मीमांसासूत्र (टीका सहित) · अध्याय 1.1
============================================================================
अध्याय 1:
अथातो धर्मजिज्ञासा
लोके येष्व् अर्थेषु प्रसिद्धानि पदानि, तानि, सति सम्भवे, तदर्थान्य् एव सूत्रेष्व् इत्य् अवगन्तव्यम्. नाध्याहारादिभिर् एषां परिकल्पनीयो ऽर्थः, परिभाषितव्यो वा. एवं हि{*1।1*} वेदवाक्यान्य् एवैभिर् व्याख्यायन्ते. इतरथा वेदवाक्यानि व्याख्येयानि स्वपदार्थाश् च व्याख्येयाः. तद् यत्नगौरवं{*1।2*} प्रसज्येत.
तत्र लोके ऽयम् अथशब्दो वृत्ताद् अनन्तरस्य प्रक्रियार्थो दृष्टः. न चेह किञ्चिद् वृत्तम् उपलभ्यते. भवितव्यं तु तेन, यस्मिन् सत्य् अनन्तरं धर्मजिज्ञासावकल्पते. तथा हि प्रसिद्धपदार्थकः स कल्पितो भवति. तत् तु वेदाध्ययनम्. तस्मिन् हि सति सावकल्पते. नैतद् एवम्. अन्यस्यापि कर्मणो ऽनन्तरं धर्मजिज्ञासा युक्ता, प्राग् अपि च वेदाध्ययनात्.
उच्यते - तादृशीं{*1।3*} तु धर्मजिज्ञासाम् अधिकृत्याथशब्दं प्रयुक्तवान् आचार्यः, या वेदाध्ययनम् अन्तरेण न संभवति. कथम्? वेदवाक्यानाम् अनेकविधो विचार इह वर्तिष्यते. अपि च नैव वयम् इह [2]{*1।4*} वेदाध्ययनात् पूर्वं धर्मजिज्ञासायाः प्रतिषेधं शिष्मः{*1।5*}. न ह्य् एतद् एकं वाक्यं पुरस्ताच् च वेदाध्ययनाद् धर्मजिज्ञासां प्रतिषेधिष्यति{*1।6*}, परस्ताच् चानन्तर्यं प्रकरिष्यति. भिद्येत हि तथा वाक्यम्. अन्या हि वचनव्यक्तिर् अस्य पुरस्ताद् वेदाध्यायनाद् धर्मजिज्ञासां प्रतिषेधतः, अन्या च परस्ताद् आनन्तर्यम् उपदिशतः{*1।7*}. वेदान् अधीत्य इत्य्{*1।8*} एकस्यां विधीयते ऽनूद्यानन्तर्यम्, विपरीतम् अन्यस्याम्. अर्थैकत्वाच् चैकवाक्यतां वक्ष्यति{*1।9*}. किं त्व्{*1।10*} अधीते वेदे द्वयम् आपतति, गुरुकुलाच् च समावर्तितव्यं वेदवाक्यानि च विचारयितव्यानि. तत्र गुरुकुलान् मा समावर्तिष्ट; कथं नु वेदवाक्यानि विचारयेद् इत्य् एवमर्थो ऽयम् उपदेशः.
यद्य् एवम्, न तर्हि वेदाध्ययनं पूर्वं धर्मजिज्ञासायाः{*1।11*}. एवं हि समामनन्ति - वेदम् अधीत्य स्नायाद् इति{*1।12*}. इह च वेदम् अधीत्य स्नास्यन् धर्मं जिज्ञासमान इमम् आम्नायम् अतिक्रामेत्. न चाम्नायो नामातिक्रमितव्यः.
तद् उच्यते - अतिक्रमिष्याम इमम् आम्नायम्. अनतिक्रामन्तो वेदम् अर्थवन्तं सन्तम् अनर्थकं कल्पयेम{*1।13*}. दृष्टो हि तस्यार्थः कर्मावबोधनं नाम. न च तस्याध्ययनमात्रात्{*1।14*} तत्रभवन्तो याज्ञिकाः फलं समामनन्ति. यद् अपि च समामनन्तीव, तत्रापि - द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर् अर्थवादः स्याद् इत्य्{*1।15*} अर्थवादतां वक्ष्यति. न चाधीतवेदस्य स्नानानन्तर्यम् एतद् विधीयते. न ह्य् अत्रानतर्यस्य वक्ता कश्चिच् छब्दो ऽस्ति. पूर्वकालतायां हि{*1।16*} क्त्वा स्मर्यते, नानन्तर्ये.
दृष्टार्थता चाध्ययनस्यानन्तर्ये व्याहन्येत. लक्षणया त्व् एषो ऽर्थः स्यात्. न चेदं स्नानम् अदृष्टार्थं विधीयते. किं तु लक्षणयास्नानादिनियमस्य पर्यवसानं वेदाध्ययनसमकालम् आहुः वेदम् अधीत्य स्नायाद्, गुरुकुलान् मा समावर्तिष्टेत्य् अदृष्टार्थतापरिहारायैव.
[3]{*1।17*} तस्माद् वेदाध्ययनम् एव पूर्वम् अभिनिर्वर्त्याननतरं धर्मो जिज्ञासितव्य इत्य् अथशब्दस्य सामर्थ्यम्. न ब्रूमो ऽन्यस्यापि कर्मणो ऽनन्तरं धर्मजिज्ञासा न कर्तव्या इति, किं तु वेदम् अधीत्य त्वरितेन न स्नातव्यम्, अनन्तरं धर्मो जिज्ञासितव्य इत्य् अथशब्दस्यार्थः.
अतःशब्दो वृत्तस्यापदेशको हेत्वर्थेन{*1।18*}, यथा क्षेमसुभिक्षो ऽयं देशः, अतो ऽहम् अस्मिन् देशे प्रतिवसामीति. एवम् अधीतो वेदो धर्मजिज्ञासायां हेतुर् ज्ञातः, अनन्तरं धर्मो जिज्ञासितव्यः इत्य् अतःशब्दस्य सामर्थ्यम्. धर्माय हि वेदवाक्यानि विचारयितुम् अनधीतवेदो न शक्नुयात्. अतः, एतस्मात् कारणात्, अनन्तरं धर्मं जिज्ञासितुम् इच्छेद् इत्य् अतःशब्दस्यार्थः.
धर्माय जिज्ञासा धर्मजिज्ञासा. सा हि तस्य ज्ञातुम् इच्छा. स पुनः{*1।19*} कथं जिज्ञासितव्यः? को धर्मः, कथंलक्षणः, कान्य् अस्य साधनानि, कानि साधनाभासानि, किंपरश् चेति. तत्र को धर्मः, कथंलक्षण इत्य् एकेनैव सूत्रेण व्याख्यातं चोदनालक्षणो ऽर्थो धर्म इति{*1।20*}. कान्य् अस्य साधनानि, कानि साधनाभासानि, किंपरश् चेति शेषलक्षणेन{*1।21*} व्याख्यातम्{*1।22*}. क्व पुरुषपरत्वं क्व वा पुरुषो गुणभूत इत्य् एतासां प्रतिज्ञानां पिण्डस्य एतत् सूत्रम् अथातो धर्मजिज्ञासेति.
धर्मः प्रसिद्धो वा स्याद् अप्रसिद्धो वा. स चेत् प्रसिद्धः, न जिज्ञास्यः{*1।23*}. अथाप्रसिद्धः, नतराम्. तद् एतद्{*1।24*} अनर्थकं धर्मजिज्ञासाप्रकरणम्.
अथवार्थवत्. धर्मं प्रति हि विप्रतिपन्ना बहुविदः. केचिद् अन्यं धर्मम् आहुः, केचिद् अन्यम्. सो ऽयम् अविचार्य प्रवर्तमानः कंचिद् एवोपाददानो विहन्येतानर्थं चर्च्छेत्. तस्माद् धर्मो जिज्ञासितव्यः{*1।25*}. स हि निःश्रेयसेन पुरुषं संयुनक्तीति प्रतिजानीमहे.
तद् अभिधीयते -
नोतेस्:
*{1।1: त्ब्: एवं हि; त: एवं सति; ए1,2,3,5,6: एवं}*
*{1।2: त, त्ब्: तद् यत्न-; ए1: प्रयत्न-; ए2,3,6: इति प्रयत्न-; ए5: इति यत्न-}*
*{1।3: ए2,3,5, त, त्ब्, श्व्: तादृशीं; ए1,6: मादृशां}*
*{1।4: ए2: 1,4; ए3: 23; ए5: 1,9; ए6: 1,1}*
*{1।5: ए2,5; हिन्तेर् शिष्मः fओल्ग्त् बेइ त: नापि परस्ताद् आनन्तर्यम्, बेइ ए1,3: परस्ताच् च; नछ् कुमारिल, श्व् 1.84-85 wउर्दे दिएस् वोन् एइनिगेन् हिन्zउगेfüग्त् (केचिद् अध्याहरन्ति)}*
*{1।6: ए1,2,3,5,6, त्ब्; त, ए1 (व्.ल्.): प्रतिषेधयिष्यति}*
*{1।7: ए1,5, त, त्ब्; ए2,3,6: प्रतिषेधति...उपदिशति}*
*{1।8: ए1,2,3,6, त; ए6, म्.परि.: वेदं नानधीत्य; त्ब्: वेदं नाधीत}*
*{1।9: म्स् 2.1.46: अर्थैनोतेस्:अकत्वाद् एकं वाक्यम्, साकाङ्क्षं चेद् विभागे स्यात्}*
*{1।10: ए2,3,5, त, त्ब्, तात्प्.; ए1,6: किं च}*
*{1।11: ए5; ए1,2,3,6, त: पूर्वं गम्यते, त्ब्: पूर्वम्}*
*{1।12: ब्ग्सू. इइ.6.1 (fरग्लिछ्, ओब् wइर्क्लिछ् दिएसे स्तेल्ले गेमेइन्त् इस्त्}*
*{1।13: ए1,2,3,5,6;, त, त्ब्: अवकल्पयेम}*
*{1।14: ए1,2,3,6, त; ए5, त्ब्: तत्र}*
*{1।15: म्स् 4.3.1}*
*{1।16: ए5, त्ब्; हि fएह्ल्त् इन् ए1,2,3,6, त}*
*{1।17: ए2: 1,8; ए3: 28; ए5: 1,14; ए6: 1,2}*
*{1।18: ए5, तात्प्.; ए1,2,3,6, त, त्ब्: हेत्वर्थः}*
*{1।19: पुनः fएह्ल्त् इन् त, त्ब्}*
*{1।20: म्स् 1.1.2}*
*{1।21: ए1,2,3,5,6, त, काश्., न्य्.रत्.; त्ब्, तात्प्.: शेषलक्षणे}*
*{1।22: म्स् 3-12}*
*{1।23: त, त्ब्, काश्.; ए1,2,3,5,6, न्य्.रत्.: जिज्ञासितव्यः}*
*{1।24: ए1,2,3,5,6, त; त्ब्: उभयत्रापि}*
*{1।25: त्ब्; ए1,2,3,5,6, त: जिज्ञासितव्य इति}*
चोदनालक्षणो ऽर्थो धर्मः
चोदनेति क्रियायाः प्रवर्तकं वचनम् आहुः. आचार्य[4]{*1।26*}चोदितः करोमीति हि दृश्यते. लक्ष्यते येन, तल् लक्षणम्. धूमो लक्षणम् अग्नेर् इति हि वदन्ति. तया यो लक्ष्यते, सो ऽर्थः पुरुषं निःश्रेयसेन संयुनक्तीति प्रतिजानीमहे. चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टम् इत्य् एवंजातीयकम् अर्थं शक्नोत्य् अवगमयितुम्, नान्यत् किंचनेन्द्रियम्.
नन्व् अतथाभूतम् अप्य् अर्थं ब्रूयाच् चोदना, यथा यत्किंचन लौकिकं वचनं नद्यास् तीरे फलानि सन्तीति. तत् तथ्यम् अपि भवति, वितथम् अपि भवतीति.
उच्यते - विप्रतिषिद्धम् इदम् अभिधीयते{*1।27*} ब्रवीति च वितथं चेति. ब्रवीतीति उच्यते ऽवबोधयति, बुध्यमानस्य निमित्तं भवतीति. यस्मिंश् च निमित्तभूते सत्य् अवबुध्यते, सो ऽवबोधयति. यदि च चोदनायां सत्याम् अग्निहोत्रात् स्वर्गो भवतीत्य् अवगम्यते{*1।28*}, कथम् उच्यते न तथा भवतीति. अथ न तथा भवति{*1।29*}, कथम् अवबुध्यते. असन्तम् अर्थम् अवबुध्यत इति विप्रतिषिद्धम्.
न च स्वर्गकामो यजेतेत्य्{*1।30*} अतो वचनात् संदिग्धम् अवगम्यते भवति वा स्वर्गो न वा भवतीति. न च निश्चितम् अवगम्यमानम् इदं मिथ्या स्यात्. यो हि जनित्वा प्रध्वंसते नैतद् एवम् इति, स मिथ्याप्रत्ययः. न चैष कालान्तरे पुरुषान्तरे ऽवस्थान्तरे देशान्तरे वा विपर्येति. तस्माद् अवितथः. तस्माद् अवितथः.
यत् तु लौकिकं वचनम्, तच् चेत् प्रत्ययितात् पुरुषाद् इन्द्रियविषयं वा, अवितथम् एव तत्. अथाप्रत्ययितात् पुरुषाद् अनिन्द्रियविषयं वा, तत्{*1।31*} पुरुषबुद्धिप्रभवम् अप्रमाणम्. अशक्यं हि तत् पुरुषेण ज्ञातुम् ऋते वचनात्. अपरस्मात् पौरुषेयाद् वचनाद् अवगतम् इति चेत्, तद् अपि तेनैव तुल्यम्. नैवंजातीयकेष्व् अर्थेषु पुरुषवचनं प्रामाण्यम् उपैति, जात्यन्धानाम् इव वचनं रूपविशेषेषु.
नन्व् अविदुषाम्{*1।32*} उपदेशो नावकल्पते. उपदिष्टवन्तश् च मन्वादयः. तस्मात् पुरुषाः{*1।33*} सन्तो विदितवन्तश्{*1।34*} च. यथा चक्षुषा रूपम् उपलभ्यत इति दर्शनाद् एवावगतम्.
उच्यते - उपदेशो{*1।35*} हि व्यामोहाद् अपि भवति. असति व्यामोहे वेदाद् अपि भवति. अपि च पौरुषेयाद् वचनाद् एवम् अयं पुरुषः वेदेति भवति प्रत्ययः, न एवम् अयम् अर्थ इति. विप्लवते खल्व् अपि कश्चित् पुरुषकृताद् वचनात् प्रत्ययः. न तु वेदवचनस्य मिथ्यात्वे किंचन प्रमाणम् अस्ति.
ननु सामान्यतो दृष्टं भविष्यति{*1।36*}. पौरुषेयं वचनं वितथम् उपलभ्य वचनसामान्याद्{*1।37*} वेदवचनं मिथ्येत्य् अनुमीयते{*1।38*}.
न, अन्यत्वात्. न ह्य् अन्यस्य वितथभावे{*1।39*} ऽन्यस्य वैतथ्यं भवितुम् अर्हति{*1।40*}, अन्यत्वाद् एव. न हि देवदत्तस्य श्यामत्वे यज्ञदत्तस्यापि श्यामत्वं भवितुम् अर्हति. अपि च पुरुषवचनसाधर्म्याद् वेदवचनं वितथम्{*1।41*} इत्य् अनुमानम्{*1।42*}. प्रत्यक्षस् तु वेदवचने{*1।43*} प्रत्ययः. न चानुमानं प्रत्यक्षविरोधि{*1।44*} प्रमाणं भवति{*1।45*}. तस्माच् चोदनालक्षणो ऽर्थः{*1।46*} श्रेयस्करः. एवं तर्हि श्रेयस्करो जिज्ञासितव्यः. किं धर्मजिज्ञासया? उच्यते - य एव श्रेयस्करः, स एव धर्मशब्देनोच्यते. कथम् अवगम्यते{*1।47*}? यो हि यागम् अनुतिष्ठति, तं धार्मिक इति समाचक्षते. यश् च यस्य कर्ता, स तेन व्यपदिश्यते{*1।48*}, यथा पाचको लावक इति. तेन यः पुरुषं निःश्रेयसेन संयुनक्ति, स एव{*1।49*} धर्मशब्देनोच्यते. न केवलं लोके, वेदे ऽपि -
यज्ञेन यज्ञम् अयजन्त देवाः।
तानि धर्माणि प्रथमान्य् आसन्॥
इत्य्{*1।50*} यजतिशब्दवाच्यम्{*1।51*} एव धर्मं{*1।52*} समानन्ति. उभयम् इह चोदनया लक्ष्यते, अर्थो ऽनर्थश् च. को ऽर्थः? यो निःश्रेयसाय ज्योतिष्टोमादिः. को ऽनर्थः? यः प्रत्यवायाय श्येनो वज्र इषुर् इत्य् एवमादिः. तत्रानर्थो धर्म उक्तो मा भूद् इत्य् अर्थग्रहणम्{*1।53*}. कथं पुनर् असाव् अनर्थः? हिंसा हि सा, सा च{*1।54*} प्रतिषिद्धा{*1।55*}. कथं पुनर् असाव् अनर्थः कर्तव्यतयोपदिश्यते{*1।56*}? उच्यते - नैव श्येनादयः कर्तव्यतया विज्ञायन्ते. यो हि हिंसितुम् इच्छेत्, तस्यायम् अभ्युपाय इति हि तेषाम् उपदेशः. श्येनेनाभिचरन् यजेतेति{*1।57*} हि समामनन्ति, नाभिचरितव्यम् इति.
नन्व् अशक्तम् इदं सूत्रम् इमाव् अर्थाव् अभिवदितुम्, चोदना[6]{*1।58*}लक्षणो धर्मो नेन्द्रियादिलक्षणः, अर्थश् च धर्मो नानर्थ इति. एकं हीदं वाक्यम्. तद् एवं सति भिद्येत.
उच्यते - यत्र वाक्याद् एवार्थो{*1।59*} ऽवगम्यते, तत्रैवम्. तत् तु वैदिकेषु, न सूत्रेषु. अन्यतो ऽवगते ऽर्थे सूत्रम् एवमर्थम्{*1।60*} इत्य् अवगम्यते, तेन चैकदेशः सूत्र्यत इति{*1।61*} सूत्रम्. तत्र भिन्नयोर् एव वाक्ययोर् इमाव् एकदेशाव् इत्य् अवगन्तव्यम्. अथवा अर्थस्य सतश् चोदनालक्षणस्य धर्मत्वम् उच्यत{*1।62*} इत्य् एकार्थम्{*1।63*} एवेति.
