492: ए4: निर्ज्ञाताङ्गभावो}*
*{1।493: वाज्.स्. 1.22, तैत्.स्. 1.1.8.1}*
*{1।494: तैत्.ब्र्. 3.2.8.4}*
*{1।495: च्f. तैत्.स्. 1.1.3.4}*
*{1।496: तैत्.स्. 5.1.1}*
*{1।497: ए2: ब्द्.2, स्.49-56 fएह्लेन्; ए4: 1,180; ए5: 2,54; ए6: 1,39}*
*{1।498: ए4,5,6 (बेस्सेर्): रशनामृतस्येत्य्}*
*{1।499: श्प्ब्र्. 13.1.2.21., तैत्.स्. 5.1.2.1}*
*{1।500: ए4,5,6: रशनादाने}*
*{1।501: च्f. तैत्.स्. 4.1.2.1, माध्य्.स्. 12.2}*
*{1।502: ए4,5,6: रशनादान}*
*{1।503: ए4,5,6: गर्दभरशनां}*
*{1।504: ए4,5,6 (रिछ्तिग्): परिसंख्यातुम्}*
*{1।505: ए4 ओम्. च}*
वाक्यनियमात्

1.2.33

नियतपदक्रमा हि मन्त्रा भवन्ति. अग्निमूर्धा दिव इति{*1।506*}, न विपर्ययेण. यद्य् अर्थप्रतायनार्थाः, विपर्ययेणाप्य् अर्थः प्रतीयत इति नियमो ऽनर्थकः स्यात्. अथोच्चारणविशेषार्थाः, विपर्यये ऽन्यद् उच्चारणम् इति नियम आश्रीयते. तेन यतरस्मिन्{*1।507*} पक्षे नियमो ऽर्थवान्, स नूनं पक्ष इति. नन्व् अर्थवत्स्व् अपि नियमो दृश्यते. यथा - इन्द्राग्नीति. युक्तं तत्र तत्, विपर्यये ऽर्थप्रत्ययाभावात्.
नोतेस्:
*{1।506: तैत्.स्. 1.5.5.1}*
*{1।507: ए1,5,6; ए4: तेनान्यतरस्मिन्}*
बुद्धशास्त्रात्

1.2.34

बुद्धे खल्व् अपि पाठाद् अर्थे तदभिधानसमर्थो मन्त्रो भवति. अग्नीद् अग्नीन् विहरेद्{*1।508*} इति{*1।509*}. स बुद्धे किं बोधयेत्. अथ नूच्चारणविशेषार्थाः{*1।510*}, बुद्धे ऽप्य् उच्चारणविशेषो ऽवकल्प्येतेति. ननु पुनर्वचनात् संस्कारविशेषो भविष्यति. एवम् अस्मत्पक्षम् एवाश्रितो ऽसि. वचनम् उच्चारणम्. तद् धि शक्यते कर्तुं नार्थप्रत्यायनम्. तत् प्रतीते ऽशक्यम्. यथा सोपानत्के पादे द्वितीयाम् उपानहम् अशक्यत्वान् नोपादत्ते.
[57]{*1।511*}
नोतेस्:
*{1।508: ए4,5,6: विहर}*
*{1।509: तैत्.स्. 3.2.9}*
*{1।510: ए1,5,6; ए4: तूच्चारणविशेषार्थाः}*
*{1।511: ए4: 1,180; ए5: 2,55; ए6: 1,40}*
अविद्यमानवचनात्