नोतेस्:
*{1।26: ए2: 1,14; ए3: 36; ए5: 1,20; ए6: 1,3}*
*{1।27: ए5, त्ब्, त्च्, काश्., न्य्. रत्.; ए1,2,3,6, त, अ: उच्यते}*
*{1।28: त्ब्, त्च्; ए1,2,3,5,6, त, अ: गम्यते}*
*{1।29: त्ब्, त्च्; ए1,2,3,5,6, त, अ: भवतीति}*
*{1।30: ए1,2,3,5,6, त, अ; त्च्, तात्प्.: अग्निहोत्रं जुहुयात् स्वर्गकाम; त्ब्: अग्निहोत्रात् स्वर्गो भवति}*
*{1।31: ए5, त, त्ब्, त्च्, अ; ए1,2,3,6: तावत्}*
*{1।32: व्.ल्.: न च विदुषां (न्र् अद् श्व्, स्.155); मित्तेइलुन्ग् वोन् प्रोf. स्लजे}*
*{1।33: ए5, त, त्ब्, त्च्, अ; ए1,2,3,6: पुरुषात्}*
*{1।34: ए1,2,3,5,6, त, अ; त्ब्, त्च्: विदितवन्तः}*
*{1।35: ए5, त, त्ब्, त्च्, तात्प्., काश्.; ए1,2,3,6, न्य.रत्.: उपदेशा...भवन्ति...भवन्ति}*
*{1।36: त्ब्, त्च्, काश्.; ए1,2,3,5,6, त, अ, तात्प्. ओम्}*
*{1।37: त्च्, तात्प्., काश्.; ए1,2,3,5,6, त, त्ब्, अ: -साम्याद्}*
*{1।38: त्च्, अ, काश्.: वेदवचनं मिथ्येत्य् अनुमीयते; ए1,2,3,5,6, त: इदम् अपि वितथम् अवगम्य-ते; तात्प्.: वैदिकम् अपि तथा स्यात्}*
*{1।39: ए1,2,3,5,6, त, त्ब्, अ; त्च्, काश्.: वैतथ्ये}*
*{1।40: ए1,2,3,5,6, त; त्ब्, त्च्, तात्प्.: भवति}*
*{1।41: ए1,2,3,5,6, त, त्ब्, त्च्; अ, काश्., न्य्.रत्.: मिथ्या; तात्प्.: अप्रमाणम्}*
*{1।42: त, अ, तात्प्., काश्., न्य्.रत्.; ए5, त्ब्, त्च्: अनुमानाद् अवगम्यते; ए1,2,3,6: अनुमानं व्यप-देशाद् अवगम्यते}*
*{1।43: त, त्ब्, त्च्, अ, तात्प्., काश्., त्स्प्; ए1,2,3,5,6, न्य्.रत्.: वेदवचनेन}*
*{1।44: ए1,2,3,5,6, त, अ; त्ब्, त्च्: -विरोधे; तात्प्., न्य्.रत्.: -विरुद्धम्}*
*{1।45: ए1,2,3,5,6, त, त्ब्, अ, त्स्प्; त्च्, तात्प्.: भवितुम् अर्हति, न्य्.रत्.: आत्मानं लभते}*
*{1।46: त, त्च्, काश्., न्य्.रत्. ओम्. ऽर्थः}*
*{1।47: त, त्ब्, त्च्, अ, त्स्प्; ए1,2,3,5,6: अवगम्यताम्}*
*{1।48: ए1,2,3,5,6, त, अ; त्ब्, त्च्: समाख्यायते, त्स्प्: आख्यायते}*
*{1।49: ए2,3,5,6 त्च्, त्स्प्; ए1, त्ब्, त, अ ओम्. एव}*
*{1।50: तैत्.स्. 3.5.11.5}*
*{1।51: त्ब्, त्च्: -वाच्ये}*
*{1।52: त्ब्, त्च्: धर्मशब्दं}*
*{1।53: त्ब्, त्च्, काश्.: इत्य् एवमर्थम् अर्थग्रहनम्}*
*{1।54: ए5, त, त्ब्, त्च्, तात्प्., काश्.; ए1,2,3,6: हिंसा च}*
*{1।55: त्ब्, त्च्; ए1,2,3,5,6, त, अ: प्रतिषिद्धेति}*
*{1।56: ए1,2,3,5,6, त, त्ब्, काश्., न्य. रत्.: कर्तव्यतया; अ, तात्प्., काश्., न्य्.रत्.: कर्तव्या}*
*{1।57: आप्श्स् 22.4.13 (17)}*
*{1।58: ए2: 1,22; ए3: 96; ए5: 1,38; ए6: 1,4}*
*{1।59: त्ब्, त्च्, काश्.; ए1,2,3,5,6, त, अ, तात्प्. ओम्. एव}*
*{1।60: त्ब्, त्च्, काश्.; ए1,2,3,5,6, त, अ: एवमर्थम् इदम्}*
*{1।61: व्ग्ल्. य्द्, ए1, स्.2।23-24: सूचनात् सूत्रम्; सूचयति तांस् तान् अर्थविशेषान् इति सूत्रम्।}*
*{1।62: तात्प्., काश्. ओम्. उच्यते}*
*{1।63: ए1,2,3,5,6, त, त्ब्, अ, काश्., न्य्.रत्.; त्च्, तात्प्.: एकार्थत्वम्}*
तस्य निमित्तपरीष्टिः
उक्तम् अस्माभिश् चोदनानिमित्तं धर्मस्य ज्ञानम् इति. तत् प्रतिज्ञामात्रेणोक्तम्. इदानीं तस्य निमित्तं परीक्षिष्यामहे, किं चोदनैवोतान्यद्{*1।64*} अपीति. तस्मान् न तावन् निश्चीयते चोदनालक्षणो ऽर्थो धर्म इति.
तद् उच्यते -
नोतेस्:
*{1।64: ए5, त, त्ब्, त्च्, अ; ए1,2,3,6: इत्य् अन्यद्}*
सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम् अनिमित्तम्, विद्यमानोपलंभनत्वात्
इदं परीक्ष्यते - प्रत्यक्षं तावद् अनिमित्तम्. किं कारणम्? एवंलक्षणकं हि तत् - सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम्. सतीन्द्रियार्थसंबन्धे या पुरुषस्य बुद्धिर् जायते, तत् प्रत्यक्षम्. भविष्यंश् चैषो ऽर्थो न ज्ञानकाले ऽस्ति{*1।65*}. सतश् चैतद् उपलम्भनम्, नासतः. अतः प्रत्यक्षम् अनिमित्तम्.
बुद्धिर् वा जन्म वा संनिकर्षो वेति नैषां कस्यचिद् अवधारणार्थम् एतत् सूत्रम्. सतीन्द्रियार्थसंप्रयोगे, नासतीत्य् एतावद् अवधार्यते. अनेकस्मिन्न् अवधार्यमाणे भिद्येत वाक्यम्. प्रत्यक्षपूर्वकत्वाच् चानुमानोपमानार्थापत्तीनाम् अप्य् अकारणत्वम्{*1।66*}. अभावो ऽपि नास्ति, यतः -
नोतेस्:
*{1।65: त्ब्, त्च्; ए1,2,3,5,6, त, अ: अस्तीति}*
*{1।66: ए1,2,3,5,6, त, अ: अकारणत्वम् इति}*
औत्पत्तिकस् तु शब्दस्यार्थेन संबन्धस् तस्य ज्ञानम् उपदेशो ऽव्यतिरेकश् चार्थे ऽनुपलब्धे, तत् प्रमाणं बादरायणस्य, अनपेक्षत्वात्
औत्पत्तिक इति नित्यं ब्रूमः. उत्पत्तिर् हि{*1।67*} भाव उच्यते लक्षणया. अवियुक्तः शब्दार्थयोर् भावः संबन्धेन{*1।68*}, नोत्पन्नयोः पश्चात् संबन्धः. औत्पत्तिकः शब्दस्यार्थेन संबन्धस् तस्याग्निहोत्रादिलक्षणस्य धर्मस्य निमित्तं प्रत्यक्षादिभिर् अनवगतस्य{*1।69*}. कथम्? उपदेशो हि भवति. उपदेश इति विशिष्टस्य शब्दस्योच्चारणम्. अव्यतिरेकश् च भवति तस्य{*1।70*} ज्ञानस्य. न हि तद् उत्पन्नं{*1।71*} ज्ञानं विपर्येति. यच् च नाम ज्ञानम् उत्पन्नं{*1।72*} न विपर्येति, न तच् छक्यते वक्तुं नैतद् एवम् इति, यथा विज्ञायते{*1।73*}, न तथा भवति, यथैतन् न विज्ञायते, तथैतद् इति. अन्यद् अस्य हृदये, अन्यद् वाचि स्यात्. एवं वदतो विरुद्धम् इदम् अवगम्यत{*1।74*} अस्ति नास्ति चेति{*1।75*}. तस्मात् तत् प्रमाणम्, अनपेक्षत्वात्. न ह्य् एवं सति प्रत्ययान्तरम् अपेक्षितव्यं पुरुषान्तरं वा. स्वयंप्रत्ययो{*1।76*} हि असौ. बादरायणस्येदं{*1।77*} मतं कीर्त्यते बादरायणं पूजयितुं नात्मीयं मतं पर्युदसितुम्.
वृत्तिकारस् त्व् अन्यथेमं ग्रन्थं वर्णयांचकार तस्य निमित्तपरीष्टिर् इत्य् एवमादिम् - न परीक्षितव्यं निमित्तम्. प्रत्यक्षादीनि हि प्रसिद्धानि प्रमाणानि तदन्तर्गतं च शास्त्रम्. अतस् तद् अपि न परीक्षितव्यम्.
ननु{*1।78*} व्यभिचारात् परीक्षितव्यं निमित्तम्{*1।79*}. शुक्तिका हि रजतवत् प्रकाशते यतस्, तेन प्रत्यक्षं व्यभिचरति, तन्मूलत्वाच् चानुमानादीन्य् अपि. तत्रापरीक्ष्य प्रवर्तमानो ऽर्थाद् विहन्येत अनर्थं चाप्नुयात् कदाचित्.
नैतद् एवम्. यत् प्रत्यक्षम्, [8]{*1।80*} न तद् व्यभिचरति. यद् व्यभिचरति, न तत् प्रत्यक्षम्. किं तर्हि प्रत्यक्षम्?
तत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत् प्रत्यक्षम्{*1।81*}.
यद्विषयं ज्ञानम्, तेनैव संप्रयोग इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत् प्रत्यक्षम्. यद् अन्यविषयं ज्ञानम् अन्यसंप्रयोगे भवति, न तत् प्रत्यक्षम्. कथं पुनर् इदम् अवगम्यत इदम् तत्संप्रयोगे{*1।82*}, इदम् अन्यसंप्रयोग{*1।83*} इति. यन् नान्यसंप्रयोगे, तत् तत्संप्रयोगे. एतद्विपरीतम् अन्यसंप्रयोग इति. कथं ज्ञायते{*1।84*}, यदा हि शुक्तिकायाम् अपि रजतं मन्यमनो रजतसंनिकृष्टं मे चक्षुर् इति मन्यते? बाधकं हि यत्र ज्ञानम् उत्पद्यते नैतद् एवम्, मिथ्या-ज्ञानम् इदम् इति, तद् अन्यसंप्रयोगे, विपरीतं तत्संप्रयोग इति. प्राग् बाधकज्ञानोत्पत्तेः कथम् अवगम्यते, यदा न तत्काले संयग्ज्ञानस्य मिथ्याज्ञानस्य च कश्चिद् विशेषः? यदा{*1।85*} क्षुदादिभिर्{*1।86*} उपहतं मनो भवति, इन्द्रियं वा तिमिरादिभिः, सौक्ष्म्यादिभिर् वा बाह्यो विषयः, ततो मिथ्याज्ञानम्, अनुपहतेषु संयग्ज्ञानम्. इन्द्रियमनोर्थसंनिकर्षो हि ज्ञानस्य{*1।87*} हेतुः, असति तस्मिन् अज्ञानात्{*1।88*}. तदन्तर्गतो दोषो मिथ्याज्ञानस्य हेतुः. दुष्टेषु हि ज्ञानं मिथ्या भवति. कथम् अवगम्यते? दोषापगमे संप्रतिपत्तिदर्शनात्. कथं दुष्टादुष्टावगम इति चेत्, प्रयत्नेनान्विच्छन्तो न चेद् दोषम् उपलभेमहि{*1।89*}, प्रमाणाभावाद् अदुष्टम् इति मन्येमहि. तस्माद् यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः, स एवासमीचीनः प्रत्ययो नान्य इति.
ननु सर्व एव निरालम्बनः स्वप्नवत् प्रत्ययः. प्रत्ययस्य हि निरालम्बनता स्वभाव उपलक्षितः{*1।90*} स्वप्ने. जाग्रतो ऽपि स्तम्भ इति वा कुड्यम्{*1।91*} इति वा प्रत्यय एव भवति. तस्मात् सो ऽपि निरालम्बनः.
उच्यते - स्तम्भ इति जाग्रतो बुद्धिः सुपरिनिश्चिता, कथं विपर्यसिष्यति{*1।92*}? स्वप्ने ऽप्य् एवम् एव सुपरिनिश्चितासीत् प्राक्{*1।93*} प्रबोधनात्{*1।94*}. न तत्र कश्चिद् विशेष इति चेत्{*1।95*}, न, स्वप्ने विपर्ययदर्शनाद् अविपर्य[9]{*1।96*}याच् चेतरस्मिन्. तत्सामान्याद् इतरत्रापि भविष्यतीति चेत्. यदि प्रत्ययत्वात् स्वप्नप्रत्ययस्य मिथ्याभावः, जाग्रत्प्रत्ययस्यापि भवितुम्{*1।97*} अर्हति. अथ प्रतीतिस् तथाभावस्य हेतुः{*1।98*}, न शक्यते प्रत्ययाद् अयं{*1।99*} अन्य इति वदितुम्{*1।100*}. अन्यतस् तु{*1।101*} स्वप्नप्रत्ययस्य मिथ्याभावो विपर्ययाद् अवगतः. कुत इति चेत्. सनिद्रस्य मनसो दौर्बल्यान् निद्रा मिथ्याभावस्य हेतुः स्वप्नादौ स्वप्नान्ते च. सुषुप्तस्य प्रत्ययाभाव एव{*1।102*}. अचेतयन् एव हि सुषुप्त इत्य् उच्यते. तस्माज् जाग्रतः प्रत्ययो न{*1।103*} मिथ्येति. ननु जाग्रतो ऽपि करणदोषः स्यात्? यदि स्यात्, अवगम्येत. स्वप्नदर्शनकाले ऽपि नावगम्यत इति चेत्. तन् न{*1।104*}. प्रबुद्धो ह्य् अवगच्छति - निद्राक्रान्तं मे मन आसीद् इति.
शून्यस् तु. कथम्? अर्थज्ञानयोर् आकारभेदं नोपलभामहे. प्रत्यक्षा च नो बुद्धिः. अतस् तद्भिन्नम् अर्थरूपं नाम न किंचिद् अस्तीति पश्यामः.
स्याद्{*1।105*} एतद् एवम्, यद्य् अर्थाकारा बुद्धिः स्यात्. निराकारा तु नो बुद्धिः, आकारवान् बाह्यो ऽर्थः.
स हि{*1।106*} बहिर्देशसंबद्धः प्रत्यक्षम् उपलभ्यते. अर्थविषया हि प्रत्यक्षबुद्धिर् न बुद्ध्यन्तरविषया. क्षणिका हि सा न बुद्ध्यन्तरकालम् अवस्थास्यत इति{*1।107*}. उत्पद्यमानैवासौ ज्ञायते ज्ञापयति चार्थान्तरं प्रदीपवद् इति यद्य्{*1।108*} उच्येत{*1।109*}, तन् न. न ह्य् अज्ञाते ऽर्थे कश्चिद् बुद्धिम् उपलभते, ज्ञाते त्व् अनुमानाद् अवगच्छति. तत्र यौगपद्यम् अनुपपन्नम्.
ननु उत्पन्नायाम् एव बुद्धाव् अर्थो ज्ञात{*1।110*} इत्य् उच्यते नानुत्पन्नायाम्. अतः पूर्वं बुद्धिर् उत्पद्यते, पश्चाज् ज्ञातो ऽर्थः. ननु उत्पन्नायाम् एव बुद्धाव् अर्थो ज्ञात इत्य् उच्यते नानुत्पन्नायाम्. अतः पूर्वं बुद्धिर् उत्पद्यते, पश्चाज् ज्ञातो ऽर्थः. सत्यम्. पूर्वं बुद्धिर् उत्पद्यते, न [10]{*1।111*} तु पूर्वं ज्ञायते. भवति हि कदाचिद् एतत्, यज् ज्ञातो{*1।112*} ऽर्थः सो ऽज्ञात इत्य् उच्यते. न च अर्थव्यपदेशम् अन्तरेण बुद्धेः रूपोपलम्भनम्{*1।113*}. तस्मान् नाव्यपदेश्या{*1।114*} बुद्धिर्, अव्यपदेश्यं च नः प्रत्यक्षम्{*1।115*}. तस्माद् अप्रत्यक्षा बुद्धिः.
अपि च कामम् एकरूपत्वे बुद्धेर् एवाभावः, न त्व्{*1।116*} अर्थस्य प्रत्यक्षस्य सतः{*1।117*}. न चैकरूप्यम्. निराकाराम्{*1।118*} एव हि बुद्धिम् अनुमिमीमहे, साकारं चार्थं प्रत्यक्षम् एवावगच्छामः. तस्माद् अर्थालम्बनः प्रत्ययः.
अपि च नियतनिमित्तस् तन्तुष्व् एवोपादीयमानेषु पटप्रत्ययः. इतरथा तन्तूपादाने{*1।119*} ऽपि कदाचिद् घटबुद्धिर् अविकलेन्द्रियस्य स्यात्. न चैवम् अस्ति. तस्मान्{*1।120*} न निरालम्बनः प्रत्ययः. अतो न व्यभिचरति प्रत्यक्षम्.
अनुमानं ज्ञातसंबन्धस्य एकदेशदर्शनाद् एकदेशान्तरे ऽसंनिकृष्टे ऽर्थे बुद्धिः. तत् तु द्विविधं प्रत्यक्षतोदृष्टसंबन्धं सामान्यतोदृष्टसंबन्धं च. तत्र{*1।121*} प्रत्यक्षतोदृष्टसंबन्धं यथा धूमाकृतिदर्शनाद् अग्न्याकृतिविज्ञानम्. सामान्यतोडृष्टसंबन्धं च यथा देवदत्तस्य गतिपूर्विकं देशान्तरप्राप्तिम् उपलभ्यादित्ये ऽपि{*1।122*} गतिस्मरणम्.
शास्त्रं शब्दविज्ञानाद् असंनिकृष्टे ऽर्थे विज्ञानम्.
उपमानम् अपि सादृश्यम् असंनिकृष्टे ऽर्थे बुद्धिम् उत्पादयति, यथा गवयदर्शनं गोस्मरणस्य.
अर्थापत्तिर् अपि दृष्टः श्रुतो वार्थो ऽन्यथा नोपपद्यत इत्य् अर्थकल्पना, यथा जीवतो देवदत्तस्य{*1।123*} गृहाभावदर्शनेन बहिर्भावस्य अदृष्टस्य कल्पना.
अभावो ऽपि प्रमाणाभावो नास्तीत्य् अस्यार्थस्यासंनिकृष्टस्य. तस्मात् प्रसिद्धत्वान् न परीक्षितव्यं निमित्तम्.
ननु प्रत्यक्षादीन्य् अन्यानि भवन्तु नाम प्रमाणानि, शब्दस् तु न प्रमाणम्. कुतः -
अनिमित्तं विद्यमानोपलम्भनत्वात्{*1।124*}.
अनिमित्तम् अप्रमाणं शब्दः. यो ह्य् उपलम्भनविषयो [11]{*1।125*} नोपलभ्यते, स नास्ति, यथा शशस्य विषाणम्. उपलम्भनानि{*1।126*} चेन्द्रियाणि पश्वादीनाम्. न च पशुकामेष्ट्यनन्तरं पशव उपलभ्यन्ते. अतो नेष्टिः पशुफला. कर्मकाले च कर्मफलेन{*1।127*} भवितव्यम्. यत्कालं हि
मर्दनम्, तत्कालं मर्दनसुखम्.
कालान्तरे फलं दास्यतीति चेत्, न, न कालान्तरे फलम् इष्टेर् इत्य् अवगच्छामः. कुतः? यदा तावद् असौ विद्यमाना आसीत्, तदा फलं न दत्तवती. यदा फलम् उत्पद्यते, तदासौ नास्ति. असती च कथं दास्यति? अपि च कर्मकाल एव फलं श्रूयते - यागः करणम् इति वाक्याद्{*1।128*} अवगम्यते, करणं चेद् उत्पन्नम्, कार्येण भवितव्यम् इति{*1।129*}. प्रत्यक्षं च फलकारणम् अन्यद् उपलभामहे{*1।130*}. न च दृष्टे कारणे सत्य् अदृष्टं कल्पयितुं शक्यते{*1।131*}, प्रमाणाभावात्. एवं दृष्टापचारस्य वेदस्य स्वर्गाद्य् अपि फलं न भवतीति मन्यामहे.
दृष्टविरुद्धम् अपि भवति किंचिद् वैदिकं{*1।132*} वचनम्. पात्रचयनं विधायाह - स एष यज्ञायुधी यजमानो ऽञ्जसा स्वर्गं लोकं यातीति{*1।133*} प्रत्यक्षं शरीरं{*1।134*} व्यपदिशति. न च तत् स्वर्गं लोकं याति. प्रत्यक्षं हि तद् दह्यते. न चैष यातीति विधिशब्दः. एवंजातीयकं च प्रमाणविरुद्धं वचनम् अप्रमाणम् अम्बुनि मज्जन्त्य् अलाबूनि, ग्रावानः प्लवन्त इति{*1।135*} यथा. तत्सामान्याद् अग्निहोत्रादिचोदनास्व्{*1।136*} अप्य् अनाश्वासः. तस्मान् न चोदनालक्षणो ऽर्थो धर्मः.
औत्पत्तिकस् तु शब्दस्यार्थेन संबन्धस् तस्य ज्ञानम्{*1।137*}.
तुशब्दः पक्षं व्यावर्तयति. अपौरुषेयः शब्दस्यार्थेन संबन्धस् तस्याग्निहोत्रादिलक्षणस्यार्थस्य{*1।138*} ज्ञानं प्रत्यक्षादिभिर्{*1।139*} अनवगम्यमानस्य. तथा च{*1।140*} चोदनालक्षणः संयक्प्रत्यय{*1।141*} इति. पौरुषेये हि सति संबन्धे{*1।142*} यः प्रत्ययः, तस्य मिथ्याभाव आशङ्क्येत. परप्रत्ययो [12]{*1।143*} हि तदा{*1।144*} स्यात्. अथ शब्दे ब्रुवति कथं मिथ्येति? न हि तदानीम् अन्यतः पुरुषाद् अवगमः{*1।145*}. ब्रवीतीत्य्{*1।146*} उच्यत अवबोधयति{*1।147*}, बुध्यमानस्य निमित्तम् भवतीति{*1।148*}. शब्दे चेन्{*1।149*} निमित्तभूते{*1।150*} स्वयम् अवबुध्यते{*1।151*}, कथं विप्रलब्धं ब्रूयान् नैतद् एवम् इति. न चास्य चोदना स्याद् वा न वेति सांशयिकं प्रत्ययम् उत्पादयति. न च मिथ्यैतद् इति कालान्तरे देशान्तरे ऽवस्थान्तरे पुरुषान्तरे वा पुनर् अव्यपदेश्यः प्रत्ययो{*1।152*} भवति. यो ऽप्य् अन्यप्रत्ययविपर्यासं{*1।153*} दृष्ट्वात्रापि विपर्यसिष्यतीत्य् आनुमानिकः प्रत्यय उत्पद्यते, सो ऽप्य् अनेन प्रत्यक्षेण प्रत्ययेन{*1।154*} विरुध्यमानो बाध्यते. तस्माच् चोदनालक्षण एव धर्मः.
स्याद् एतद् एवम्{*1।155*} - नैव शब्दस्यार्थेनास्ति{*1।156*} संबन्धः, कुतो ऽस्य पौरुषेयता वेति. कथम्? स्याच् चेद् अर्थेन संबन्धः, क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे स्याताम्,
यदि{*1।157*} संश्लेषलक्षणं संबन्धम्{*1।158*} अभिप्रेत्योच्यते. कार्यकारणनिमित्तनैमित्तिकाश्रयाश्रयिभावयौनादयस्{*1।159*} तु संबन्धाः शब्दस्यानुपपन्ना एवेति.
उच्यते - यो ऽत्र व्यपदेश्यः संबन्धः, तम् एकं न व्यपदिशति भवान्, प्रत्यय्यस्य प्रत्यायकस्य च यः संज्ञासंज्ञिलक्षणः संबन्धस् तम्{*1।160*} इति. आह - यदि प्रत्यायकः शब्दः, प्रथमश्रुतः किं न प्रत्याययति? उच्यते - सर्वत्र नो दर्शनं प्रमाणम्. प्रत्यायकेति हि प्रत्ययं दृष्ट्वावगच्छामः, न प्रथमश्रुत इति प्रथमश्रवणे प्रत्ययम् अदृष्ट्वा. यावत्कृत्वः श्रुताद् अर्थावगमः. यथा चक्षुर् द्रष्ट्र् न बाह्येन प्रकाशेन विना प्रकाशयतीत्य् अद्रष्टृ न भवति.
यदि [13]{*1।161*} प्रथमश्रुतो न प्रत्याययति, कृतकस् तर्हि शब्दस्यार्थेन संबन्धः. कुतः? स्वभावतो ह्य् असंबन्धाव् एतौ शब्दार्थौ. मुखे हि शब्दम् उपलभामहे, भूमाव् अर्थम्. शब्दो ऽयं न त्व् अर्थः, अर्थो ऽयं न शब्देति च व्यपदिशन्ति. रूपभेदो ऽपि भवति. गौर् इतीमं शब्दम् उच्चारयन्ति, सास्नादिमन्तम् अर्थम् अवबुध्यन्त{*1।162*} इति. पृथग्भूतयोश् च यः संबन्धः, स{*1।163*} कृतको दृष्टः, यथा रज्जुघटयोर् इति. अथ गौर् इत्य् अत्र कः शब्दः? गकारौकारविसर्जनीया इति भगवान् उपवर्षः. श्रोत्रग्रहणे ह्य् अर्थे लोके शब्दशब्दः प्रसिद्धः. ते च श्रोत्रग्रहणाः.
यद्य् एवम्, अर्थप्रत्ययो नोपपद्यते. कथम्? एकैकाक्षरविज्ञाने ह्य्{*1।164*} अर्थो नोपलभ्यते. न चाक्षरव्यतिरिक्तो ऽन्यः कश्चिद् अस्ति समुदायो नाम, यतो ऽर्थप्रतिपत्तिः स्यात्. यदा हि{*1।165*} गकारः, न तदौकारादिविसर्जनीयौ. यदौकारविसर्जनीयौ, न तदा गकारः. अतो गकारादिव्यतिरिक्तो ऽन्यो गोशब्दो{*1।166*} ऽस्ति, यतो ऽर्थप्रतिपत्तिः स्यात्. अन्तर्हिते ऽपि{*1।167*} शब्दे स्मरणाद् अर्थप्रत्यय इति चेत्{*1।168*}, न. स्मृतेर् अपि क्षणिकत्वाद् अक्षरैस् तुल्यता.
पूर्ववर्णजनितसंस्कारसहितो ऽन्त्य वर्णः प्रत्यायक{*1।169*} इत्य् अदोषः. नन्व् एवम् अपि{*1।170*} शब्दाद् अर्थं प्रतिपद्यामह इति लौकिकं वचनम् अनुपपन्नं स्यात्{*1।171*}.
उच्यते - यदि नोपपद्यते, अनुपपन्नं नाम. न हि लौकिकं वचनम् अनुपपन्नम् इत्य् एतावता प्रत्यक्षादिभिर् अनवगम्यमानो{*1।172*} ऽर्थः शक्यो ऽभ्युपगन्तुम्{*1।173*}. लौकिकानि वचनान्य् उपपन्नार्थान्य् अनुपपन्नार्थानि च दृश्यन्ते, यथा देवदत्त, गाम् अभ्याजेत्य् एवमादीनि दश दाडिमानि षड् अपूपा इत्य् एवमादीनि च.
ननु च शास्त्रकारा अप्य् एवम् आहुः पूर्वापरीभूतं भावम् आख्याते[14]{*1।174*}नाचष्टे व्रजति, पचतीत्य् उपक्रमप्रभृत्य् अपवर्गपर्यन्तम् इति{*1।175*} यथा. न शास्त्रकारवचनम् अप्य् अलम् इमम् अर्थम् अप्रमाणकम् उपपादयितुम्.
अपि च नैवैतद्{*1।176*} अनुपपन्नार्थम्. अक्षरेभ्यः संस्कारः, संस्काराद् अर्थप्रतिपत्तिर् इति भवन्त्य्{*1।177*} अर्थप्रत्पत्ताव् अक्षराणि निमित्तम्. गौण एष{*1।178*} शब्द इति चेत्, न गौणो ऽक्षरेषु निमित्तभावः, तद्भावे भावात् तदभावे चाभावात्. अथापि गौणः स्यात्, न गौणः शब्दो मा भूद् इत्य् एतावता{*1।179*} प्रत्यक्षादिभिर् अनवगम्यमानो ऽर्थः शक्यः परिकल्पयितुम्. न ह्य् अग्निर् माणवक इत्य् उक्ते ऽग्निशब्दो गौणो मा भूद् इति ज्वलन एव माणवक इत्य् अध्यवसीयते. न च प्रत्यक्षो गकारादिभ्यो ऽन्यो गोशब्द इति, भेददर्शनाभावाद् अभेददर्शनाच् च. गकारादीनि हि प्रत्यक्षाणि. तस्माद् गौर् इति गकारादिविसर्जनीयान्तं पदम् अक्षराण्य् एव. न तेभ्यो{*1।180*} व्यतिरिक्तम् अन्यत् पदं नाम इति. ननु संस्कारकल्पनायाम् अप्य् अदृष्टकल्पना. उच्यते - शाब्दकल्पनायां सा च शब्दकल्पना च. तस्माद् अक्षराण्य् एव पदम्.
अथ गौर् इत्य् अस्य शब्दस्य को ऽर्थः? सास्नादिविशिष्टाकृतिर् इति ब्रूमः. नन्व् आकृतिः साध्यास्ति वा न वेति? न प्रत्यक्षा सती साध्या भवितुम् अर्हति. रुचकः, स्वस्तिकः, वर्धमानक इति हि प्रत्यक्षं दृश्यते. व्यमोह इति चेत्, न. नास्ति प्रत्ययविपर्यासे व्यमोह इति शक्यते वक्तुम्{*1।181*}.
असत्य् अप्य्{*1।182*} अर्थान्तर एवंजातीयके{*1।183*} भवति प्रत्ययः प्रङ्क्तिः, यूथम्, वनम् इति यथेति चेत्, न. असंबद्धम् इदं वचनम् उपन्यस्तम्. किम् असति वने वनप्रत्ययो भवतीति प्रत्यक्षम् एव आक्षिप्यते वृक्षा अपि न सन्तीति? यद्य् एवम्, प्रत्युक्तः स [15]{*1।184*} महायानिकः{*1।185*} पक्षः. अथ किम् आकृतिसद्भाववाद्य् उपालभ्यते सिद्धान्तान्तरं ते दुष्यति{*1।186*}. वने ऽपि ते ऽसति{*1।187*} वनप्रत्ययः प्राप्नोतीति. एवम् अपि प्रकृतं दूषयितुम् अशक्नुवन्तस् ते सिद्धान्तान्तरदूषणं{*1।188*} निग्रहस्थानम् आपद्यते{*1।189*}, असाधकत्वात्. स हि वक्ष्यति दुष्यतु, यदि दुष्यति. किं तेन दुष्टेन अदुष्टेन वा प्रकृतं त्वया साधितं भवति मदीयो वा पक्षो दूषितो भवतीति. न च वृक्षव्यतिरिक्तं वनं यस्मान् नोपलभ्यते, ततो{*1।190*} वनं नास्तीत्य् अवगम्यते{*1।191*}. यदि वने ऽन्येन हेतुना सद्भावविपरीतः प्रत्यय उत्पद्यते, मिथ्यैष{*1।192*} वनप्रत्यय इत्य् अतो{*1।193*} वनं नास्तीत्य् अवगच्छामः. न च गवादिषु प्रत्ययो विपर्येति. अतो वैषम्यम्. अथ वनादिषु नैव प्रत्ययविपर्यासः{*1।194*}, न ते न सन्तीति. तस्माद् असंबद्धः पङ्क्तिवनोपन्यासः, न ते न सन्तीति. तस्माद् असंबद्धः पङ्क्तिवनोपन्यासः.
अत उपपन्नं जैमिनिवचनम् आकृतिः पदार्थ इति{*1।195*}. यथा च आकृतिः शब्दार्थस्, तथोपरिष्टान् निपुणतरम् उपपादयिष्याम इति.
अथ संबन्धः क इति? यत् शब्दे विज्ञाते ऽर्थो विज्ञायते.
स तु कृतक{*1।196*} इति पूर्वम् उपपादितम्. तस्मान् मन्यामहे केनापि पुरुषेण शब्दानाम् अर्थैः सह संबन्धं कृत्वा संव्यवहर्तुं{*1।197*} वेदाः प्रणीता इति.
तद् इदानीम् उच्यते - अपौरुषेयत्वात् संबन्धस्य सिद्धम्{*1।198*} इति. कथं पुनर् इदम् अवगम्यते ऽपौरुषेय एष संबन्ध इति? पुरुषस्य संबन्धुर् अभावात्. कथं संबन्धा नास्ति? प्रत्यक्षस्य प्रमाणस्य अभावात् तत्पूर्वकत्वाच् चेतरेषाम्.
ननु चिरवृत्तत्वात् प्रत्यक्षस्य अविषयो भवेद् इदानीन्तनानाम्. न हि चिरवृत्तः सन् न स्मर्येत. न च हिमवदादिषु कूपारामादिवद् अस्मरणं भवितुम् अर्हति. पुरुषवियोगो [16]{*1।199*} हि तेषु भवति देशोत्सादेन कुलोत्सादेन वा. न तु{*1।200*} शब्दार्थव्यवहारवियोगः पुरुषानाम् अस्ति. स्याद् एतत् - संबन्धमात्रव्यवहारिणो निष्प्रयोजनं कर्तृस्मरणम् अनाद्रियमानाः पुरुषा विस्मरेयुर् इति. तन्
न. यदि हि पुरुषः कृत्वा संबन्धं व्यवहारयेत्, व्यवहारकाले ऽवश्यं स्मर्तव्यो भवेत्{*1।201*}. संप्रतिपत्तौ हि कर्तृव्यवहर्त्रोर् अर्थः सिध्यति, न विप्रतिपत्तौ. न हि वृद्धिशब्देन अपाणिनेर् व्यवहारत आदैचः प्रतियेरन् पाणिनिकृतिम् अननुमन्यमानस्य वा. तथा मकारेणाप्य्{*1।202*} अपिङ्गलस्य न सर्वगुरुस् त्रिकः प्रतीयेत पिङ्गलकृतिम् अननुमन्यमानस्य वा. तेन कर्तृव्यवहर्तारौ संप्रतिपद्येते. तेन वेदैर्{*1।203*} व्यवहरद्भिर् अवश्यं स्मरणीयः संबन्धस्य कर्ता स्याद् व्यवहारस्य च. न हि विस्मृते वृद्धिर् आदैज् इत्य्{*1।204*} अस्य सूत्रस्य कर्तरि वृद्धिर् यस्याचाम् आदिस्, तद् वृद्धम्{*1।205*} इति{*1।206*} किंचित् प्रतीयेत{*1।207*}. तस्माद् अस्मरणाद्{*1।208*} अवगच्छामः न कृत्वा संबन्धं व्यवहारार्थं केनचिद् वेदाः प्रणीता इति.
यद्य् अपि च विस्मरणम् उपपद्येत, तथापि न प्रमाणम् अन्तरेण संबन्धारं प्रतिपद्येमहि, यथा विद्यमानस्याप्य् अनुपलम्भनं भवतीति नैतावता विना प्रमाणेन शशविषाणं प्रतिपद्येमहि{*1।209*}. तस्माद् अपौरुषेयः शब्दस्यार्थेन संबन्ध इति.
नन्व् अर्थापत्त्या संबन्धारं प्रतिपद्येमहि. न हि अकृतसंबन्धाच् छब्दाद् अर्थं प्रतिपद्यमानम् उपलभामहे. प्रतिपद्येरंस् चेत्, प्रथमश्रवणे ऽपि प्रतिपद्येरन्. तदनुपलम्भनाद् अवश्यं भवितव्यं संबन्ध्रेति मन्यामह इति{*1।210*} चेत्, न. सिद्धवद्, उपदेशात्{*1।211*}.