1.2.35

यज्ञे साधनभूतः प्रकाशयितव्यः. न च तादृशो ऽर्थो{*1।512*} ऽस्ति, यादृशम् अभिदधति{*1।513*}. यथा चत्वारि शृङ्गा{*1।514*} इति. न हि चतुःशृङ्गं त्रिपादं द्विशिरस्कं सप्तहस्तं किंचिद् यज्ञसाधनम् अस्ति. तद् अत्राभिधानार्थः किम् अभिदध्यात्. उच्चारणार्थे त्व् अवकल्प्यते. तथा मा मा हिंसीर् इत्य् असत्याम् अपि हिंसायां किम् अभिदध्यात्.
नोतेस्:
*{1।512: ए4 ओम्. ऽर्थो}*
*{1।513: ए1 (fन्.): अभिवहन्ति केचिन् मन्त्राः, ए5: अभिदधाति}*
*{1।514: तैत्.आ. 10.10.17, ऋव् 4.58.3अ}*
अचेतने ऽर्थबन्धनात्

1.2.36

अचेतने ऽर्थे खल्व् अर्थं निबध्नन्ति - ओषधे त्रायस्वैनम्{*1।515*} इति{*1।516*}. अभिधानेनोपकुर्वन्त एवंजातीयका ओषधिं पशुत्राणाय प्रतिपादयेयुः. न चासाव् अचेतना शक्या प्रतिपादयितुम्. उच्चारणार्थे तु नैष दोषो भवति. तस्माद् उच्चारणार्थाः. शृणोत ग्रावाण इति{*1।517*} चोदाहरणम्.
नोतेस्:
*{1।515: ए4: त्रायस्वनैम् (?)}*
*{1।516: तैत्.स्. 1.2.1.1}*
*{1।517: तैत्.स्. 1.3.13.1}*
अर्थविप्रतिषेधात्

1.2.37

अर्थविप्रतिषेधो ऽपि भवति. अदितिर् द्यौर् अदितिर् अन्तरिक्षम् इति{*1।518*} सैव द्यौस् तद् एवान्तरिक्षम् इति को जातुचिद् अवधारयेत्. अनवधारयंश् च किम् अभिधानेनोपकुर्यात्. उच्चारणमात्रे तु नैष विरोधो भवति. तस्माद् उच्चारणार्था मन्त्राः. एको रुद्रो न द्वितीयो ऽवतस्थे{*1।519*}. असंख्याताः सहस्राणि, ये रुद्रा अधिभूम्याम् इति{*1।520*} चोदाहरणम्
[58]{*1।521*}
नोतेस्:
*{1।518: ऋव् 1.89.10अ}*
*{1।519: तैत्.स्. 1.8.6.1}*
*{1।520: तैत्.आ. 1.12.1, वाज्.स्. 16.54, तैत्.स्. 4.5.11.1}*
*{1।521: ए4: 1,181; ए5: 2,56; ए6: 1,40}*
स्वाध्यायवद् अवचनात्

1.2.38

स्वाध्यायकाले पूर्णिकावहन्ति करोति. माणवको ऽवहन्ति मन्त्रम् अधीते. नासौ तेन मन्त्रेण तदभिधानम् अभ्यस्यत्य् अक्षरानुपूर्व्या अवधारण एव यतते. येन च नाम प्रयोजनम्, तद् अभ्यसितव्यम्. अत उच्चारणाभ्यासाद् उच्चारणेन प्रयोजनम् इत्य् अवगच्छामः.
अविज्ञेयात्

1.2.39

अपि च केषाञ्चिन् मन्त्राणाम् अशक्य एवार्थो वेदितुम्. यथा - अम्यक् सा त इन्द्र ऋष्टिर् अस्म इति{*1।522*}. सृण्येव जर्भरी तुर्फरीत्व् इति{*1।523*}. इन्द्रः सोमस्य काणुकेति{*1।524*} च. एते किं प्रत्याययेयुः. उच्चारणार्थे तु न दोषः. तस्माद् उच्चारणार्था मन्त्रा इति.
नोतेस्:
*{1।522: ऋव् 1.169.3अ}*
*{1।523: ऋव् 10.106.6अ}*
*{1।524: ऋव् 8.77.4च्}*
अनित्यसंयोगान् मन्त्रानर्थक्यम्

1.2.40

अनित्यसंयोगः खल्व् अपि भवेन् मन्त्रेष्व् अभिधानार्थेषु. यथा - किं ते कृण्वन्ति कीकटेषु गाव इति{*1।525*}. कीकटा नाम जनपदा. नैचाशाखं नाम नगरम्. प्रमङ्गदो{*1।526*} राजेति. यद्य् अभिधानार्थाः, प्राक् प्रमङ्गदान्{*1।527*} नायं मन्त्रो ऽनुभूतपूर्व{*1।528*} इति गम्यते. तद् एतैस् तदर्थशास्त्रादिभिः{*1।529*} कारणैर् मन्त्राणाम् अविवक्षितवचनता.
नोतेस्:
*{1।525: ऋव् 3.53.14: किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम्। आ नो भर प्रमगन्धस्य वेदो नैचाशाखम् मघवन् रन्धया नः॥}*
*{1।526: ए1,6; ए4,5 (रिछ्तिग्): प्रमगन्दो}*
*{1।527: ए1,6; ए4,5: प्रमगन्दान्}*
*{1।528: ए4: ऽभूतपूर्व (?)}*
*{1।529: म्स् 1.2.31}*
अविशिष्टस् तु वाक्यार्थः

1.2.41

{*1।530*}
अविशिष्टस् तु लोके प्रयुज्यमानानां वेदे च पदानाम् अर्थः. स यथैव लोके विवक्षितः, तथैव वेदे ऽपि भवितुम् अर्हति. नैवम्, लोके तैर् अर्थैर् अवबुद्धैः संव्यवहारः. इह देवताभिर् अप्रत्यक्षाभि[59]{*1।531*}र् यज्ञाङ्गैश् चाचेतनैः संलापे न कश्चिद् यज्ञस्योपकारः. यद्य् अदृष्टं परिकल्प्येत, उच्चारणाद् एव तद् भवितुम् अर्हति. यद् धि कर्तव्यम्, तत् प्रयोजनवत्, उच्चारणं च न कथंचित् न कर्तव्यम्, यद्य् अपूर्वाय, यद्य् अर्थाय. यद्य् अर्थो न प्रत्यायते, न किञ्चिद् अनर्थकम्. यदि न प्रयुज्यते, समाम्नानानर्थक्यम्. तस्माद् उच्चारणाद् अपूर्वम्. तथा च तदर्थशास्त्राद् उक्तम्{*1।532*}.
तद् उच्यते - अर्थप्रत्यायनार्थम् एव यज्ञे मन्त्रोच्चारणम्. यद् उक्तम् - न देवताभिर् यज्ञाङ्गैश् च संलपे प्रयोजनम् अस्तीति, यज्ञे यज्ञाङ्गप्रकाशनम् एव प्रयोजनम्. कथम्? न ह्य् अप्रकाशिते यज्ञे यज्ञाङ्गे च यागः शक्यो ऽभिनिर्वर्तयितुम्. तस्मात् तन्निर्वृत्त्यर्थम् अर्थप्रकाशनं महानुपकारः कर्मणः, तच् च करोतीत्य् अवगम्यते. तस्माद् असत्यस्य प्रयोजनम्. तच् च दृष्टं न शक्यम् अपवदितुम् - नार्थाभिधानं प्रयोजनम् इति. नन्व् अर्थाभिधानेनोपकुर्वत्सु - तां चतुर्भिर् आदत्त इत्येवमाद्य् अनर्थकं भवतु{*1।533*}, न जातुचिद् अपजानीमहे दृष्टम् अर्थाभिधानस्योपकारकत्वम्.
अथ किं तच्छास्त्रं अनर्थकम् एव. न हि -
नोतेस्:
*{1।530: ए2,4 हबेन् अब् म्स् 1.2.31 निछ्त् wइए ए1,5,6 wएइतेर्गेzäह्ल्त्, सो दß सिए बेइ म्स् 1.2.40 मित् 1.2.32 fओर्त्fअह्रेन्}*
*{1।531: ए2: 2,57; ए4: 1,204; ए5: 2,57; ए6: 1,41}*
*{1।532: ए1,5,6; ए2,4: युक्तम्}*
*{1।533: ए4: कामं भवतु}*
गुणार्थेन पुनःश्रुतिः