यदि संबन्धुर् अभावान् नियोगतो नार्था उपलभ्येरन्{*1।212*}, ततो ऽर्थापत्त्या [17]{*1।213*} संबन्धारम् अवगच्छामः. अस्ति त्व् अन्यः प्रकारः. वृद्धानां स्वार्थेन व्यवहरमाणानाम्{*1।214*} उपशृण्वन्तो बालाः प्रत्यक्षम् अर्थं प्रतिपद्यमाना दृश्यन्ते. ते ऽपि वृद्धा यदा बाला आसंस्, तदान्येभ्यो वृद्धेभ्यः, ते ऽप्य् अन्येभ्य इति नास्त्य् आदिर् इत्य् एवं वा भवेत्. अथवा न कश्चिद् एको ऽपि शब्दो ऽर्थेन संबद्ध आसीत्, अथ केनचित् संबन्धाः प्रवर्तिता इति. अत्र वृद्धव्यवहारे सति नार्थाद् आपद्येत संबन्धस्य कार्ता. अपि च वृद्धव्यवहारवादिनः प्रत्यक्षम् उपदिशन्ति, कल्पयन्तीतरे संबन्धारम्. न च प्रत्यक्षे प्रत्यर्थिनि कल्पना साध्वी. तस्मात् संबन्धुर् अभावः. अव्यतिरेकश् च{*1।215*}.
यथा अस्मिन् देशे सास्नादिमति गोशब्दः, एवं सर्वेषु दुर्गमेष्व् अपि. बहवः संबन्धारः कथं संगम्स्यन्ते. एको ऽपि{*1।216*} न शक्नुयात्{*1।217*}. अतो नास्ति संबन्धा{*1।218*}.
अपर आह - अव्यतिरेकश् च{*1।219*}.
न हि संबन्धव्यतिरिक्तः कश्चित् कालो ऽस्ति, यस्मिन् न कश्चिद् अपि शब्दः केनचिद् अर्थेन संबद्ध आसीत्. कथम्? संबन्धक्रियैव हि{*1।220*} नोपपद्यते. अवश्यम् अनेन संबन्धं कुर्वता केनचिच् छब्देन कर्तव्यः{*1।221*}. येन क्रियेत, तस्य केन कृतः? अथान्येन केनचित् कृतः, तस्य केनेति, तस्य केनेति{*1।222*} नैवावतिष्ठते. तस्माद् अवश्यम् अनेन संबन्धं कुर्वता अकृतसंबन्धाः केचन शब्दा वृद्धव्यवहारसिद्धा अभ्युपगन्तव्याः. अस्ति चेद् व्यवहारसिद्धिः, न नियोगतः संबन्ध्रा भवितव्यम् इत्य् अर्थापत्तिर् अपि नास्ति. स्याद् एतत् - अप्रसिद्धसंबन्धा बालाः कथं वृद्धेभ्यः प्रतिपद्यन्त इति. न हि{*1।223*} दृष्टे ऽनुपपन्नं नाम. दृष्टा हि{*1।224*} बाला वृद्धेभ्यः{*1।225*} प्रतिपद्यमानाः, न त्व् अप्रतिपन्नसंबन्धाः{*1।226*} संबन्धस्य कर्तुः. तस्माद् वैषम्यम्.
अर्थे ऽनुपलब्धे{*1।227*}.
अनुपलब्धे च देवतादाव्{*1।228*} अर्थे ऽनर्थकं [18]{*1।229*} संज्ञाकरणम् अशक्यं च. विशेषान् प्रतिपत्तुं हि{*1।230*} संज्ञाः क्रियन्ते विशेषांश् चोद्दिश्य. तद् विशेषेष्व् अज्ञायमानेषूभयम्{*1।231*} अप्य् अनवकॢप्तम्. तस्माद् अपौरुषेयः शब्दस्य अर्थेन संबन्धः.
अतश् च - तत् प्रमाणम्, अनपेक्षत्वात्{*1।232*}.
न ह्य् एवं{*1।233*} सति पुरुषान्तरं प्रत्ययान्तरं वा{*1।234*} अपेक्षते{*1।235*}. तस्माच् चोदनालक्षण एव धर्मो नान्यलक्षणः.
बादरायणग्रहणम् उक्तम्.
अथ यद् उक्तम् अनिमित्तं शब्दः. कर्मकाले फलादर्शनात् कालान्तरे च कर्माभावात् प्रमाणं नास्तीति, तद् उच्यते - न स्यात् प्रमाणम्, यदि पञ्चैव प्रमाणान्य् अभविष्यन्. येन येन हि{*1।236*} प्रमीयते, तत् तत् प्रमाणम्. शब्देनापि प्रमीयते, ततः{*1।237*} शब्दो ऽपि प्रमाणम्, यथैव प्रत्यक्षम्. न च प्रमाणेन अवगतम्, प्रमाणान्तरेण अनवगतम् इत्य् एतावतानवगतं भवति. न चैवं श्रूयते कृते कर्मणि तावत्य् एव{*1।238*} फलं भवति, किं तु कर्मणा{*1।239*} फलं प्राप्यत इति. यच् च कालान्तरे फलस्य अन्यत् प्रत्यक्षं कारणम् अस्तीति, नैष दोषः. तच् चैव हि
तत्र{*1।240*} कारणं शब्दश् चेति.
यत् तु प्रत्यक्षविरुद्धं वचनम् उपन्यस्तम् - स एष यज्ञायुधी यजमानो ऽञ्जसा स्वर्गं लोकं यातीति प्रत्यक्षं शरीरं व्यपदिशतीति.
तद् उच्यते - शरीरसंबन्धात्, यस्य तच् छरीरम्, सो ऽपि तैर् यज्ञायुधैर् यज्ञायुधीत्य् उच्यते.
आह - को ऽसाव् अन्यः? नैनम् उपलभामहे.
ननु{*1।241*} प्राणादिभिर् एनम् उपलभामहे. यो ऽसौ प्राणित्य् अपानित्य् उच्छ्वसिति निमिषतीत्यादि चेष्टितवान्, सो ऽत्र शरीरे यज्ञायुधीति. ननु शरीरम् एव प्राणित्य् अपानिति च? न प्राणादयः शरीरगुणाः{*1।242*}. शरीरगुणविधर्माणो हि ते{*1।243*}, अयावच्छरीरभावित्वात्. यावच्छरीरं तावद् अस्य गुणा रूपादयः. प्राणादयस् तु सत्य् अपि शरीरे न भवन्ति. अतो न शरीरगुणाः प्राणादयः{*1।244*}. सुखादयश् च स्वयम् उप[19]{*1।245*}लभ्यन्ते, न रूपादय इव शरीरगुणाः परेणापि. तस्माच् छरीरगुणवैधर्म्याद् अन्यः शरीराद् यज्ञायुधीति.
आह - कुत एषः संप्रत्ययः सुखादिभ्यो ऽन्यस् तद्वान् अस्तीति. न हि सुखादिप्रत्याख्यानेन तस्य स्वरूपम् उपलभामहे. तस्माच् छशविषाणवद् असौ नास्ति.
अथोच्यते - तेन विना कस्य सुखादय इति?
न कस्यचिद् अपीति वक्ष्यामः{*1।246*}. न हि यो य उपलभ्यते, तस्य तस्य संबन्धिना भवितव्यम्. यस्य संबन्धो ऽप्य् उपलभ्यते संबन्धी च, तस्यायं संबन्धीति गम्यते. न हि चन्द्रमसम् आदित्यं वोपलभ्य संबन्ध्यन्तरान्वेषणा{*1।247*} भवति: कस्यायम् इति. न कस्यचिद् अपीत्य् अवधार्यते. तस्मान् न सुखादिभ्यो ऽन्यस् तद्वान् अस्तीति. अथोपलब्धस्यावश्यं कल्पयितव्यः संबन्धी भवेत्{*1।248*}, तत आत्मानम् अप्य् अनेन प्रकारेणोपलभ्य कस्यायम् इति संबन्ध्यन्तरम् अन्विष्येम 1।249*}. तम् अपि कल्पयित्वान्यम् अपि कल्पयित्वान्यम् इत्य् अनवस्थैव 1।250*} स्यात्. अथ कंचित् कल्पयित्वा, न संबन्ध्यन्तरम् अपि कल्पयिष्यसि, तावत्य् एव विरंस्यसि तावता च परितोक्ष्यसि 1।251*}, ततो विज्ञान एव परितुष्य तावत्य् एव विरन्तुम् अर्हसि.
अत्रोच्यते - यदि विज्ञानाद् अन्यो विज्ञाता{*1।252*} नास्ति, कस् तर्हि जानातीत्य् उच्यते? ज्ञानस्य{*1।253*} कर्तुर् अभिधानम् अनेन{*1।254*} शब्देनोपपद्यते{*1।255*}. तद् एष शब्दो ऽर्थवान् कर्तव्य इति ज्ञानाद् व्यतिरिक्तम् आत्मानं कल्पयिष्याम इति.
आह - देवा{*1।256*} एनं शब्दम् अर्थवन्तं कल्पयिष्यन्ति, यदि कल्पयितव्यं मंस्यन्ते{*1।257*}. बहवः खल्व् इह जना अस्त्य् आत्मा, अस्त्य् आत्मेत्य् आत्मसत्तावादिन एव शब्दस्य प्रत्यक्षवक्तारो{*1।258*} [20]{*1।259*} भवन्ति, तथापि नात्मसत्तां कल्पयितुं घटन्ते, किम् अङ्ग पुनर् जानातीति परोक्षशब्ददर्शनात्. तस्माद् असद् एतत्.
उच्यते - इच्छयात्मानम्{*1।260*} उपलभामहे. कथम्? उपलब्धपूर्वे ह्य् अभिप्रेते भवतीच्छा, नानुपलब्धपूर्वे{*1।261*}. यथा मेरुम् उत्तरेण यान्य् अस्मज्जातीयैर् अनुपलब्धपूर्वाणि स्वादूनि वृक्षफलानि, न तानि प्रत्य् अस्माकम् इच्छा भवति. नो खल्व् अन्येन पुरुषेणोपलब्धे ऽपि विषये ऽन्यस्यानुपलब्धुर्{*1।262*} इच्छा भवति. भवति चान्येद्युर् उपलब्धे ऽपरेद्युर्{*1।263*} इच्छा. अतस्{*1।264*} तेनोपलम्भनेन समानकर्तृका सेत्य्{*1।265*} अवगच्छामः. यदि विज्ञानमात्रम् एवेदम् उपलम्भकम् अभविष्यत्, प्रध्वस्ते{*1।266*} तस्मिन् कस्यापरेद्युर् इच्छाभविष्यत्. अथ{*1।267*} विज्ञानाद् अन्यो विज्ञाता नित्यः, तत एकस्मिन् अहनि य{*1।268*} उपलब्धा, अपरेद्युर् अपि स एवैषिष्यति. इतरथेच्छानुपपन्ना{*1।269*} स्यात्.
अत्राह{*1।270*} - अनुपपन्नम् इति नः क्व संप्रत्ययः? यन् न प्रमाणेनावगतम्. विज्ञानात् तावद् अन्यन्{*1।271*} नोपलभामहे. यच् च{*1।272*} नोपलभामहे, तच् छशविषाणवद् एव{*1।273*} नास्तीत्य् अवगच्छामः. न च तस्मिन् असति विज्ञानसद्भावो ऽनुपपन्नः, प्रत्यक्षावगतत्वाद् एव. क्षणिकत्वं चास्य प्रत्यक्षपूर्वकम् एव. न च ज्ञातरि विज्ञानाद् अन्यस्मिन् असति ज्ञाने चानित्ये अपरेद्युर् इच्छानुपपन्ना, प्रत्यक्षावगतत्वाद् एव. नो खल्व् अप्य्{*1।274*} एतद् दृष्टं य एवान्येद्युर् उपलब्धा, स एवापरेद्युर्{*1।275*} एषितेति. इदं तु दृष्टं यत् क्वचिद् अन्येन दृष्टम् अन्य इच्छति, क्वचिन् न. समानायां सन्तताव् अन्य इच्छति, सन्तत्यन्तरे नेच्छतीति. तस्मान् न सुखादिव्यतिरिक्तो ऽन्यो ऽस्तीति.
अत्रोच्यते - न ह्य् अस्मर्तार इच्छन्तीत्य् उपपद्यते. न चादृष्टपूर्वे{*1।276*} स्मृतिर् भवति. तस्मात् क्षणिके{*1।277*} विज्ञानस्कन्धमात्रे स्मृतिर् अनुपपन्नेति[21]{*1।278*}.
अत्राह - स्मृतिर् अपीच्छावत्. पूर्वविज्ञानसदृशं विज्ञानम्, पूर्वविज्ञानविषयं वा स्मृतिर् इत्य् उच्यते. तच् च, द्रष्टरि विनष्टे ऽपि, अपरेद्युर् उत्पद्यमानं नानुपपन्नम्, प्रत्यक्षावगतत्वाद् एव. अन्यस्मिन् स्कन्धघने ऽन्येन स्कन्धघनेन यज् ज्ञानम्, तत् तत्सन्ततिजेनान्येनोपलभ्यते{*1।279*} नातत्सन्ततिजेन. तस्माच् छून्याः स्कन्धघना इति. अथास्मिन्न् अर्थे{*1।280*} ब्राह्मणं भवति - विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय, तान्य् एवानुविनश्यति, न प्रेत्य संज्ञास्तीति{*1।281*}.
अत्रोच्यते{*1।282*} - नैतद् एवम्. अन्येद्युर् दृष्टे ऽपरेद्युः - अहम् इदम् अदर्शम् इति भवति प्रत्ययः. प्रत्यगात्मनि चैतद् भवति, न परत्र. परो{*1।283*} ह्य् असौ यो{*1।284*} ऽन्येद्युर् दृष्टवान्. तस्मात् तद्व्यतिरिक्तो ऽन्यो ऽस्ति, यत्रायम् अहंशब्दः.
आह - परत्राप्य् अहंशब्दो भक्त्या दृश्यते, तद् यथाहम्{*1।285*} एव पुत्रः, अहम् एव देवदत्तः, अहम् एव गच्छामीति.
अत्रोच्यते - न वयम् "अहम्" इतीमं शब्दम्, प्रयुज्यमानम् अन्यस्मिन्न् अर्थे, हेतुत्वेन व्यपदिशामः, किं तर्हि शब्दाद् व्यतिरिक्तं प्रत्यभिज्ञाप्रत्ययम्{*1।286*}. प्रतीमो हि{*1।287*} वयम् - इमम् अर्थं वयम् एवान्येद्युर् उपलभामहे, वयम् एवाद्य स्मराम इति. तस्मात् - वयम् इमम् अर्थम् अवगच्छामो वयम् एव ह्यो, वयम् एवाद्येति{*1।288*}. ये चामी{*1।289*} ह्यो ऽद्य च, न ते विनष्टाः. अथाप्य् अस्मिन्न् अर्थे ब्राह्मणं भवति. स वा अयम् आत्मेति प्रकृत्यामनन्त्य् अशीर्यो न हि शीर्यत इति. तथाविनाशी वा अरे ऽयम् आत्मा, अनुच्छित्तिधर्मा इति{*1।290*}. विनश्वरं च विज्ञानम्. तस्माद् विनश्वराद् अन्यः स{*1।291*} इत्य् [22]{*1।292*} अवगच्छामः. न च शक्यम् एवम् अवगन्तुम्, यथोपलभ्यन्ते ऽर्था न तथा भवन्ति, यथा, न खलु, नोपलभ्यन्ते तथा भवन्तीति. तथा हि सति - शशो नास्ति, शशस्य विषाणम् अस्तीत्य् अवगम्येत{*1।293*}. न चाहम्प्रत्ययो व्यामोह इति शक्यते वक्तुम्, बाधकप्रत्ययाभावात्. तस्मात् सुखादिभ्यो व्यतिरिक्तो ऽस्ति. एवं चेत्, स एव यज्ञायुधीति व्यपदिश्यते.
आह - यदि विज्ञानाद् अन्यद् अस्ति विज्ञातृ, विज्ञानम् अपास्य तन् निदर्श्यताम् - इदम् तद् ईदृशम् चेति. न च तन् निदर्श्यते. तस्मान् न ततो ऽन्यद् अस्तीति.
अत्रोच्यते - स्वसंवेद्यः स भवति. नासाव् अन्येन शक्यते द्रष्टुम्. कथम् असौ निदर्श्येतेति{*1।294*}. यथा च{*1।295*} कश्चिच् चक्षुष्मान् स्वयं रूपं पश्यति न च शक्नोत्य् अन्यस्मै जात्यन्धाय तन् निदर्शयितुम्, न च तन् न शक्यते निदर्शयितुम् इत्य् एतावता नास्तीत्य् अवगम्यते, एवम् असौ पुरुषः स्वयम् आत्मानम् उपलभते न चान्यस्मै शक्नोति दर्शयितुम्, अन्यस्य द्रष्टुस् तं पुरुषं प्रति दर्शनशक्त्यभावात्. सो ऽप्य् अन्यः पुरुषः स्वयम् आत्मानम् उपलभते, न परात्मानम्{*1।296*}. तेन सर्वे स्वेन स्वेनात्मना आत्मानम् उपलभमानाः सन्त्य् एव, यद्य् अपि परपुरुषैर् नोपलभ्यन्त{*1।297*} इति. अथास्मिन् अर्थे ब्राह्मणं भवति - शान्तायां वाचि किंज्योतिर् एवायं पुरुषः? आत्मज्योतिः, संराड् इति होवाचेति{*1।298*}. परेण नोपलभ्यत इत्य् अत्रापि ब्राह्मणं भवति - अगृह्यो न हि गृह्यतेति{*1।299*}. परेण न गृह्यत इत्य् एतदभिप्रायम् एतत्. कुतः? स्वयंज्योतिष्ट्ववचनात्. अत्रापि{*1।300*} ब्राह्मणं भवति - अत्रायं पुरुषः स्वयंज्योतिर् भवतीति{*1।301*}.