1.2.42

यद् उक्तम्{*1।534*} - तां चतुर्भिर् आदत्त इति समुच्चयशब्दाभावान् न समुच्चयार्थम् इति. चतुःसंख्याविशिष्टम् आदानं कर्तव्यम् इति वाक्याद् अवगम्यते. तद् एकेन मन्त्रेण गृह्णन् न यथाश्रुतं{*1।535*} गृह्णीयाद् इति.
नोतेस्:
*{1।534: ए1, स्.55।26}*
*{1।535: ए2 ओम्. गृह्णन् न यथाश्रुतं}*
परिसंख्या

1.2.43

परिसंचक्षाणे च{*1।536*} - इमाम् अगृभ्णन्न् इत्य् अश्वाभिधानीम् आदत्त इति त्रयो दोषाः प्रादुःष्युर् इति. नैवं संबन्ध इत्य् आदत्त इति. कथं तर्हि, इत्य् अश्वाभिधानीम् इति. [60]{*1।537*} लिङ्गाद् रशनामात्रे शब्दात् तु विशेषे ऽश्वाभिधान्याम् इति. सति च वाक्ये लिङ्गं विनियोजकम्. तच् चास्य प्रकरणाम्नानानुमितं वाक्यं नास्ति. कतरतत्. एतेन मन्त्रेणादानं कुर्याद् इति, यस्मिन् सति रशनामात्रे लिङ्गात् प्राप्नोति. अश्वाभिधान्यां तु प्रत्यक्षम् एव वचनम्. अस्मिन् सति तद् आनुमानिकं नास्ति. तेन गर्दभरशनायां न प्राप्तिर् एवेति.
नोतेस्:
*{1।536: ए1, स्.56।4-6, तैत्.स्. 5.1.2.1}*
*{1।537: ए2: 2,59; ए4: 1,210; ए5: 2,59; ए6: 1,41}*
अर्थवादो वा

1.2.44

उरु प्रथा उरु प्रथस्वेति पुरोडाशं प्रथयतीत्य्{*1।538*} अर्थवादार्थेन पुनःश्रुतिः, यज्ञपतिम् एव तत् प्रथयतीति. ननु नायं मन्त्रस्य वाक्यशेषः, न च प्राप्तस्य स्तुत्या प्रयोजनम्.
सत्यम्{*1।539*}, नायं मन्त्रस्य विधिः, न संस्तवः. प्रथनम् एव तत्र स्तूयते. मन्त्रः पुना रूपाद् एव प्राप्त इहानूद्यते प्रथनं स्तोतुम् - इत्थं प्रथनं प्रशस्तम्, यत् क्रियमाणम् एवंरूपेण मन्त्रेण क्रियते. कस् तदा भवति गुणः. यज्ञपतिम् एव तत् प्रजया पशुभिः प्रथयति. किम् एतद् एवास्य फलं भवति. नेति ब्रूमः. स्तुतिः कथं भविष्यतीत्य् एवम् उच्यते.
कथम् असति प्रथने प्रथयतीति शब्दः. मन्त्राभिधानात् - मन्त्रेण पुरोडाशम् अध्वर्युः प्रथस्वेति ब्रूते. यश् चैवं प्रथस्वेति ब्रूते, स प्रथयति, यथा - यः कुर्व् इति ब्रूते, स कारयति.
नोतेस्:
*{1।538: तैत्.स्. 3.2.8.4, zइतिएर्त्: श्भ् अद् म्स् 1.2.31}*
*{1।539: ए2 ओम्. सत्यम्}*
अविरुद्धं परम्