केन पुनर् उपायेनायम् (अयम्){*1।302*} अन्यस्मै कथ्यत इति? अत्राप्य्{*1।303*} उपाये [23]{*1।304*}ब्राह्मणं भवति - स एष नेति नेत्य् आत्मेति होवाचेति{*1।305*}. असाव् अयम्{*1।306*} एवंरूप इति न शक्यते निदर्शयितुम्. यच् च परः पश्यति, तत्प्रतिषेधस् तस्योपदेशोपायः. शरीरं परः पश्यति. तेनात्मोपदिश्यते. शरीरं नात्मा. अस्ति शरीराद् अन्यः{*1।307*} स चात्मेति शरीरप्रतिषेधेनात्मोपदिश्यते{*1।308*}. तथा प्राणादयो नात्मान इति{*1।309*} तत्प्रतिषेधेन तेभ्यो ऽन्य उपदिश्यते. तथा परस्थाः सुखादयः परेण लिङ्गैर् उपलभ्यन्ते. ते ऽपि नात्मान इति तत्प्रतिषेधेन तेभ्यो{*1।310*} ऽन्य उपदिश्यते.
यः स्वयं पश्यति, न ततो ऽन्यः पुरुष इत्य् एतद् अपि पुरुषप्रवृत्त्यानुमीयते, यदासौ पुरुषः पूर्वेद्युः सामिकृतानाम् अर्थानां प्रतिसमाधाने शेषानुष्ठाने च यतते, अतः{*1।311*} प्रवृत्त्यावगम्यते नूनम् असाव् अनित्यान् नित्यम् अवगच्छतीति{*1।312*}.
उपमानाच् चोपदिश्यते यादृशं भवान् स्वयम् आत्मानं पश्यति, अनेनोपमानेनावगच्छ - अहम् अपि तादृषम् एव पश्यामीति, यथा कश्चिद् आत्मीयां वेदनां परस्मा आचक्षीत - दह्यमानस्येव मे भवति, यात्यमानस्येव मे भवति, रुध्यमानस्येव{*1।313*} मे भवतीति. अतः स्वयम् अवगम्यमानत्वाद् अस्ति तद्व्यतिरिक्तः पुरुष इति.
यद् अप्य्{*1।314*} उच्यते - विज्ञानम् अपास्य तन् निदर्श्यताम् इति, यद्य् उपायम् एव निशेधसि, न शक्यम् उपायम् अन्तरेणोपेयम् उपेतुम्. अयम् एवाभ्युपायो ज्ञातव्यानाम् अर्थानां यो यथा ज्ञायते, स तथेति. तद् यथा - कः शुक्लो नाम? यत्र शुक्लत्वम् अस्ति. किं शुक्लत्वं नाम? यत्र शुक्लशब्दप्रवृत्तिः. क्व तस्य प्रवृत्तिः? यच् छुक्लशब्द उच्चरिते प्रतीयते. तस्मान् न विज्ञानं प्रत्याख्याय कस्यचिद् रूपं निदर्शयितुं शक्यम्.
न च नियोगतः प्रत्यये प्रतीते प्रत्ययार्थः प्रतीतो भवति. अप्रतीते ऽपि हि प्रत्यये सत्य् अर्थः प्रतीयत एव. न हि विज्ञानं प्रत्यक्षम्, विज्ञेयो ऽर्थः प्रत्यक्ष इत्य् एतत् पूर्वम् एवोक्तम्. तद् अवश्यकर्त[24]{*1।315*}व्ये ऽपह्नवे कामं विज्ञानम् अपह्नूयेत नार्थ इत्य् एतद् अप्य्{*1।316*} उक्तम् एव. तस्माद् अस्ति सुखादिभ्यो ऽन्यो नित्यः पुरुष इति.
अथ यद् उक्तं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्य् एवानुविनश्यति, न प्रेत्य संज्ञास्तीति, अत्रोच्यते - अत्रैव मा भगवान् मोहान्तम् आपीपदद् इति{*1।317*} परिचोदनोत्तरकाले ऽपह्नुत्य मोहान्ताभिप्रायम्{*1।318*} अस्य वचनस्य{*1।319*} वर्णितवान् न वा अरे ऽहं{*1।320*} मोहं ब्रवीमि, अविनाशी वा अरे ऽयम् आत्मानुच्छित्तिधर्मा, मात्रासंसर्गस् त्व् अस्य भवतीति{*1।321*}. तस्मान् न विज्ञानमात्रम्. तस्माद् वैषम्यम्.
यद् उक्तम् - न चैष यातीति विधिशब्द इति, मा भूद् विधिशब्दः. स्वर्गकामो यजेतेति वचनान्तरेणावगतम् अनुवदिष्यते. तस्माद् अविरोधः.
नोतेस्:
*{1।67: ए1,2,3,5,6, त, अ; त्ब्, त्च्, म्.पर्.: उत्पत्तिर् इति}*
*{1।68: ए5, त्च्, म्.परि.; ए1,2,3,6, त, त्ब्, अ: संबन्धो}*
*{1।69: ए1,2,3,5,6, त, अ; त्ब्, त्च्: अनवगम्यमानस्य}*
*{1।70: त, अ; त्ब् ओम्. तस्य; ए1,2,3,5,6, त्च् ओम्. भवति तस्य}*
*{1।71: ब्zw. तदुत्पन्नम्}*
*{1।72: त्ब्, त्च्, म्.परि.; ए1,2,3,5,6, त, अ ओम्. उत्पन्नम्}*
*{1।73: ए1,3,5, त, त्ब्, त्च्, अ; ए2,6: यथा भवति यथा विज्ञायते}*
*{1।74: त्ब्, त्च्; त: इव गम्यते; ए1,2,3,5,6, अ: इदं गम्यते}*
*{1।75: ए3,5, त, त्ब्, त्च्, अ; ए1,2,6: नास्ति वा}*
*{1।76: त, त्ब्, त्च्, अ: वा स्वयम्-; ए5,3: वापि स्वयम्- ; ए1,2,6: वापि अयम्}*
*{1।77: त्ब्, त्च्; ए1,2,3,5,6, त, अ: बादरायणग्रहणं बादरायणस्य}*
*{1।78: त्ब्, त्च्, काश्., न्य्. रत्.: ननु; ए1,2,3,5,6, त, अ: अत्रोच्यते}*
*{1।79: ए1,2,3,5,6, त, अ ओम्. निमित्तम्}*
*{1।80: ए2: 1,31; ए3: 175; ए5: 1,87; ए6: 1,6}*
*{1।81: व्ग्ल्. म्स् 1.1.4अ, दोर्त्: सत्संप्रयोगे... तत् प्रत्यक्षम्. zउर् उम्स्तेल्लुन्ग् वोन् तत् उन्द् सत् इन् म्स् 1.1.4 दुर्छ् देन् वृत्तिकार, व्ग्ल्. स्छ्मिथौसेन् (1965), स्.158}*
*{1।82: ए1,2,3,5,6, त्च्; त, अ: इदं तत्संप्रयोगजम्}*
*{1।83: ए1,2,3,5,6, त, त्च्, अ: इदं न}*
*{1।84: त्ब्, त्च्; ए1,2,3,5,6, त: ज्ञेयम्; अ ओम्. ज्ञायते}*
*{1।85: त, त्स्प्; ए1,2,3,5,6, अ: यदा हि; त्ब्, त्च्: यदि}*
*{1।86: त्स्प्: क्षुदादिभिर्; ए1,2,3,5,6, त, त्ब्, त्च्, अ: चक्षुरादिभिर्}*
*{1।87: त्च्, त्स्प्; ए1,2,3,5,6, त, त्ब्: संयग्ज्ञानस्य, अ: संयग्ज्ञाने}*
*{1।88: त्ब्, त्च्, त्स्प्; ए1,2,3,5,6, त, अ: मिथ्याज्ञानम्}*
*{1।89: ए3, त्ब्, त्च्, अ; ए1,2,6, त: अवगच्छेमहि; ए5, त्स्प्: अवगच्छेम}*
*{1।90: ए1,2,3,5,6, त्ब्, त, काश्., तात्प्.; त स्वभावाद् उपलक्षिता}*
*{1।91: त, त्ब्; ए1,2,3,5,6: कुड्यः; त्च्: कुम्भ; अ: कुण्ड}*
*{1।92: ए3, त्ब्, अ; ए1,2,5,6, त: विपर्यसिष्यतीति}*
*{1।93: अ ओम्. प्राक्}*
*{1।94: ए1,2,3,6; ए5, म्.परि.: प्रबोधात्; त: बोधनात्; अ: प्रत्यक्षबाधनात्; त्ब्, त्च्: बाधकज्ञानात्}*
*{1।95: त, त्च्; ए1,2,3,5,6, अ: विशेष इति, त्ब् विशेषः}*
*{1।96: ए2: 1,35; ए3: 186; ए5: 1,69; ए6: 1,7}*
*{1।97: त्ब्, अ, म्.परि.; ए1,2,3,5,6: तथा भवितुम्}*
*{1।98: व्ग्ल्. शालिकनाथ, मी. परि., ए1, 13।12f.: यदि प्रतीतिर् एवातथाभावं गमयति, जाग्रत्प्रतीतिर् अप्य् अर्थस्यातथाभावं गमयेत्}*
*{1।99: ए1,5 (व्.ल्.), त्च्, म्. परि.; ए1,2,3,6: प्रत्ययत्वाद् अयम्}*
*{1।100: ए5, त्ब्, त्च्, म्. परि.; ए1,2,3,6, त, अ: वक्तुम्}*
*{1।101: ए1,2,3,5,6, त, त्ब्, अ, म्.परि., काश्.; त्च् अन्यतो हि}*
*{1।102: म्. परि.; ए1,2,3,5,6, त, त्ब्, त्च्, अ: अभाव एव}*
*{1।103: ए1,2,3,5,6, त, अ; त्ब्, त्च्: न जाग्रत्प्रत्ययो}*
*{1।104: अ; ए1,2,3,5,6: तत्र; त, त्ब्, त्च् ओम् तन् न}*
*{1।105: ए1,2,3,5,6, त, अ; त्ब्, त्च्: भवेद्}*
*{1।106: त्च्, अ ओम्. हि}*
*{1।107: त्ब्, त्च् ओम्. इति}*
*{1।108: ए3,5, त, त्ब्, त्च्, अ, काश्., न्य्. रत्.; ए1,2,6: यद्}*
*{1।109: ए1,3,5, त, त्ब्, त्च्, काश्., न्य्. रत्.; ए2,6 अ: उच्यते}*
*{1।110: त्च्, काश्., न्य्.रत्.; ए1,2,3,5,6, त, अ, तात्प्.: ज्ञातो ऽर्थः; त्ब्: ज्ञातः}*
*{1।111: ए2: 1,40; ए3: 282; ए5: 1,86; ए6: 1,7}*
*{1।112: ए1,5, त्ब्, त्च्, काश्., न्य्.रत्.; ए2,3,6: ज्ञातो ऽप्य्}*
*{1।113: त, अ: बुद्धिरूपोपलम्भनम्}*
*{1।114: ए5, त, त्च्, अ, काश्.; ए1,2,3,6: न व्यपदेश्या}*
*{1।115: ए5, त्ब्, त्च्, अ, काश्.; ए1,6: नाप्रत्यक्षम्, ए2,3, ए1 (व्.ल्.): न प्रत्यक्षम्}*
*{1।116: ए5, त, त्ब्, त्च्, काश्., न्य्. रत्.; ए1,2,3,6, अ: न}*
*{1।117: त्ब्, त्च्, काश्., न्य्.रत्. ओम्. सतः}*
*{1।118: ए5, त्ब्, त्च्; ए1,2,3,6, त: अनाकाराम्}*
*{1।119: त, त्ब्, अ, काश्.; ए1,2,3,6: तन्त्वादाने, ए5: अतन्तूपादाने}*
*{1।120: त्ब्, त्च्; ए1,2,3,5,6, त, अ: अतो}*
*{1।121: ए1,2,3,5,6, त, अ ओम्. तत्र}*
*{1।122: ए3,5, त्ब्, त्च्, म्.परि., काश्.; त, न्य्.रत्.: आदित्ये; ए1,2,6, अ: आदित्यगतिस्मरणम्}*
*{1।123: त्ब्, त्च्, अ, म्.परि., काश्., ए1 (व्.ल्.); ए1,2,5,6, त, तात्प्.: जीवति देवदत्ते}*
*{1।124: म्स् 1.1.4ब्}*
*{1।125: ए2: 1,47; ए5: 1,124; ए6: 1,8}*
*{1।126: ए5, त्ब्, ऋज्.; ए1,2,6, त, अ: उपलम्भकानि}*
*{1।127: त्ब्, त्च्, म्.परि., तात्प्., काश्.; ए1,2,5,6, त, अ: फलेन}*
*{1।128: qउएल्ले निछ्त् नछ्गेwइएसेन्}*
*{1।129: ए2, अ ओम्. अपि च... बिस् भवितव्यम् इति, ए1 गिब्त् देन् अब्स्छ्नित्त् अल्स् fउßनोते, ए5,6 त, त्च्: अपि च - तत्काल एव फलं श्रूयते - यागः करणम् इति वाक्याद् अवगम्यते, कारणं चेद् उत्पन्नं कार्येण भवितव्यम् इति}*
*{1।130: ए1,2,5,6, त, अ; त्ब्, त्च्: उपलभ्यते}*
*{1।131: ए1,2,5,6, त, अ, म्.परि.; त्ब्, त्च्: शक्यम्}*
*{1।132: ए5, त्च्, बृह्., ऋज्., तात्प्., काश्., न्य्. रत्.; ए1,2,6, त, त्ब्, अ ओम्. वैदिकम्}*
*{1।133: zइतिएर्त् इन् आप्श्स् 31.2.21, qउएल्ले उन्बेकन्न्त्}*
*{1।134: त्ब्, त्च्, बृह्.; ए1,2,5,6, त, अ, तात्प्.: शरीरकम्}*
*{1।135: qउएल्ले निछ्त् नछ्गेwइएसेन्}*
*{1।136: ए1,2,5,6, त, तात्प्., काश्.; त्ब्, त्च्, अ, म्.परि.: अग्निहोत्रचोदनास्व्}*
*{1।137: म्स् 1.1.5अ}*
*{1।138: त्ब्, त्च्, म्.परि., तात्प्. ओम्. अग्निहोत्रादिलक्षणस्य}*
*{1।139: त्ब्, त्च्, म्.परि., तात्प्. ओम्. प्रत्यक्षादिभिर्}*
*{1।140: ए1,2,5,6, त, त्ब्, अ; त्च्, म्.परि., तात्प्.: यथा}*
*{1।141: त, त्ब्, त्च्, म्.परि., तात्प्.; ए1,2,5,6, अ: संयक्संप्रत्यय}*
*{1।142: ए1,2,5,6 हबेन् अन् स्तेल्ले वोन्: सति संबन्धे नुर्: शब्दे (बेइ fरौwअल्ल्नेर् fएह्ल्त् हिएर्zउ एइने अन्मेर्कुन्ग्)}*
*{1।143: ए2: 1,51; ए5: 1,131; ए6: 1,9}*
*{1।144: ए1,2,5,6, त, त्च्, म्.परि.; त्ब्, अ: तथा}*
*{1।145: त, त्ब्, अ; ए1,2,5,6, त्च्: अवगतिम् इच्छामः}*
*{1।146: ए1,2,5,6, अ, म्.परि.; त, त्ब्, त्च्: ब्रूत इतीत्य्}*
*{1।147: त्ब्, त्च्, अ, म्. परि.; ए1,2,5,6, त: बोधयति}*
*{1।148: त्ब्, त्च् ओम्. इति}*
*{1।149: त्ब्, त्च्, अ, म्. परि.; ए1,2,5,6, त: च}*
*{1।150: त्ब्, त्च्, म्. परि.; ए1,2,5,6, त, अ: निमित्ते}*
*{1।151: त्ब्, त्च्, म्. परि.; ए1,2,5,6, त, अ: बुध्यते}*
*{1।152: म्.परि.: प्रत्यक्षः प्रत्ययो; ए1,2,5,6: अव्यपदेशप्रत्ययो (बेइ fरौwअल्ल्नेर् निछ्त् वेर्मेर्क्त्)}*
*{1।153: त, त्ब्, त्च्, त्स्प्; ए1,2,5,6, अ: अस्य प्रत्ययविपर्यासं}*
*{1।154: त्ब्, त्च्, त्स्प् ओम्. प्रत्ययेन}*
*{1।155: तात्प्., न्य्.रत्. ओम्. एवम्}*
*{1।156: त, त्च्, अ, काश्. ओम्. अस्ति}*
*{1।157: ए5, त्ब् ओम्. यदि}*
*{1।158: ए1,2,6, त, अ; ए5, त्ब्, त्च्: संश्लेषसंबन्धम्}*
*{1।159: ए5, अ, ऋज्., ए1 (व्.ल्.); ए1,6: -भावसंयोगादयस्; ए2, त, त्ब्, त्च्: -भावादयस्}*
*{1।160: ए5, त्ब्, त्च्, तात्प्. ओम्. यः...तम्; ए1,2,5,6 ओम्. संबन्धस् तम्}*
*{1।161: ए2: 1,54; ए5: 1,143; ए6: 1,10}*
*{1।162: ए1,2,5,6, त, अ; त्ब्, त्च्: उच्चारयति...अवगच्छति}*
*{1।163: त्ब्, त्च् ओम्. यः...स}*
*{1।164: ए1,2,5,6, अ ओम्. ह्य्}*
*{1।165: ए1,2,5,6, अ ओम्. हि}*
*{1।166: ए1,2,5,6, त्च्; त, त्ब्, अ: शब्दो}*
*{1।167: ए1,2,5,6, अ, म्. परि. ओम्. ऽपि}*
*{1।168: त्ब्, त्च्, म्. परि.: -प्रत्यय इति चेत्; ए1,2,5,6, त: -प्रतिपत्तिश् चेत्; अ: -प्रतीतिः स्यात् चेत्}*
*{1।169: ए1,2,5,6, त, अ, म्.परि.; त्ब्, त्च्, तात्प्.: वाचक}*
*{1।170: ए1,2,5,6 ओम्. अपि}*
*{1।171: त्ब्, त्च्, तात्प्. ओम्. स्यात्}*
*{1।172: ए1,2,5,6, त, अ; त्ब्, त्च्: प्रत्यक्षादिभिः प्रमाणैर् अनुपलभ्यमानो}*
*{1।173: त, त्ब्, त्च्, अ; ए1,2,5,6: शक्नोत्य् उपगन्तुम्}*
*{1।174: ए2: 1,56; ए5: 1,153; ए6: 1,10}*
*{1।175: निरुक्त, 1.1}*
*{1।176: ए1,2,5,6, त, अ; त्ब्, त्च्, तात्प्.: न चैतद्}*
*{1।177: त, त्ब्, त्च्, तात्प्.; ए1,2,5,6, अ: संभवत्य्}*
*{1।178: त, त्ब्, त्च्, तात्प्., न्य्. रत्., ए1 (व्.ल्.); ए1,2,5,6, अ: एवार्थप्रतिपत्तौ}*
*{1।179: ए1,2,5,6, अ ओम्. एतावता}*
*{1।180: त, त्ब्, त्च्, अ; ए1,2,5,6: अतो न तेभ्यो}*
*{1।181: शक्यते वक्तुम्: ए1,2,5,6, त्च्, शार्क्.; त्ब्: अवगम्यते; त: गम्येत, अ: सम्यक्}*
*{1।182: त, अ ओम्. अप्य्}*
*{1।183: त, त्ब्, अ, शर्क्., न्य्. रत्.; ए1,2,5,6, त्च्: एवंजतीयको}*
*{1।184: ए2: 1,61; ए5: 1,171; ए6: 1,11}*
*{1।185: त्ब्, त्च्, अ, न्य्. रत्., ए2,5 , ए1 (व्.ल्.); ए1,6: महाजानिकः}*
*{1।186: त्ब्, त्च्, अ, बृह्., ऋज्.; ए1,2,5,6, त, अ: दुष्यतीति}*
*{1।187: ए5, त, त्ब्, त्च्, बृह्., ऋज्.; ए1,2,6: वने ऽपि सति}*
*{1।188: त्ब्: ते सिद्धान्त-; ए1,2,5,6, त, त्च्: तत्सिद्धान्त-; ए1,2,5,6, त, अ: -दूषणे}*
*{1।189: ए1,2,5,6, त; अ: उपपद्यते; त्ब्, त्च् ओम्}*
*{1।190: ए5, त्ब्, त्च्; ए1,2,6, त, अ: अतो}*
*{1।191: ए1,2,5,6, अ, न्य्.रत्.; त्ब्, त्च्: गम्यते; त: अवगच्छामः}*
*{1।192: त, त्ब्, त्च्; ए1,2,5,6, अ: मिथ्यैव}*
*{1।193: त; ए1,2,5,6, त्ब्, त्च्, अ: ततो}*
*{1।194: त्च्, शर्क्., न्य्. रत्.; त्ब्: प्रत्ययविपर्ययः; ए1,2,5,6, त, अ: विपर्येति}*
*{1।195: व्ग्ल्. म्स् 1.3.33, ए1।2 हबेन्: शब्दार्थ}*
*{1।196: ए1,2,5,6, त्ब्, अ; त: ननु स कृतक; त्च्: स कृतक}*
*{1।197: ए1,2,5,6, त, त्ब्, त्च्, अ; न्य्.रत्.: संव्यवहारार्थम्}*
*{1।198: ए1,2,5,6, त्च्, अ, शर्क्.; त, त्ब्: सिद्धस्य सिद्धम्}*
*{1।199: ए2: 1,63; ए5: 1,181; ए6: 1,12}*
*{1।200: त, त्ब्, अ; ए1,2,5,6, त्च्: न च}*
*{1।201: त्ब्, त्च्, अ; ए1,2,5,6, त: भवति}*
*{1।202: ए1,2,5,6 ओम्. अप्य्}*
*{1।203: त, त्ब्, त्च्, अ; ए1,2,5,6: वेदे}*
*{1।204: पाण्. 1.1.1}*
*{1।205: ए1,2,5,6, त, अ ओम्. तद् वृद्धम्}*
*{1।206: पाण्. 1.1.73; ए1।2, त, अ ओम्. तद् वृद्धम्}*
*{1।207: ए1,2,5,6, त, अ; त्ब्, त्च्, न्य्.रत्.: प्रतिपद्येत}*
*{1।208: त्ब्; ए1,2,5,6, त, त्च्, अ: कारणाद्}*
*{1।209: ए5,6, त्ब्, त्च्, बृह्.; ए1,2, त, अ: प्रतिपद्यामहे}*
*{1।210: ए1,2,5,6, त ओम्. मन्यामह इति}*
*{1।211: व्ग्ल्. म्स् 1.1.5ब्}*
*{1।212: ए1,2,5,6, त, अ: नार्था उपलभ्येरन्; त्ब्, त्च्: अथ उपलभ्येत}*
*{1।213: ए2: 1,67; ए5: 1,193; ए6: 1,12}*
*{1।214: त, त्ब्, त्च्, अ; ए1,2,5,6: संव्यवहरमाणानाम्}*
*{1।215: व्ग्ल्. म्स् 1.1.5च्}*
*{1।216: त, अ; ए1,2,5,6, त्ब्, त्च् ओम्. ऽपि}*
*{1।217: ए1,2,5,6, त, अ; त्ब्, त्च्, म्.परि.: शक्नुयाद् एव}*
*{1।218: त, त्ब्, त्च्, अ; ए1,2,5,6: संबन्धस्य कर्ता}*
*{1।219: व्ग्ल्. म्स् 1.1.5च्}*
*{1।220: त्ब्, त्च्, म्.परि., न्य्.रत्. ओम्. हि}*
*{1।221: ए1,2,5,6, अ; त: संबन्धः कर्तव्यः; त्ब्, त्च्: संबन्धः क्रियेत (क्रियते)}*
*{1।222: त, त्ब्, त्च्, अ ओम्. तस्य केनेति}*
*{1।223: त, त्ब्, त्च्, बृह्., म्. परि., न्य्. रत्.; ए1,2,5,6, अ: नास्ति}*
*{1।224: ए2 ओम्. हि}*
*{1।225: ए1,2,5,6, त्ब्, अ; त: वृद्धेभ्यः व्यवहारेण; त्च्: वृद्धव्यवहारेभ्यः}*
*{1।226: ए2 (व्.ल्.), त, अ; ए1,2,5,6: न च प्रतिपन्न-; त्ब्: अप्रतिपन्न-; त्च्: अप्रसिद्ध-}*
*{1।227: व्ग्ल्. म्स् 1.1.5द्}*
*{1।228: ए5, त्ब्, व्ग्ल्. बृह्., ऋज्., नयविवेक; ए1,2,6, त, त्च्, अ: देवदत्तादाव्}*
*{1।229: ए2: 1,69; ए5: 1,197; ए6: 1,13}*
*{1।230: त्ब्, त्च्, अ ओम्. हि}*
*{1।231: ए1,2,5,6, त्ब्, त्च्; त, अ: ज्ञायमानेषूभयम्}*
*{1।232: व्ग्ल्. म्स् 1.1.5ए}*
*{1।233: त, त्ब्, त्च्; ए1,2,5,6, अ: न चैवम्}*
*{1।234: त्ब्, त्च्, अ; ए1,2,5,6, त: च}*
*{1।235: त; ए1,2,5,6, अ: अपेक्ष्यते; त्ब्, त्च्: अपेक्षितव्यम्}*
*{1।236: त, त्ब्, त्च् ओम्. हि}*
*{1।237: ए1,2,5,6, अ; त: अतः; त्ब्, त्च्: तेन}*
*{1।238: त, त्ब्, त्च्, म्. परि.; ए1,2,5,6, अ: तावतैव}*
*{1।239: त, त्ब्, त्च्, अ; ए1,2,5,6: कर्मणः}*
*{1।240: त्ब्, त्च् ओम्. तत्र}*
*{1।241: ए1,2,5,6, अ ओम्. ननु}*
*{1।242: ए1,2,5,6, त, अ ओम्. शरीरगुणाः}*
*{1।243: ए1,2,6, त ओम्. हि ते; ए5 ओम्. हि ते अयावच्छरीरभावित्वात्}*
*{1।244: ए1,2,5,6 ओम्. अतो न शरीरगुणाः प्राणादयः}*
*{1।245: ए2: 1,73; ए5: 1,209; ए6: 1,14}*
*{1।246: ए1,2,5,6, त, अ; म्.परि.: वदामः; त्ब्, त्च्: ब्रूमः}*
*{1।247: त, त्ब्, अ; ए1,2,5,6: संबन्धान्वेषणा}*
*{1।248: त्ब्, त्च्, अ; ए1,2,5,6: भवति}*
*{1।249: ए1,2,5,6, अ; त, त्ब्, ए1 (व्.ल्.): अन्विच्छेम; त्च्: अन्विच्छेः}*
*{1।250: त, त्ब्, त्च्; ए1,2,5,6, अ: अव्यवस्थैव}*
*{1।251: ए2, त्ब्, अ; ए1,6, त, त्च्: परितोष्यसि; ए5: परितुष्यसि}*
*{1।252: ए1,2,5,6, त्ब्, अ ओम्. विज्ञाता}*
*{1।253: ए1,2,5,6, अ; त, त्ब्, त्च्: जानातीति ज्ञानस्य}*
*{1।254: त, त्ब्, त्च्, अ ओम्. अनेन}*
*{1।255: ए1,2,5,6, त, अ; त्ब्: उपलभ्यते; त्च्: उच्यते}*
*{1।256: त, त्ब्, त्च्, अ, ए1 (व्.ल्.); ए1,2,5,6: वेदा}*
*{1।257: ए1,2,5,6: प्रमंस्यते}*
*{1।258: त्ब् ओम्. प्रत्यक्ष-; त्च् ओम्. आत्मसत्तावादिन एव शब्दस्य प्रत्यक्ष-}*
*{1।259: ए2: 1,76; ए5: 1,214; ए6: 1,15}*
*{1।260: ए1,2,5,6, त, अ; त्ब्, त्च्: अन्यम्}*
*{1।261: ए1,2,5,6, त्ब्, त्च्, अ ओम्. नानुपलब्धपूर्वे}*
*{1।262: त्ब्, त्च्, अ; त: अनुपलब्धे; ए1,2,5,6: उपलब्धुर्}*
*{1।263: त्ब्; ए1,2,5,6, त, अ: ऽन्येदुर्, त्च् ओम्}*
*{1।264: ए1,2,5,6, त, अ ओम्. अतस्}*
*{1।265: ए1,2,5,6, त, अ: सा इत्य्; त्ब्, त्च्: अस्ति}*
*{1।266: त, त्ब्, त्च्; ए1,2,5,6, अ: प्रत्यस्ते}*
*{1।267: त्ब्, त्च्; ए2,5, त, अ: अथ तु; ए1,6: अथ नु}*
*{1।268: त, त्च्, अ; ए1,2,5,6, त्ब्: य एव}*
*{1।269: त्ब्, त्च्; ए1,2,5,6, त, अ: इच्छा नोपपन्ना}*
*{1।270: त्ब्, त्च्, ए1,2,5,6, त, अ: अत्रोच्यते}*
*{1।271: त, त्ब्, त्च्, अ; ए1,2,5,6: अन्यं}*
*{1।272: त, त्च्, अ: यच् च; ए1,2,5,6, त्ब्: यन्}*
*{1।273: त्ब्, त्च् ओम्. एव}*
*{1।274: त्च्, अ ओम्. अप्य्}*
*{1।275: त्ब्, त्च्; ए1,2,5,6, अ: अन्येद्युर्}*
*{1।276: त, त्ब्, त्च्, अ; ए1,2,5,6: न वा}*
*{1।277: त, त्ब्, त्च्, अ; ए1,2,5,6: क्षणिक-}*
*{1।278: ए2: 1,78; ए5: 1,220; ए6: 1,15}*
*{1।279: त्ब्; ए1,2,5,6, त, त्च्, अ: तत्-}*
*{1।280: ए1,2,5,6, त, अ: अथास्मिन् अर्थे; त्च्: अत्रापि; त्ब्: तथा च}*
*{1।281: बु (म्) 2.4.12; व्ग्ल्. बु (म्) 4.5.13 (एबेन्सो क्)}*
*{1।282: ए5, त्ब्, त्च्, बृह्.; ए1,2,6, अ: उच्यते}*
*{1।283: ए5, त, त्ब्, त्च्, अ, बृह्, ए1 (व्.ल्.); ए1,2,6: अपरो}*
*{1।284: ए5; ए1,2,6, अ ओम्. यो}*
*{1।285: ए5, त, त्ब्, त्च्: तद् यथा; ए1,2,6, अ: यथा}*
*{1।286: त, न्य्. रत्.; त्च्: आत्मप्रत्ययम्; ए1,2,5,6, त्ब्, अ: प्रत्ययम्}*
*{1।287: त्ब्, त्च्; ए1,2,5,6, त, अ ओम्. हि}*
*{1।288: बु (म्) 3.9.28, (क्) 3.9.26, इदेन्तिस्छ् मित् (म्) 4.2.6, (क्) 4.2.4. उन्द् (म्) 4.4.27, (क्) 4.4.22 उन्द् (क्) 4.5.15 (fएह्ल्त् इन् म्)}*
*{1।289: ए1 (व्.ल्.), त; त्च्: ये चैव; ए5: ये ऽपि चैव; ए1,2,6: ये; अ: यच् च}*
*{1।290: बु (म्) 4.5.15, (क्) 4.5.14}*
*{1।291: ए1,2,5,6, त, अ; त्ब्: विज्ञानाद् अन्य आत्मा; त्च्: विज्ञानाद् अन्यो ऽस्ति}*
*{1।292: ए2: 1,80; ए5: 1,232; ए6: 1,16}*
*{1।293: ए1,2,5,6, त, अ; त्ब्, त्च्: इत्य् एतत् तत्त्वम् (इत्य्) अवगम्येत}*
*{1।294: ए1,2,5,6: निदर्श्येत; त, त्ब्: निदर्श्यत; त, च्: निर्दिश्यत}*
*{1।295: त्ब्, त्च्, बृह्. ओम्. च}*
*{1।296: ए1,2,5,6, त्च्, अ; त, त्ब्: परम् आत्मानम्}*
*{1।297: त, त्ब्, त्च्, अ; ए1,2,5,6: परपुरुषं नोपलभन्त}*
*{1।298: बु (म्) 4.3.6 (=क्)}*
*{1।299: बु (म्) 3.9.28 (क् 3.9.26) इदेन्तिस्छ् मित् (म्) 4.2.6 (क् 4.2.4), (म्) 4.4.27 (क् 4.4.22) उन्द् (क्) 4.5.15 (fएह्ल्त् इन् म्)}*
*{1।300: त, त्च्; ए1,2,5,6, अ: अथापि}*
*{1।301: बु (म्) 4.4.10 (क् 4.3.9), इदेन्तिस्छ् मित् (म्) 4.3.16 (क् 4.3.14)}*
*{1।302: त्ब्, त्च् ओम्. अयम् (सो औछ् ए1।2)}*
*{1।303: त, त्ब्, त्च्; ए1,2,5,6, अ: तत्राप्य्}*
*{1।304: ए2: 1,83; ए5: 1,247; ए6: 1,17}*
*{1।305: बु (म्) 3.9.28 (क् 3.9.26), इदेन्तिस्छ् मित् (म्) 4.2.6 (क् 4.2.4), (म्) 4.4.27 (क् 4.4.22) उन्द् क् 4.5.15 (fएह्ल्त् इन् म्)}*
*{1।306: ए1,2,5,6 ओम्. अयम्}*
*{1।307: त्ब्, त्च्; ए1,2,5,6, त, अ: अन्य इति}*
*{1।308: ए1,2,5,6, त्च्, अ ओम्. आत्मा}*
*{1।309: ए1,2,5,6, त, अ ओम्. इति}*
*{1।310: ए5, अ ओम्. तेभ्यो; ए1,2,6 हबेन् तेभ्यो (fअल्स्छ् बेइ fरौwअल्ल्नेर्)}*
*{1।311: ए1,2,5,6, त, अ; त्ब्: तया; त्च्: अनया}*
*{1।312: ए1,2,5,6, त, अ; त्ब्: पश्यति; त्च्: अन्यं पश्यति}*
*{1।313: ए1,2,5,6; त: पाट्यमानस्य...तद्यमानस्य; त्ब् भिद्यमानस्य; त्च्: नुद्यमानस्य...ताड्-यमानस्य...भिद्यमान्स्य; अ: दह्यमानस्य...वाद्यमानस्य...तुद्यमानस्य}*
*{1।314: त्ब्, त्च्, ऋज्.; ए1।2, त, अ: यद्}*
*{1।315: ए2: 1,85; ए5: 1,254; ए6: 1,17}*
*{1।316: त्ब्, त्च्; ए1,2,5,6, त, अ ओम्. अप्य्}*
*{1।317: बु (म्) 4.5.14 (=क्); व्ग्ल्. म् 2.4.13 (=क्)}*
*{1।318: त, त्ब्, त्च्; ए1,2,5,6, अ: मोहान्त-}*
*{1।319: ए1,2,5,6, अ ओम्. वचनस्य}*
*{1।320: ए1,2,5,6 ओम्. ऽहं}*
*{1।321: बु (म्) 4.5.15 (व्ग्ल्. क् 4.5.14)}*
कर्मैके तत्र दर्शनात्
उक्तम् - नित्यः शब्दार्थयोः संबन्ध इति. तद् अनुपपन्नम्, शब्दस्यानित्यत्वात्. विनष्टः शब्दः, पुनर् अस्य क्रियमाणस्यार्थेनाकृतकः संबन्धो नोपपद्यते. न हि प्रथमश्रुताच् छब्दात् कश्चिद् अर्थं प्रत्येति. कथं पुनर् अनित्यः शब्दः. प्रयत्नाद् उत्तरकालं दृश्यते यतः. अतः प्रयत्नानन्तर्यात् तेन क्रियत इति गम्यते.
नन्व् अभिव्यञ्ज्यात् स एनम्. नेति ब्रूमः. न ह्य् अस्य प्राग् अभिव्यञ्जनात् सद्भावे किंचन प्रमाणम् अस्ति. संश् चाभिव्यज्यते नासन्.
अस्थानात्
नो{*1।322*} खल्व् अप्य् उच्चरितं मुहूर्तम् अप्य् उपलभामहे. अतो विनष्ट इत्य् अवगच्छामः. न च सन् नोपलभ्यते. अनुपलंभकारणानां व्यवधानादीनाम् अभावे ऽप्य् अनुपलम्भनात्. न चासौ विषयम् अप्राप्तः, आकाशाविषयत्वात्, कर्णच्छिद्रे ऽप्य् अनुपलम्भनात्.
नोतेस्:
*{1।322: ए1 गिब्त् अल्स् व्.ल्.: न चैनम् उच्चरितं}*
करोतिशब्दात्
अपि च शब्दं कुरु, मा शब्दं कार्षीर् इति व्यवहर्तारः प्रयुञ्जते, न ते नूनम् अवगच्छन्ति स एवायं शब्द इति.
सत्त्वान्तरे च यौगपद्यात्
नानादेशेषु च युगपच् छब्दम् उपलभामहे, तद् एकस्य नित्यस्यानुपपन्नम् इति. असति विशेषे नित्यस्य नानेकत्वम्. कार्याणां तु बहूनां नानादेशेषु क्रियमाणानाम् उपपद्यते ऽनेकदेशसंबन्धः. तस्माद् अप्य् अनित्यः.