1.2.45

यद् उक्तम्{*1।540*} - पदनियमस्यार्थवत्त्वाद्{*1।541*} अविवक्षितार्था मन्त्रा इति. कामम् अनर्थको नियमः, न दृष्टम् अप्रमाणम्. नियतोच्चारणम् अदृष्टायेति चेत्, अविरुद्धा अदृष्टकल्पनास्मत्पक्षे ऽपि. एवं प्रत्यायमानम् अभ्युदयकारि भवतीति.
[61]{*1।542*}
नोतेस्:
*{1।540: श्भ् अद् म्स् 1.2.32}*
*{1।541: ए2: पदनियमस्यार्थयववाद् (?)}*
*{1।542: ए2: 2,63; ए4: 1,223; ए5: 2,60; ए6: 1,42}*
संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्वात्

1.2.46

अथ यद् उक्तम्{*1।543*} - प्रोक्षणीर् आसादयेति बुद्धबोधनम् अशक्यम्, अत उच्चारणाद् अदृष्टम् इति. तन् न. कर्तव्यम् इत्य् अपि विज्ञाते ऽनुष्ठानकाले स्मृत्या प्रयोजनम्. उपायान्तरेणापि सा प्राप्नोति, अतो ऽनेनोपायेन कर्तव्येति नियमार्थम् आम्नानम्, संस्कारत्वात्.
नोतेस्:
*{1।543: श्भ् अद् म्स् 1.2.33, माध्य्.स्.1.28; तैत्.स्. 3.2.9}*
अभिधाने ऽर्थवादः

1.2.47

चत्वारि शृङ्गा इत्य्{*1।544*} असद् अभिधाने गौणः शब्दः. गौणी कल्पना प्रमाणवत्त्वात्. उच्चारणाद् अदृष्टम् अप्रमाणम्. चतस्रो होत्राः शृङ्गाणीवास्य. त्रयो ऽस्य पादा इति सवनाभिप्रायम्. द्वे शीर्ष इति पत्नीयजमानौ. सप्त हस्तास इति छन्दांस्य् अभिप्रेत्य. त्रिधा बद्ध इति त्रिभिर् वेदैर् बद्धः. वृषभः कामान् वर्षतीति. रोरवीति शब्दकर्मा. महो देवो मर्त्यान् आविवेशेति, मनुष्याधिकाराभिप्रायम्. तद् यथा - चक्रवाकस्तनी हंसदन्तावली काशवस्त्रा शैवालकेशी नदीति नद्याः स्तुतिः.
यज्ञसमृद्धये साधनानां चेतनसादृश्यम् उपपादयितुकाम आमन्त्रणशब्देन लक्षयति{*1।545*} - ओषधे त्रायस्वैनम् इति{*1।546*}. शृणोत ग्रावाण इति{*1।547*}, अतः परं प्रातरनुवाकानुवचनं भविष्यति, यत्राचेतनाः सन्तो ग्रावाणो ऽपि शृणुयुः, किं पुनर् विद्वांसो ऽपि ब्राह्मणा इति. इत्थं चाचेतना अपि ग्रावाण आमन्त्र्यन्ते.
नोतेस्:
*{1।544: zइतिएर्त्: श्भ् अद् म्स् 1.2.34, ऋव् 4.58.3अ}*
*{1।545: श्भ् अद् म्स् 1.2.35}*
*{1।546: तैत्.स्. 1.2.1.1}*
*{1।547: तैत्.स्. 1.3.13.1}*
गुणाद् अविप्रतिषेधः स्यात्