प्रकृतिविकृत्योश् च
अपि च दध्यत्रेत्य् अत्रेकारः प्रकृतिः, यकारो विकृतिर् इत्य् उपपदिशन्ति. यद् विक्रियते, तद् अनित्यम्. इकारसादृश्यं च यकारस्योपलभ्यते, तेनापि तयोः प्रकृतिविकारभावो लक्ष्यते.
वृद्धिश् च कर्तृभूम्नास्य
अपि च बहुभिर् उच्चारयद्भिर् महान् शब्दः श्रूयते. स यद्य् अभिव्यज्यते, बहुभिर् अल्पैश् चोच्चार्यमाणस् तावान् एवोपलभ्येत. अतो मन्यामहे नूनम् अस्यैकैकेन कश्चिद् अवयवः क्रियते, यत् प्रचयाद् अयं महान् उपलभ्यते.
[26]{*1।323*}
नोतेस्:
*{1।323: ए2: 1,90; ए5: 1,272; ए6: 1,19}*
समं तु तत्र दर्शनम्
तुशब्दात् पक्षो विपरिवर्तते. यद्{*1।324*} उक्तम् - प्रयत्नाद् उत्तरकाले दर्शनात् कृतको ऽयम् इति{*1।325*}. यदि विस्पष्टेन हेतुना शब्दस्य नित्यत्वं वक्तुं शक्ष्यामः, ततो नित्यप्रत्ययसामर्थ्यात् प्रयत्नेनाभिव्यज्यत इति भविष्यति. यदि प्राग् उच्चारणाद् अनभिव्यक्तः प्रयत्नेनाभिव्यज्यते. तस्माद् उभयोः पक्षयोः समम् एतत्.
नोतेस्:
*{1।324: ए1,5,6; ए2: तद्}*
*{1।325: श्भ् अद् म्स् 1.1.6}*
सतः परम् अदर्शनं विषयानागमात्
यद् अपरं कारणम् उक्तम् - उच्चरितप्रध्वस्त इति{*1।326*}. अत्रापि यदि शक्ष्यामो नित्यताम् अस्य विस्पष्टं वक्तुम्, ततो नित्यप्रत्ययसामर्थ्यात् कदाचिद् उपलम्भं कदाचिद् अनुपलम्भं दृष्ट्वा किंचिद् उपलम्भस्य निमित्तं कल्पयिष्यामः. तच् च संयोगविभागसद्भावे सति भवतीति संयोगविभागाव् एवाभिव्यञ्जकाव् इति वक्ष्यामः. उपरतयोः संयोगविभागयोः श्रूयत इति चेत्. नैतद् एवम्. न नूनम् उपरमन्ति संयोगविभागाः, यत उपलभ्यते शब्द इति. न हि ते प्रत्यक्षा इति.
यदि शब्दं संयोगविभागा एवाभिव्यञ्जन्ति न कुर्वन्ति, आकाशविषयत्वाच् छब्दस्याकाशस्यैकत्वाद् य एवायम् अत्र श्रोत्राकाशः, स एव देशान्तरेष्व् अपीति श्रुघ्नस्थैः{*1।327*} संयोगविभागैर् अभिव्यक्तः पाटलिपुत्रे ऽप्य् उपलभ्येत.
यस्य पुनः कुर्वन्ति, तस्य वायवीयाः संयोगविभागा वाय्वाश्रितत्वाद् वायुष्व् एव करिष्यन्ति, यथा तन्तवस् तन्तुष्व् एव पटम्. तस्य पाटलिपुत्रेष्व् अनुपलम्भो युक्तः, श्रुघ्नस्थत्वात् तेषाम्. यस्याप्य् अभिव्यञ्जन्ति, तस्याप्य् एष न दोषः, दूरे सत्याः कर्णशष्कुल्या अनुपकारकाः संयोगविभागाः, तेन दूरे यच् छ्रोत्रं तेन नोपलभ्यत इति. नैतद् एवम्. अप्राप्ताश् चेत् [28]{*1।328*}संयोगविभागाः श्रोत्रस्योपकुर्युः. संनिकृष्टविकृष्टदेशस्थौ युगपच् छब्दम् उपलभेयाताम्. न च युगपद् उपलभेते. तस्मान् नाप्राप्ता उपकुर्वन्ति. न चेद् उपकुर्वन्ति{*1।329*}, तस्माद् अनिमित्तं शब्दोपलम्भने संयोगविभागाव् इति.
नैतद् एवम्. अभिघातेन हि प्रेरिता वायवस् तिमितानि{*1।330*} वाय्वन्तराणि प्रतिबाधमानाः सर्वतोदिक्कान् संयोगविभागान् उत्पादयन्ति. यावद् वेगम् अभिप्रतिष्ठन्ते. ते च वायोर् अप्रत्यक्षत्वात् संयोगविभागा नोपलभ्यन्ते. अनुपरतेष्व् एव तेषु शब्द उपलभ्यते नोपरतेषु. अतो न दोषः. अत एव चानुवातं दूराद् उपलभ्यते शब्दः.
नोतेस्:
*{1।326: च्f. श्भ् अद् म्स् 1.1.7}*
*{1।327: ए2,5,6 हबेन् स्रुघ्न-}*
*{1।328: ए2: 1,95; ए5: 1,280; ए6: 1,20}*
*{1।329: ए2 ओम्. न चेद् उपकुर्वन्ति}*
*{1।330: ए1,6; ए2,5 (रिछ्तिग्): वायवः स्तिमितानि}*
प्रयोगस्य परम्
यद् अपरं कारणम् उक्तम् - शब्दं कुरु मा कार्षीर् इति व्यवहर्तारः प्रयुञ्जते{*1।331*}. यद्य् असंशयं नित्यः शब्दः, शब्दप्रयोगं कुर्व् इति भविष्यति, यथा गोमयात्{*1।332*} कुर्व् इति संहारे{*1।333*}.
नोतेस्:
*{1।331: श्भ् अद् म्स् 1.1.8}*
*{1।332: ए2,5,6 (रिछ्तिग्): गोमयान्}*
*{1।333: ए1,5; ए2,6: संवाहे (ए1 गिब्त् संवाहे अल्स् fन्.)}*
आदित्यवद् यौगपद्यम्
यत् त्व् एकदेशस्य{*1।334*} सतो नानादेशेषु युगपद् दर्शनम् अनुपपन्नम् इति{*1।335*}. आदित्यं पश्य देवानांप्रिय. एकः सन्न् अनेकदेशाव् अस्थित इव लक्ष्यते. कथं पुनर् अवगम्यत एक आदित्य इति. उच्यते - प्राङ्मुखो देवदत्तः पूर्वाह्ने संप्रति पुरस्ताद् आदित्यं पश्यति. तस्य दक्षिणतो ऽवस्थितो न द्वौ पश्यति, आत्मनश् च संप्रति न तिरश्चीनं{*1।336*} देवदत्तस्यार्जवे. [28]{*1।337*} तस्माद् एक आदित्य इति. दूरत्वाद् अस्य देशो नावधार्यते. अतो व्यामोहः. एवं शब्दे ऽपि व्यामोहाद् अनवधारणं देशस्य. यदि श्रोत्रं संयोगविभागदेशम् आगत्य शब्दं गृह्णीयात्, तथापि तावद् अनेकदेशता कदाचिद् अवगम्येत. न च तत्संयोगदेशम् आगच्छति. प्रत्यक्षा हि कर्णशष्कुली तद्देशा
गृह्यते. वायवीयाः पुनः संयोगविभागा अप्रत्यक्षस्य वायोः, कर्णशष्कुलीप्रदेशे प्रादुर्भवन्तो नोपलभ्यन्त इति नानुपपन्नम्. अत एव व्यामोहो यन् नानादेशेषु शब्द इति. आकाशदेशश् च शब्द इति. एकं च पुनर् आकाशम्. अतो ऽपि न नानादेशेषु.
अपि चैकरूप्ये सति देशभेदेन कामं देशा एव भिन्नाः, न तु शब्दः. तस्माद् अयम् अप्य् अदोषः.
नोतेस्:
*{1।334: ए5: यथैतद् एकस्य}*
*{1।335: च्f. श्भ् अद् म्स् 1.1.9}*
*{1।336: ए2: संप्रति स्थितं तिरश्चीनं (ए1 गिब्त्: संप्रतिस्थिते तिरश्चीनं अल्स् fन्.)}*
*{1।337: ए2: 1,98; ए5: 1,308; ए6: 1,20}*
वर्णान्तरम् अविकारः
न च दध्यत्रेत्य्{*1।338*} अत्र प्रकृतिविकारभावः. शब्दान्तरम् इकाराद् यकारः. न हि यकारं प्रयुञ्जाना इकारम् उपाददते, यथा कटं चिक्रीर्षन्तो वीरणानि. न च सादृश्यमात्रं दृष्ट्वा प्रकृतिर् विकृतिर् वोच्यते. न हि दाधिपिटकं दृष्ट्वा कुन्दपिटकं च प्रकृतिविकारभावो ऽवगम्यते. तस्माद् अयम् अप्य् अदोषः.
नोतेस्:
*{1।338: च्f. श्भ् अद् म्स् 1.1.10}*
नादवृद्धिपरा
{*1।339*}
यच् चैतद् बहुभिर् भेरीम् आध्मनद्भिः{*1।340*} शब्दम्{*1।341*} उच्चारयद्भिर् महाञ् शब्द उपलभ्यते, तेन प्रतिपुरुषं शब्दावयवप्रचय इति गम्यते{*1।342*}. नैवम्. निरवयवो हि शब्दः अवयवभेदानवगमान् निरवयवत्वाच् च महत्त्वानुपपत्तिः. अतो न वर्धते शब्दः. मृदुर् एकेन [29]{*1।343*} बहुभिश् चोच्चार्यमाणे तान्य् एवाक्षराणि कर्णशष्कुलीमण्डलस्य सर्वां नेमिं व्याप्नुवद्भिः संयोगविभागैर् नैरन्तर्येणानेकशो ग्रहणान् महान् इवावयववान् इवोपलभ्यन्ते. संयोगविभागा नैरन्तर्येण क्रियमाणाः शब्दम् अभिव्यञ्जन्तो नादशब्दवाच्याः. तेन नादस्यैषा वृद्धिः, न शब्दस्येति.
नोतेस्:
*{1।339: ए5: नादवृद्धिः परा}*
*{1।340: ए1,6; ए2: आधमद्भिः, ए5: अघ्नद्भिः (?)}*
*{1।341: ए5: गोशब्दम्}*
*{1।342: च्f. श्भ् अद् म्स् 1.1.11}*
*{1।343: ए2: 1,101; ए5: 1,318; ए6: 1,21}*
नित्यस् तु स्याद् दर्शनस्य परार्थत्वात्
नित्यः शब्दो भवितुम् अर्हति. कुतः? दर्शनस्य परार्थत्वात्. दर्शनम् उच्चारणम्, तत् परार्थं परम् अर्थं प्रत्याययितुम्. उच्चरितमात्रे हि विनष्टे शब्दे न चान्यो ऽन्यान् अर्थं प्रत्याययितुं शक्नुयात्. अतो न परार्थम् उच्चार्येत. अथ न विनष्टः, ततो बहुश उपलब्धत्वाद् अर्थावगम इति युक्तम्. अर्थवत् सादृश्याद् अर्थावगम इति चेत्. न कश्चिद् अर्थवान्, सर्वेषां नवत्वात्. कस्यचित् पूर्वस्य कृत्रिमः संबन्धो{*1।344*} भविष्यतीति चेत्. तद् उक्तं सदृश इति चावगते व्यामोहात् प्रत्ययो व्यावर्तेत मालाशब्दान् मालाप्रत्यय इव{*1।345*}.
यथा गावीशब्दात् सास्नादिम् इति प्रत्ययस्यानिवृत्तिः, तद्वद् भविष्यतीति चेत्. न हि गोशब्दं तत्रोच्चारयितुम् इच्छा. नेहान्यशब्दोच्चिचारयिषा. न चैकेनोच्चारणायत्नेन{*1।346*} संव्यवहारश् चार्थसंबन्धश् च शक्यते{*1।347*} कर्तुम्. तस्माद् दर्शनस्य परार्थत्वात्, नित्यः शब्दः.
नोतेस्:
*{1।344: ए2: कृत्रिमसंबन्धो}*
*{1।345: ए1,6; ए2 (रिछ्तिग्): शालाशब्दान् मालाप्रत्यय इव, ए5: शालाशब्दान् मालाप्रत्ययवत्}*
*{1।346: ए1,6; ए2,5: चैकेनोच्चारणयत्नेन}*
*{1।347: ए2 ओम्. शक्यते}*
सर्वत्र यौगपद्यात्
गोशब्द उच्चरिते सर्वगवीषु युगपत् प्रत्ययो भवति. अत आकृतिवचनो ऽयम्. न चाकृत्या शब्दस्य संबन्धः शक्यते कर्तुम्. निर्दिश्य ह्य् आकृतिं कर्ता संबध्नीयात्. गोपिण्डे च बहूनाम् आकृतीनां सद्भावाच् छब्दम् अन्तरेण गोशब्दवाच्यां विभक्ताम् आकृतिं केन प्रकारेणोपदेक्ष्यति? नित्ये तु सति गोशब्दे बहुकृत्व [30]{*1।348*} उच्चरितः श्रुतपूर्वश् चान्यासु गोव्यक्तिष्व् अन्वयव्यतिरेकाभ्याम् आकृतिवचनम् अवगमिष्यति. तस्माद् अपि नित्यः.
नोतेस्:
*{1।348: ए2: 1,105; ए5: 1,328; ए6: 1,22}*
संख्याभावात्
अष्टकृत्वो गोशब्द उच्चरित इति वदन्ति, नाष्टौ गोशब्दा इति. किम् अतो, यद्य् एवम्. अनेन वचनेनावगम्यते, प्रत्यभिजानन्तीति{*1।349*}. वयं तावत् प्रत्यभिजानीमो न नः करणदौर्बल्यम्. एवम् अन्ये ऽपि प्रत्यभिजानन्ति. स एवायम् इति. प्रत्यभिजानाना{*1।350*} वयम् इवान्ये ऽपि नान्य इति वक्तुम् अर्हन्ति.
अथ मतम् अन्यत्वे सति सादृश्येन व्यामूढाः स इति वक्ष्यन्ति. तन् न. न हि ते सदृश इति प्रतियन्ति, किं तर्हि स एवायम् इति. विदिते च स्फुटे ऽन्यत्वे व्यामोह इति गम्यते. न चायम् अन्य इति प्रत्य्-अक्षम् अन्यद् वा प्रमाणम् अस्ति.
स्याद् एतत् - बुद्धिकर्मणी अपि ते प्रत्यभिज्ञायेते. ते ऽपि नित्ये प्राप्नुतः. नैष दोषः. न हि ते प्रत्यक्षे. अथ प्रत्यक्षे नित्ये एव{*1।351*}. ह्य् अस्तनस्य शब्दस्य विनाशाद् अन्यो ऽद्यतन इति चेत्. नैष विनष्टः, यत एनं पुनर् उपलभामहे. न हि प्रत्यक्षदृष्टं मुहूर्तम् अदृष्ट्वा पुनर् उपलभ्यमानं प्रत्यभिजानन्तो विनष्टं परिकल्पयन्ति. परिकल्पयन्तो द्वितीयसंदर्शने मातरि, जायायां पितरि वा नाश्वस्युः. न ह्य् अनुपलम्भमात्रेण नास्तीत्य् अवगम्य नष्ट इत्य् एव कल्पयन्ति. अप्रमाणतायां विदितायां नास्तीत्य् अवगच्छामः. न हि प्रमाणे प्रत्यक्षे सत्य् अप्रमाणता स्यात्. अस्तीति पुनर् अव्यामोहेनावगम्यमाने न क्वचिद् अप्य् अभावः. न चासिद्धे ऽभावे व्यामोहः, न च सिद्धो ऽभावः. तस्माद् असति व्यामोहे, नाभावः{*1।352*}. तद् ए[31]{*1।353*}तद् आनुपूर्व्या सिद्धम्. तस्मात् पुरस्ताद् अनुच्चारितम् अनुपलभमाना अपि न विनष्ट इत्य् अवगन्तुम् अर्हन्ति. यथा{*1।354*} गृहान् निर्गताः सर्वगृहजनम् अपश्यन्तः पुनः प्रविश्योपलभमाना अपि न प्राक् प्रवेशाद् विनष्ट इत्य् अवगच्छन्ति. तद्वद् एनम् अपि नान्य इति वक्तुम् अर्हन्ति. ये ऽपि सर्वेषां भावानां प्रतिक्षणं विनाशम् अभ्युपगच्छन्ति, ते ऽपि न शक्नुवन्ति शब्दस्य वदितुम्. अन्ते हि क्षयदर्शनात् ते मन्यन्ते. न च शब्दस्यान्तो न च क्षयो लक्ष्यते. स इति प्रत्यक्षः प्रत्ययः सदृश इत्य् आनुमानिकः. न च प्रत्यक्षविरुद्धम् अनुमानम् उदेति. स्वकार्यं वा साधयति. तस्मान् नित्यः.
नोतेस्:
*{1।349: व्ग्ल्. स्फोटसिद्धिव्याख्या, व्. 212}*
*{1।350: ए1,5; ए2, ए1 (fन्.), ए6: प्रत्यभिजानानाः प्रत्यभिजानन्ति चेद् वयम्}*
*{1।351: च्f. कुमारिल, श्व्, शब्दनित्यताधिकरण, व्व्. 389।90-393।94}*
*{1।352: ए5: तस्माद् अव्यामोहः. सति चाव्यामोहे नाभावाः}*
*{1।353: ए2: 1,106; ए5: 1,340; ए6: 1,22}*
*{1।354: ए2: तथा}*
अनपेक्षत्वात्
येषाम् अनवगतोत्पत्तीनां द्रव्याणां भाव एव लक्ष्यते, तेषाम् अपि केषांचिद् अनित्यता गम्यते, येषां विनाशकारणम् उपलभ्यते. यथाभिनवं पटं दृष्ट्वा, न चैवं क्रियमाणम् उपलब्धवान्, अथवानित्यत्वम् अवगच्छति रूपम् एव दृष्ट्वा, तन्तुव्यतिषङ्गजनितो ऽयं तन्तुव्यतिषङ्गविनाशात् तन्तुविनाशाद् वा विनश्यतीत्य् अवगच्छति. नैवं शब्दस्य किंचित् कारणम् अवगम्यते, यद् विनाशाद् विनङ्क्ष्यतीत्य् अवगम्यते.
प्रख्याभावाच् च योगस्य
इदं पदेभ्यः केभ्यश्चिद् उत्तरं सूत्रम्. ननु वायुकारणकः स्याद् इति वायुर् उद्गतः संयोगविभागैः शब्दो भवतीति. तथा च शिक्षाकारा आहुः - वायुर् आपद्यते शब्दताम् इति{*1।355*}. नैतद् एवम्. वायवीयश् चेच् छब्दो भवेद्, वायोः संनिवेशविशेषः स्यात्. न च वायवीयान् अवयवाञ् शब्दे सतः प्रत्यभिजानीमो यथा पटस्य तन्तुमयान्. न चैवं भवति. स्याच् चेद् एवम्, स्पर्श-ने[32]{*1।356*}नोपलभेमहि. न च वायवीयान् अवयवाञ् शब्दगतान् स्पृशामः. तस्मान् न वायुकारणकः. अतो नित्यः.
नोतेस्:
*{1।355: qउएल्ले निछ्त् नछ्wएइस्बर्. व्ग्ल्. अबेर् नारदशिक्षा 1.5.8-10}*
*{1।356: ए2: 1,109; ए5:1,346; ए6: 1,23}*
लिङ्गदर्शनाच् च
लिङ्गं चैव भवति, वाचा विरूपनित्ययेति{*1।357*}. अन्यपरं हीदं वाक्यं वाचो नित्यताम् अनुवदति. तस्मान् नित्यः शब्दः.
नोतेस्:
*{1।357: qउएल्ले निछ्त् नछ्गेwइएसेन्}*
उत्पत्तौ वावचनाः{*1।358*} स्युर् अर्थस्यातन्निमित्तत्वात्
यद्य् अप्य् औत्पत्तिको नित्यः शब्दो अर्थसंबन्धश् च{*1।359*}, तथापि न चोदनालक्षणो धर्मः. चोदना हि वाक्यम्. न ह्य् अग्निहोत्रं जुहुयात् स्वर्गकाम इत्य् अतो वाक्याद् अन्यतमात्{*1।360*} पदाद् अग्निहोत्रात् स्वर्गो भवतीति गम्यते. गम्यते तु पदत्रय उच्चरिते. न चात्र चतुर्थः शब्दो ऽस्त्य् अन्यद् अतः पदत्रयसमुदायात्. न चायं समुदायो ऽस्ति लोके, यतो ऽस्य व्यवहाराद् अर्थो ऽवगम्यते. पदान्य् अमूनि प्रयुक्तानि, तेषां नित्यो ऽर्थः. अप्रयुक्तश् च समुदायः. तस्मात् समुदायस्यार्थः कृत्रिमो व्यामोहो वा. न च पदार्था एव वाक्यार्थः. सामान्ये हि पदं प्रवर्तते, विशेषे वाक्यम्. अन्यच् च सामान्यम्, अन्यो विशेषः. न च पदार्थाद् वाक्यार्थावगतिः, असंबन्धात्. असति चेत् संबन्धे कस्मिंश्चित् पदार्थे ऽवगते ऽर्थान्तरम् अवगम्येत, एकस्मिन्न् अवगते सर्वम् अवगतं स्यात्. न चैतद् एवं भवति. तस्माद् अन्यो वाक्यार्थः.
स्याद् एतत् - अप्रयुक्ताद् अपि वाक्याद् असति संबन्धे स्वभावाद् अर्थावगम इति. यदि कल्प्येत - शब्दो धर्मम् आत्मीयं व्युत्क्रामेत्. न चैष शब्दधर्मो यद् अप्रयुक्ताद् अपि शब्दार्थः प्रतीयते. न हि [33]{*1।361*} प्रथमश्रुतात् कुतश्चिच् छब्दात् केचिद् अर्थं प्रतियन्ति. तद् अभिधीयते - पदधर्मो ऽयं न वाक्यधर्मः. वाक्याद् धि प्रथमावगताद् अपि प्रतियन्तो ऽर्थं दृश्यन्ते. नैतद् एवम्. यदि प्रथमश्रुताद् अवगच्छेयुः, अपि तर्हि सर्वे ऽवगच्छेयुः पदार्थविदो ऽन्ये च. न त्व् अपदार्थविदो ऽवगच्छन्ति. तस्मान् नैतद् एवम्. ननु पदार्थवद्भिर् अप्य् अवगच्छद्भिर् अकृत एव वाक्यार्थसंबन्धो भविष्यति. पदार्थवेदनेन हि संस्कृता अवगमिश्यन्ति, यथा तम् एव पदार्थं द्वितीयादिश्रवणेनेति. नेति ब्रूमः. यदि वाक्ये ऽन्त्यो वर्णः पूर्ववर्णजनितसंस्कारसहितः पदार्थेभ्यो ऽर्थान्तरं प्रत्याययति, उपकारस् तु तदानीं{*1।362*} पदार्थज्ञानाद् अवकल्पते. तस्मात् कृत्रिमो वाक्यार्थप्रत्ययो व्यामोहो वा. न पदार्थद्वारेण संभवति वाक्यार्थज्ञानम् इति. नन्व् एवं भविष्यति सामान्यवाचिनः पदस्य गौर्{*1।363*} इति वाश्व इति वा, विशेषकं शुक्ल इति वा कृष्ण इति वा पदम् अन्तिकाद् उपनिपतति यदा, तदा वाक्यार्थो ऽवगम्यते. तन् न. न हि{*1।364*} कथम् इव गौर् इति वाश्व इति वा सामान्यवाचिनः पदात् सर्वगवीषु सर्वाश्वेषु च बुद्धिर् उपसर्पन्ती श्रुतिजनिता, वाक्यानुरोधेन कुतश्चिद् विशेषाद् अपवर्तेत. न च शुक्ल इत्यादेर् विशेषवचनस्य कृष्णादि-निवृत्तिर् भवति शब्दार्थः. न चानर्थको मा भूद् इत्य् अर्थपरिकल्पना शक्या. अतो न पदार्थजनितो वाक्यार्थः. तस्मात् कृत्रिमः. पदसंघाताः खल्व् एते संघाताश् च पुरुषकृता दृश्यन्ते, यथा -
नीलोत्पलवनेष्व् अद्य चरन्तश् चारुसंरवाः।
नीलकौशेयसंवीताः प्रणश्यन्तीव{*1।365*} कादम्बाः॥{*1।366*}
अतो वैदिका अपि पुरुषकृता इति॥
[34]{*1।367*}
नोतेस्:
*{1।358: ए1 (fन्.): वावचनानि}*
*{1।359: ए1,6; ए2,5: शब्दः संबन्धश् च}*
*{1।360: ए1; ए2 (बेस्सेर्): अन्यतमात्, ए5: एकस्मात्, ए6: अन्यतमस्मात्}*
*{1।361: ए2: 1,113; ए5: 1,377; ए6: 1,24}*
*{1।362: ए1,5,6; ए2: तदा न}*
*{1।363: ए2: गोर्}*
*{1।364: ए2 ओम्. न हि}*
*{1।365: ए1,6; ए2,5 (रिछ्तिग्): प्रनृत्यन्तीव}*
*{1।366: qउएल्ले उन्बेकन्न्त्}*
*{1।367: ए2: 1,115; ए5: 1,382; ए6: 1,24}*
तद् भूतानं क्रियार्थेन समाम्नायो ऽर्थस्य तन्निमित्तत्वात्
तेष्व् एव पदार्थेषु भूतानां वर्तमानानां (पदानां){*1।368*} क्रियार्थेन{*1।369*} समुच्चारणम्. नानपेक्ष्य पदार्थान् पार्थगर्थ्येन वाक्यम् अर्थान्तरप्रसिद्धम्. कुतः. प्रमाणाभावात्. न किंचन प्रमाणम् अस्ति येन प्रमिमीमहे. न ह्य् अनपेक्षितपदार्थस्य वाक्यान्त्यवर्णस्य पूर्ववर्णजनितसंस्काररहितस्य शक्तिर् अस्ति पदार्थेभ्यो ऽर्थान्तरे वर्तितम्{*1।370*} इति.
नन्व् अर्थापत्तिर् अस्ति, यत् पदार्थव्यतिरिक्तम् अर्थम् अवगच्छामः. न च शक्तिम् अन्तरेण तद् अवकल्प्यत इति. तन् न. अर्थस्य तन्निमित्तत्वात्. भवेद् अर्थापत्तिः, यद्य् असत्याम् अपि शक्तौ नान्यन् निमित्तम् अवकल्प्येत. अवगम्यते तु निमित्तम्. किम्? पदार्थाः. पदानि हि स्वं स्वं पदार्थम् अभिधाय निवृत्तव्यापाराणि. अथेदानीं पदार्था अवगताः सन्तो वाक्यार्थं गमयन्ति. कथम्. यत्र हि शुक्ल इति वा कृष्ण इति वा गुणः प्रतीते भवति. भवति खल्व् असावलं गुणवति प्रत्ययम् आधातुम्. तेन गुणवति प्रत्ययम् इच्छन्तः केवलं गुणवचनम् उच्चारयन्ति. संपत्स्यत एषां यथासंकल्पितो ऽभिप्रायः. भविष्यति विशिष्टार्थसंप्रत्ययः. विशिष्टार्थसंप्रत्ययश् च वाक्यार्थः. एवं चेद् अवगम्यते ऽन्यत एव वाक्यार्थः को जातुचिद् अदृष्टा पदसमुदायस्य शक्तिर् अर्थाद् अवगम्यत इति वदिष्यति. अपि चान्वयव्यतिरेकाभ्याम् एतद् अवगम्यते, भवति हि कदाचिद् इयम् अवस्था, मानसाद् अप्य् आधातात्{*1।371*}. यद् उच्चरितेभ्यः{*1।372*} पदेभ्यो न पदार्था अवधार्यन्ते. तदानीं{*1।373*} नियोगतो वाक्यार्थं नावगच्छेयुः. यद्य् अस्य [35]{*1।374*} अपार्थगर्थ्यम्{*1।375*} अभविष्यत्. नियोगतस् तु नावगच्छन्ति. अपि चान्तरेणापि पदोच्चारणं यः शौक्त्यम्{*1।376*} अवगच्छति, अवगच्छत्य् एवासौ शुक्लगुणकम्. तस्मात् पदार्थप्रत्यय एव वाक्यार्थः. नास्य पदसमुदायेन संबन्धः. यत् तु - श्रौतः पदार्थो न वाक्यानुरोधेन कुतश्चिद् विशेषाद् अपवर्तितुम् अर्हतीति{*1।377*}. सत्यम्, एवम् एतत्{*1।378*}. यत्र केवलः पदार्थः प्रयुज्यमानः प्रयोजनाभावाद् अनर्थकः संजायत इत्य् अवगतं भवति तत्र वाक्यार्थो ऽपि तावद् भवत्व् इति विशिष्टार्थतावगम्यते, न सर्वत्र. एवं च सति, गुणान्तरप्रतिषेधो न शब्दार्थ इत्य्{*1।379*} एतद् अपि परिहृतं भवति. अपि च प्रातिपदिकाद् उच्चरन्ती द्वितीयादिविभक्तिः प्रातिपदिकार्थो विशेषक इत्य् आह. सा च विशेषश्रुतिः सामान्यश्रुतिं बाधेत. यच् चैते पदसंघाताः पुरुषकृता दृश्यन्त इति{*1।380*}. परिहृतं तद् अस्मरणादिभिः{*1।381*}. अपि चैवंजातीयके ऽर्थे वाक्यानि संहर्तुं न किंचन पुरुषाणं बीजम् अस्ति.
नोतेस्:
*{1।368: ए2 ओम्. पदानां, ए1 गिब्त् एस् गेक्लम्मेर्त्, ए5,6 उन्गेक्लम्मेर्त्}*
*{1।369: ए5: क्रियार्थेन समानायः समुच्चारणम्}*
*{1।370: ए2,5,6: वर्तितुम्}*
*{1।371: ए5: मानसाद् अपचारात्}*
*{1।372: ए5: उच्चरितेभ्यो ऽपि}*
*{1।373: ए5 (रिछ्तिग्): न तदानीं}*
*{1।374: ए2: 1,117; ए5: 1,393; ए6: 1,25}*
*{1।375: ए5 (रिछ्तिग्): पार्थगर्थ्यम्}*
*{1।376: ए2,5,6 (रिछ्तिग्): शौक्ल्यम्}*
*{1।377: च्f. ए1, स्.33।17}*
*{1।378: ए2: सत्यम् एवैवम् एतत्}*
*{1।379: च्f. ए1, स्.33।18-19}*
*{1।380: च्f. ए1, स्.33।23}*
*{1।381: च्f. ए1, स्.15।23}*
लोके सन्नियमात् प्रयोगसंनिकर्षः स्यात्
लौकिकेषु पुनर् अर्थेषु प्रत्यक्षेणार्थम् उपलभ्य सन्नियमः, सन्निबन्धनं शक्यं तत्र संहर्तुम्, एवंजातीयकानि वाक्यानि नीलोत्पलवनेष्व् अद्य इति{*1।382*}. तस्माद् अग्निहोत्रं जुहुयात् स्वर्गकाम इत्य् एतेभ्य एव पदेभ्यो ये ऽर्था अवगताः, तेभ्यो एवैतद् अवगम्यते, अग्निहोत्रात् स्वर्गो भवतीति. पदेभ्य एव पदार्थप्रत्ययः, पदार्थेभ्यो वाक्यार्थ इति.
[36]{*1।383*}
नोतेस्:
*{1।382: ए1, स्.33।21-22}*
*{1।383: ए2: 1,120; ए5: 1,401; ए6: 1,26}*
वेदांश् चैके संनिकर्षं पुरुषाख्याः
उक्तम् - चोदनालक्षणो ऽर्थो धर्म इति{*1।384*}, यतो न पुरुषकृतः शब्दस्यार्थेन संबन्धः. तत्र पदवाक्याश्रय आक्षेपः परिहृतः. इदानीम् अन्यथाक्षेप्स्यामः. पौरुषेयाश् चोदना इति वदामः, संनिकृष्टकालाः कृतका वेदा इदानीं तनाः, ते च चोदनानां समूहाः, तत्र पौरुषेयाश् चेद् वेदाः, असंशयं पौरुषेयाश् चोदनाः. कथं पुनः कृतका वेदा इति केचिन् मन्यन्ते. यतः पुरुषाख्याः पुरुषेण हि समाख्यायन्ते वेदाः - काठकं कालापकम्, पैप्पलादकं मौहुलम्{*1।385*} इति. न हि संबन्धाद् ऋते समाख्यानम्, न च पुरुषस्य शब्देनास्ति{*1।386*} संबन्धः, अन्यतः{*1।387*} कर्ता पुरुषः कार्यः शब्द इति. ननु प्रवचनलक्षणा समाख्या स्यात्. नेति ब्रूमः. असाधारणं हि विशेषणं भवति, एक एव हि कर्ता बहवो ऽपि प्रब्रूयुः. अतो ऽस्मर्यमाणो ऽपि चोदनायाः कर्ता स्यात्. तस्मान् न प्रमाणं चोदनालक्षणो ऽर्थो धर्म इति.
नोतेस्:
*{1।384: म्स् 1.1.2}*
*{1।385: ए1,6; ए2 ओम्. मौहुलम्, ए5: मौद्गलम्}*
*{1।386: ए2: पुरुषस्यान्यः शब्देनास्ति}*
*{1।387: ए1,6, ए6: संबन्धो ऽन्यतः; ए2: संबन्धो यद् अतः. ए5: संबन्धो ऽन्यद् अतः}*
अनित्यदर्शनाच् च
जननमरणवन्तश् च वेदार्थाः श्रूयन्ते. बबरः प्रावाहणिर् अकामयत{*1।388*}, कुसुरुविन्द औद्दालकिर् अकामयत{*1।389*} इत्येवमाद्यः. उद्दालकस्यापत्यं गम्यत औद्दालकिः, यद्य् एवम्, प्राग् औद्दालकिजन्मनः, नायं ग्रन्थो भूतपूर्वः. एवम् अप्य् अनित्यता.
[37]{*1।390*}
नोतेस्:
*{1।388: च्f. तैत्.स्. 7.1.20}*
*{1।389: च्f. तैत्.स्. 7.2.2}*
*{1।390: ए2: 1,122; ए5: 1,404; ए6: 1,26}*
उक्तं तु शब्दपूर्वत्वम्
उक्तम् अस्माभिः शब्दपूर्वत्वम् अध्येतॄणाम्{*1।391*}. केवलम् आक्षेपपरिहारो वक्तव्यः, सो ऽभिधीयते.
नोतेस्:
*{1।391: च्f. श्भ् अद् म्स् 1.1.5}*
आख्या प्रवचनात्
यद् उक्तम् - कर्तृलक्षणा समाख्या काठकाद्येति. तद् उच्यते - नेयम् अर्थापत्तिः, अकर्तृभिर् अपि ह्य् एनाम् आचक्षीरन्, प्रकर्षेण वचनम् (अनन्यसाधारणं){*1।392*} कठादिभिर् अनुष्ठितं स्यात्, तथापि हि समाख्यातारो भवन्ति. स्मर्यते च वैशंपायनः सर्वशाखाध्यायी, कठः पुनर् इमां केवलां शाखाम् अध्यापयां बभूवेति. स बहुशाखाध्यायिनां संनिधाव् एकशाखाध्याय्य् अन्यां शाखाम् अनधीयानः, तस्यां प्रकृष्टत्वाद् असाधारणम् उपपद्यते विशेषणम्.
नोतेस्:
*{1।392: ए2,6, इन् ए2 गेक्लम्मेर्त्; ए5 ओम्}*
परं तु श्रुतिसामान्यमात्रम्
यच् च प्रावाहणिर् इति. तन् न, प्रवाहणस्य पुरुषस्यासिद्धत्वान् न प्रवाहणस्यापत्यं प्रावाहानिः. प्रशब्दः प्रकर्षे सिद्धः, वहतिश् च प्रापणे. (न त्व् अस्य समुदायः क्वचित् सिद्धः.){*1।393*} इकारस् तु यथैवापत्ये सिद्धस् तथा क्रियायाम् अपि कर्तरि. तस्माद् यः प्रवाहयति, स प्रावाहणिः. बबर इति शब्दानुकृतिः. तेन यो नित्यार्थस् तम् एवैतौ शब्दौ वदिष्यतः. अत उक्तम् - परं तु श्रुतिसामान्यमात्रम् इति.
नोतेस्:
*{1।393: इन् ए2 गेक्लम्मेर्त्}*
कृते वा विनियोगः स्यात् कर्मणः संबन्धात्
मूल पाठ: Mīmāṃsāsūtra 1-7 with Śabara's Bhāṣya · Edition: six editions (details see below) · Data entry Andreas Pohlus · GRETIL (Göttingen) · CC BY-NC-SA 4.0