1.2.48

अदितिर् द्यौर् इति{*1।548*} गौण एष शब्दः, अतो न [62]{*1।549*}विप्रतिषेधः। यथा - त्वम् एव माता, त्वम् एव{*1।550*} पितेति. तथैकरुद्रदैवत्य एको रुद्रः, शतरुद्रदैवत्ये शतं रुद्रा इत्य् अविरोधः.
नोतेस्:
*{1।548: श्भ् अद् म्स् 1.2.36, ऋव् 1.89.10अ}*
*{1।549: ए2: 2,65; ए4: 1,228; ए5: 2,61; ए6: 1,43}*
*{1।550: ए2,4,6 ओम्. त्वम् एव}*
विद्यावचनम् असंयोगात्

1.2.49

यत् तु{*1।551*} - अकर्मकाले ऽवहन्ति मन्त्रेण माणवको न पूर्णिकावहन्तिं प्रकाशयितुम् इच्चतीति. अयज्ञसंयोगात्, न यज्ञोपकारायैतत् प्रकाशयितुम् इच्छति. ननु प्रकाशनानभ्यासो ऽक्षराभ्यासश् च परिचोदितः. उच्यते - सौकर्यात् प्रकाशनानभ्यासो दुर्ग्रहत्वाच् चाक्षराभ्यासः.
नोतेस्:
*{1।551: श्भ् अद् म्स् 1.2.37}*
सतः परम् अविज्ञानम्

1.2.50

{*1।552*}
विद्यमानो ऽप्य् अर्थः प्रमादालस्यादिभिर् नोपलभ्यते. निगमनिरुक्तव्याकरणवशेन धातुतो ऽर्थः कल्पयितव्यः. यथा - सृण्येव जर्भरी तुर्फरीत्व् इत्येवमादीन्य्{*1।553*} अश्विनोर् अभिधानानि द्विवचनान्तानि लक्ष्यन्ते. अनेनाश्विनोः कामम् अप्रा इत्य्{*1।554*} आश्विनं सूक्तम् अवगम्यते. देवताभिधानानि च घटन्ते जर्भरीत्येवमादीनि. अवयवप्रसिद्ध्या च लौकिकेनार्थेन विशेष्यन्ते. एवं सर्वत्र.
नोतेस्:
*{1।552: zउ म्स् 1.2.38}*
*{1।553: ऋव् 10.106.6}*
*{1।554: ऋव् 10.106.11द्}*
उक्तश् चानित्यसंयोगः

1.2.51

{*1।555*}
परं तु श्रुतिसामान्यमात्रम् इत्य्{*1।556*} अत्रेति{*1।557*}.
[63]{*1।558*}
नोतेस्:
*{1।555: zउ म्स् 1.2.39}*
*{1।556: म्स् 1.1.31}*
*{1।557: ए2 निम्म्त् देन् कोम्मेन्तर् इर्र्त्üम्लिछेर्wएइसे अल्स् एइगेनेस् सूत्र}*
*{1।558: ए2: 2,68; ए4: 1,238; ए5: 2,62; ए6: 1,43}*
लिङ्गोपदेशश् च तदर्थवत्

1.2.52

आग्नेयाग्नीध्रम् उपतिष्ठत इति{*1।559*} विधानाद् विवक्षितार्थानाम् एव मन्त्राणां भवति लिङ्गेणोपदेशः. यदि ते ऽग्निप्रयोजनाः, ततस् त आग्नेया नाग्निशब्दसंनिधानात्.
नोतेस्:
*{1।559: तैत्.स्. 3.1.6}*
ऊहः

1.2.53

ऊहदर्शनं च विवक्षितार्थानाम् एव भवति. किम् ऊहदर्शनम्. न पिता वर्धते, न मातेति{*1।560*}. अन्ये वर्धन्त इति गम्यते. प्रत्यक्षं कौमारयौवनस्थाविरैर् वर्धन्ते मात्रादयः. शब्दो न वर्धत इति ब्रूते. का पुनः शब्दस्य वृद्धिः. यद् द्विवचनबहुवचनसंयोगः.
नोतेस्:
*{1।560: व्ग्ल्. तैत्.ब्र्. 3.6.6.1}*
विधिशब्दाश् च

मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc